००५

श्रीपाञ्चरात्रागमान्तर्गत श्रीपरम पुरुष संहिता
पञ्चमोऽध्यायः
धर्माधीकारि विनिश्चय विधिः
ऋषयः
देवालय धर्म पालन विषये ऋषी प्रश्नः
भगवन् संयमिश्रेष्ठ सर्वधर्मविदांवर।
देवालयेष्वर्चकास्तु सदापूजापरायणाः॥ 1
तस्मात्तेषां सहायार्धं किङ्कर्तव्यन्धरातले।
यस्यनिर्णय(मात्रेण)कार्वेण सकालाराधनार्थकम्॥ 2
सेवकाश्चान्यवस्तुश्च अर्चकस्यलभेद्भुवि।
तत्सर्वंविस्तरेणैव(अस्माकम्बॄहि हेमुने)चास्माकंवदभोविभो॥ 3
नारद प्रतिवचनं
श्री नारदाः-
धर्मकर्तृ निर्णय कथनं
शृणुध्वमुनयस्सर्वे हरिध्यानपरायणाः।
वक्ष्यामिभगवद्गेहे अधीकारिविनिश्चयम्॥ 4
तन्निर्णयावसर निरूपणं
कल्पितेतुहरेर्धाम सर्वैश्चपरिचारकैः।
भोगरागैश्चविभवैश्शाश्यतैर्यदिभूतले॥ 5
तन्निर्णय समय निरूपणं
(तेषां तुपालनार्धंवै) एतेषाम्पालनार्थंस्या दधीकारि विनिश्चयम्।
प्रतिष्ठान्तेतुदेवस्य यजमानःप्रसन्नधीः॥ 6
अर्चकादीन् विनिश्चित्य यधाशास्त्र विधानतः।
देभ्यस्तुभगवद्गेहं दत्वातद्भलसिद्धये॥ 7
तत्सहायार्धमेलैक मधीकारिं विनिश्चयेत्।
धर्मकर्तृ लक्षण कथनं
सद्ब्राह्मणस्सदाचारी सत्यवादी बहुश्रुतः॥ 8
पापभीतयुतश्चैव बहुशास्त्र विशारदः।
पञ्चरात्र विथानज्ञो ब्रह्मवादीच धर्मवित्॥ 9
परदारथनाकाङ्क्षा वर्जितो(वृद्धभूनुरः)वृद्धयेवच।
पञ्चसंस्कार संयुक्तः प्रियभाषीकृपाविधिः॥ 10
मताभिवृद्धिकामश्च महाभक्तशिखामणिः।
उत्तमान्वयसञ्जातो योगविद्याविशारदः॥ 11
धीरश्चधीयुतश्शान्तः क्षमाशालीच(वेष्णवः)धैर्यवान्।
सदसद्विवेचनादक्षो सदानम्रश्चसज्जनः॥ 12
ब्रह्मचारिर्गृहस्तोवा काननस्धोधवायतिः।
(पूर्वोक्त लक्षणैर्युक्तो)एतैश्च लक्षणैर्युक्तो दुष्टरोगविवर्जेतः॥ 13
देवालये सदाभूया दधीकारिर्द्विजोत्तमाः।
तत्कर्तव्यविधयः दिवारात्रं भगवत्सन्निधि वासः
तस्यकर्तव्यमद्याहं वक्ष्यामि मुनिपुङ्गवा॥ 14
ब्राह्मीमुहूर्त मारभ्य यावत्पूजावसानकम्।
भगवत्सन्निधावेव सवसे(त्सततं)त्सर्वदाशुचिः॥ 15
आराधनार्ह वस्तु सम्पादनम् आदायव्यय परिशिलन लेखनादि
सकालाराधनार्थन्तु सर्ववस्तुचसेवकान्।
सम्पाद्यपूजकेभ्यस्तु दद्याद्वैधर्मपालकः॥ 16
(देवादायव्ययादीनि)देवादायंव्ययंसर्वं सयेवपरिशीलयेत्।
लेखकैस्सर्वयेवैते प्रत्यहं(चापि)चविलेखयेत्॥ 17
धर्मकर्तृनिर्णयेगृहस्थाद्याश्रम भेदेन उत्तमाधमनिरूपणं यतिनिर्णये श्रेष्टतो निरूपणं
यतिश्चेदुत्तमःप्रोक्तः गृहस्धोमध्यमस्स्मृतः।
अधमो ब्रह्मचारीच अधिकारिविनिश्चये॥ 18
यस्माद्थरेर्दर्शनार्थ(मागच्छन्ति)मागच्छन्ते प्रभुस्त्रीयः।
असूर्यं पश्यताश्चैव भक्त्यातु सततम्भुवि॥ 19
तस्मा(त्सदाहरेर्गेहे)द्देव समीपेतु वासयोग्यस्तुयोभवेत्।
सर्व सङ्गपरित्यागी सयतिस्त्वुत्त मस्स्मृतः॥ 20
विप्रनिर्णयहेतुः सामान्य विप्र निर्णये विशेष परिशीलनं
यद्वातु सभवेद्विप्र स्सर्वदालोक पूजितः।
तत्रापि परदारासु धनेषु विमुखश्शुचिः॥ 21
गृहस्धो ब्रह्मचारीवा धर्मकर्ताभ वेद्भुवि।
अपत्नीकस्य अनर्हता शूद्रस्य अनर्हता हेतु कथनम्
अपत्नीकस्तुनकदा भवेद्दर्माधिपोद्वजाः॥ 22
यस्मात्तु पूजाकालेषु शूद्रसेवान उच्यते।
तस्मादेव सशूद्रस्तु धर्मकर्ताभ वेद्भुवि॥ 23
मतान्तरस्य अनर्हता निरूपणं
यस्मान्मतप्रचारार्धमेते देवालयास्स्मृताः।
तस्मान्मतान्तरोविप्रो नभवेद्धर्म पालकः॥ 24
अनर्ह निर्णये प्रत्य वाय कथनं
यजमानो यदाशौरेर्गेहं निर्मायतेभुवि।
राजाराष्ट्राभिवृद्ध्यर्धं शास्त्रोक्तेनैव(वर्त्मना)मार्गतः॥ 25
तदा(विधि विधानेन)तच्चास्त्र विधिना धर्मकर्ताञ्च निश्चयेत्।
अन्यदा कुरुतेचैतत्सर्वंस्यान्निष्फलम्बुधाः॥ 26
मतान्तर विप्र निर्णये देवालय गौरव नाशः
मतान्तरस्स्वभावेन दूषकोन्य मतेभवेत्।
तस्मात्तस्य विनिर्माणे धर्मकर्तृपदेद्विजाः॥ 27
लोकस्यापि विनश्यन्ति गौरवाद्यास्तदालये।
तस्मात्तुस्व मतस्धंवैब्राह्मणं तत्रनिर्दिशेत्॥ 28
अब्राह्मण निर्णये पूजा लोपोदिक निरूपणम्
अब्राह्मणस्त्वनर्हस्या द्वेदादि पठनेभुवि।
तस्माच्छास्त्र विधानार्चाङ्कन्ध(त्वेषा)मेषोविमर्शति॥ 29
तस्मात्तस्य विनिर्माणे नकिञ्चिल्लभतेफलम्।
थर्मकर्तृ सम्मानहेतु निरूपणं
देवालयोधिपोयस्मान्नतधर्मस्य पालकः॥ 30
तस्मात्तं हरिभावेन सदा (लोकस्तु)लोकेच पूजयेत्।
अर्चकंविना सर्वसेवकदण्डने धर्मकर्तु रधीकारः
अर्चकद्विज मेकन्तुविना (त्वन्यान्‌तु)चालयसेवकान्॥ 31
सर्वान् चदण्डितुंशक्तो धर्मकर्ताभ वेद्भुवि।
धर्मपालक दण्डने यजमानस्यार्हता
तद्थर्म पालकंलोके यजमानस्तुदण्डयेत्॥ 32
यधातु भगवद्गेह निर्माणानन्तरम्भुवि।
अनर्हधर्माधिकारिनि निर्णयेप्रत्यवायः
निर्णीतव्यार्च काश्चान्यास्सर्वलक्षण संयुताः॥ 33
तधैव धर्मकर्ताच यजमानेन भूतले।
पूर्वोक्त लक्षणैर्युक्तः (निश्चितव्यो)निर्णीतव्योयधाविधिः॥ 34
यजमानस्तु योमोहा त्पूर्वोक्यैस्सर्वलक्षणैः।
अयुक्तं वाद्विजंवापि यदिनिर्णयतेतदा॥ 35
तत्सम्भ वेकर्तव्य विधिः
तद्देवालय नाशंस्याद्देशारिष्टञ्च भूसुराः।
कर्तृनाशम्भ वेत्तद्वदधीकारि क्षयम्भवेत्॥ 36
यत्रभूयात्तु पूर्वोक्त मयोग्याधिपनिर्णयम्।
शान्तिहोमादिकान्‌कृत्वासम्प्रोक्ष्य भगवद्गृहम्॥ 37
तक्षणेत्व परन्धर्म पालकं लक्षणैर्युतम्।
विनिश्चत्य हरेःप्रीतिं यजमानस्तु कारयेत्॥ 38
धर्मपालकस्य उपाधि प्रकल्पनं
धर्माथिकारिणश्चापि (उपादिञ्च)जीननार्धं यदावसु।
भूमींवाभृतकंवापि यजमानो विनिश्चयेत्॥ 39
भूमीस्यादुत्तमंलोके भृतकं त्वधमंस्मृतम्।
तस्मात्सर्वप्रयत्ने नभूमीयेव प्रदापयेत्॥ 40
वंशपारम्पर्य निर्णय कधनं
वंशपारं परेणैतन्निश्चयन्तु भवेद्भुवि।
शिष्यपारं परायद्वा यतिश्चेद्य दिनिश्चितः॥ 41
यति निर्णये शिष्यपरम्परा निरूपणं
यजमानस्स्व यंयत्र धर्मरक्षणमिच्छति।
पूर्वोक्तलक्षणैर्हीन स्तत्रस्थानाधिपन्तुना॥ 42
यजमानस्स्वयमधीकारमिच्चतिचेत्कर्तव्य निरूपणम्
अर्चकं वाविनिश्चित्य नामकार्थं तुतत्पदे।
तदाज्ञ यात्वर्हकार्याण्याचरेतस्वयंसः॥ 43
प्रत्यहं देवदेवस्य सन्निधौ धर्मपालकः।
देवालये प्रतिनित्यम् आदायव्ययादि पठनं तस्मिन्‌ संशयानि पृच्छयाम्भक्तानामर्हता
सर्वाण्या यव्ययाधीनि(पाठयेद्भक्ति नम्रतः)पठेद्भक्ति विनम्रतः॥ 44
तस्मिन्‌यदा संशयश्चे त्किञ्चिद्वाघनमेववा।
तदासर्वेषिभक्ताश्चशक्ताःपृच्छतुमालये॥ 45
तत्पत्रे अर्चक सम्मति स्वीकारः
एवन्तत्पठनं कृत्वायाधर्मकर्ताह्यनन्तरम्।
भगवत्प्रीतये तस्मिन्‌ पत्रेपूजक सम्मतिम्॥ 46
भगवदास्थाने सर्वसेवकादि प्रदर्शनं
स्वीकृत्यचतदाविष्णो रास्धाने सर्वसेवकान्‌।
समाहूयचतानेक मेकंशौरेःप्रदर्शयेत्‌ः॥ 47
नित्यञ्च वासुदेवस्य सन्निधौ धर्मपालकः।
प्रातःकाले भगव द्विज्ञापनं
(प्रभातेतु)प्रातःकाले नमस्कृत्य विज्ञापन मधाचरेत्॥ 48
देवदेव महाविष्णोदिनेस्मिन् तवमन्दिरे।
विमर्शयामि सर्वाणि धर्माणि भवदाज्ञया॥ 49
सेवकेषुच सर्वेषु यस्मिन् दोषोभ वेत्क्वचित्।
तान्‌चदण्डयितुञ्चाज्ञाङ्कृपया(ममदीयतां)दीयताम्प्रभो॥ 50
इतिविज्ञाप्य देवेशं पुष्पमाल्यादिभिस्तदा।
धर्मकर्तृ सम्मान विधिःभगवद्द्रव्याभरणादिकगणन निवेदनं सेविक प्रदर्शञ्च
सम्मनितो भ वेद्धर्श पालकः प्रतिवासरम्॥ 51
भगवद्द्रव्यभूषादि गणितञ्चत दास्स्वयम्।
विज्ञाप्य सेवकानान्तु गणनञ्च प्रदर्शयेत्॥ 52
एवं प्रतिदिनञ्चादौ कृत्वातद्धर्म पालकः।
तदारभ्यहरेस्ध्साने सर्वधर्माणि पालयेत्॥ 53
धक्मपालन लोपेन सेवक दोषफलं स्वयमनुभवनीयं भगवर्द्रव्यहरणे प्रत्यवायः
यदाच भगवद्गेहे सेवकेष्वेन केनच।
दोषादिकं (सम्भवेच्चे) यदिभवेद्धर्मपालन लोपतः॥ 54
तद्भलन्तु स्वयन्धर्म कर्ताभुञ्जीत भूतले।
लोभाद्वामोहतोवापियेनकेनापिहेतुनाः॥ 55
यत्किञ्चिद्भ गवद्रव्यं धर्मकर्ताहरेद्भुवि।
सजन्मशत साहस्रैश्श्वानयोनिंसमाश्रयेत्॥ 56
रौरवं नरकं गच्छे द्यावदाभूतसम्प्लवम्।
इहलोकेच सर्वाणि दुःखानिसमवाप्नुयात्॥ 57
भगवद्दर्शनार्धमागतस्त्रीषु अन्यभाव प्रदर्शनेदोष प्राप्तिः
यस्तुपश्येद्थरेर्गेहे भगवत्सन्निधौवसन्।
यस्यकयस्यापिचस्त्रीयो दर्शनार्धं समागताः॥ 58
मोहदृष्ट्यातुसोधर्म कर्तावापूज कोपिवा।
वंशक्षयमवाप्नोति रौरवं नरकं व्रजेत्॥ 59
भगवद्वस्त्र माल्यादि निर्माल्यधारणे अर्चकार्हता
वस्त्रभूषादि कानान्तु निर्माल्यानांश्रियःपतेः।
स्वीकर्तुमर्ह यित्युक्तोह्यर्चकस्त्वेक येवहि॥ 60
स्वार्धपरतयास्वसुत बान्धवादिक सेवक निर्णयेदोषः
तस्मा(त्तद्दरणेचैव)त्तेषाञ्च हरणे धर्मकर्ता निनश्यति।
यस्मात्तु धर्मकर्ताच स्वसुतान्‌ बान्धवान्‌हरेः॥ 61
सेवकेषुनियुञ्जीत लोभमोहादि हेतुभिः।
तस्मादेवसदातस्य नरकं सम्भवेद्भुवि॥ 62
देवालय निवास अग्रासनाधिवासा दिषु प्रत्यवायः
देवालय निवासञ्च आग्रासन सुखस्धितिः।
यजमानञ्च थर्माधि कारिणंहन्तिभूतले॥ 63
प्रत्यहन्नित्यपूजादौयजमानस्यनामच।
महाक्षेत्र नित्य पूजादिषु यजमानादिक गोत्र नामादिनवक्तव्य कधनं
नपक्तव्यं महाक्षेत्रे स्वयंव्यक्तादि केशुभे॥ 64
केवलंलोकरक्षार्थ मेत(त्पूजां प्रकल्पयेत्)त्पूजाभवेत्सदा।
तस्माद्यत्रतुकर्तावै स्वनाम्नार्चनमीच्छते॥ 65
प्रत्येक मेवत्पूजां (नित्यञ्चापि)प्रतिनित्यं समाचरेत्।
उत्सवान्तेय समानस्यसम्मान विथिः
उत्सवान्तेतुदेवस्य यजमानंहरेर्गृहे॥ 66
पुष्पमाल्यानुलेपाद्यै र्मानयेत्सततम्भुवि।
यजमानाभावेधर्म पालक सम्मानविधिः अब्राह्मण यजमानसम्भवे रक्षासूत्र धारणं
दीक्षा वस्त्रधारणञ्च
अप्रत्यक्षेतुवै(कर्त्रुः)तस्यतत्ध्सानेधर्मपालकः॥ 67
माननीयस्सदाभूयात्पूर्वो(क्तेनैव वर्त्मना)क्तविधिनाद्विजाः।
अब्राह्मणोभवेद्यत्र यजमानस्तुभूतले॥ 68
रक्षासूत्रं तुतत्ध्साने घण्टायां बन्धयेत्पुरा।
तदन्वेकन्तुलौक्यञ्च यजमानस्य बन्धयेत्॥ 69
धीक्षावस्त्रादिकास्सर्वा स्तधैवस्यान्मुनीश्वराः।
एतद्वैथर्मपालस्य निर्णयादि विधानकम्॥ 70
इति श्रीपाञ्चरात्रागम-रहस्यसारे श्री-परमपुरुष-संहितायां
धर्माधिकारि विनिश्चय विधिर्नाम
पञ्चमोथ्योयः