००९

श्रीपोञ्च रात्रागमान्तर्गत श्रीपरमपुरुष संहिता
श्रीजयन्त्याद्युत्सव निर्णयविधिः
नवमोऽध्यायः
श्रीजयन्त्याद्युत्सव काल निर्णय विषये ऋषि प्रश्नः
ऋषयः
श्लो॥ भगवन् (संयमिश्रेष्ठ)मुनिशार्दूल जगन्मङ्गल दायका।
श्रीजयन्त्युत्सवादीनां निर्णयङ्कधमीरितम्॥ 1
वदस्व नोमहाभाग यदितेविद्यतेकृपा।
नारद प्रतिवयनं
श्रीनारदः
श्रूयतां (मद्यमुनयो)संयमिश्रेष्ठयदुष्माभिरवेक्षितम्॥ 2
श्रीयन्त्युत्सवादीनां निर्णयन्नक्ष्यतेधुना।
श्रीराम नवमी
चैत्रमासेसितेपक्षे नवम्याञ्च पुनर्वसौ॥ 3
मेषसङ्क्रम युक्तायां मध्याह्णेकर्कटेतधा।
रामचम्प्रो हरिस्साक्षा दाविरासीज्जगत्पति॥ 4
तस्मात्पुनर्वसूयुक्ता मयुक्तां वातधैवच।
मेषसङ्क्रमणोपेता मयुतां मपिभूसुराः॥ 5
चैत्रशुक्लाष्टमीविद्धा रहितां कलयापिच।
परवेधायुतांवापि नवमीदिव सम्पुरा॥ 6
विनिश्चित्यतुतस्मिन् वैसीतारामं जगत्पतिम्।
विघेषोत्सवसुस्नान पूजाभोगादि कैश्शुभै॥ 7
लोककल्याणहेत्वर्थं प्रत्यब्दं परितोषयेत्।
श्रीनृसिंहजयन्ती
वैशाखेमासि शुक्लायां चतुर्दश्यां(द्विजोत्तमाः) मुनीश्वराः।
पूर्ववेधादिकंहित्वा परवेधा युतामपि॥ 8
शुद्धाञ्च तुर्दशींवीक्ष्य मुहूर्तं वाकलापिवा।
तस्मि(तुवासरे देवं)न्नेवदिनेशौरिं नृहरिं सम्यगर्चयेत्॥ 9
तज्जयन्तीति विख्यातो नृसिंहस्य जगत्पतेः।
दध्योदनगुडान्नाद्यैश्शीतलैश्च जगत्पतिम्॥ 10
सन्तर्प्य सर्वदालोके सुखंसौख्यं लभेन्नराः।
विशेषस्नानपूर्वादीन् यधाशास्त्रं प्रकल्पयेत्॥ 11
यःकरोति नरोमोहात्कामविद्धाञ्च तुर्दशीम्।
धनापतैर्वियुज्येत तस्मात्तां परिवर्जयेत्॥ 12
तधैवस्वातीयुक्तांवा वृषभेनतु संयुताम्।
मधुमासचतुर्दश्या रहितान्दिव सन्त्यजेत्॥ 13
श्रीकृष्णजयन्ती
अधातस्सम्प्रवक्ष्यामि श्रीकृष्णस्य जगद्गुरोः।
जन्माष्टमीजयन्त्योर्वैनिर्णयं(मुनिसत्तमाः)विबुधोत्तमाः॥ 14
श्रीवैष्णवेषुयेकुर्युःङ्काम्यङ्कर्म धरातले।
तेषाञ्जन्माष्टमी(भूयात्)प्रोक्तातदन्येषाम्महात्मनाम्॥ 15
निष्कामकर्म निरतां (वैष्णवानां)प्रसन्नानां विशेषतः।
श्रीजयन्तीतिविख्यातो भुक्तिमुक्ति फलप्रदा॥ 16
नभोमास्य सितेपक्षे सिंहसङ्क्र मसंयुते!
सौम्यवारेचरोहिण्या मष्टम्या मर्धरात्रतः॥ 17
देवकीनन्दनश्शौरि श्श्रीकृष्णस्सम जायत।
तस्मात्प्रत्यब्द मेतस्मिन् दिवसे पुरुषोत्तमम्॥ 18
नानाविधोपहाराद्यैर्विविधैरुपचारकैः।
विशेषैरुत्सवैश्चैव तोषयेद्वि बुधोत्तमाः॥ 19
नभोमास्यदि वानस्यात्सिंहसङ्क्रम(णम्बुधा)सम्भवम्।
सिंहभाद्र पदेकुर्यादुत्सवं संयमीश्वराः॥ 20
सप्तमीविद्धयायुक्ता मष्टमीञ्च तथैवच।
कृत्तिकावेधा सहितां रोहिणीं चविसर्जयेत्॥ 21
सप्तमीवेधारहित शुद्धाष्टम्यामपिद्विजाः।
रोहिणीयदि नस्यात्तु तदावैमृगशीर्षया॥ 22
संयुतामपितस्मीन्‌ वैहरेःकुर्यान्म होत्सवम्।
अष्टमीपूर्वगातारायदिचेत्सं यमीश्वराः॥ 23
तां विसर्ज्याष्टमींशुद्धा मुत्सवार्धं(परिग्रहेत्)प्रकल्पयेत्।
यदाष्टमीरोहिणीच द्वयं वेधादि दूषितम्॥ 24
तदामृगेण संयुक्त नवम्या मुत्सवञ्चरेत्।
यदानवम्यामपिच रोहिणी दूषितं भवेत्॥ 25
मृगेणच दशम्यांवै कुर्यादे तन्महोत्सवम्।
एकस्मिन् सिंहमासेतु यदाऋक्षद्वयम्भवेत्॥ 26
प्रधमन्तु परित्यज्य परतोत्सव माचरेत्।
यदाद्वि तीयऋक्षन्तु सङ्क्रमेणच दूषितम्॥ 27
तदातुप्रधमम्ऋक्ष मत्सनार्धं विधीयते।
एकस्मिन् सिंहमासेच (यदाऋक्षद्वयम्भवेत्) नक्षत्रद्वय सम्भवम्॥ 28
श्रीजयन्तीयोग निरूपणम्
अष्टमीरोहिणीयोगं नवमीरोहिणीतधा।
दशमीरोहिणीचैव मृगयुक्ताष्टमीतधा॥ 29
नवमी मृगशीर्षाच दशमी मृगसंयुता।
योगानेतान् समालोक्यतदनु(र्मुनिसत्तमाः)द्विज पुङ्गवाः॥ 30
विशेष योगदिवसे कुर्यादे तन्महोत्सवम्।
यदितद्योग कालञ्च द्विवारंलभते(तदा)द्विजाः॥ 31
एकस्मिन् सिंहमासेतु पूर्वंहित्वा परञ्चरेत्।
ऋक्षप्रधान निष्काम कर्माचरण दीक्षिताम्॥ 32
प्रपन्नानां जयन्ती स्याद्येवं शास्त्रोक्तवर्त्मना।
काम्यकर्म पराणान्तु वैष्णवानां (धरातले)तुभूतले॥ 33
श्रीजन्माष्टमी निरूपणञ्च
जन्माष्टमी निर्णयं(तु,)च वक्ष्याम्य द्यमुनीश्वराः।
अष्टमीरोहिणीचैव मृगेणसहिताष्टमी॥ 34
रोहिणी नवमीचैव मृगेण नवमीतधा।
रोहिणी दशमीचैव मृगेण दशमी तधा॥ 35
योगानेतान् तुसंवीक्ष्य विद्धादोष विवर्जितान्।
तेषु पूर्वोत्तरं भेदं क्रमेण चविनिश्चयेत्॥ 36
उत्सवाचरणेश्रेष्ठ तरंयोगं यदाद्विजाः।
द्विवारं लभतेतत्र पूर्वन्त्यक्त्वापरङ्गृहेत्॥ 37
पूर्वविद्धायुतायाञ्च अष्टम्यां संयमीश्वराः।
सौम्यवासरयोगेन कुर्यादेतन्महोत्सवम्॥ 38
श्रीकृष्णजन्मोत्सवम् अर्धरात्रावेनकर्तव्यम् एतदुत्सव विषेष निरूपणं
कृष्ण जन्मोत्सवञ्चैवं प्रत्यब्दञ्च समाचरेत्।
अर्ध रात्रौतु सर्वेपि कुर्यादेतन्महोत्सव॥ 39
देवालये विशेषंस्याद्ग्रुहेसामान्य मुच्यते।
यस्मात्तु वासुदेवस्या त्स्वयंसाक्षाज्जगद्गुरुः॥ 40
चरमार्ध प्रदाताच तस्मात्तस्य(जगत्पतेः जन्मोत्सवन्तु सर्वैश्चवैष्णवैः कार्यमुत्तमं)तुजन्मनि।
सर्वैश्च वैष्णवैर्लोके कार्यमे तन्महोत्सवम्॥ 41
रात्रावेदपारणं कर्तव्यम्
उपोष्य दिवसेत्वस्मिन् रात्रौ(पारण माचरेत्)कुर्यात्तुपारणम्।
जन्मोत्सवानन्तरंहि देवदेवस्यश्ङार्गिणः॥ 42
पारणेस्मिन्नकालादि शङ्कात्याज्याभ वेत्सदा।
एतदुत्सवनकर्तव्ये प्रत्यवायः
योनकुर्यादिदङ्कृष्ण जन्मोत्सव मादरात्॥ 43
गुरुद्रोही दैवद्रोही स्वामिद्रोहीच सोभवेत्।
तत्कृते नान्यकार्येण येवकेनापिभूतले॥ 44
तद्वत्सरावधिस्तस्य श्रेयस्तुनकदाभवेत्।
श्रार्धादिक सम्भवे कर्तव्य विधिः
एतस्मिन् दिवसेयस्य पितृश्रार्धादिकं भवेत्॥ 45
पूर्वाह्णेवापराह्णेवाकृत्वा चैतन्महोत्सवम्।
भगवन्निवेदितान्नाद्यैस्स्वपितॄन्‌चापितोषयेत्॥ 46
मासादिक पर्यन्त महोत्सव करणं
श्रीजन्मदिनमारभ्य मासंवापक्ष मेववा।
एकादश नवाहंवा पञ्चाहन्त्य्र हन्तुवा॥ 47
यधाविभवविस्तारैः कुर्यादे तन्महोत्सवम्।
श्रीकृष्ण लीलानटनैः तस्यसङ्कीर्तनै (स्सह)स्तधा॥ 48
प्रत्यहङ्ग्रामोत्सवा द्यैस्तधाचान्यैश्चवैभवः।
आछण्डालान्नदानैश्च महाभोगैश्श्रियःपतेः॥ 49
कुर्याज्जन्मोत्सवञ्चैत त्प्रत्यब्दञ्च बुधोत्तमा।
यस्मिन् देशेस्त्वि दंशौरे रुत्सवन्नभवेद्भुवि॥ 50
तस्मिन् देशेस्त्वनावृष्टिर्निश्चयं मुनिपुङ्गवाः।
शीदेव्युत्सव कधनम्
अधातस्सं प्रवक्ष्यामि श्रीदेव्युत्सव निर्णयम्॥ 51
अश्विनस्य सितेपक्षे नवम्यां तुमहोत्सवम्।
वीरलक्ष्म्यास्तु कर्तव्यं प्रत्यब्दञ्च (मुनीश्वराः (सर्वसिद्धिदं)धरातले॥ 52
एतदुत्सवाधिक्यता निरूपणं
यस्माद्येषाज नन्माता पुरुषाकार रूपिणी।
तस्मात्तस्यास्तु सम्प्रीत्यै कर्तव्य मिदमुत्सवम्॥ 53
सर्वेष्वन्ये षूत्सवेषु लोकेमुख्यतरं भवेत्।
तस्मात्सर्वैः प्रपन्नैश्च देवागारे गृहेपिच॥ 54
निर्मलेनैव भक्त्यातु(कुर्या)कार्यमे तन्महौत्सवम्।
महा नवमी निर्णयं
कलयाप्यष्टमीविद्धा रहितां नवमीम्पुरा॥ 55
विनिश्चित्यतु तस्मिन् वैकुर्यादे तन्महोत्सवम्।
चतुस्धानार्चन्यैर्युक्तं सविशेषं यधा(विधि)वसु॥ 56
श्रीशरन्नवरत्रा सम्भव निर्णयः
तद्वासरानु सारेण नवाहोत्सव (मीरतं)माचरेत्।
तिधिलोपेत्वमा(वास्या)यां वैआरभ्योत्सवमुच्यते॥ 57
वृद्धौद्वितीयामारभ्यकुर्यादे तन्महोत्सवम्।
यधाशास्त्रन्तु नित्यञ्च चतुस्थानार्चनञ्चरेत्॥ 58
श्रीमहा नवमीयुत्सव विधि निरूपणं
कुम्भाग्निमण्डलस्धान्तु श्रियंवै नवमीदिने।
बिम्बेसमर्प्यविधिवत्कु र्याद्देवि महोत्सवम्॥ 59
यस्मिन् देशेभवेद्येत दुत्सवं प्रतिवत्सरम्।
तस्मिन् देशे (महाभाग्य)तुसौभाग्यसमृद्धिस्सर्वतोभवेत्॥ 60
विजयदशमी
इषस्य दशमीं शुक्लां विजयान्तां विदुर्बुधाः।
तस्मिन्नेव (महाविष्णोः) तुदेवस्य विजयोत्सवमाचरेत्॥ 61
नवमीकलयाचैव विद्धात्याज्याभ वेत्सदा।
परवेधायुतायान्तु दशम्यामुत्सवञ्चरेत्॥ 62
श्रवणर्षयुताञ्चापि पूर्वविद्धां परित्यजेत्।
अपराजितापूजाप्रस्धानादिक निर्णयं विजयोत्सव निर्णयं राज्ञां पट्टाभिषेक निर्णयम्
अपराजितार्चनेभूयाच्छ्रवण(र्षस्यविशेषता)र्षाधिक्य ताभुवि॥ 63
तधैवशुभ यात्राया स्सायङ्कालस्थितातिधिः।
किञ्चश्रीवासु देवस्य उत्सवार्धन्तु (तधापिच)भूतले॥ 64
राज्ञापट्टाभिषेकार्थं पूर्वविद्धादि दूषिताम्।
दशमीन्तु परित्यज्य शुद्धामेव परिगृहेत्॥ 65
तिधिलोपेयदाभूया द्दशमीनव मीदिने।
परस्मिन्‌तु मुहूर्तंवा दशमीयदि नास्तिच॥ 66
एकादश्यान्तु श्रीविष्णोः कुर्याते तन्महोत्सवम्।
नत्वेतत्तुभ वेत्पूर्व विद्धायां दशमीदिने॥ 67
कदापिचमुनिश्रेष्ठा राजाराष्ट्र प्रवृद्धये।
यदावृद्धौतिधीनान्तु दशमीद्वयसम्भवम्॥ 68
तदातुप्रधमन्त्यक्त्वा द्वितीयेह्युत्सवञ्चरेत्।
नवम्यान्तु महाहक्ष्मा(श्चोत्सवन्तु)श्चार्चनन्तु समाप्त्यच॥ 69
प्रधमेतु दशम्यांवै आयुधाद्यधिवासनम्।
द्वितीये शेषशमी दिवसेतु सहौत्सवम्॥ 70
कुर्यादेवम्मुनिवराः (राजाराष्ट्र प्रवृद्धये)लोकक्षेमार्धमेवहि।
श्रीकृत्तिकादीवोत्सव निर्णयम्
अधातन्सम्प्रवक्ष्यामि कृत्तिकादीपनिर्णयम्॥ 71
वृश्चिकस्धेदिनकरे कार्तिकेमासिवैबुधाः।
पौर्णमास्याङ्कृत्तिकासु सायङ्कालेश्रियःपते॥ 72
मन्दिरंसर्वतोदीपै रलङ्कृत्य महोत्सवम्।
प्रत्यब्दङ्कारयेद्भूमौ राजाराष्ट्राभिवृद्धये॥ 73
वृश्चिकन्तुयदानस्यात्कार्तिकेमासिवैबुधाः।
मार्गशीर्षे(पि)प्रकुर्वीत वृश्चिकाधिक्यहेतुना॥ 74
वृश्चिकेतुयदाभूयात्पौर्णमास्याद्वयन्तधा।
ऋक्षद्वयन्तदापूर्वं विसृज्यपरतोचरेत्॥ 75
चतुर्दस्याविद्धयातु कृत्तिका(यदिदूषिता) दूषितोयदि।
पौर्णमास्यान्तुरोहिण्याङ्कुर्यादेतन्महोत्सवम्॥ 76
चतुर्दशीविद्धयातु पौर्णमीनंयुतायदि।
तदातुप्रतिपद्यांवै कार्यमेतन्महोत्सवम्॥ 77
भौमेनदूषितंयत्र पौर्णमीप्रतिपत्तदा।
तद्वासरं परित्यज्य परस्मिन्‌ दिपसेचरेत्॥ 78
पौर्णमीकृत्तिकाचैव रोहिणीप्रतिपत्तधा।
सर्वेपिविद्धायुक्ताश्चेत्तदाशुद्धमृगेपिच॥ 79
द्वितीयायान्तुकुर्याद्वै दीपारोपमहोत्सवम्।
सङ्क्रमश्चतुविद्धाच सदात्याज्याभवेद्फुवि॥ 80
परतस्सम्भवेद्येतद्विद्धा तत्रतु पूर्वतः।
उत्सवङ्कारयेच्छौरे र्दीपारोपाह्ययं(महत्)शुभम्॥ 81
एवंयःकुरुते भूमौप्रपन्नस्तुमहोत्सवम्।
तस्याभीष्टानि(सर्वाणि सिद्थ्यन्ते नात्रसंशयः)सिध्यन्ते नाचिरान्निश्चयम्भुवि॥ 82
एतदेवमुनिश्रेष्ठा जयन्त्यादिर निर्णयम्।
साक्षान्नारायणेनोक्तं पुरापद्मोद्भवाययत्॥ 83
इति श्रीपाञ्चरात्रागम-रहस्यसारे श्रीपरमपुरुष-संहितायां
श्री जयन्त्याद्युत्सव निर्णयोनाम
नवमोऽध्यायः