००६

श्रीपाञ्च रात्रागमान्तर्गत श्रीपरमपुरुष संहिता
षष्टोऽध्यायः
सम्प्रोक्षणादि समय निरूपणम्
ऋषयः
सम्प्रोक्षणावसर समय निरूपणे ऋषि प्रश्नः
भगवन् मुनिशार्दूल सर्वशास्त्रार्ध कोविद।
हरेर्गेहे किमर्थन्तु सम्प्रोक्षण माचरेत्॥ 1
विभेदोस्मिन् चकिं प्रोक्तं विस्तरेण(वदस्वनः)वदप्रभो।
श्रीनारदप्रतिवचनं
श्रीनारदः
शृणुध्वम्मुनयस्सर्वे भक्तियुक्तैस्तुचैतसैः॥ 2
सम्प्रोक्षण विधान कथनं
सम्प्रोक्षण विधानन्तु अद्यवक्ष्यामि विस्तरात्।
आलयेप्रोक्षणञ्चैवन्नपनं मधुविध्विषः॥ 3
आलय पतनादिषु ध्वजस्थम्भादिक विच्छिन्ने बिम्बपतनचलवादिषु
शान्तिहोमं चान्नदाने सम्प्रोक्षणमि तीरितम्।
आलयेपतनेचैव चलने(ऋषिपुङ्गवाः)चमुनीश्वराः॥ 4
ध्वजस्धम्भादिविच्छिन्ने विनष्टेशिखरस्यतु।
बिम्बस्य पतनेचैव चलनेहसने तधा॥ 5
पूयालोपाग्ने नष्टादिषु
पूजालोपेचाग्नि(नाशे)नष्टे अङ्गभङ्गादि सम्भवे।
नैवेद्यहीन अखण्ड नाशादिषु
नैवेद्यहीने चाखण्ड दीपनाशेतदापिच॥ 6
विद्युत्पातादिषु अग्निदाहे जीर्णोद्धारे भूकम्पातिवृष्ट्या दिषु
आलयध्वज बिम्बानाम् अग्निदाहादि सम्भवे।
जीर्णोद्धारादि केचैव सम्प्रोक्षमुदाहृतम्॥ 7
भूकम्पेचातिवृष्टौच विद्युत्पाताल्पवृष्टिषु।
देशारिष्टेदुर्निमित्ते सम्प्रोक्षण माचरेत्॥ 8
छत्रचामं वाहनादिक दहने
छत्रचामरवस्त्रादि वाद्यवाहन भूषणाः।
दहन्तिचे(प्रमादाद्यै)द्यदाविप्रा श्शान्तिहोमादिकञ्चरेत्॥ 9
वर्षाम्बु क्रिमिकीटा द्यैर्बिम्बस्पृष्टौ
क्रिमिकीटादि भिर्बिम्बं स्पष्टञ्चेद्यदि भूसुराः।
वर्षाम्बु पतनञ्चैव सम्भवेद्यदि विग्रहे॥ 10
प्रोक्षणं स्नपनञ्चैव शान्तिहोमं समाचरैत्।
अनर्चकच्पृष्टौ रोमकेश वायस शुनकादि भिस्पृष्टौ
अनर्चकेन विप्रेण स्पृष्टं चेद्यदि विग्रहम्॥ 11
रोमकेशादिभिस्स्पृष्टं तधानिष्टीवनादिभिः।
गृध्रवायसगौल्यादि शुनकादिभि रैवच॥ 12
सम्प्रोक्षणं प्रकुर्वीत यधाशास्त्र विधानतः।
छण्डालशुनकाद्यालय प्रवेशे
(छण्डाल गार्थभगृद्धश्वानकुक्कुट वायसैः)छण्डाल शुनकाद्यैस्तु देवालय प्रवेशने॥ 13
अनर्चकगर्भगैह प्रवेशे
अनर्चकनरैश्चैव(गर्भालय) गर्भगेहप्रवेशने।
रजकनापकद्यैरन्तराल प्रवेशे
रजकैर्नाप कैश्चैव अन्तराल प्रवेशने॥ 14
वायसाद्यैश्च सर्पद्यैर्गर्भगृह प्रवेशने।
वायसाद्यैर्गर्भालय प्रवेशे
सम्प्रोक्षणन्तदाकार्यंयथाविथिद्विजोत्तमाः॥ 15
स्त्रीणां रजोदर्शने प्रसवादिक सम्भवे जाताद्याशौचैरालय प्रवेशे
सम्भवेद्यदि नारीणां रजोदर्शनमालये।
गर्भश्रावञ्च प्रसवं तदासम्प्रोक्षणञ्चरेत्॥ 16
जाताद्याशौचयुक्ताश्च प्रविशन्ति यदालयम्।
सम्प्रोक्षणन्तदाकुर्याच्छास्त्रोक्तेनैव वर्त्मना॥ 17
जारचोराद्यैर्बिं बस्पृष्टौ आलये जननमरणादि सम्भवे मथुमासाद्यानीते
जारचोरादि भिर्बिम्बं स्पृष्टञ्चेद्यदिभूसुराः।
जननम्मरणञ्चैव आलये यदिसम्भवेत्॥ 18
आनीतामधुमांसाद्या यदादेवालयेनघाः।
तदासम्प्रोक्षणं(कुर्वा)सर्वंशान्तिहो(मादिपूर्वकं देवालय प्रवेशेच सम्प्रोक्षणमाचरेत्ः॥)मंयकारयेत्॥ 19
मृतशरीराद्यानीते
यदामृतशरीरन्तु आनीतं भगवद्गृहे।
विसर्ज्य तक्षणञ्चैतत् दूरतोमुनिसत्तमाः॥ 20
सम्प्रोक्ष णादिकंसर्वं (पूरोक्त)यधोक्त विधिनाचरेत्।
बिम्बस्य आतप
सम्भवेदा तपस्पर्शा भगवद्विग्रहेयधा॥ 21
खद्येतादिक संस्पर्शाबिम्बेसम्भवतेयदा
स्पृष्टौ वर्ज्यपुष्पादिक समर्पणे
तदाच प्रोक्षणङ्कुर्या त्स्नपनं शान्ति होमकम्।
वर्ज्यपुष्पादिभिर्वापि दूषितैर्वामधुद्विषः॥ 22
पूजासम्भवतेयत्र तत्रसम्प्रोक्षणम्भवेत्।
क्रिमिकीयाद्यैर्दूषितान्न निवेदने अन्यदेवता प्रदर्शने नित्योत्सवादिक लोपे
क्रिमिकीट शिलारोम केशाद्यैर्दूषितंयदा॥ 23
निवेदयेद्धरेरन्नं तदासम्प्रोक्षणंस्मृतम्।
यात्राकालेयदिभवे दन्यदेवस्यदर्शनम्॥ 24
वासुदेवस्य तत्काले सम्प्रोक्षण माचरेत्।
नित्योत्सवस्यलोपेच नित्याराधन लोपने॥ 25
तक्षणंस्नपनङ्कृत्वा शान्तिहोमय माचरेत्।
पुनःपूजादिकंसर्वं यधाविधि समाचरेत्॥ 26
नित्यनैवेद्यलोपे
नित्यनैवेद्यलोपेच विशेषस्नपनादिकम्।
शान्तिहोमादि(कङ्कुर्याद्यथाविधिबुथोत्तमाः)सकलं कुर्वताम्मुनिपुङ्गवाः॥ 27
दिनत्रयन्नैवेद्यलोपे
नैवेद्येयदिलोपंस्यात्त्रिदिनम्मधुविद्विषः।
(कालशैरष्टोत्तर शतैःस्नपनादिक माचरेत्)अष्टोत्तरशतैःकुर्यात्स्नपनङ्कलशैस्तदा॥ 28
शान्तिहोमादिकञ्चैव यथाविधितदाचरेत्।
दिनत्रयमारभ्य पक्षपर्यन्तं
त्रिदिनन्तु समारभ्ययावत्पक्षावसारकम्॥ 29
नैवेद्येयदिलोपंस्या द्येनकेनच हेतुना।
उत्तमोत्तममार्गेण स्नपनादिकमाचरेत्॥ 30
मासपर्यन्तं नैवेद्यहीने
मासन्तस्याधिकंवापि नैवेद्येयदिलोपिते।
सहस्रकलशैस्नानं प्रोक्तन्देवस्यशार्ङ्गिणः॥ 31
षण्मासं नैवेद्य लोपे
षण्मासंवातदाथिक्यं नैवेद्येयदिलोपिते।
पुनःप्रतिष्ठाकर्तव्या यधाविथिबुधोत्तमाः॥ 32
महोत्सवलो कालातिक्रमणादिषु
महोत्सवस्यलोपेच कालातिक्रमणेपिच।
सम्प्रोक्षणादि कङ्कृत्वापुनःकुर्यान्महोत्सवम्॥ 33
होमाग्नि नष्टादिषु
अग्नेनष्टेच होमाग्नौ अशुभस्यचदर्शने।
जिह्वाहोमादिभेदे
जिह्वाभेदेन होमादि भवेद्यदि तदापिच॥ 34
समिध दोषादिके
समिधेष्वार्द्रतादोषा स्सम्भवेच्चेन्मुनीश्वराः।
जलहोमे
तधाच घृतभावेन जलहोमादि सम्भवे॥ 35
तदासम्प्रोक्षणं(चैव-शान्तिहोमं समाचरेल्)शान्ति होमङ्कुर्याद्यथाविथिः।
ध्वजनाशे
महोत्सवस्यमध्येतु ध्वजनाशेबुधोत्तमाः॥ 36
शान्तिहोमादिकङ्कृत्वा ध्वजमन्यत्समद्धरेत्।
पालिकाद्यङ्कुर दोषादिषु
पालिकादिष्वङ्कुराणि(नभवेद्यदिवा) नभवन्तियदाद्विजाः॥ 37
यद्वात(दङ्कुराणां)दङ्कुराश्चैव शुष्के (नाशादि सम्भवे)नाशेयधाविधि।
सम्प्रोक्षणन्तुकृत्वाग्नौ शान्तिम्परिसमाप्यच॥ 38
पुनस्स्यादङ्कुरारोपं यथाशास्त्रविधानतः।
कुण्डालङ्करणानां नष्टादिषु
यदातुकुशकूर्चादि कुण्डालं करणानिच॥ 39
विनश्यन्तिदहन्त्यैव तदासम्प्रोक्षणञ्चरेत्।
पुनस्तान् चसुसंस्कृत्य यधापूर्वं विनिक्षिपेत्॥ 40
ब्रह्मकूर्चनाशे
ब्रह्मकूर्च विनिष्टेच शान्तिहोमादि पूर्वकम्।
पुनरेकन्तु सस्धाप्यकर्म शेषं समापयेत्॥ 41
द्वारतोरणकुम्भादिक नष्टादिषु
द्वारतोरण कुम्भानां विनष्ठेदहने(तधा)पिच।
सम्प्रोक्षणं यथाशास्त्रङ्कुर्वताम्मुनिपुङ्गवाः॥ 42
कुण्डाग्नौ मार्जाल मूषकादिक पतने देवालये वल्मीक मध्वादिक सम्भवे
मार्जालमूषिकादीनि गौलिर्वा दृश्चिकन्तुवा।
सर्पादीनिचकुण्डाग्नौ पतन्त्यदिमुनीश्वराः॥ 43
तदासम्प्रोक्षणंशान्ति होमङ्कुर्याद्यधाविधि।
अलयेसम्भवेद्यत्र मधुवल्मीक सम्भवम्॥ 44
मार्जालमूषकादिक जनन मरण सम्भवेषु
दूरतस्तान्‌विसृज्यात्र शान्तिहोमं समाचरेत्।
मार्जाल मूषकादीनां (जननमरणेकथा)जननम्मरणन्तुवा॥ 45
आलयेयदिसम्प्राप्ते तक्षतणात्फ्रोक्षणंस्मृतम्।
गृद्धवायसमार्जालाद्यालय प्रवेशेमलनिष्टीवनादिशे
मार्जालं मूषिकञ्चाहि र्वृश्चिकङ्गौलिरेवच॥ 46
खद्येतंवायसङ्गृध्रं गार्धभश्वान कुक्कुटाः।
प्रविशन्तियदागेहे मलनिष्टीवनादिकम्॥ 47
कुरुतेचालयेवापि बिम्बेवापि मुनीश्वराः।
बिम्बस्पृष्टौच नित्यनैमित्तिकाराधनादीं कालातिक्रमणे मन्त्रतन्त्रद्रव्य लोपादिषु
तैस्सृष्टंयदिबिम्बञ्च तदासम्प्रोक्षणं स्मृतम्॥ 48
नित्यनैमित्तिकाख्यासु पूजासुचसवेषुच।
कालातीतम्भवेद्यत्र शान्तिहोमंसमाचरेत्॥ 49
द्रव्यलोपेतुदातारं मन्त्रलोपेतु पूजकम्।
हन्तिसर्वकलापाश्च(तस्माज्जाग्रतजाग्रता)निश्चयम्मुनिसत्तमाः॥ 50
पवित्राद्युत्सव लोपे
पवित्राद्युत्सवानाञ्च यदिलोपादिकम्भवेत्।
सम्प्रोक्षणन्तुकृत्वावैपुसस्तान् सर्वमाचरेत्॥ 51
अर्घ्यपात्रादिक हस्तघण्टा पतने संवत्सरोत्सवेषु लोपारिक सम्भवे
अर्घ्यपाद्यादिपात्राणि हस्तघण्टाच भूसुराः।
पतन्तिचेद्यदाभूमौलघुसम्प्रोक्षणम्भवेत्॥ 52
संवत्सरोत्सवेषुश्च यदालोपादिकम्भवेत्।
तदल्पाधिकतांवीक्ष्य (सम्प्रोक्षण माचरेत्)प्रोक्षणादिकमाचरेत्॥ 53
घटनीराञ्जनेकालेयदितद्दीपनाशनम्।
नीराञ्जन नाशेगन्ध पुष्पाद्युप चारलोपे
हरेःपुष्पोदकस्नानं कृत्वानीराञ्जनञ्चरेत्॥
नित्याराधनकालेतु गन्थपुष्पादिलोपिते।
क्षहरेस्तु क्षमाम्प्रार्ध्य द्विगुणन्तत्समर्पयेत्॥
सम्प्रोक्षणादिक परित्यागे प्रत्यवायः
इदंसम्प्रोक्षणादीनां (समयस्यनिरूपणं)समय प्रवचनम्बुधाः।
(येवलोभादिकैस्त्वेते त्यक्तास्तस्यक्षयं धृवं)यस्तुलोभान्नकुर्वीत यदितस्य क्षयम्भवेत्॥ 54
देवश्चकुवितोभूयात्तद्राष्ट्रञ्चविनस्यति।
तदालयविनाशञ्च (नचिरात्सवं)शीघ्रमेवभवेद्द्विजाः॥ 55
इति श्रीपोञ्चरात्रागम-रहस्यसारे श्रीपरमपुरुष-संहितायां
सम्प्रोक्षणादि समय निरूपणं नाम
षष्टोऽध्यायः