श्रीमत्पाञ्चरात्रान्तर्गत श्रीपरमपुरुष संहिता
सप्तमोऽध्यायः
भगवदपचार निरूपणम्
ऋषयः-
श्लो॥ वुनिसत्तमभोदेव नारदद्विजपुङ्गव।
भगवदपचारादि कधने ऋषि प्रश्नः
देवालयेषुलोकेस्मिन् ज्ञानाज्ञानकृतन्तुयुत्॥ 1
अपचारस्वरूपञ्च तस्मिन् भेदनिरूपणम्।
ब्रूह्यस्माकन्दयासान्द्र तद्भलं(त्वद्यबोधय)चवदप्रभो॥ 2
श्रीनारदः
नारद प्रतिवचनम् अपचारकरणे दोष निरूपणम्
अधवक्ष्ये विशेषेण अपचार निरूपणम्।
क्रोधलो(भादिकैः कैश्चित्)भमदाद्यैस्तु हेतुभिर्मुनि सत्तमाः॥ 3
अपचारः कृतोयेन भगवत्सन्निधौभुवि।
तस्यनस्याद्यधाचैव भुक्तिमुक्तिध्वयन्द्विजाः॥ 4
भगवत्पाद तीर्धे जल सामान्य भावनं प्रसादे अन्न भावनं
भगवत्पादतीर्धेतु सामान्यजलभावना।
प्रसादेवासुदेवस्य सामान्यान्नभावनम्॥ 5
नैवेद्यात्पूर्व माघ्राण भक्षणादिषु प्रसाद भक्षणे
नैवेद्यात्पूर्वमन्नस्य आघ्राणं(भक्षणन्तथा)चापिभक्षणम्।
प्रसादभक्षणाच्छौरेः करशुद्धिश्चभूसुराः॥ 6
करशुद्धिःदेवालयादिषु मलमूत्रादिकरणं देवालये निवास शयन भोजनादि अग्रासनस्थितिः
देवारये विग्रहेच कुण्डाग्नौ चद्विजोत्तमाः।
मलमूत्रपुरीषादि करणन्निष्टीवनन्तधा॥ 7
देवा(लये)लयनिवासञ्च शयनम्भोजनन्तधा।
अग्रासनोपवेशञ्च महादोषयितिस्मृताः॥ 8
प्रसादभक्षणे कालात्रीतादिशङ्कानिर्माल्यधारणे अगौरव भावनं प्रसादे रुचिशङ्का देवालये शुचिशङ्का तद्भल प्राप्ति कधनं
प्रसादभक्षणेविष्णोः कालातीतादिभावना।
निर्माल्यधारणेचैव अश्रर्धाचयगौरवम्॥ 9
प्रसादेरुचिशङ्काच शुचिशङ्काहरेर्गृहे।
येनकेनकृतंलोके तस्यवंशक्षयं(स्मृतं)भवेत्॥ 10
देवालय गमनात्पादप्रक्षालनं
देवालयाद्गृहङ्गत्वा पादप्रक्षालनङ्कृते।
विग्रहेशिलालोहादि भावम् उत्सवेष्वपहास्यं
शिलालोहादि भावञ्च भगवद्विग्रहेकृते॥ 11
अपहास्यङ्कृतेचैन उत्सवादिषुशार्ङ्गिणः।
अकालेदेवालय कवाटमोचनं पूजाकाले दर्शनम्
अकालेतुहरेर्गेहे कवाटानांविमोचने॥ 12
आराधने प्रवर्तेतु भगवद्दर्शने(तधा)कृते।
देवालये कलहम् असत्य भाषणञ्च भगवद्वस्त्रादिक धारणं तद्भल निरूपणं
कलहञ्चा सत्यभाषा भगव(न्मन्दिरे)त्सन्निधौकृते॥ 13
भगवद्वस्त्रभूषादि धारणे(हरणेतथा)चधरातले।
देवालये मद्यमांसभक्षणादि पशुपक्षिहनसं स्त्रीसङ्गमं चौर्यं परिहासनिन्दाभाषणं तद्भलश्रुतिः।
देवालयेसुरापानं(मत्स्यमांसादि)मांसादीनाञ्चभक्षणम्।
पशुपक्ष्यादिहसनं वनितासङ्गमन्तधा॥ 15
चौर्यञ्च परिहासञ्च निन्दावचनभाषणम्।
येनकेनकृतं(लोके तस्यवंशक्षयम्भवेत्)तस्य वंशनाशनमीरितम्॥ 16
भगवद्वस्तु हरणं भगवन्निन्दनञ्च अनर्चकेन गर्भालय प्रवेशं
भगवद्वस्तुहरणं तधाचहरिनिन्दनम्।
अनर्चकेनयेनापि गर्भालयप्रवेशनम्॥ 17
अर्चके विप्रलामान्य भावं
भगवत्पूजकेचैव विप्रसामान्य भावनम्।
तन्निन्दन दण्डनादि तश्रद्धव्यहरणादि तिद्भल श्रुतिः
निन्दनं दण्डनञ्चैव (तत्पूजक बुधं द्विजाः)अर्चकस्यद्विजोत्तमाः॥ 18
तस्यदुःख प्रदानञ्च तद्द्रव्यहरणन्तथा।
यःकरोति विमूढात्मा तस्यायुश्श्रीश्चनश्यति॥ 19
देवालये छत्रपादुकादि धारणं तद्भल निरूपणं
छत्रपादुक धारीच दण्डधारीच भूतले।
प्रविशेच्चेद्धरेर्गे(हे)हं तस्यवंशक्षयंस्मृतम्॥ 20
देवस्यपुरतः छत्रादि धारणं तद्दोष निरूपणम्
अग्रेतु देवदेवस्य छत्रपादुकलाञ्छनैः।
योगच्छेत्तस्यनांशस्या द्रौरवन्नरकं (भवेत्)लभेत्॥ 21
अर्चनादि पुष्पादि कहरणे थारणेच कञ्चुकोष्णी षैहि मन्दिर प्रवेशं
भगवत्बूजनार्धन्तु आनीताः कुसुमादिकाः।
योहरेतस्यवैघोरं नरकंलभतेद्विजाः॥ 22
कञ्चुकोष्णीषधारीच नगच्छेद्धरिमन्दिरे।
हरेःप्पृष्ठ दर्शनं तीर्ध प्रसाद वर्जनं तत्फ्रतिफल प्राप्तिः
नपृष्टन्दर्शनीयंस्या द्देवदेवस्यशार्ङ्गिणः॥ 23
योवर्जतिहरेस्तीर्थं प्रसादम्भक्तिलोपतः।
तप्यान्वयस्य नाशंस्या त्सगच्छेन्नरकं धृवम्॥ 24
भगवतीर्धस्य भूवतनादिकं
तीर्धादिग्रहणेविष्णो(र्भक्तिराहित्य हेतुना)रश्रर्थादिक हेतुभिः।
येनतत्पतितं भूमौ तस्यायुश्रीश्चनस्यति॥ 25
यस्त्वात्मानं कर्मयोगिं मत्वाहङ्कृतिनाजडः।
तीर्थविसर्जनं तद्दोषः
विसर्जतिहरेस्तीर्धं सकलाकाल शङ्कया॥ 26
तस्यपूर्वार्जितम्पुण्यं सर्वञ्चापि विनश्यति।
देवालय प्रवेशेच सत्वनर्हयितिस्मृतः॥ 27
म्लेच्छपाषण्डादिक देवालय प्रवेशे दोष निरूपणं
म्लेच्छपाषण्डजातीनामालयस्यप्रवेशने।
तदन्येषाञ्चभक्तानां गौरवं (दि)तुविनश्यति॥ 28
,स्मात्तेषाम्प्रवेशेतु अनर्हत्वं निरूपितम्।
यदाभूयत्तत्प्रवेशं येनकेनच हेतुना॥ 29
तत्प्रवेशे सम्प्रोक्षणादि कर्तप्यं
महा सम्प्रोक्षणङ्कृत्वा शान्तिहोदिकंसरेत्।
भगवद्दर्शनार्थमागत स्त्रीष्वन्यभावनं प्रसाद विनियोगे अन्यसम्भाषणादि
भगवत्सन्दर्शनार्ध मागतासुचस्त्रिषुयः॥ 30
अन्यभावङ्करोत्येव तस्यनाशो(भवेद्थृवं)भविष्यति।
विनियोगस्यसमये प्रसादस्यश्रियःपतेः॥ 31
अन्यसम्भाषणादीनि(वर्जनीयानि भूसुराः)वर्जयेत्सततम्भुवि।
प्रसादनिन्दनरङ्घन घट्टनादि
प्रसादलङ्घनञ्चैव घट्टनं(चापि)चतुनिन्दनम्॥ 32
तद्दूषणं चतद्दोष प्राप्ति कधनं
दूषणंयेनकेनापि वंशनाशन कारणम्।
एकहस्त प्रणामादि देवतान्तराधिक्य कीर्तनम्
एकहस्त प्रणामञ्च एकञ्चैव प्रदक्षणम्॥ 33
हरिगेहेविसर्जंस्यात्स्रेय(स्कामैर्धरातलै)स्कामैस्सदाभुवि।
भगवन्मन्दिरेत्वन्य देवाधिक्य प्रकीर्तने॥ 34
ऊर्ध्वपुण्ड्राद्यपहास्यं भगवच्चरितादिक निन्दनं तद्दोषविशेषः
ऊर्थ्वपुण्ड्रादिकन्दृष्ट्या(परिहसत्यदिभूसुराः) परिहासं कृतेयदि।
भगवच्चरितालाप श्रवणादिक निन्दने॥ 35
येनकेनापिभूमौतु महद्दुःखम्भविष्यति।
देवालयादिक निर्माण विघ्नकल्पनं तद्दोष प्राप्तिः
देवालयविनिर्माणे येनविघ्नादिकम्भवेत्॥ 36
तस्यवंशक्षयम्भूया दचिरेणनसंशयः।
महोत्सव भङ्गकारणं तद्दोषप्राप्तिः
महोत्सवस्ययोभूया द्भङ्गकर्ताधरातले॥ 37
पाण्डुरोगेसदाभूत्वा नरकम्प्रतिच्छति।
कुण्डाग्नि दीपादिक शमनं तद्दोषः
शमयेद्यस्तुकुण्डाग्निं (दीपस्य)दीपप्रज्वलनन्तुवा॥ 38
देवालयेतस्यभूया द्घोरदुःखन्धरातले।
भक्तनिन्दन दूषणादिकम्। तद्दोषः।
भक्तानां दूषणेचैव निन्दनेविबुधोत्तमाः॥ 39
सर्वाभीष्ट विनाशञ्च भवेच्चैव धरातले।
मधुमांसाधिकं भुक्त्वा आलय प्रवेशं
मधुमांसादिकं भुक्त्वायःप्रविश्यति मन्दिरम्॥ 40
स्नानादिकं विना आलय प्रवेशं तद्दोष प्राप्तिश्च यात्राकाले उपाहारादिक प्रधानं तद्दोषश्च
अस्नातस्त्वशुचिश्चैव ऊर्ध्वपुण्ड्र(विवर्जतः)विहीनकः।
तस्यवंश क्षयम्भूयान्निश्चयं मुनिसत्तमाः॥ 41
यात्राकालेतु देवेशं समीपेस्वग्वहस्यतु।
दृष्ट्वात मुपहाराद्यै र्योनतृप्त्यति भूतले॥ 42
तस्यधान्य धनादीनि(सर्वेकार्याश्च निष्फला॥)सर्वाणिस्यात्तुनिष्फलाः।
अलक्ष्यकरणं तत्प्रतिफलञ्च अन्यभक्षित फलादीनां भगवदर्पणम्
आगतम्पुरमध्येतु हरिन्दृष्ट्वातुयोनरः॥ 43
अलक्ष्यं कुरुतेचैव प्रणामं नकरोतिच।
तस्यभूयान्म हद्दुःखं रौरवं नरकं(भवेत्)व्रजेत्॥ 44
अन्यभक्षण शेषन्तु योदद्याद्वै फलादिकम्।
आघ्रातगन्थ पुष्पादि समर्पणं देवालयादिदहनं तद्दोष प्राप्तिः
आघ्रातगन्ध(पुष्पाद्याः)पुष्पादीन् हरेस्तस्यभवेदघम्॥ 45
देवालयं दहेद्यस्तु अर्चकगृहमेववा।
तस्यवंश क्षयं श्रीघ्रं भवत्येवन संशयः॥ 46
अर्चकस्त्रीष्वन्यभावनं तद्दोषप्राप्तिः!
अर्चकस्त्रीषुयःकुर्या(द्दुष्टभावं)दन्यभावं मुनीश्वराः।
तस्यभूयान्महा(दुःखंरौरवन्नरकन्तधा)घोर दुःखन्तु वसुधातलेः॥ 47
भगवतापहास्यं तद्दोषश्च
महाभागवतान् विप्रान् दृष्ट्वायः परिहास्यति।
तस्यपूर्वार्जितं पुण्यं वित्तं (सर्वञ्च)चापिविनश्यति॥ 48
रधवाहकादि निन्दनं तद्दोषः
रथस्थेतु जगन्नाधे तद्रधस्यतु वाहकान्।
योनिन्दतिसदाभूमौ तस्यदुःखं महद्भवेत्॥ 49
भगवच्छास्त्रे अपौरुषेयत्वशङ्का! तद्दोष निरूपणं
देवालयस्य यद्धर्म शास्त्रंस्या त्पाञ्चरात्रकम्।
तस्मिन्नपौरुषेयत्वे शङ्कायःकुरुतेनरः॥ 50
ध्वयारोहाद्यवरोह मध्ये अन्नगाम गमनं तद्दोषः
तस्यवंशक्षयंविद्दि सर्व(शास्त्रेषु निश्चतं)शास्त्र विनिश्चितम्।
थ्वजारोहणमारभ्य यावत्तीर्थदिनोत्सवम्॥ 51
आन्यग्रामादिगमनं यस्यकस्या पिनाशनम्।
भगवदुत्सवे मनुष्योत्सवादिकरणं तद्दोषः
दैवोत्सवेप्रवर्तेतु नमनुष्योत्सवञ्चरेत्॥ 52
यःकरोदि विमूढात्मा तस्यवंश क्षयं(भवेत्)धृवम्।
याताशौचादिषु देवालय प्रवेशं तद्दोष प्राप्तिः
(द्याशौच कालेषु)शौचमृताशौचे आलयंयःप्रविश्यते॥ 53
तस्यवंश विनाशञ्च रौरवन्नरकं भवेत्।
वस्त्रहीन देवालय प्रवेश तद्दोष निरूपणं
वस्त्रहीनस्तुयश्शौरे र्मन्दिरं सम्प्रविश्यति॥ 54
समहापातकैर्युक्त श्चण्डालस्याद्धरातले।
देवालयाग्रतःणामादिनकरणं तद्भलप्राप्तिः
प्रयस्तुगच्छेद्धरेर्गेह पुरतः(मार्गतोपिवा)पधिमार्गतः॥ 55
देवालयाग्रभागेतु नमस्कारं समाचरेत्।
योनकुर्यात्तधातस्यकुल नाशनमुच्यते॥ 56
देवद्रव्यहरणं भगवत्सेवकोपादि भङ्गकरणं तद्भलितञ्च
देवद्रव्यापहरणं महापातक मीरितम्।
भगवत्सेवकोपादि भङ्गरकरणं तद्फलितञ्च
भगवत्सेवकानान्तु उपाधौभङ्ग कल्पनम्॥ 57
येन केनापितद्वंश नाश(कारण)हेतुकमीरितम्।
नूतनागत पुष्प फलादीनां भगवत्समर्पण विशेषःतन्नकरणे प्रत्यवायः
फलपुष्पादिकञ्चैव धान्यादीनिचभूसुराः॥ 58
यदाभवेन्नूतनन्तत्छ्रीहरेस्तु समर्पयेत्।
योनदद्यात्तथौशौरे स्तद्वृद्धिर्नभवेद्भुवी॥ 59
अर्चकाज्ञा दिपाल नावसर कथनम्
अन्येष्वितरकार्येषु अर्चकाज्ञान्तु पालयेत्।
स्धानाधिपस्यया यद्वा भक्तिश्रर्धादि(संयुतः)कैर्युतः॥ 60
तन्नकरणेदोषः
एवन्नकुरुतेयस्तु तस्यदुःखं(महत् स्मृतं)महद्भवेत्।
अध्याय परिसमाप्तिः
इत्येवं भगवद्गेहे अपचारनिरूपणम्॥ 61
ज्ञेयंसर्वैश्चलोकेस्मिन् श्रेयःकामै(स्तुसर्वदा)र्द्विजोत्तमाः।
इतिश्रीपाञ्चरात्रागम-रहस्यसारे श्रीपरमपुरुष-संहितायां
भगवदपचार निरूपणन्नाम सप्तमोऽध्यायः