००३

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत श्रीपरमपुरुष संहिता
तृतीयाथ्यायः
अर्चकाथिक्यता निरूपणम्
ऋषि प्रश्न. ऋषयः-
श्लो॥ मौनिचन्द्रमहाभाग सदाहरिपरायण
(विष्ण्वालयन्तु निर्माय राजाराष्ट्र प्रवृद्धये)किन्त्वालयंविनिर्माय देवदेवस्यशार्ञिणः॥ 1
प्रतिष्टान्तेतुतत्कर्ताकस्मैदद्यात्तदालयम्
अधीकारिस्तुकोभूया त्तदारभ्यसदाहरेः॥ 2
नित्यनैमित्तिकाख्यासु पूजासुचसवेषुच
विस्तरेण(द्विजश्रेष्ठ)तुतत्सर्वम्ब्रूह्यस्माकङ्कृपानिधे॥ 3
नारदप्रतिवचनं
श्रीनारदः-
वक्ष्यामितत्सविस्तारं श्रुणुध्वंश्रर्धयान्विताः
ऋषयोभगवच्चास्त्र निष्ठातत्परमानसाः॥ 4
गोप्यमेतन्महभागा (युष्माकं यद्वदाम्यहं)आद्याहंवदयामियत्
नाभक्तायनशिष्याय नकदापिवदेद्द्विजाः॥ 5
अर्चकोभगत्सुतः
आराधकस्तुश्रीशौरेः पुत्रयेवनसंशयः
अर्चनादिष्वर्चकाधिक्यता.
तस्मादर्चकयेवस्या दथिपोसर्वकर्मसु॥ 6
अर्चनादिकलापासु सततम्भगवद्ग्रुहे
परिचार कादीना मर्चकाज्ञानु सरणं
परिचारकवर्गश्च तधाचास्येपिसेवकाः॥ 7
अर्चकाज्ञानुसारेण सर्वदाचप्रवर्तयेत्
यजमानकुलोद्भूतो(यद्वान्य कुलसम्भवः)यद्वानिर्णीतवंशजः॥ 8
धर्माधिकारिश्च अर्चकाज्ञानुसारेणैव प्रवर्तव्यं
धर्माधीकारीचैकस्तु वर्ततेयदिसोपिच
अर्चकाज्ञानुसारेण सेवकान्‌सर्वदापिच॥ 9
समाहूयचतेषान्तु योग्यकार्याणिनिर्दिशेत्
तधैवचार्चनायोग्य गन्धपुष्पफलादिकम्॥ 10
देवालय परिचारक सेवकादिदण्डने धर्माधिकार्यधिकारः
सकालेनैवसम्पाद्य अर्चकायप्रदापयेत्
सेवकेषुयदाकेचि द्धोषाणिपरिदृश्यते॥ 11
तदातान्‌दण्डयेद्विज्ञो अधीकारिस्तुसर्वदा
परन्त्वर्चकवर्गेषु यदादोषादिकम्भवेत्॥ 12
अर्चकदोष विमर्शनादिषुभगवधधीकारः
दण्डनेनाधिकारोस्ति यस्यकस्यापिचद्विजाः
हरिरेवस्वयन्तेषान्ददातिनरकन्तदा॥ 13
अधवापुत्रभावेन तान्‌क्षमिष्यतिवैहरिः
तस्मा(त्स्वयंहरि)त्तेषांहरिस्साक्षात्‌(अधीकारिर्भवेधृवं)अथीकारीतिमन्यते॥ 14
अर्चकस्यनरकस्राप्तिकधनं
यस्मात्‌ पूजकदोषाणां(नविमर्शनमुच्यते)विमर्शनमनुच्यते
तस्मादेवसदालोके अर्चकोनरकंव्रजेत्॥ 15
अर्चनादिस्वल्पदोषा नर्चकःकुरुतेयदि
तदर्हशिक्षामाप्नोति इहयेवनसंशयः॥ 16
अर्चकत्वफल निरूपणं
तस्मात्सदार्चकोभक्त्या महताचभयेवच
प्रभुसेवकभावेन वर्तयेद्भगवद्ग्रुहे॥ 17
यःकरोत्वर्चनंविष्णो द्देवस्यमधुविद्विषः
भक्त्याचश्रर्धयाचैव केवलम्परचिन्तया॥ 18
स्वार्धंविसृज्यसर्वेषां लोकानांहितकाम्यया
सयेवधन्योमान्यश्चभुक्तिम्मुक्तिमवाप्नुयात्॥ 19
ऋषयः-
अर्चकाधिक्यहेतुश्रवणेऋषिप्रश्न
द्विजोत्तममुनिश्रेष्ठ(सर्वधर्म विशारद)सर्वशास्त्रार्धकोविद
विष्ण्वालयेत्वर्चकानां प्राधान्यङ्किम्प्रकाशय॥ 20
कुतस्तेभगवद्गेहे भक्तैरर्पितदक्षिणान्
वस्त्रभूषादिकान्सर्वान् स्वीकरिष्यन्ति(नित्यशः)भूतले॥ 21
सर्वाधिकारिणश्चैते किमर्धमभवन्मुने
लोकःकिमर्धन्तान्‌भक्तिविश्वासैः(पूजयेत्सदा)पूजतेसदा॥ 22
एतदन्यत्सविस्तारं यदस्माभिर्नचोदितं
वदस्वनोमहाभाग (विद्यतेयदितेदया)यदितेविद्यतेकृपा॥ 23
श्रीनारदाः-
नारदप्रतिवचनं
साधुपृष्ठम्मुनिवराः यदुष्मत्काङ्क्षितम्प्रियं
सङ्ग्रहेणाद्य(वक्षेहां)वक्ष्यामि सावधानेनश्रूयताम्॥ 24
अर्चकाधिक्यहेतु निरूपणं
विष्ण्वादि(सर्वे)सर्वदेवाश्च मन्त्राधी(नाइतीरिताः)वाःप्रतीयते
तन्मन्त्रसाधनैरेव देवमन्दिरविग्रहन्॥ 25
प्रतिष्ठाप्यतुदेवेशं स्धिरीकुर्वन्ति(देशिकाः)पूजकाः
यस्याधीनाःप्रवर्तन्ते सर्वेमन्त्राश्चनित्यशः॥ 26
आगमज्ञस्सवैपूज्यो अर्चको(भगवत्सुतः)भगवत्समः
एकेनार्चकहीनेन सर्वेप्यालयसेवकाः॥ 27
अमूल्यथनधान्यादि विभवाश्चवृधास्मृताः
तस्मादेवप्रतिष्ठान्ते कर्तातुभगवद्ग्रुहम्॥ 28
सर्वैःपरिकरैर्युक्त मर्चकायप्रदापयेत्
तदादिमन्तिरेविष्णोः पूजकोधिपतिस्मृतः॥ 29
सर्वस्वतन्त्रोसोभूया दर्चको(हरिसन्निधा)भगवद्ग्रुहे
तमाज्ञापयितुङ्कोपि(शास्त्रोक्तार्चाविधानके)विध्युक्तास्वर्चवादिषु॥ 30
नशक्तोयितिविज्ञेयः कर्तावाप्यन्ययेववा
यधादेवालयेसर्वे सेवकाश्रर्धयान्विताः॥ 31
धर्माणिकारिणश्चाज्ञां (पालयन्तिशिरोथृतां)पालयेच्छिरसाधृतां
तधैवचाधिका(रिश्च)रीच अर्चकाज्ञाँतुपालयन्‌॥ 32
पूजोपकरण्‌न्सर्वेसकालेचार्चयेत्सदा
शास्त्रोक्ताराधना प्रधानता
आलयेषुचसर्वत्रशास्त्रोक्ताराधनंसदा॥ 33
ऎकम्मुख्यतमम्प्रोक्तम् अन्येचोत्सववैभवाः
सर्वेपिचाङ्गभूतावै जनाकर्णणहेतवे॥ 34
तस्मादेवहरेर्गेहे यजमानस्यशक्तितः
सर्वैश्च(विभवै)वैभवैर्दिव्यै(र्भोगरागादिभिर्युतं)रुत्सवैस्सयुतन्तुवा॥ 35
(यद्वाचदैर्विहीनंवा)यद्वावैभवहीनंवा शास्त्रोक्ताराधनम्परं
प्रकल्पनीयमेकन्तु राजाराष्ट्राभिवृद्धये॥ 36
यधालोकेशरीरस्य प्राणुमुख्यमितीर्यते
तधैवचालयस्यापि शास्त्रोक्ताराथन्नम्भवेत्॥ 37
प्राणोपेतशरीरस्य शोभार्थम्भूषणान्यथा
तधैवभगवद्गेहे शास्त्रोक्तार्चासमन्विते॥ 38
(सर्वेप्योत्सवभोगाद्याः)सर्वेचोत्सवभोगानि शोभार्धमितिमन्यतां
प्राणहीनशरीरस्य यधाभूषानशोभते॥ 39
तधैवचालयेत्वर्चा हीने(चोत्सववैभवाः)त्वुत्सववैभवाः
नशोभन्तिद्विजश्रेष्ठास्सत्यमेतद्विनिश्चयम्॥ 40
आलयस्यतुयन्मुख्यं तत्पूजात्वर्चकैर्भवेत्
अर्चकतोषणविधिः
तस्माद्देतो(ह्यर्चकान्‌तु)श्चार्चकान्तुसर्वताप्रियभाषणैः॥ 41
गोभूहिरण्यवस्त्राद्यैत्तोषयेद्भगवत्प्रियं
भगवदर्पितवस्तु स्वीकरणविधिः
भगवत्समर्पितंसर्वमर्चकोभगवित्सुतः॥ 42
स्वीकृत्यसर्वदालोक क्षेमार्थं(श्रीहरिं स्वयं)जनकंहरिं
(सम्प्रार्ध्यचहरेस्धाने)सम्प्रार्थ्यभगवत्ध्साने स्वयमाशीःप्रदास्यति॥ 43
अर्चकस्यतु सन्तृप्तिर्भगवत्तृप्तिरीरितम्
अर्चकाशीर्वादे विशेषः
तस्यप्रसादं श्रीविष्णोः प्रसादम्भवतिधृवम्॥ 44
वरप्रभावातस्यैव सर्वलोकसुखम्भवेत्
धर्मसूक्ष्म मिदम्प्रोक्तंलोकेस्मिन् मुनिसत्तमाः॥ 45
अर्चकनिन्दायां दोषप्राप्तिः
योनिन्दतिहरेस्सूनु मर्चकङ्कुपितोनरः
भगवन्निन्दको(सोस्या)भूयात्तस्यवंशक्षयन्धृवम्॥ 46
अर्चकःकुपितोयस्मिन्‌ तस्मिन्‌ शौरिश्चकुप्यति
पर्वकालशुभ कार्यादिषु अर्चक सन्मानविधिः
तस्मात्सदाच भगवत्प्रीत्यर्धं सर्वतोनराः॥ 47
हरेरर्पण भावेन अर्चकान् सर्ववस्तुभिः
विवाहादिषुकार्येषु सर्वपर्वसुतोषयेत्॥ 48
अर्चक शापफल निरूपणम्
अर्चकःकुपितोभूत्वा यदिशप्त्यतितक्षणात्
तद्द्राष्ट्रञ्चाथि पोराजा जनास्सर्वेनशन्तिच॥ 49
अर्चकस्वीकृतौ विशेषः
भगवत्समर्पितंयत्तु धनवस्त्रफलादिकम्
अर्चकस्वीकृतिर्भूया त्स्वयंहरिपरिग्रहः॥ 50
अर्चकोपाथिलोपेन पूजलोप निरूपणं.
यत्रार्चकस्यतज्जीवनोपाधौ लोपमुच्यते
तत्रपूजावृथाज्ञेया यत्तृतो स्वस्तचेतसा॥ 51
पूजालोप दोषकधनम् अर्चकोपोधिभङ्ग कारिणां नरकप्राप्तिः
पूजालोपोभवेद्यत्रतत्रसर्वं वृधा(भवेत्)स्मृतं
तद्द्राष्ट्रेनाभिवृद्धिस्स्याद्देवोपिकुपितोभवेत्॥ 52
तस्माद्योक्रोधरोभादि हेतुभिःपूयरस्यच।
उपोधौकुरुते(लोपं)भिन्नं तस्यवंशक्षयं भवेत्॥ 53
पितृणान्तस्यदैत्यत्वं जन्मपैशाचिकंस्मृतं
ब्रह्महोवासुरापीवा स्वर्णस्वेयीचस्त्रीहतः॥ 54
अस्यास्समं घोरपापं नप्राप्नोत्येवभूतले
धर्मसूक्ष्ममिदं मख्यञ्ज्ञेयं सर्वैश्चमानवै॥ 55
अर्चक पूजाफल निरूपणं
लोककल्याणहेत्वर्ध मेवदेवाल(यार्चकः)येर्चकः
तस्मादेवमुनिश्रेष्ठा स्स्वर्वदाचार्चकम्भुवि॥ 56
प्रसन्नम्परितृप्तञ्च कृत्वालोकः प्रवर्थते
अर्चकस्य अग्रपूजार्हत्वं
यस्मात्सदार्चकोपूज्योहरिभावेन केवलम्॥ 57
तस्मात्सयेवचार्हस्यात्सदसिप्रधमार्चने
निर्णीतार्चकवंशजायेवसदा
यधातु भगवद्गेहे मूर्तिंसंस्धाप्ययत्नतः॥ 58
समुद्धर्तुं कदाकोपि(नशक्तयितिनिश्चितं)नशक्तोभवतिधृवं
वस्तव्यं तेषाम्परिहरणे प्रत्यवायः
तधैवच प्कतिष्ठान्ते यजमा(नविनिश्चितं)नेन निश्चितम्॥ 59
अर्चकंवापितद्वन्ध सम्भवान्वाकदापिवा
यजमान स्स्वयञ्चैव परिहर्तुन्नशक्त्यते॥ 60
यःक्रोधाद्यैस्तधाकुर्यात्तस्यवंशक्षयम्भवेत्।
देशारिष्ठं तदाभूया त्प्रजापीडाच(निश्चिता)निश्चयम्॥ 61
नूतनार्चक निर्माणे पुनःप्रतिष्ठा
पुनःप्रतिष्ठाकर्तव्या निर्मितेतुरवार्चके
तस्मात्पतिष्ठादिवस मारभ्या(चन्द्रतारकं)भूतसम्प्लवम्॥ 62
एकमर्चकवंशन्तु कुर्यादर्चांहरेर्गृहे
देवालयावरणेह्यर्चक गृहनिर्माण विधिः.
अर्चकस्तुहरेर्धाम्नि अहोरात्रञ्चनित्यशः॥ 63
शास्त्रोक्तेनैव्ार्गेण करिष्यत्युत्सवादिकं
तस्मादैव(नुसावीप्ये)हिसामीप्ये भगवन्मन्दिरस्यतु॥ 64
द्वितीयावकणेवापि तृतीयावरणेपिवा
गृहमेकन्तुनिक्माय सर्वलक्षणसंयुतम्॥ 65
सर्पशोभासमायुक्त मर्चकायप्रदापयेत्
देवालयनिवासे अर्चकस्यानुज्ञा
यस्मात्तुपूजरस्साक्षाद्भगवत्पुत्रउत्यते॥ 66
तस्मात्तस्यकुटुम्बञ्च दिव्यमित्येवभावयेत्
तस्मादेवनदोषस्या दालयावरणेष्वपि॥ 67
अर्चकगृहनिर्माण करणेमुनिपुङ्गवाः
तदन्येषान्निवासे प्रत्यवायः
यजमानोपिवातेन निश्चितोधर्मपालाः॥ 68
तदन्यःकोपिवाशौरे रालयावरणेषुयः
(वसतेलोभतोयत्र)निवासङ्कुरुतेयस्मिन् देशेतद्देशनाशनम्॥ 69
ग्रामारिष्टञ्चतस्यैव वंशनाशम्भवे धृवं
हरिश्चकुपितोभूया न्निश्चयम्मुनिसत्तमाः॥ 70
भगवत्समर्पित पुष्प फलादिषु अर्चकस्य अर्धभाग स्वीकारार्हता
अर्चक स्वीकृतिविना भगवत्प्रसादन्न भवेत्
भगवत्समर्पितम्पुष्पं फलं(चाप्यर्चकस्स्वयं)वापूजकस्स्वयं
(अर्धभागन्तु स्वीकृत्य)अर्धभागन्तुगृह्णीया द्भक्तेभ्यश्चाव्यदुच्यते॥ 71
विनार्चकस्वीकृतिना तत्प्रसादन्नउच्यते
यस्तुभक्षतितन्मोहात्तस्यपापम्भवेधृवम्॥ 72
अर्चकदत्ततीर्ध महिमा
अर्चकेनतुयद्दत्तं तत्तीर्धम्महिमान्वितं
यत्पीत्वाचायुरारोग्य मोक्षादीन्‌लभतेनरः॥ 73
महोत्सवादिषुदेव सन्निधौ अर्चकनिवासावश्यकतावा हनादिष्वर्चक निवासार्हता
महोत्सवादिसमये देवदेवस्यशार्ण्ङ्गिः
सन्निधावेवसर्वेपि पूजकानिदसेत्सदा।. 74
समीपेदेवदेवस्य वाहनादिषुचार्चकः
छत्रचामरकैङ्कर्य परतस्तुवसेत्सतम्॥ 75
अत्मानं समलङ्कृत्य(माल्यभूषाम्बरादिभिः)वस्त्रभूषादिकैश्शुभैः
अर्चक सहितभगवद्वहनेविशेष फलप्राप्तिः
अर्चकद्वितयंशौरिं यानारूढं वहन्तिये॥ 76
तेपातकैर्विनिर्मुक्ता(स्साक्षाद्वैकुण्ठमाप्नुयात्)यान्ति वैकुण्ठमुत्तमं
भगवद्द्वहनेचैक मुहूर्तमपिभूतले॥ 77
भूप्रदक्षिणतः पुण्यः लभतेनात्रसंशयः
श्रीहरेर्वाहन स्पर्शा चापि(मुक्तिफलप्रदा)मुक्तिप्रदाभवेत्॥ 78
अर्चकमहिमा निरूपणं
किन्तुदेवोकाग्रहितो देवोदाक्सहितोर्चकः
प्रत्यक्षदेवता(भूयात्)लोके सर्वसौख्यप्रदायकः॥ 79
(अर्चकस्य तपश्शक्तिः)अर्चकस्सात्मशक्तिर्वै भगवन्महिमास्मृता
विनार्चकेनदेवोपि नास्तिनास्तिच मन्दिरम्॥ 80
पूजानास्त्युत्सवन्नास्ति(सर्वन्नास्तिधरातले)महिमानास्तिनिश्चयं
तस्मादर्चकयेव श्रीयनार्दनयितीर्यते॥ 81
भगवन्निवेदितान्नम् अर्चकायदातव्यम् अर्चकेनकृतपरान्न भक्षणे प्रत्यवायः
नित्यन्निवेदितान्नन्तु अर्चकेभ्यःप्रदापयेत्
भगवन्निवेदितान्नंहि भक्षयेदर्चकस्सदा॥ 82
यदिमोहात्परान्नन्तु भुक्त्वाचजगधीश्वरं
यःपूजकोर्च(येत्तस्य)तेतस्य पूजास्यान्निष्फलाभुवि॥ 83
भगवन्निवेदतान्नवधिकञ्चेत् अर्चक भाग निर्णयम्
अर्चकेभ्योनदत्त मन्नन्त्याज्यमेव तद्भक्षणेदोष प्राप्तिः
तस्मात्सर्व प्रयत्नेन नैवेद्यं सकलन्तुवा
अधिकञ्चेदर्धभागं चातुर्भागमधापिवा॥ 84
प्रधमन्त्वर्चकेभ्यस्तु दत्वान्येभ्यःप्रदीयतां
यन्नैवेद्यन्त्वर्चकेभ्यो नदत्तम्फगवद्ग्रुहे॥ 85
तत्त्याज्यं सर्वदाभ क्तैर्विषभावेन केवलं
यस्तुभक्षतितल्लोभा(त्तस्यदोषो भवेद्भुवि)त्पूर्वपुण्यं विनस्यति॥ 86
गर्भालय प्रवेश अग्रासनोवेशादि ष्वर्चकस्यार्हता
अर्चकेन सर्वदापि मन्त्रानुष्टानादि कङ्कर्तव्यं
गर्भालयप्रवेशेच आसतेचोपवेशने
अर्चकस्त्वर्हयित्यतक्तो सर्वशास्त्रे षुभूसुराः॥ 87
दण्डयुक्तवरन्दृष्ट्वा यधाभीतोहिराड्भुवि
मन्त्रहीनार्चकं दृष्ट्वा तथाभीतो(भवेद्धरिः)जनार्धनः॥ 88
तस्मात्तुपूजकश्चापि मन्त्रानुष्ठानतत्परः
सर्वदाच(भवेल्लोके)भवेद्भूमौ अन्यधानरकंव्रजेत्॥ 89
देवद्रव्यस्वीकरणे अर्चकार्हता तदन्येषाम्प्रत्यवायः यजमान स्वीकृतावपिदोष प्राप्तिःदेवालयेषु सद्भक्तैर्दत्तंसर्वधवादिकं
स्वीकर्तुञ्चार्च कास्त्वर्हा यिति(शास्त्रविनिश्चयः)शास्त्रेषुनिश्चयः॥ 90
तस्मात्तस्मिन् धनेकोपि यत्किञ्चिद्धरतेभुवि
तस्यवंश क्षयं(भूया-त्श्रीघ्रमेव बुधोत्तमाः)शीघ्रं निश्चितं मुनिसत्तमाः॥ 91
यजमानोपितद्द्रव्यं स्वीकृत्ययदिलोभतः
उत्सवादिककार्याणि कुर्वत्सपिवृधास्मृताः॥ 92
यजमास्यशक्तिलोपेभिक्षाटनवशेन दैवोत्सवकर्तव्य निरूपणं
यजमास्त्व शक्तश्चेद्धरिमन्दिर पोषणे
भिक्षाटनवशेनैव सर्वकार्याणिचाचरेत्॥ 93
इतिसम्यक्सरूख्यातम् अर्चकाधिक्यकारणं
ममपित्रेपुराप्रोक्तं(इदन्तु हरिणास्वयं)स्वयम्भगवताद्विजाः॥ 94
सङ्ग्रहेणाद्यतत्सर्वं युष्माकञ्चसुबोधितं
नाभक्तायन शीष्याय नकदापिवदेद्बुधाः॥ 95
इति श्रीपाञ्चरात्र-रहस्यसारे श्रीपरमपुरुष-संहितायाम्
अर्चकाधिक्यता-निरूपणं नाम
तृतीयोऽध्यायः