०१०

श्रीपाञ्च रात्रागमान्तर्गत श्रीपरम पुरुष संहिता
एकादशीव्रत महिमाभिवर्णनं
दशमोऽध्यायः
ऋषयः-
एकादशी व्रत निर्णयादिक विषये ऋषि प्रश्नः
श्लो॥ मुनीश्वर महाभाग श्रीहरिध्यानतत्परा।
एकादश्याव्रतंलोके कधमाविरभून्मुने॥ 1
कधन्त्वेतद्व्रतङ्कार्यं (कृतेचेत्किं फलं लभेत्)कृतेकिं लभतेफलम्।
तन्निर्णयङ्कधम्भूयाद्ब्रूह्यस्माकन्दयानिधे॥ 2
श्रीनारद प्रति वचनं
श्रीनारदः-
श्रूयतामद्यमुनयो वैकुण्ठप्राप्तिकारणम्।
एकादशी महिमा
इहलोकेपरेचैव भुक्तिमुक्ति फलप्रदम्॥ 3
महा महिमयायुक्तं भवसागरतारणम्।
एकादश्याःप्रभानञ्च तद्व्रतस्य(विधिस्तथा)विधानकम्॥ 4
वक्ष्याम्यद्ययधाशक्ति यधाहंशृतवान्‌पुरा।
एकादशीव्रत जपनादिक कधनं
पुरात्विन्द्राद योदेवाःदूर्वासेनमहात्मना॥ 5
घोरंशापन्तु सम्प्राप्यतस्मा (द्दैत्य विनिर्जिताः)द्दानवनिर्जिताः।
कानने सञ्चरन्तस्ते महद्दुःखानि प्रापिताः॥ 6
क्षीरार्णवं(समासाद्य)तुसम्प्राप्य वासुदेवं जगत्पतिम्।
पौरुषेणैव सूक्तेनध्यायन् निश्चलमानसैः॥ 7
अनेकवर्ष साहस्रन्तपस्तेपुस्सुदुर्लभम्।
तधापिच हरेस्तेषां दर्शनं नाभवन् द्विजाः॥ 8
तस्मात्परं दुःखितास्तु त्रिदशास्सम्ब भूवुः।
तान् वीक्ष्य(तुदयाराशिः)कृपयादेवो भगवान् पार्वतीपतिः॥ (
उवाच त्रिदशान्‌त्वेकं वाक्यंसुमधुरं(महत्) तधा।
भोसुराश्श्रूयतामद्यममवाचः प्रियम्महत्॥ 10
पुराहंहरिणात्वेतच्छ्रतं सर्वार्ध(सिद्धये)सिद्धिदम्।
एकादशीव्रतंसर्वश्रेष्टं त्रिषुजगत्सुच॥ 11
हरिवासरनामान मेतद्यूयम्प्रकुर्वताम्।
तेनतुष्टो(रमाधीश)जगन्नाध स्स्वयन्दास्यति दर्शनम्॥ 12
(तस्मात्)तेनयुष्मद भीष्टारा सिद्ध्यन्तेनात्र संशयः।
इत्येवङ्कधि तास्सर्वे देवाच्छ्री शङ्करेणतु॥ 13
एकादशीव्रतम्भक्त्या यधाशास्त्रं समाचरेत्।
ततोच्युततस्स्वयं साक्षा त्प्रत्यक्षमभवन्‌(तदा)बुधाः॥ 14
त्रिदशाश्चतुतन्दृष्ट्या (साष्टाङ्गं (प्रणिपद्यमुहुर्मुहुः)दण्डवत्स्रणिपद्यच।
तस्मै विज्ञापनञ्चक्रु स्तेषान्दुःख सविस्तरम्॥ 15
तन्निशम्य रमानाधः करुणा सागरोहरिः।
इत्येवमवदद्वा चं गम्भीरं सफलं महत्॥ 16
शृणुध्वन्त्रि दशास्सर्वे युष्मदिष्टार्थ सिद्थिदम्।
सुलभं साधनञ्चैक मद्यवक्ष्यामि विस्तरात्॥ 17
भूमौतु मन्धरन्नाम नगराजोस्तिवैमहन्।
तधैववासुकीनाम विख्यातोहिश्चवर्तते॥ 18
इहचादायतौदेवा विनिक्षिप्य पयोनिधौ।
तम्मधित्वातदा यूयं कल्पवृक्षादिकंलभेत्॥ 19
किञ्चामृतञ्च सिद्धेत परमंलोक दुर्लभम्।
यत्पीत्वा (तत्प्रभावेन जरामरण वर्जिताः। विशेषधैर्य संयुक्ताः पराक्रमयुताभवेत्)चभवेद्यूयञ्जरामरणवर्जिताः॥ 20
विशेषधैर्य सद्वीर्य पराक्रम युतास्तधा।
दानवान्‌तु विनिर्जित्य पुनस्स्वर्गमवाप्नुयात्
किन्तुदानववर्गस्य मैत्रिमाकाङ्क्ष्यवैपुरा॥ 21
भवन्तो तैस्संयुताहि कुर्वतां मधनन्त्विदम्।
नोचेदुश्माभिरेवत्त दशक्त्यन्तु भवेत्सुराः॥ 22
इत्याज्ञाप्य (चतान्)तदाशौरिस्तत्रै वान्तरधीयत।
ततस्तुत्रि दशाश्चैव हर्यनुज्ञांशिरो धृता॥ 23
क्षीरार्णवं मधित्वातु सर्पान् कामान् चप्रापिताः।
तदादि सर्वलोकेषु हरिवासर सद्व्रतम्॥ 24
हरेःप्रीति करम्भक्त कल्पकञ्चा भवन्मुने।
तद्व्रतफल कधनं तद्व्रतविधिश्च
यस्तुकुर्याद्व्रतन्त्वेतन्निष्कामोवाहरेःप्रियम्॥ 25
सतुसर्वसुखान् भुक्त्वाचान्तेवैकुण्ठमाप्नुयात्।
दशम्यां दिवसेप्रात रुद्धायजगताम्पतिम्॥ 26
श्रीहरिं मनसाध्यात्वा तवप्रीत्यै रमावरा।
एकादशीप्रतन्त्वद्य करिष्यामी (महाप्रभो)दयानिधे॥ 27
अविघ्नं कुरुदेवेश यदितेविद्यतेकृपा।
इतिविज्ञाप्यतम्भक्त्या रात्रौवर्ज्यच भौजनम्॥ 28
दर्भास्तरण शायीच श्रीहरिञ्चिन्त येद्धृति।
ततःप्रातस्स मुद्धाय कृत्वा स्नानादिकन्तधा॥ 29
चतुस्धानार्च नैर्देवं सविशेषं(समर्चयेत्)तु पूजयेत्।
तीर्धप्रसादौ स्वीकृत्य हरिनामादि कीर्तनैः॥ 30
गीतापाठैस्तधावेद पाठैस्तद्धिवसन्नयेत्।
उपोष्य(दिवसेत्वस्मिन्) चतदारात्रौ कुर्याज्जागरणन्द्विजाः॥ 31
गन्धम्पुष्पञ्च ताम्बूलं वनितासङ्गमन्तधा।
तदन्यानि सुगन्धानि एकादश्यां विसर्जयेत्॥ 32
यस्तुलोके विमूढात्मा एकादश्यामु पोषितः।
प्रसादन्तु महाविष्णोर्नभक्षति यदिद्विजाः॥ 33
तस्यवैतद्व्रतंसर्वं निष्फलम्भवति धृवम्।
तस्मात्सर्व प्रयत्नेन येकादश्यां कणंहरेः॥ 34
प्रसादम्भक्षयेद्विप्रास्तदाधिक्यं नभक्षयेत्।
अतिधीनाञ्च तस्मिन्‌वै दिवसेन्नं नदीयते॥ 35
श्रार्थविसर्जनं
पितृश्रार्थादिकञ्चैव प्राप्तञ्चेत्तद्दिने द्विजाः।
एकादश्यां नकुर्वीत द्वादश्या मेवकारयेत्॥ 36
अशक्तानाम्फलाहारानुज्ञा
स्त्रीबालक वयोवृद्था द्यशक्ताश्च तुतद्दिने।
भोजनं वर्ज्यगोक्षिर फलाधीविच भक्षीयेत्॥ 37
रात्रौजागरणङ्कर्तु मशक्ता (भुविमानवाः)श्चापि तद्दिने।
नामसङ्कीर्तनैश्चैव कधालापैश्च श्रीहरेः॥ 38
कालक्षेपं यधाशक्ति कुर्याद्रात्रौ मुनीश्वराः।
एकादश्यान्तुलशीदलच्चेदनेदोष प्राप्तिः
एकादश्यान्तु तुलसी दलच्छेदं(मुनीश्वराः)तु भूतले॥ 39
यःकरो तिविमूढात्मा तस्यायुश्श्रीश्च नस्यति।
सालग्रामार्चनन्तस्य दानमेकादशीदिने॥ 40
सालग्रामदानादिक महिमा
विशेषफलदन्नॄणां सर्वाभीष्ट फलप्रदम्।
द्वादश्यान्तु ततोविप्राः प्रातष्षड्घटि कान्तरे॥ 41
द्वादशीपारण निरूपणं
वैष्णवान् तुहाभक्तान् प्रपन्नान् वैयधावसु।
हरितीर्धप्रसादाद्यैर्भक्ष्यभोज्यादिकै(श्शुभैः)स्स्वयम्॥ 42
समभ्यर्च्यच सन्तर्प्यतत्सेषन्तुस्वयं गृहेत्।
मध्याह्ण शयनन्तस्मिन् दिवसेरात्रि भोजनम्॥ 43
एकादश्याः फलंसर्वं हरतेनात्र संशयः।
तस्मादेव हिद्वादश्यां मध्या (ह्ण)ह्णे शयनन्तधा॥ 44
एकादशी व्रतफल निरूपणम् एकादशी व्रतावरणयोग्यकाल निर्णयः
रात्रौतु भोजनञ्चैव वर्जयेन्मुनि पुङ्गवाः।
यस्तुकुर्याद्व्रतञ्चैदं सर्वंशास्त्र विधानतः॥ 45
सर्वाभीष्टाववाप्यात्र (विष्णोस्सायुज्य माप्नुयात्) वैकुण्ठनगरं व्रजेत्।
अतःपरं प्रवक्ष्यामि एकादश्यास्तु निर्णयम्॥ 46
यच्छ्रुत्वाघोर संसारान्मुत्यते सर्वतो (जनाः)नराः।
व्रतस्यास्य(पुरा) सदाभूयाद्योग्यन्तुदशमी(दिनं)पुराः॥ 47
तदन्वेकादशीचैव द्वादशीति दिनत्रयम्।
दशम्यां नवमीविद्धा सम्भ(वश्चेन्मुनीश्वराः)वेद्यति भूसुराः॥ 48
द्वादश्यामुपवासंस्यात्त्रयोदश्यान्तु पारणम्।
एकादश्यां यदिवा दशमीपरिदृश्यते॥ 49
तद्वासरं(तदात्यक्त्वा)परित्यज्य परत्रैव मुपोषयेत्।
यदास्याद्वादशीकिञ्चित्त्रयेदश्या(तुभुसुराः)मपिद्विजाः॥ 50
सम्पूर्णद्वादशीमेव (व्रतार्धन्तु)मुपोष्यार्धं प्रकल्पयेत्।
दशम्येकादशीचैव द्वादशीति दिनत्रये॥ 51
अरुणोदयादि विद्धाद्यैर्यद्येक मपिदूषितम्।
(द्वादश्यामुपवासंस्यात्रयोदश्यांहिपारणम्।)द्वादशीमुपवासार्धं परिकल्प्यच भूसुराः॥ 52
त्रयोदश्यान्तु कुर्याद्वैपारणंविधि वद्भुवि।
यदिलोभमदाद्यैस्तु हेतुभिर्योधरातले॥ 53
पूर्वविद्धां नवम्यांवा एकादश्या मथापिवा।
द्वादश्यांवा व्रतन्त्वेतत्कुरुते (यदिभूसुराः) संयमीश्वराः॥ 54
तस्यपूर्वार्जितं(पुण्यंसर्वञ्चापि विवश्यति)चापि पुण्यं सर्वं विनश्यति।
परन्त्वेतद्व्रतञ्चैवनिष्फलं भवति धृवम्॥ 55
तस्माच्छुद्ध दशम्याञ्च एकादश्यान्तधैवच।
द्वादश्याञ्चैव कुर्याद्वै व्रतमेतन्मु नीश्वराः॥ 56
यद्यलाभेतु चैतेषां यद्येकमपि दूषितम्।
एकादश्याञ्चद्वादश्यान्त्रयोदश्यां(व्रतञ्चरेत्)चकारयेत्॥ 57
यःकरोति व्रतन्त्वेवं(यथाशास्त्रन्तु भूसुराः) यधाविधिद्विजोत्तमाः॥
(तस्याभीष्टानि सर्वाणि) तस्येष्टास्सर्व येवैते सिध्यन्ते (नाचिराद्भुवि)नात्रसंशयः॥ 58
परन्त्वस्यतुश्रीविष्णो स्सायुज्यञ्चलभेद्भुवि।
तस्मात्सर्वैश्च भक्यैश्च वैष्णवैश्च व्रतन्त्विदम्॥ 59
(निष्कामैर्वा सकामैर्वा कर्तव्यं हरिप्रीतिये) निष्कामैर्वापि कर्तव्यं भगवत्प्रीतयेवहि।
यःत्यजेत्व्रतमेतत्तु येनकेनापि हेतुना॥ 60
तस्यकेनापि कार्येण मोक्षन्तु नलभेद्विजाः।
उद्दैनेकादशीचैव शयनैकादशीतधा॥ 61
सर्वश्रेष्ठ तरौभूयात्तस्मात्तौन परित्यजेत्।
वैकुण्ठ पदपूर्वाया मेकादश्याञ्च भूतले॥ 62
सर्वैरपि नरैःकार्यं व्रतमेतन्मु नीश्वराः।
तेनैकेनापि भूमौतु संवत्सरफलं लभेत्॥ 63
धनुर्मासेसितेपक्षे एकादश्यां (तुश्रीपतेः)श्रियःपतेः।
वैकुण्ठ पदपूर्वाया (देवस्योत्सव माचरेत्)मुत्सवंसम्यगाचरेत्॥ 64
(यद्येकस्मिन् धनुर्मासे एकादश्याद्वयम्भवेत्)यदिभूया द्येकमासे एकादश्याद्वयम्बुधाः।
(प्रधमन्तुपरित्यज्य)तदातुप्रधमन्त्यक्त्वा द्वितीयेह्युत्सवञ्चरेत्॥ 65
(यदाद्वितीयदिवसं सङ्क्रमेणापि दूषितं) यदा भूयाद्वितीयस्य वेधा सङ्क्रमणस्यच।
तदातु प्रधमेकुर्याच्छ्रीपतेस्तुमहोत्सवम्॥ 66
एकादशी मरण विशेषः
यःत्यजेत्स्व शरीरञ्च एकादश्यां मुनीश्वराः।
नगच्छेच्छ्रीहरेस्धानं योगीनाम पिदुर्लभम्॥ 67
एकादशी व्रत विधान श्रवण फल निरूपणम्
इत्येतत्तु विधानञ्च निर्णयन्तद्व्र तस्यतु।
हरिवासर नाम्नस्तु एकाद(श्यान्तु भूतले)श्याः मुनीश्वराः॥ 68
यस्यश्रवण मात्रेण नरास्सर्वेपि भूतले।
भवाम्बुधि समुत्तीर्णाः प्राप्नुवन्ति हरेःपदः॥ 69
ग्रन्थान्तः
इत्येवं नारदोमौनिः संयमिप्रवरान्‌प्रति।
भगवच्छास्त्रराहस्यं यधाभगवतापुरा॥ 70
विधात्रे कृपयाप्रोक्तं तदनुब्रह्मणास्वयम्।
श्रुतञ्च सकलञ्चैवं कृपया(समभाषयत्)चाव दत्तदा॥ 71
ग्रन्ध परिमिति निरूपणं
सहस्रश्लोक सङ्ख्यावै स्सङ्ग्रहेण हरिप्रियम्।
सर्वासु संहितास्वेतच्छ्रेष्ठं परमपूरुषम्॥ 72
एतत्संहिताप्रशस्तिः
येतच्छ्रुत्वासंयमीन्द्रास्सर्वेहृष्टमनास्तधा।
भक्ताग्रणिं नारदन्तु मुनिमुख्यं (कृपामयं)जगत्प्रियम्॥ 73
मुहुर्मुहुर्नमस्कृत्ययधेष्टन्तमपूजयत्।
एवं समर्चितोमौनि (र्नारदो मुनिपुङ्गवैः)र्नारदश्चश्रियःपतिम्॥ 74
ध्यायन् स्वहृदये(शौरिं)तस्य नामसङ्कीर्तनैस्स्वयम्।
सर्वेलोकान् तारयन्तो जगामस्वाश्रमम्प्रति॥ 75
इति श्रीपाञ्च रात्रागमरहस्यसारेश्रीपरमपुरुष-संहितायाम्
एकादशी व्रतमहिमाभि ववर्णनं नाम
दशमोऽध्यायः
सम्पूर्णम्