००८

श्रीमत्पाञ्चरात्रागमान्तर्गत श्रीपरमपुरुष संहिता.
अष्ठमोऽध्यायः
भक्तभाव विलक्षणकधनम्
ऋषयः-
भक्तभाव विलक्षण विषये ऋषि प्रश्नः
श्लो॥ भगवन्मुनिशार्दूल(हरिध्यानपरायणा) सदाहरि परायणा।
पुरात्वयोदितास्सर्वाःप्रपन्न स्यतुलक्षणाः॥ 1
किन्त्वद्यश्रोतुमिच्छामो तस्यभाव विलक्षणम्।
केनभावेनमहता लोकेसर्वजनास्सदा॥ 2
भवसागरमग्नाश्च अमग्नायिव श्रीपतेः।
सायुज्यं प्राप्तुमर्हन्ति (तदद्यवदनोमुने)तद्वदन्व महामुने॥ 3
श्रीनारदप्रतिवचनं भक्तभाव विलक्षण कधनं भावनाधिक्य निरूपणं
श्रीनारदः-
शृणुध्वं मुनयस्सर्वेलोकानुग्रहकाङ्क्षया।
अपेक्षितंयदुष्माभि श्श्रोतुमद्यबुथोत्तमाः॥ 4
तद्भावनाक्रमञ्चैकं लोके(मुख्यमितीरितं)मुख्यतमंस्मृतम्।
कर्मण्यस्मिन् चकस्मिन्‌वा यद्भावन्तद्भवेद्धृवम्॥ 5
सत्कार्य निर्वहणाशक्तानां भावमात्रेण फलप्राप्तिकथनं भावरहित कर्मणो निष्फलत्व निरूपणं
हरिकैङ्कर्य करणे अङ्गलोपादि हेतुभिः।
आलयादिकनिर्माणे धनहीनतयापिच॥ 6
येवर्तन्ति जनालोके तेचभावनयातया।
प्राप्नुवन्तिहरेस्थ्सानं दुर्लभम्परमम्महत्॥ 7
येभवेयुस्सदापुण्यक्षेत्रयात्रापरानराः!
सर्वदापुण्यतिर्धेषु सुस्नाताश्चतधैवच॥ 8
हरिमन्दिरनिर्माता स्तधायज्ञपरा(पिच)भुवि।
तद्भावरहिताश्चान्य भावेनयदिवर्तते॥ 9
तेषान्तुतद्भलं(नास्तिकिञ्चिच्चावि मुनीश्वराः)भूयान्नकिञ्चिच्चमुनीश्वराः।
गजस्नानवदेतेषां सर्वेकार्याश्चनिष्फलाः॥ 10
प्रसन्नयिवभावकरणे विशेषकधनम्
अद्याहन्ते प्रवक्ष्यामि प्रपन्न स्यमहामतेः।
भावनालक्षणन्तद्व द्यःकरोतिधरातले॥ 11
तस्यवैनिश्चयंविष्णो स्सायुज्यम्मुनिसत्तमाः।
देवालयादि निर्माणे कर्तव्य भाव निरूपण विधिः
पुरायेवमयाप्रोक्तं हरिपूजाविधानके॥ 12
देवालयादिनिर्माणे प्रसादादिकभक्षणे।
तधैवसर्वशास्त्रोक्त धर्माद्याचरणे(षुच)पिच॥ 13
भोजनादिक सामान्यकर्म सुभावमात्रेण विशेष प्राप्तिः
यद्भावेनप्रवर्तव्यं तत्सर्वं विस्तरेणवः।
अद्यवक्ष्याम्यशक्तानां भक्तानाम्भावनाक्रमम्॥ 14
एनभावेनलोकेस्मिन् सर्वसामान्य कर्मसु।
भोजनस्नानपानादि सर्वेषुचमहाफलम्॥ 15
स्वगृहेदेवालय भावः। स्वात्मनि पूजक भावः दारापुत्रादिष्वालय परिचारक भावः तद्भल निरूपणं
प्रपन्नस्समनाप्नोति तच्छ्रुणुध्वम्मुनीश्वराः।
गृहस्थस्सर्वदास्वीय गृहन्तुहरिमन्दिरम्॥ 16
आत्मानमर्चकन्दारा पुत्रास्त्वन्येतुसेवकाः।
इति(भावेन)मत्वाप्रवर्तेतयदि तस्यहरेर्गृहे॥ 17
स्वकलत्रपुत्रादिक भूषणादिषु भगवत्समर्पण भावः तद्भलञ्च
सर्वदाप्यर्चितम्पुण्यं लभतेनात्रसंशयः।
स्वकीयदारापुत्राणां पोषणेभूषणेपिच॥ 18
तेषामन्तस्थितंशौरिं ध्यायन्तस्मैहिसर्वदा।
समर्पितं(चेतिभाव्य यजमानस्तुभूतले)सर्वमेत दितिमत्वाधरातदले॥ 19
स्वशरीरक्षालने भगवदालय सम्मार्जनादिक भावः स्ववस्त्रधारणेधामालङ्कार भावः
हरेस्समर्पितम्पुण्यं प्राप्नोतिसनरोत्तमः।
यस्तुकुर्वीतसद्भावं(स्वकीयस्नानकर्मणि! मार्जनप्रोक्षणानि)स्वशरीरस्यक्षालने॥ 20
सम्मार्जनादिकञ्चेि भगवन्मन्दिरेबुधाः।
स्ववस्त्रधारणेचैव अलङ्कारंहरेर्गृहे॥ 21
भोजने भगवन्निवेदन भावः तेषां फल निरूपणं
भोजनेचस्वकीयान्तः प्रविष्ठस्यनिवेदनम्।
इत्येवं भावमात्रेण सर्वदासनराग्रणिः॥ 22
तद्भलंसर्वमाप्नोति (संशयोनास्ति भूसुराः)नास्त्यस्मिन् संशयम्भुवि।
वैष्णवादिक वन्दने भगवद्वञ्चन फल निरूपणं
वन्दनेवैष्णवादीनां तेषान्तुहृदयस्थितम्॥ 23
श्रीहरिम्मनसाध्यात्वा तद्मन्दनफलंलभेत्।
सन्ध्योपासना द्यैर्भगवत्प्रीतिरकणं नष्टवस्त्रादिके हरि समर्पण भावनं
सन्ध्याद्युपासनेचैव देवर्षिपितृतर्पणे॥ 24
केवलम्भावमात्रेण सर्वदेव स्वरूपिणम्।
हरिंसन्तर्प्यतेभूमौ निश्चयम्मुनिसत्तमाः॥ 25
प्रमादाद्यदिवस्त्रंवा भूषावाधरणीतले।
यदिस्यात्पतितन्नष्टं यस्यकस्यच भूसुराः॥ 26
तद्वस्त्रादिक सर्वञ्च हरेरर्पण भावनात्।
तद्भलप्राप्ति कधनं चोरापहृतवस्तुषु हरिसमर्पण भावनं तेनफलप्राप्ति कधनं
लभतेतद्भवंसर्वं संशयोनास्ति(भूसुराः)भूतले॥ 27
चोरेणापहृतंयद्यप्यस्यकस्यधनादिकम्।
तत्सर्वंश्रीमहाविष्णो रर्पितञ्चेतिभावयेत्॥ 28
तेनभावेनमहता चोरस्यहृदयेस्थितः।
शौरिस्तृप्यतिपूर्वोक्त थनाद्यैर्मुनिपुङ्गवाः॥ 29
दुःखितयेव भगवत्कृपापात्रः भगवत्कृपया दुःखसम्भ हेतु निरूपणं भक्तानां दुःखहेतुः
यस्यलोकेमहद्दुःखं (भवेद्भुविद्विजोत्तमाः)भविष्यतिधरातले।
तस्मिन्नेवतुदेवेशः प्रसन्नयितिभावयेत्॥ 30
किन्तुयस्मीन् महाविष्णुः प्रसन्नस्याद्धरातले।
सतुसर्वञ्चप्रारब्धं जन्मजन्मान्तरार्डितम्॥ 31
अद्ययेवतुभक्त्वान्ते हरेसायुज्यमाघ्नयात्।
तस्मादेवहिलोकेस्मिन् भक्तानान्दुःख सम्भवम्॥ 32
धनधान्याधिक्य तयाभवबन्धाधिक्य कधनं भक्तशोधनं
किंसलोकेनराणान्तु धनाधिक्यतयासतम्।
भवबन्धाधिकताचैव सम्भविष्यतिभूतले॥ 33
तस्मादेवहरिर्यस्य सायुज्यन्दातुमिच्छते।
महद्दुःखानितत्पूर्वं दत्वाशोधतितंस्वयम्॥ 34
सुखदुःखादिषु समानभाव निरूपणं
(जगत्सृष्ट्यौतु देवस्य)सृष्ट्यौतुदेवदेवस्य सुखन्दुःखं समंस्मृतम्।
तस्मात्प्रपन्नस्तुसुखे दुःखेचसमभावनम्॥ 35
कृत्वाहरिप्रसादैव भावयेद्दुःख सम्भवम्।
लोकेस्मिन् यस्यवैभूया (द्विशेषधन गौरवं)दधिकं गौरवन्धनम्॥ 36
सौख्याद्याधिक्यतया भक्तिलोप कथनं दुःखितस्यमोक्ष प्राप्तिः
सौख्यञ्चदारापुत्राश्च सहाकीर्तिश्चमान्यता।
तस्यश्रीभगवद्भक्तिरल्पमेवभवेत्सदा॥ 37
तस्मात्सुदुःखितोप्यत्र प्रपन्नस्तुधरातले।
सदाहरिपदध्यान(परतो)निरतोमोक्षमाप्नुयात्॥ 38
मृत्युप्राप्तिर्नज्ञात विषयः तद्ञ्जानेनप्रपन्नस्यकर्तव्य निरूपणं
जगत्यस्मिन्‌हिसर्वेषां मृत्युर्देहेनजायते।
किन्त्वस्यप्राप्तिमात्रन्तु (सज्ञातुंशक्त्यतेनरः)ज्ञातुङ्कोपिनशक्त्यते॥ 39
तस्मात्प्रपन्न स्स्वात्मानं मृत्युदंष्ट्रान्तरस्थितम्।
सर्वदाभूतलेज्ञात्वा जन्मराहित्यकाङ्क्षया॥ 40
माधवंहृदयेध्यायन् सर्वकार्येषुवर्तयेत्।
मार्गसमीप देवालय प्रवेशादिषु स्नानादिनाम नावश्य कधनं भगवन्नामस्मरणेन भक्तानांशुद्धि निरूपणं
यस्तुगच्छेद्थरेर्गेह समीपेमार्गतोपिच॥ 41
अस्नातस्त्वशुचिश्चैव मन्दिरंसम्प्रविश्यच।
भगवद्दर्शनङ्कुर्या द्भक्त्यानिर्मलचेतसा॥ 42
यस्स्मरेद्भर्तिभावेन हरिंस्वहृदयेवरः।
सभूयात्सस्वदा(भूमौ परिशुद्धस्तुनिर्मलः)लोके परिशुद्धोविनिर्मलः॥ 43
तस्माद्यस्ययदाशौरेर्दर्शनन्तुहठाल्लभेत्।
तदाबाह्यविशुद्ध्यापि रहितोदर्शनञ्चरेत्॥ 44
भगवद्दर्शने सर्वशुद्धि निरूपणं-भगवद्दर्शन महिमा
किञ्च शौरेर्दर्शनञ्च स्वयंशुद्थिङ्करिष्यति।
महापातक वर्गञ्च स्वमहिम्नाहिकेवलम्॥ 45
स्नानदान जपादिभ्यो यद्भलं(नलभेद्द्विजाः) दुर्लभं भुवि।
तत्सर्वं हरिसेवायां लभिष्यति धरातले॥ 46
शरिरस्य अस्थिरत्वनिरूपणं-हठाल्लब्द हरिदर्शनत्यागे प्रत्यवायः
लोकेस्मिन् यस्यकस्यापि शरीरं बुद्बुदं भवेत्।
सर्वेजना(श्चलोकेस्मिन्)स्सदालोके मृत्युदंष्ठ्रातरस्थिताः॥ 47
तस्मादयत्न सिद्धंश्री हरिदर्शन सद्भलम्।
यःत्यजेन्मूढ भावेन अशुद्ध्यादि क(भावनात्)हेतुना॥ 48
तस्यस्नानाद्यनुष्ठाना नन्तरं हरिदर्शनम्।
कर्तुञ्चाप्यु चितङ्कालं (लभेतनपनर्भुवि)नलभेच्चधरातले॥ 49
तस्मात्प्रपन्नस्तुसदा भगवद्दर्श नादिकम्।
भगवद्दर्शस्य प्रधम कर्तव्य निरूपणं
सर्वाधिक्यं तुसम्भाव्य यत्रकुत्र चतल्लभेत्॥ 50
यदाकदावातन्मुख्य मग्रेकृत्वान्य दाचरेत्।
सर्वधर्माणां भगवत्कैङ्कर्य भावेन कर्तव्यत्व निरूपणं
लोकेसमस्त(कार्याणि धर्माणिच मुनीश्वराः)धर्माणि सर्वेकार्याश्च भूसुराः॥ 51
हरिकैङ्कर्यरूपेण भगवच्छास नादिति।
प्रसन्नानां काम्य राहित्येनापि अभीष्ट सिद्धि निरूपणं
मत्वाकुर्वन्तु तस्माद्वै जगन्नाधोरमापति॥ 52
तेषुतृप्तस्सदाभूत्वा सर्वाभीष्टानि (दास्यति)दीयते।
यःकरोति सकामश्च पुण्यकार्याणि भूतले॥ 53
सकामानाञ्च अर्ह फलसिद्धिरेव-नत्दिष्ट सिद्धिः- काम्यकर्म विसर्जन हेतुः-
तस्यापि श्रीपतिस्त्वर्ह फलान्येवददातिवै।
यदाकॄर ज्वरोपेतो जल्पते भोजनादिकम्॥ 54
तथाभवज्व रोपेत स्सर्वाकामान् चवाञ्छति।
यधातुप्रधमं वीक्ष्य माताप्यन्नन्नदीयते॥ 55
तधाद्वितीय मालोक्य हरिश्चेष्टान् नदीयते।
सर्वभारसन्यास निरूपणं
तस्मादेव सदाकाम्यं कर्मत्याज्यंहि सज्जनैः॥ 56
किन्तुप्रपन्न स्सर्वञ्च हर्यधीनं विभावयन्।
सर्वभारञ्च श्रीनाधौ सन्न्यस्य भुविवर्तयेत्॥ 57
तस्यदोषादिकंयस्मिन् कस्मिन्‌कार्येच नाभवेत्।
प्रसन्नानां दिव्यक्षेत्र यात्रावसर कधनं-
प्रसन्नस्सर्वदालोकेयदिशक्त्यति भूसुराः॥ 58
दिव्यक्षेत्रादि कंसर्वं गत्वातेषु जनार्दनम्।
तत्रतत्र स्थितानन्त महिमादिकस्सयुतम्॥ 59
संवीक्ष्यश्रीहरेर्लीला विशेषादिर दर्शनात्।
ब्रह्मानन्दमवाप्यान्तेहरेस्सायुज्यमाप्नुयात्॥ 60
दिव्यक्षेत्रादि कानान्तु अधिक्यंशृणु तान्द्विजाः।
प्रतिष्ठादिक भाव निरूपणं-
प्रतिष्ठान्तेतु देवस्य आचार्यस्स्वात्म निस्थितम्॥ 61
तपश्शक्तिं(समस्तञ्च)कलाञ्चैव ब्रह्मरन्ध्रेण विग्रहे।
स्वहस्तस्पर्शना देव स्थावयिष्यति भूतले॥ 62
तदारभ्य महाभक्ताः प्रपन्नास्संयमीश्वराः।
स्वतपश्शक्ति महिमां लोकानुग्रहकाम्यया॥ 63
दिव्यक्षेत्र महिमन्तक्षेत्राः ऋष्यादीणां तपोनिथयः- दिव्यक्षेत्र दर्शन महिमा
केवलम्भाव मात्रेण प्रविश्यन्तिच विग्रहे।
तस्माद्दिव्यस्थलाःप्रोक्ता देवर्ष्यादि(प्रपूजिताः) प्रतिष्यिताः॥ 64
सद्भक्तानां तपश्शक्ति निधयो (यितिभावयेत्)क्षेत्रेनामकाः।
केवलन्दर्शनात्तेषां सर्वेपापाः प्रमुच्यते॥ 65
दिव्यक्षेत्र निवास, शरीर विसर्जनादिषु विशेष निरूपणं-
तक्षेत्रेषु निवासञ्च(तत, देह विसर्जनं)स्वशरीर विसर्जनम्।
केवलं(श्रीहरेस्थ्सान प्राप्तिसाथन मीरितं)सद्गतिप्राप्ति हेतुभूत मितीरितम्॥ 66
तक्षेत्रेषु निर्माल्य धारण तीर्थ प्रसादादिक भक्षणे विशेषः-
तक्षेत्राथिपतेश्शौरेः निर्माल्यादि कधारणम्।
तत्रतीर्थ प्रसादादि भक्षणञ्च धरातले॥ 67
सर्वाघ (शमनम्भूयात्)शमनञ्चैव सर्वसौख्य प्रदायकम्।
निरामय करणचैव अयुराकोग्य साधनम्॥ 68
तक्षेत्र निवासाना माथिक्यता-तेषान्दर्शन सेवनादिषु विशेषः
भक्तामोदकरं(शौरेःप्रियकारणमुच्यते)भूयान्निश्चयम्मुनि सत्तमाः।
पुण्यक्षेत्रेषु येभक्ता स्सर्वदानिव सन्तिते॥ 69
विशेष महिमोवेता स्सम्भवन्ति धरातले।
तस्मात्तेषाञ्च साङ्गत्ये दर्शनेच महाफलम्॥ 70
अयुरारोग्य संवृद्धि र्ङ्ञानसिद्धि (र्भवेद्द्विजाः)र्लभेद्धृवम्।
यस्तुदद्यात्तुतेषांवै गोभूवस्त्रधनादिकम्।
सहस्र फलदम्भूयान्निश्चयं मुनिसत्तमाः॥
वैष्णव द्विजमेकन्तु भुजित्वाक्षेत्र वासिनम्।
सहस्रविप्रसन्तृप्ति फलम्प्राप्नोति भूतले॥
अध्यायान्तः
एतत्सर्वम्पुरात्वम्बु जासनःप्रधमंस्वयम्॥ 71
शृत्वातुहरिणातद्व न्मयिप्रीत्यावभोधयत्।
तदिदानीन्तुयुष्माकं बोधितं (मुनिसत्तमाः)गोप्यमुत्तमम्॥ 72
इति श्रीपाञ्चरात्रागमरहस्यसारे श्रीपरमपुरुष-संहितायां
भक्तभाव विलक्षण कथनं नाम
अष्टमोऽध्यायः.