श्रीमत्पाञ्चरात्रागमान्तर्गत श्री-परमपुरुष संहिता
चतुर्थाध्यायः
भगवत्तीर्ध प्रसादादि महिमाभि वर्णनम्
ऋषयः-
भगवत्तीर्ध प्रसादादि महिमाश्रवणे ऋषि प्रश्न
श्लो॥ भगवन् श्रोतुमिच्छामो सर्वशास्त्र विशारद
हरिप्रसादमहिमा तत्तीर्थस्य विशेषता॥ 1
भगवद्दर्शनेचैव पूजने चतुयद्भलं
गन्धपुष्पफलादीनां वस्त्रभूषादिकाम्मुने॥ 2
विष्णोस्समर्पणेचैव किम्फलंलभतेभुवि
महोत्सवादिकरणे जीर्णोद्धारेचकिम्फलम्॥ 3
तत्सर्वंविस्तरेणैव कृपयाब्रूहिनोमुने
श्रीनारदः-
नारद प्रति वचनं
शॄयतामद्यमुनयो भक्तियुक्तैस्तुचेतसैः॥ 4
सविस्तरेणवक्ष्यामि युष्मार्यत्तुकाङ्क्षितं
भगवन्निवेदनान्नञ्च भक्ष्यलेह्यादिकंसदा॥ 5
भगत्प्रसाद महिमा निरूपणं
दिव्यम्प्रसाद मित्युक्तं यद्दत्तन्त्वर्चकेंहि
यद्ग्रुहीत्वानरोभूयात्सर्वल्बिषवर्जितः॥ 6
यस्मिन्कालेतु सम्प्राप्तं प्रसादं जगताम्पतेः
तक्षणेनैवतद्ग्रुह्य भुज्यतां मुनिपुङ्गवाः॥ 7
योभक्षतिहरेरन्नं प्रत्यहम्भक्तिभावतः।
इहसर्वसुखान् भुक्त्वा चान्तेवैकुण्ठमाप्नुयात्॥ 8
प्रसाद भक्षणे दृष्टिदोषादिशङ्कानकर्तव्या
दृष्टिदोषंस्पृष्टिदोषं नविचार्यहरेक्गृहे
सर्वैरपिपरिग्राह्योप्रसादोमुनिसत्तमाः॥ 9
यःकरोतिविभेदोस्मिन् तस्यवंशक्षयेभवेत्
प्रसादनिन्दकोयस्तु सगच्छेन्नरकन्धृवम्॥ 10
एकादश्यामपिभगवत्प्रसाद स्वीकारार्हणा
एकादश्यामपिबुथाः प्रसादं न परित्यजेत्।
उषोषितस्तु भुञ्जीत कणमेकंशिरोधृतम्॥ 11
हरिप्रीत्यैतुसर्वेपि एकादस्यादिकाव्रताः।
तस्मात्तेषुदिनेषुस्यात्प्रसाद स्वीकृतिश्शुभः॥ 12
तद्विसर्जनेप्रत्यवायकधनञ्च
हेतुभिःक्रोथलोभाद्यैर्यःप्रसादं(विसर्जते)नभक्षते
व्रतोपवासनिरतो सयेवस्यान्नराधमः॥ 13
तस्यसर्वव्रतानिस्यान्निष्फलानि बुधोत्तमाः।
श्रार्थादिषु भगवत्प्रसादेन पितृदेवतार्चनविधिः
पितृमातृश्रार्थकाले ष्वपिविष्ण्वर्पितैश्शुभैः॥ 14
अन्नाद्यैरर्चयेत्पित्रून् कर्ताभक्ति विशेषतः।
तत्पित्रूणान्तु सुगति स्सत्वरंलभतेद्विजाः॥ 15
श्रार्थनिमन्त्रित विप्राणाम्भगवत्तीर्ध स्वीकारार्हता प्रसाद भक्षणी अकालसकाल विचारो नकर्तव्यः प्रसादस्य भूप
श्रार्धेनिमन्त्रिताविप्राःकर्ताचहरिमन्दिरे।
तीर्धं पीत्वाप्रसादन्तु भक्तेभ्य(स्सर्व)स्तत्समर्पयेत्॥ 16
प्रसादभक्षणे विष्णोर्यस्मिन् कस्मिन्दिनेपिच।
अकालमतिकालंवा नविमर्शर मुच्यते॥ 17
प्रसाद स्वीकृतौभक्तिश्रर्धालोपादिहेतुभिः।
यत्किञ्चित्पतते(भूमौ तद्राष्ठ्रस्यक्षयन्धृवं)यत्र तद्ग्रामस्यक्षयंस्मृतम्॥ 18
तन प्राप्तौ दोष निरूपणं
योभक्षतिहरेरन्नं सोमपायीसनिश्चयम्।
त्रिदिनम्भक्षतेयस्तु(सत्वारोग्यमवाप्नुयात्)सचारोग्यशरीरकः॥ 19
प्रसाद भक्षणेशालाधिक्यतया अधिक फलप्राप्ति कथनं भगवन्नैवेद्यार्थन्धनधान्यादिक प्रदाने फल निरूपणं
नित्यञ्चभक्षणेचैत (त्सगच्छेत्परमम्पदं)त्सवैकुण्ठमाप्नुयात्।
निष्यामोवासकामोवा येनकेनचहेतुना॥ 20
नैवेद्यार्धं हरेरन्नं धान्यंवाधनमेववा।
योददातिमुनिश्रेष्ठा स्तस्यभूयान्महाधनम्॥ 21
धान्यादयस्त्विहेलोके चान्तेश्रीविष्णुसन्निधिः।
महाभक्त्यातुयोदद्याद्दनङ्किञ्चिद्धरेःप्रियम्॥ 22
नैवेद्यार्धं यदाशक्तिसोपि वैकुण्ठमाप्नुयात्।
नैवेद्य प्रभावः
सर्वेलोकाःप्रवर्तन्ते यस्यकुक्षौतु सर्वदा॥ 23
तस्यसतृप्तयेविष्णोर्नैवेद्यस्यप्रकल्पनम्।
तस्मात्तत्सर्वलोकानां सन्तृप्यैस्यान्मुनीश्वराः॥ 24
सर्वदेहस्थितोशौरिस्सन्तृप्तश्चेन्निवेदने।
सर्वेलोकाश्चतृप्त्यन्ते नात्रकार्यविचारणा॥ 25
नैवेद्यार्धमन्नादीन् समानीयविधिः
पचनालयमारभ्य भगवत्सन्निधिम्प्रति
मध्येमार्गे पसादन्तु छत्रचामर दीपिकैः॥ 26
सर्वैश्चवाद्यघोषैश्च वेदघोषैश्शुभैस्तवैः।
उपचारैश्च सकलैः पाचकोशिरसाथृतः॥ 27
स्पृष्टिदृष्ट्यादिकैर्दोषै र्वर्जितन्तु यधातधा।
आनीयमण्टपेभोगे मन्त्रराज मनुस्मरन्॥ 28
सम्प्रोक्ष्यनिक्षिपेद्भक्त्या हरेरभिमुखंयथा।
नैवेद्यानर्ह अन्नादिक निरूपणम्
अपक्व च विपक्वञ्च क्रिमिकीटादि(संयुतं)भिर्युतम्॥ 29
अत्युष्णमतिशीतञ्च अवैष्णवकृतन्तुवा।
शूद्रछण्डालदृष्टञ्च काकाद्यैश्शुनकादिभिः॥ 30
स्पृष्टञ्च रसहीनञ्च अन्यदेवार्पितन्तुवा।
(रोमकेशादिभिर्युक्तं)शिलाकेशादिभिर्युक्तं सुरामांसादिदूषित॥ 31
आघ्रातं लङ्घितञ्चैव थरणीपतितन्तुवा।
(भक्षितंवापि श्रीविष्णोः)देवदेवसृशौरेस्तु नकदापिनिवेदयेत्॥ 32
दूषितान्न निवेदने शान्तिहोमादि
यद्वा निवेदयेदन्नं दोषयुक्तंश्रियःपतेः।
तक्षणंस्नपङ्कृत्वा शान्तिहौमंसमाचरेत्॥ 33
हविःपात्र लक्षणं
हविःपचन योग्यानि सर्वेपात्राणिच द्विजाः।
शङ्खचक्रोर्ध्वपुण्ड्राद्यै र्लाञ्छयेद्भक्तिवर्त्मना॥ 34
नैवेद्यात्पूर्व मेव हाविर्भक्षणे प्रत्यवायः
हरेर्निवेदनार्धन्तु यदन्नं पचितं भुवि।
तन्नैवेद्यात्पूर्वमेव नकदा(पिचभक्षयेत्)भक्षयेन्नराः॥ 35
यस्तुभक्षतिमोहाद्वातस्यायुश्श्रीश्चनश्यति।
नैवेद्यात्पूर्व मेव हविर्दूषिते सतिकर्तव्यविधिः
नैवेद्यार्थं यदन्नन्तु पचितं तवनुद्विजाः॥ 36
तन्नैवेद्यात्पूरमेव दूषितञ्चेत्तदाचतत्।
जलेनिक्षिप्य विधिव त्पुरन्नन्तु पाचयेत्॥ 37
तद्भक्षणे दोष निरूपणं
विनातु जलनिक्षेपा त्तदन्नंयोभुजत्यसौ।
इहभुक्त्वाखिलान् दुःखान् रौरवन्नरकम्प्रजेत्॥ 38
षण्मासं भक्षतैयस्तु प्रसादं भगवद्ग्रुहे।
प्रसादभक्षण कालाधिक्यतयाधिक्य निरूपणं
तस्य सर्वाणिपापानि(विनस्यन्ति नसंशयः)नशन्तिनच संशयः॥ 39
अब्दमेकं हरेर्धाम्मिनैवेद्यान्नन्तुयोभुजेत्।
तस्यज्ञानोदयं ब्रह्मनिष्ठाचलभते बुधाः॥ 40
रधारूढ हरिप्रसाद महिमा
रधस्थस्यतु(महाविष्मोः)देवस्य प्रसादं भक्षतेयदि।
वन्ध्यापुत्रवतीभूयादचिरेण विनिश्चयः॥ 41
श्रीकृष्ण जन्मदिने भगवन्निवेदित क्षीर महिम
श्रीकृष्णजन्मदिवसे सन्तानाका क्षयाभुवि।
यास्त्रि पिबति गोक्षीरं वासुदेवनिवेदितम्॥ 42
सासुपुत्रवतीभूया(द्लोकेस्मिन्)न्निश्चयं मुनिसत्तमाः
ध्वजारोहण काले गरुड प्रसाद महिमा
थ्वजारोहण कालेतु वैनतेय निवेदितम्॥ 43
मुद्गान्नं भक्षतेयस्त्री सासु पुत्रवती भवेत्।
भक्तशेष प्रसाद महिमा
भक्तेभ्योर्पितसेषन्तु प्रसादं मोक्षसिद्थिदम्॥ 44
धनुर्मासे अरुणोदयकाल निवेदितान्न महिमा
अरुणोदयवेलायां धरुर्मासे(श्रियःपतेः)जगत्पतेः।
निवेदितन्तुमुद्गान्नं सहस्रफलदं स्मृतम्॥ 45
महोत्सवेषु प्रसाद महिमा
महोत्सवे प्रवर्तेतु सर्वैद्भक्तैर्यदर्पितम्।
नैवेद्यं केवलं विष्णो र्वैकुण्ठप्राप्तिकारणम्॥ 46
भगवत्पदतीर्ध महिमा
भगवत्पादतीर्धन्तु नित्यंयःपिबतेवरः।
तस्यारोग्यं सदाभूयात्सायुज्यंलभतेधृवम्॥ 47
सालग्राम तीर्ध महिमा
सालग्राम शिलावारि तुलशीदलयुतम्।
सर्वरो(गप्रशमनं)गादिशमनं सर्वपापहरम्भवेत्॥ 48
पञ्चगव्य महिमा
भगवत्सन्निथौदत्तं पञ्चगव्यम्मुनिश्वराः।
महापातक नाशञ्च विष्णुसायुज्यदायकम्॥ 49
अभिषेक तीर्थ महिमा
विशेषस्वपनेकाले देवस्यमथुविद्विषः।
स्नानोदकम्पिबेद्यस्तु सर्वान् कामानवाप्नुयात्॥ 50
चक्र तीर्ध महिमा
तीर्धोत्सवेप्रवर्तेतु चक्कस्नानोदकम्पिबेत्।
सर्वाघशमनन्नॄणां सर्वसम्पत्व्रदायकम्॥ 51
आचार्य श्रीपाद तीर्ध महिमा
आचार्यपदतीर्धञ्च प्रसन्नस्यपदोदकम्।
सर्वदापानवम्प्रोक्तं सर्वपातक नाशनम्॥ 52
तस्मात्सर्वप्रयत्नेन भक्तिभावेनकेवलम्।
भगवद्भागवताचार्य पादतीर्धंसदापिबेत्॥ 53
भगवत्तीर्ध विसर्जने दोषप्राप्तिः
हरिगेहेतुयोतीर्धं गृहीत्वाप्यपिबन्त्यजेत्।
सत्यस्प्यश्ययितिज्ञेयो छण्डालयिवभूतले॥ 54
तदलक्ष्यकरणेच पाप निरूपणम्
अलक्ष्यङ्कुरुतेयस्तु तीर्धेस्मिन् द्विजपुङ्गवाः।
तस्यपापक्षयन्नास्ति शतजन्मैरपिद्विजाः॥ 55
चक्रेण सहमज्ञनविशेषः
तीर्धोत्सवेतुयोभक्त्या चक्रेणसहमज्जते।
सहस्रग्रहणस्नान(समंसद्भलमाप्नुयात्)समंसद्बल माप्नुयात्॥ 56
भगवत्तीर्ध ग्रहणेश्रर्धालोपे सतिप्रत्यवायः
हरितीर्धपरिग्राहे यस्तुश्रर्धाविवर्जितः।
निक्षिपेत्ततुभूमौच तस्यदुःखम्महत् भवेत्॥ 57
अर्चकहस्तेन तीर्ध स्वीकार विधिः
अर्चकस्यतुहस्तेन गृह्णीयाद्धरितीर्धकम्।
नोचेत्सुरासमञ्ज्ञेयं तत्तीर्थं(तुविसर्जयेत्)द्विजसत्तमाः॥ 58
भगवद्धन फलकधनम्
अथवक्ष्येविशेषेण भगवद्दर्शनेफलम्।
सेवनेचद्विजश्रेष्ठा श्श्रुणुध्वंश्रर्थयान्विताः॥ 59
नित्यदर्शने निशेषः
प्रत्यहन्देवदेवस्य मन्दिरं यस्तुगच्चति।
तस्याभीष्ठानिसर्वाणि ददातिपुरुषोत्तमम्॥ 60
प्रभोदोत्सव दर्शन फलनिरूपणं
प्रबोधोत्सववेलायां विष्णोद्दर्शनमुत्तमम्।
सर्वपापप्रशमनम् आयुरारोग्यवर्धनम्॥ 61
एकापश्याविसर्वदर्शन फलप्राप्तिः
एकादश्याममायाञ्च सर्वपर्वसुशार्ज्गिणः।
वैदर्शनम्पावनम्पुण्यम् अभीष्टफलसिद्थिदम्॥ 62
वैकुण्ठयेकादश्याम् उत्तरद्वारगमन दर्शन फल कदनं
वैकुण्ठपदपूर्वाया मेकादश्यान्द्विजेत्तमाः।
उत्तरद्वारगमने देवस्यमधुविद्विषः॥ 63
रधस्धभगवद्दर्शन फलनिरूपणं
दर्शनंसर्वलोकानां दुर्लभम्मोक्षदायकम्।
रथस्थस्यतुदेवस्य दर्शनंयःकरोतिसः॥ 64
गरुडारूढे दर्शन फलं
जन्मराहित्यममलं प्राप्नोति(विबुधोत्तमाः)सुविनिश्चयः।
गरुडारूढविष्णोस्तु सेवामोक्षफलप्रदा॥ 65
महोत्सवे भगवद्दर्शन फलप्राप्तिः
महोत्सवेप्रवर्तेतु भगवद्दनम्भुवि।
असमानफलप्राप्ति हेतुभूतमितीरितम्॥ 66
कल्याणोत्सवेदेव दर्शनफल विशेषः
कल्याणोत्सववेलायां देवेशंयस्तुपश्यति।
तस्यसर्वाणिपापानि नशन्त्येवनसंशयाः॥ 67
पुष्पयागोत्सवान्त प्रणयकल्हारोत्सवेदेवीसहित भगवद्दर्शन फल निरूपणं
पुष्पयागोत्सवदिनेदेवस्य(जगताम्पतेः)मधुविद्विषः।
अन्तेतुप्रणयकलह महोत्सववर्णेद्विजाः॥ 68
श्रीभुनीलादिसहितं हरेर्दर्शन मुत्ुमम्।
योगीनान्दुर्लभञ्चैतन्निश्चयं मुनिपुङ्गवा॥ 69
विशेष स्नपनकाले दर्शन विशेषः
विशेस्नपदेकाले भगवन्मूर्तिदर्शनम्।
जन्मसाफल्यताहेतु भूतम्मोक्ष(प्रदंस्मृतं)फलप्रदम्॥ 70
कृत्तिका दीप प्रदर्शन फलम्
एवकेनापिचद्विजाः कृत्तिकादीपदर्शनम्।
अष्टैश्वर्यकरम्मोक्ष साधनम्भवतिथृवम्॥ 71
अर्चक दर्शन फल विशेषकथनं
दर्शनन्त्वर्चकसा पि हरिभावेन केवलम्।
सर्वसम्पत्क रम्भूया त्सर्वपातकनाशनम्॥ 72
भगवदालय दर्शने विशेषः
दर्शन तुहरेर्धाम्नः क्षुद्रग्रहनिवारकम्।
गोपुर दृश्यतेयस्तु महाभक्त्याजगत्पतेः॥ 73
गोपुर दर्शने चक्रदर्शने
तस्यवंशाभिवृद्धिप्यादाचन्द्रार्कं(चभूतले)धरातले।
गोपुराग्रस्थचक्रस्य दर्शन पापनाशनम्॥ 74
भगवत्पादतुलश्या द्याघ्राणे निर्म्याधारणे
भगवत्पादतुलसी माघ्रायसकलानराः।
निरामयाभवेद्भूमौविष्णुलोकमवाव्नुयात्॥ 75
हरेर्निर्माल्य पुष्पञ्च चन्दनञ्च बुधोत्तमाः।
शिरसागृहितम्भूया छ्रेयोकामैस्सतम्भुवि॥ 76
पालिकाङ्कुर थारणे
भगवत्समर्पितान्दिप्यान् पालिकाद्यङ्कुरान्शुभान्।
धृत्वातुशिरसा(लोको दूतपापोभःष्यति)लोकेधूतपापोनरोभवेत्॥ 77
विजय दशम्यां शमीपल्लवथारणे
आश्विनस्यसितेपक्षे दशम्यांविजयोत्सते।
शमीपल्लवस युक्तानक्षतान्योपरिगृहेत्॥ 78
होमभस्मथारणे
तस्यर्वत्रविजयं(सर्वदाच विनिश्चयं)सर्वकार्येषु निश्चयम्।
हरेर्गेहेस्थितोहोम भस्मस्यान्मङ्गल प्रदः॥ 79
पवित्र धारणे
तस्मातद्त्धारयेद्विप्रास्सर्वेपिचनराभुवि।
पवित्कोत्सवकालेतु वासुदेवस्यसक्रिणः॥ 80
पूजालोपादि शान्त्यर्ध मर्पितन्तुपवित्रकम्।
भक्त्यायोधारयेन्नित्यं तस्यकुत्रापिचद्विजाः॥ 81
कर्मलोपन्तुनभवे दितिशास्त्रविनिश्चयः।
होमधूमाघ्राणे
अघ्रातोहोमदूमश्च येवभक्त्याहरेर्गृहे॥ 82
तस्यभूयात्सदारोग्यम् आयुश्श्रीर्वर्ससङ्घनम्।
वीरलक्ष्माद्यर्पित कुङ्कुमादिधारणे
वीरलक्ष्मीभोगलक्ष्मोरर्पितङ्कुङ्कुमादिकम्॥ 83
धृतंयेनसदातस्य सौभाग्यं(वर्थतेसदा)लभतिधृवम्।
नीराञ्जनदर्शने
निराञ्जनस्यसमये दृश्यते योजन्त्पतिम्॥ 84
धूतपापोनरोभूया दैश्वर्यञ्च महल्लभेत्।
दिव्यक्षेत्रेषुदिनत्रयनिवासे
स्वयंव्यकादि क्षेत्रेषु त्रिदिनंयवसेन्नरः॥ 85
तस्यपातकवर्गस्तु (तक्षणाद्वैविनश्यते)तक्षणाच्चैवनश्यते
तेषुशरीरविसर्जने
पुण्यक्षेत्रेषुयोभक्त्या स्वशरीरं विसर्जयेत्॥ 86
तस्यवैजन्मराहित्यं निश्चयम्भवति धृवम्।
द्वात्रिंशदुपचारा द्वैर्भगवदर्चने
द्वात्रिंशदुपचाराद्यैष्षोडशैरुपचारकैः॥ 87
यःपूजयतिदेवेशं तस्याभीष्ठास्तुसिद्द्यते।
पर्वकालेषु सहस्र नामैरर्चने
एकादश्यान्तु संर्काता वमायांश्रवणेपिच॥ 88
सहस्सनामैर्योभक्त्या हरिमर्चयतिस्वयम्।
अन्येषु पर्वलेषु तस्य(वैकुण्ठमुच्यते)मोक्षोविनिश्चय॥ 89
अष्टोत्तरशतनामादिभिरर्चने
अष्टोत्तरशतैर्यस्तु नामभिश्चजगत्पतिं
यःपूजतिसदातस्य महत्सौख्यम्भवेधृवे॥ 90
चतुर्विंशति सङ्ख्याकैर्द्वादशैर्ना मभिस्तुवा
योर्चनं कुरुतेतस्य भवबन्धो विनस्यति॥ 91
गोभूहिरण्यादिक समर्पणे
हरिसम्प्रीतयेयस्तु गोभूस्वर्णधनादिकान्
धान्यञ्च वाहनादीनि गजाश्वोष्ट्रादिकान्तधा॥ 92
पात्रादिकान्च भूषाश्च गन्धपुष्पफला(फलाम्बरान्)दिकान्
छत्रचामर(भूषाश्च)वस्त्रादीन् दासीदासान् च भक्तितः॥ 93
(यस्तुदद्यान्मुनि श्रेष्ठाः)प्रदद्याद्विबुधश्रेष्ठा स्सर्वेष्टान्लभेतनः।
भुसमर्पण महिमा
भूमीदानन्तुयोभक्त्या शाश्वतं कुरतेभुवि॥ 94
हरेस्तस्यमहत्सौख्यमायुर्वृद्थिर्भवेद्द्विजाः।
अर्चकस्य सालग्रामादिदानेफल निरूपणं
सालग्रामादिदानैश्च वस्त्रभूषधनादिभिः॥ 95
अर्चकन्तोषयेद्यस्तु वासुदे स सन्निधौ
सोभूयाजन्मरहितो सुप्रसिद्धोधरातले॥ 96
देवालयसम्मार्जनेफलं
गेहसम्मार्जनेविष्णोर्जन्मसाफल्य(मीरितं)मुच्यते
चामरसेवायां
(चामरव्यजनाद्यैस्तु सेवामोक्ष फलप्रदा)धारणेचामरादीनां स्वर्गलोकस्थितिर्लभेत्॥ 97
छत्रादिवहने
वहनेछत्रवेत्रादि अभीष्टार्धान् लभेन्नरः
भगवद्वहने पुष्प माल्यादि समर्पणे
देवस्यवहनेसाक्षा द्विष्णुसायुज्यमीरितम्॥ 98
पुष्पमाल्यादितानंस्या दसम फलदायकम्।
नृत्तगीतादिकरणे
आलयेनृत्तगीताद्यै रिष्ट्धारान्लभतेनरः॥ 99
वाद्यघोशादिकरणे स्तोत्रपाठे
वाद्यघोषादिकरणे हरेःप्रीतिर्भवेथृवम्।
स्तोत्रादिपठने विष्णो स्सायुज्यं (तुलभेद्द्विजाः)समवाप्नुयात्॥100
पात्रशुद्धिकरणे
स्थानशुद्ध्यादिकरणे पात्रशतद्धौलभेद्यशः।
दीप प्रज्वलने
दीपप्रज्वलने(भूयात्)चैव ग्रहस्नान सद्भलम्॥ 101
आराधरार्ह वस्तुप्रदाने
नित्याराथनार्हाणां वस्तुनान्तुसमर्पणे।
सप्तजन्मकृतम्पापं तक्षणादेवनश्यति॥ 102
महोत्सवकरणे
महोत्सवस्यकरणे पञ्चपातकनिर्वृतिः।
पवित्राद्युत्सव करणे
पवित्राद्युत्सवानान्तु रणेजगताम्पतेः॥ 103
वंशाभिवृद्धिस्सायुज्यं लभते(वतुसंशयः)नात्रसंशयः।
सहस्रकलशाभिषेक कल्पने
सहस्रकलशस्नान कल्पनेमधुविद्विषः॥ 104
सहस्रतीर्धसुस्नाता यजमानोभवेधृवः।
महोत्सवादिकालेषु ग्रामालङ्करणन्तुवाः॥ 105
धामालङ्करणा दिषु
धामालङ्करणंवापि महाभक्त्याकृतंयदि।
सर्वार्थासाधकम्भूया(साक्षाद्वैकुण्ठदायिनी)त्सर्वसम्पत्प्रदायिनी॥ 106
हविःपाचने
हविःपचनकर्मास्वाद्भुक्तिमुक्तिफलप्रदा।
विस्तरेणतुकिंविप्रास्सर्वेकार्या जगत्पतेः॥ 107
देवालयादिक निर्माणे
विशेषफलदाप्रोक्ता स्सत्यमेतद्विनिश्चयम्।
यस्तुभक्त्याहरेर्गेहं राजाराष्ट्राभिवृद्धये॥ 108
निर्मायतेतस्यविष्णो स्सायुज्यंलभतिद्धृवम्।
इहलोकेपिवैतस्य अभिष्ठार्धाश्च सिद्धयते।
तद्वंशजाःपरंयान्ति शतपूर्वाशतापराः॥
मण्टप निर्माणे
मण्टपस्यविनिर्माणे येनकेनापि भूतले॥ 109
तस्यंवंशाभिवृद्धिस्या द्यावदाभूतसम्प्लवम्।
गोपुरादिक निर्माणे
गोपुरस्यविनिर्माणे शिखरस्थापनेपिच॥ 110
सत्सन्तानफलप्राप्ति स्तक्षणाल्लभतेनः।
प्राकारादिक निर्माने
प्राकारस्यचद्वारस्य विनिर्माणेहरेर्गृहे॥ 111
संसारबन्धमोक्षश्च(भवेदिष्टार्ध सिद्धिच)निश्चितम्मुनिसत्तमाः।
वीरलक्ष्मीस्थापने
वीरलक्ष्म्यास्थापनन्तु महदैश्वर्यदायकम्॥ 112
ध्वजस्थम्भस्थापने
ध्वजस्थम्भ(प्रतिष्टायां)प्रतिष्ठातु सर्वसम्पत्करम्भवेत्।
हरेस्सायुज्य प्राप्तिश्च सम्भवेत्तेनभूतले॥ 113
वाहन निर्माणे
वाहनादिक निर्माणे देवस्यमधुविद्विषः।
शतयज्ञफलप्राप्ति(रिष्ट सिद्धिश्चनियं)र्निश्चयम्मुनिसत्तमाः॥ 114
भगवदालय गोपुरादि दर्शनेषु कर्तव्य विधयः
भगवद्ग्रुहन्तुसंविक्ष्य साष्टाङ्गं प्रणमेद्द्विजाः।
दर्शनेगोपुरस्यापि शिखरस्यतधैवच॥ 115
शिखराग्रस्थ चक्रस्य ध्वजाग्रस्यव भूसुवाः॥
साष्टाङ्गन्दण्डवद्भूमौ नमस्कारं समाचरेत्।
यःकरोतितधालोके तस्यभूयान्महाफलम्॥ 116
दण्डप्रणामकर्तव्यप्रदेशानि
बलिपीठे(महाद्वारे)द्वारदेशे महामण्टपमथ्यतः।
पूर्वोक्तेनैवविधिना साष्टाङ्गम्प्रणमेद्बुथाः॥ 117
देवालये प्रवर्तव्य विधि निरूपशं पृष्ठ दर्शने दोषः
देवालयेषुसततं भक्तिश्रर्धान्वितोनरः।
विष्णोरभिमुखन्तष्ठे त्प्रुष्ठभागंरदर्शयेत्ः॥ 118
वीरासनाद्यैर्धोष निरूपणं
वीरासनाद्याननेषु नकदापिहरेर्ग्रुहे।
संविसेद्विबुधश्रेष्ठात्तेन(दुःखं महद्भवेत्)पापोमहान्भवेत्॥ 119
छत्रपादुकदण्डादिधारणेप्रत्यवायः
तस्मात्तुसर्वदालोके भक्तिनम्रस्तुसंविसेत्।
छत्रन्दण्डं पादुकौच भगवत्सन्निथौस्वयम्॥ 120
विन्मूत्रनिष्टिवनादि विसर्जने
नधारयेदितिप्रोक्तं श्रेयःकामैस्तुसर्वदा।
भगवन्मन्दिरेवापि(तत्समीपेच भूसुराः)तत्समीपधरातले॥ 121
विण्मूत्रोत्सर्जनञ्चैव निष्टीवन विसर्जनम्।
स्नानञ्चवर्जनीयंस्याद्भ वत्कोपकारणम्॥ 122
भगवदुत्सवे मानुषात्सवादिकरणे
महोत्सवेप्रवर्तेतु देवदेवस्यशार्ङ्गेणः।
यावत्तीर्धोत्सवदिनन्तद्ग्रायेचान्वदुत्सवम्॥ 123
विवाहादिकसर्वेपि वर्जनीयाद्विजोत्तमाः।
यस्तुकुर्यात्तुतान्विप्रा स्तस्यदोषाभवेद्भुवि॥ 124
महोत्सवमध्ये अन्यदेवोत्सवाचरणे
विष्णोरुत्सवमध्येतु अन्यदेवोत्सवंयदा।
कुरुतेमूढभावेन तदातद्ग्रामनाशनम्॥ 125
भगवदुत्सवात्पूर्वमेन विवाहादि करणे
विष्णोरुत्सव कालेचतत्पूर्वं(वाद्विजोत्तमाः)चद्विजोत्तमाः।
यस्तुकुर्याद्विवाहादीन्तत्सर्वं निष्फलम्भवेत्॥ 126
देवताह्वानमारभ्यतद्विसर्जनान्तम् अन्यग्रामादिक गमने
महोत्सवेप्रवर्तेतु वासुदेवस्यश्रीपतेः।
देवताह्वानसमये भेरींशृण्वन्तियेनराः॥ 127
नगच्छेयुस्तेन्यदेशं नदूरंयोजनात्परम्।
गमनेसतिमोहाद्वै व्याधियुक्ताभवेद्भुवि॥ 128
ध्वजारोहाद्यवरोहोन्तम् अन्य ग्रामादिक गमने
ध्वजारोहणमारभ्य अवरोहदिनावधि।
यस्तुगच्छेदन्यदेश मन्य(ग्रामन्तुवाबुथाः)ग्राममथापिवा॥ 129
तन्यभूयाद्यशोनाश श्चायुक्षीणं थरातले।
तस्मात्सर्वप्रयत्नेन बहिर्यानं विसर्जयेत्॥ 130
महोत्सव फल निरूपणं
महोत्सवःकृतोयेन सोश्वमेधफलंव्रजेत्।
यत्रदेशेभवेद्येत दुत्सद तत्रचद्विजाः॥ 131
सुवृष्टित्सर्वलोभूया(द्राज्ञो वृद्धिश्चनिश्चितः) द्राजानृद्धिमवाप्नुयात्।
ध्वजारोहे गरुड दर्शन फलं
ध्वजारोहण वेलायां खगेशंयस्तुदृश्यते॥ 132
तस्यसन्मङ्गलम्भूयात्सर्वदासनसंशयः।
भेरीश्रवण फलकथनं
देवताह्वानकालेतु (भेरींशृण्वन्तुयोनराः)भेरींयस्तुशृणोतिपः॥ 133
अवाप्यात्रतुसर्वेष्टा नन्तेवैकुण्ठमाप्नुयात्।
थनुस्सङ्क्रमणेकाले प्रत्यहञ्चारुणोदये॥ 134
धनुर्मासार्चन फल निरूपणं
शास्त्रोक्तेनैवमार्गेण हरिन्नम्यक्प्रपूजयेत्।
अब्दमेकन्तुसम्पूज्य यद्भल लभतेनरः॥ 135
तद्भलंसर्वमाप्नोदि(चासेत्वेकदिनेनहि)दिनेनैकेवपूजकः।
कृत्तिकादीवदर्शने
वृश्चिकस्तेदिनकरे(केत्तिकायाम महोत्सवं) कृत्तिकादीपदर्शनम्॥ 136
सर्वाभीष्ठ्रदन्नृणां सर्वपातक नाशनम्।
घण्टानाद महिमा
घण्टानादंहारेर्धाम्निशृत्वाब्रह्मग्रहापिच॥ 137
गच्छन्तिदूरतश्शीघ्रं नागमिष्यन्ति तेपुनः।
एकादश्यां दर्शन पूजनादिक फल निरूपणम्
एकदश्यान्तुभगवद्दर्शनं (मोक्षदायकं)पापनाशनम्॥ 138
अर्चनादिककार्यास्तु सहस्रफलदास्मृताः।
एकादशि व्रत महिमा
एकदश्याव्रतंलोके सर्वोत्तम मुदाहृतम्॥ 139
भक्तानाङ्कल्पकञ्चैव भुक्तिमुक्ति फलप्रदम्।
एकादश श्रार्ध विवर्जनं
तस्मिन्(तुदिवसे श्रार्धं)दिनेपितृश्रार्धञ्चापिवर्ज्य मुनीश्वराः॥ 140
(द्वादाश्यान्दिवसेत्वेतत्)परस्मिन् दिवसेचैत त्कुर्वतांशास्त्रवर्त्मना।
वीरलक्ष्मीत्सव महिमा
आश्विनस्यसितेपक्षे नवम्यांसर्वतोभुवि॥ 141
वीरलश्र्म्युत्सवङ्कार्यं सर्वलोकसुखावहम्।
यःकरोत्युत्सवञ्चैत त्तस्यश्र्रीर्निश्चलाभवेत्॥ 142
श्रीकृष्ण जयन्त्या चरणे फलप्राप्तिः
श्रीकृष्ण जन्मदिवसे यःकरोत्यु(महोत्सवं)त्सवंहरेः।
तस्यगोभूहिरण्यानि वर्धन्तेनात्रसंशयः॥ 143
यस्मिन्देशेकृतञ्चैत दुत्सवञ्जगताम्पतेः।
तस्मिन्देशेविशेषेण गवांवृद्धिर्भविष्यति॥ 144
भक्तजन्मदिनोत्सवादिकरणे
भक्तजन्मदिनेषुश्च स्वीयजन्मदिनेपिच।
महोत्सवम्प्रकुर्वीत देवदेवस्यसन्निधौ॥ 145
एवंयःकुरुतेभूमौ(सत्वायुर्वृद्धि माप्नुयात्)तस्यायुर्वृद्धिरुत्यते।
ज्येष्टाभिषेकाद्युत्सवकरणे फलनिरूपणं
ज्येष्टाभिषेकमारभ्य यावद्वासन्तिकोत्सवम्॥ 146
भगवन्मन्दियस्तु कुरुतेतस्यसर्वदा।
आयुरारोग्यभाग्यानि लभन्त्यत्रवसंशयः॥ 147
राजाराष्ट्राभिवृद्धिश्च तस्मिन्देशे(भविष्यति)भवेद्धृवः।
भगवन्मन्दिर जीर्णोद्धारे
जीर्णितम्भगवद्गेहं दृष्ट्यायोभक्तिभावतः॥ 148
उद्धारङ्कुरुते(तस्यहरेस्सायुज्य मीरितं)भूमौहरेस्चायुज्यमाप्नुयूत्।
भगवत्त्सोत्रपाठन्तु प्रभातेयस्तुकुर्वति॥ 149
तस्याभीष्टानि सिध्यन्ते शीघ्रकालेमुनीश्वराः।
श्रीपुष्पयाग दर्शने
पुष्पयागेप्रवर्तेतु चक्राब्जस्धञ्जगत्पतिम्॥ 150
दर्शतेयस्तुसद्भक्त्या प्राप्नोतिपरमाङ्गतिम्।
श्रीहरि नाम सङ्कीर्तन श्रवणादिक फल निरूपणं
नामसङ्कीर्तनञ्चैव श्रवणञ्चथरातले॥ 151
सर्वपापहरम्भूया त्सर्वविघ्नविनाशनम्।
युद्धजयप्राप्ति साधनं
युद्धमथ्यस्थितो(यस्तु)भूमौहरिंसम्प्रार्थ्यभक्तितः॥ 152
सत्वरञ्जयमाप्नोति संशयन्नास्तिभूसुराः।
महोत्सवेसयजमानार्चक परिचारिक प्रेक्षकानां फलप्राप्तिकधनं
देवस्योत्सवकर्ताच(अचार्य ब्रह्म ऋत्विजाः)आचार्येऋत्विजास्तथा॥ 153
परिचारकवर्गश्च प्रेक्षकाश्चसदाहरेः।
सायुज्यम्प्राप्यमोदन्तेनित्यमुक्तायिवद्विजाः॥ 154
अष्टम्याञ्चचतुर्दश्यां नवम्याम्भृगुवासरे।
लक्ष्मीपूजा विशेष दिवस निरूपणं
पूर्णिमायाममायाञ्च वीरलक्ष्म्याःप्रपूजने॥ 155
सहस्रनामभिस्तस्या हरिद्राचूर्णकुङ्कुमैः।
धनधान्याभिवृद्धिश्च(मोक्षसिद्धिच निश्चयं)वैकुण्ठप्राप्तिचधृवम्॥ 156
अष्टाक्षरादि वैष्णव मन्त्रजपे विशेषः
वासुदेवद्वादशार्णं श्रविष्णोस्तुषडक्षरम्।
श्रीमन्नारायणस्यापि आष्टाक्षरमहाममम्॥ 157
श्रीरामतारकञ्चैव श्रीमन्त्रञ्चसदाभुवि।
श्रीपुरुष सूक्तादि नित्यपारायण विषय निरूपणं
पौरुषंसूक्तममलं श्रसूक्तञ्चमुनीश्वराः॥ 158
भूमीनीलादिमूक्तानि गीताश्चहरिभोधिताः।
विष्णोस्सहस्रनामानि यधाशक्तितुप्रत्यहम्॥ 159
जपित्वाचपठित्वाच ध्यात्वाचैवजगत्पतिम्।
सकलैर्भवबन्धैश्च मुत्यन्तेविबुधोत्तमाः॥ 160
गारुड मन्त्रजपफलं
यःपठेत्प्रत्यहम्भक्त्या गरुडस्यमहामनुम्।
तस्यसर्पविषादीनि निर्विषन्तुभवेद्द्विजाः॥
हनुमन्मन्त्र जपफलं
हनुमन्मन्त्रराजन्तु योनित्यम्पठतेभुवि।
तस्यदर्शनमात्रेण ग्रहजालं विमुत्यते॥
इहलोकेपिचैतेषां भवेदिष्टार्धसम्भवम्।
ग्रीष्मकालेभगवस्चमर्पणयोग्य वस्तु विशेष कधनं वैशाखपूजा महिमा
(ग्रीष्मर्तौयदि सम्प्राप्ते)ग्रीष्मकालेतुसम्प्राप्ते हरिसन्तर्प्यशीतलैः।
दध्यन्नाद्यैर्नरोभूयात्सर्वकिल्बिष वर्जितः॥ 161
वैशाखेवैष्णवादिभ्ये(लस्तुदद्याद्गुडेदकं)योददातिगुडैदकम्।
द्ध्यन्नव्यजनादीनि छत्रपादुकदक्षीणाः॥ 162
फलानिचहरिप्रीत्यै तस्यमुक्तिःकरेस्थितः।
हिमवन्त ऋतौ वस्त्रकञ्चुकादि प्रदाने फल निरूपणं
हिमवन्त ऋतौयस्तु वस्त्रपर्यङ्ककञ्चुकान्॥ 163
वैष्णवेभ्यन्तुयोदद्या त्सोपिवैकुण्ठमाश्रयेत्।
श्रीवेष्णवान्न भश्रण फलं
सर्वदा वैष्णवान्नन्तु भुञ्जीयाद्विबुधोत्तमः॥ 164
साक्षाद्धरिप्रसादन्तु तद्भवेन्नचसंशयः।
पञ्च संस्कार महिमा
पञ्च संस्कार महिमा त्वसमाभवति धृवम्॥ 165
तस्मात्सायुज्यकामा स्धान्धारयेत्तुफाथरातले।
श्रीवैष्णवस्य पुज्यता निरूपणं
श्रीवैष्ण(प्रपन्नन्तु)वोत्तमंविप्रं हरिपूजापरायणम्॥ 166
यदारृश्यतिलोकेस्मिन् साष्टाङ्गम्प्रणमेद्द्विजाः।
तद्वन्दनात्सदाभूमौ इष्टार्धान्लभतेनरः॥ 167
श्रीवैष्णव भोजने सहास्र ब्राह्मण भोजनफलं
श्रीवैष्णवद्विजन्त्वेक्क भुजित्वावैसहस्रकम्।
विप्रसन्तर्पणफलं कर्ताभूमौलभेद्द्विजा॥ 168
श्रीवैष्णवनिन्दायां प्रत्यवायकधनं
श्रीवैष्णवप्रसन्नन्तु योनिन्द तिधरातले।
वेषभाषादिकन्दृष्ट्या सगच्छेन्नरकन्धृवम्॥ 169
ऊर्ध्वपुण्ड्र महिमा
ऊर्ध्वपुण्ड्रस्य मात्रेण वैष्णवं पूजयेदर्भृवि।
तदूर्ध्वपुण्ड्रंलोकेतु यत्रकुत्रापिदृश्यतेः॥ 170
(साष्टाङ्गतु प्रणम्यात्र)प्रणामन्तस्यवैकृत्वा धूतपापोनरोभवेत्।
श्रीवैष्णव साङ्गत्य फलं श्रीवैष्णव पाद तीर्थविशेषः
श्रीवैष्णवस्यसङ्गस्या न्महापातक नाशनम्॥ 171
तस्यपादाम्बुपानञ्च जन्मकाहित्य कारणम्।
श्रीवैष्णव भुक्तशेषान्नादिक भक्षण फलं श्रीवैष्णव पूजादिक फलविशेषः
श्रीवैष्णवैर्भुक्तशेष मन्नं(मोक्षफलप्रदं)मोक्षप्रदंस्मृतम्॥ 172
यस्यभक्षणमात्रेण विष्णोस्सायुज्युमाप्नुयात्।
श्रीमद्भागवताचार्य पादपूजापरोनरः॥ 173
श्रीवैष्णवपदाम्भोज ध्यानसंसक्तमानसः।
हरेःप्रीतिमतःकृत्याश्रीवैकुण्ठमवाप्नुयात्॥ 174
भगवद्दर्शने प्रधमं लक्ष्मी दर्शनं
भगवद्दर्शनेचादौ श्रियादीनाञ्चदर्शनम्।
पुरुषाकारभूतंस्याद्देवस्यारुग्रहप्रदम्॥ 175
तस्माच्छ्रीद्दर्शनन्त्वादौकृत्वादेवस्यदर्शनम्।
भगवद्दर्शने पादादिमुखपर्यन्त दर्शनं त्याज्यप्रणाम प्रदक्षीण निरूपणं देवालयादिकच्छायालङ्घनादित्याज्यःषयाः
तधापिपावमारभ्य मुखपर्यन्त(दर्शनं)मीक्षणम्॥ 176
वैष्णवानान्तुविहितं गोप्यमेतन्मुनीश्वराः।
एकहस्तप्रणामञ्च येकञ्चैवप्रदक्षणम्॥ 177
लङ्घनन्त्वालयच्छाया द्वजदण्डस्यशौरिणः।
ध्वजस्थानन्तुत्यक्त्वावै हरेर्धाम प्रदक्षणम्॥ 178
नत्वेतेशुभदाःप्रोक्ता(वासतदेवस्य मन्दिरे)स्सर्वशास्त्रेषुनिश्चयः।
हरिप्रदक्षणे भूप्रदक्षण फलकथनं
प्रदक्षणंहरेर्धान्नुः भूप्रदक्षणमीरितम्॥ 179
द्वित्रिवारंयधाशक्ति प्रत्यहंविबुधोत्तमाः।
कार्तीकमासेदीपप्रय्वलन फलकथनं
कार्तिकेमासिश्रीविषोर्गेहे(दीपान्) दीपञ्ज्वलन्तिये।
ज्वलन फलकधनं गृहार्चायां विशेषः
तेषांश्रीहरिसायुज्यं लभत्येवनसंशयः॥ 180
गृहेसंस्थाप्यदेवेशं श्रियादिसहित द्विजाः।
प्रत्यहम्पूजतेयस्तु यधाविभवविस्तरैः॥ 181
तस्यसर्वाणिपापानि मुत्यन्तेनात्रसंशयः।
तस्याभीष्टप्रदम्भूया दिहलोकेचभूसुराः॥ 182
अर्चकदण्डने दोष निरूपणम्
अर्चकन्दण्ड्यतेयस्तु क्रोधलोभादिहेतुभिः।
तस्यपूर्वार्जेतम्पुण्यं सर्वञ्चापिविनश्यति॥ 183
गृहर्चारहित गृहस्य स्मशान साम्यता कधनं सर्व गृहेषु शङ्ख चक्रोर्ध्वपुन्द्राद्यलङ्कार विधिः
यस्मिन्गेहेगृहोर्चातु नभवेद्वैष्ण नस्यच।
तद्ग्रुहन्तुस्मशानंस्या त्संशयोनास्तिभूतले॥ 184
सर्वदावैष्णवङ्गेहं शङ्खचक्रोर्थ्वपुण्ड्रकैः।
अलङ्कुर्यान्मुनिश्रेष्ठा श्शास्त्रोक्तविधिनाभुवि॥ 185
वैष्णवेतरान्न भक्षणे प्रत्यवायः
अवैष्णवकृतन्त्वन्नं नभगवन्निवेदितम्।
नकदाचभुजेद्विप्रा यस्तुभक्षतिमोहः
तस्यवंशविनाशञ्च(नरकञ्च भवे धृवं)रौरवन्नरकम्भवेत्।
देवालय सेवकानां पञ्च सङ्क्कारावश्यकता
देवाल(येषु सर्वत्र सर्वसेवक सन्ततिः)यस्यसर्वेपि सेवकास्तुधरातले॥ 187
पञ्चसंस्कारसंयुक्ता निर्णीतव्या(हिसर्वदा)द्विजोत्तमाः।
पूजाकालेतुदेवस्य दर्शनंयःकरिष्यति॥ 188
पूजाकाले ऊर्ध्वपुण्ड्रविहीनेन भगवद्दर्शनेशृतेः
ऊर्ध्वपुण्ड्रविहीनें षुखेनवसुधातले,
तस्यभूयान्महापापं तत्पूजानिष्फलम्भवेत्॥ 189
इत्येवंहरिणाप्रोक्तं पुराकमलजन्मने
नाभक्तायनशिष्याय नकदापिप्रकाशयेत्॥ 190
अध्यायान्तः
गुह्याद्गुह्यतरञ्चैत दुष्माकंयतुदीरितम्।
सङ्ग्रहेणद्विजश्रेष्ठास्तद्विस्तारेणबोधितुम्॥ 191
शेषोपिचनशक्तस्या(ससहस्रभण मण्डितः)न्निश्चयन्नचसंशयं,
अस्यश्रवणमात्रेण धूतपापोनरोभवेत्॥ 192
इति श्रीपाञ्चरात्रागमरहस्यसारे श्रीपरपुरुषसंहितायां
भगवत्तीर्धप्रसादादिक महिमाभि वर्णनं नाम
चतुर्धोऽध्यायः