००२

श्रीमत्पाञ्चरात्रागमान्तर्गत-श्री-परमपुरुष संहिता
द्वितीयाथ्यायः
अर्चक परिचारकादि सङ्ख्यानिर्णयं.
ऋषयः-
ऋषि प्रश्न
श्लो॥ भगवन् मुनिशार्दूल पाञ्चरात्रार्धकोविद
अज्ञापयार्चकादीनां सङ्ख्यानिर्णयमुत्तमम्॥ 1
परिचारकवर्गेतु विभेदःकिमुदीरितः
तेषान्तुनिर्णयङ्कस्मिन् कालेकर्तव्यमुत्तमम्॥ 2
तत्कुटुम्बाभि वृद्ध्यर्धमुपाथिः किमुदीरतः
(विस्तरेणैव सर्वज्ञ वदत्वंवदतांवर)निस्तरेणैव तेषान्तु लक्षणानिचब्रूहिनः॥ 3
नारदप्रतिवचन
श्रीनारदः-
प्रतिष्ठादिवसेह्यर्चकादिनिर्णयं कार्यं
शृणुध्वम्मुनयस्सर्वे भक्तियुक्तैस्तुमानसैः
कल्पितेतुहरेर्धाम्नि राजाराष्ट्राभिवृद्धये॥ 4
आचन्द्रार्कमविच्छिन्न पूजनार्थम्मधुद्विषः
निर्णीतव्यार्चकाश्चान्याः प्रतिष्ठादिवसेवहि॥ 5
अर्चकलक्षणं
वेदवेदाङ्ग तत्वज्ञान् सुशीलान् भक्तिपारगान्
जपहोमादि निरतान् युवकान्‌सत्यवादिनः॥ 6
पापभीतियुताञ्चैव पञ्चसंस्कारसंयुतान्
श्रीवैष्णवान् दीक्षिताञ्च पाञ्च(रात्रार्धकोविदान्)रात्रविशारदान्॥ 7
अन्यतन्त्रविदश्चैव स्वार्थत्यागे सुशिक्षितान्
सर्वावयव सम्पूर्णान् सदारोग्यशरीरकान्॥ 8
वंशपारम्परेणैव विष्ण्वर्चन परायणान्
असम्भवेतुचैतेषां(वैष्णवान् भक्तिपारगान्)महाभक्तान् द्विजान्‌तुवा॥ 9
पञ्चसंस्कार संयुक्ता नागमज्ञान्‌चकोविदान्
सदाहरि पदध्यान पूजातत्परमानसान्॥ 10
परमैकान्तिनश्चैव पञ्चकाल परायणान्
सदाचारपरान्‌सर्वैः पूर्वोकैर्लक्षणैर्युतान्॥ 11
अर्चकसङ्ख्या
अर्चकान् वरयेत्पूर्वं शतमष्टोत्तरन्तुवा
द्वात्रिंशत्सङ्ख्ययायद्वा चतुर्विंशतिवाधवा॥ 12
षोडशद्पादशाष्टौवा (चतुरोद्वय मेववा)अर्चकद्वयमेववा
अधमाथममेकंवा यजमान स्स्वशक्तितः॥ 13
आश्रमनिर्णयं
ब्रह्मचारि र्गृहस्थोवा काननस्थोधवायतिः
परार्धयजने विष्णोरर्हत्येवन संशयः॥ 14
अर्चकत्वानर्हतानिरूपणम्
अनुपवीतोत्यपत्नीकः आलयेयदि पूजते
तद्देशेसर्वनाशञ्च (कर्त्रुवंशक्षियम्भवेत्)राज्ञोवंशक्षयं धृवम्॥ 15
देवलकत्व निरूपणम्
अदीक्षि(तोप्यनाचारी)तश्चनाचारी (संस्काररहितोजडः)पञ्चसंस्कारवर्जितः
अङ्गहीनोव्याधियुक्तो प्यधमान्वय सम्भवः॥ 16
पाषण्डश्चागमानज्ञो अवैष्णवनराधमः।
यद्देशेधनलोभेन हरिम्पूज(तिचेत्तदा)यतिस्वयम्॥ 17
देशारिष्टं(सदातस्मिन् देशेभवति निश्चयं)तुतस्मिन् वैदेशेभवति सर्वदा
सवैदेवलकोनाम सर्वकर्मबहिष्कृतः॥ 18
तस्यदर्शनमात्रेण(घोरपापोभवेद्धृवं)घोरम्पापं भविष्यति
अर्चकछण्डाल निरूपणम्
अन्यसेवादिकंयस्तु पूजकःकुरुतेभुवि॥ 19
सछण्डालयितिप्रोक्तो अर्चकेषु मुनीश्वराः
क्षेत्राधिक्यतयामर्चक सङ्ख्याधिक्य ताकधनं
तत्कृतैरर्चनेर्लोकेनकिञ्चिच्च(ल्लभतेफलं)फलंलभेत्॥ 20
क्षेत्राधिक्यंसमालोक्य निर्णीतव्यार्चकद्विजाः
भिन्नगोत्र समुत्सन्ना यधाविभव विस्तरम्॥ 21
अर्चकोपाधि प्रकल्पनविधिः
तत्कुटुम्बाभि वृद्ध्यर्ध मुपाधिं(कल्पयेद्विजाः)परिकल्पयेत्
(शाश्वतञ्चैववसतिं)वसतिंशाश्वतन्तेषां वंशपारं परागतम्॥ 22
प्रतिष्ठन्तेतुदेवस्य यजमानः प्रसन्नधीः
आचार्यस्याज्ञयादेव सन्निधौपूयकद्विजम्॥ 23
समाहूय सुमूहूर्ते नमस्कृत्ययधाविधि
बद्धाञ्जलिपुटोम्भूत्वा (इतिविज्ञापनञ्चरेत्)विज्ञापन मधाचरेत्॥ 24
देवस्याराधनार्धाय त्वत्कुटुम्बप्रवृद्धये
(करिष्याम्यद्यभूदानं)मयादत्तामिमां भूमिङ्गृहाणद्विजपुङ्गव.॥ 25
प्रतिष्ठाफलसंसिद्धि र्येतस्माद्दान कारणात् दीयतां मम श्रीनाधः-
प्रसन्नस्तु दयामयः (इत्यधिकपाठः)
इतिविज्ञा प्यकर्तातु प्रसन्ने नैवचेतसा
अर्चकस्स हरि स्साक्षाच्चररूपीन संशयः॥ 26
इतिमत्वातु हृदये प्रणम्य शिरसाभुवि
अर्चकस्य करीभूमिं सहिरण्य फलोदकाम्॥ 27
दत्वाय धोक्तविधिना भूदानं देवसन्निधौ
शिलायां ताम्रपत्रेवा लिखित्वादान शासनम्॥ 28
अर्चकाय प्रदातव्यं (कर्तानिर्मलचेतसा)निर्मलेनैवचेतसा
यःकरोति प्रसन्नात्मा (चैतद्भूदानमुत्तमं.)विधिनाने नकेवलम्॥ 29
भृतकनिर्णये प्रत्यवायः
तद्वंशजाः परंयान्ति शतपूर्वाशतापराः
इत्येवं विधिनाकर्ता भगवत्पूजनार्धकम्॥ 30
भूदानमेव कुर्वीत भृतकं नकदाचन
भूमीदानं विनाकर्ता भृतकं प्रददातिचेत्॥ 31
तस्यवंश क्षयम्भूयात्तस्यायु श्श्रीश्चनश्यति
योगृह्णा तिद्विज श्रेष्ठाः भृतकं हरिपूजने॥ 32
सवैदेवलकः प्रोक्त स्सर्व कर्म बहिष्कृतः
तस्मात्सर्व प्रयत्नेन भूमीमेवप्रदापयेत्॥ 33
दानशासन नामनिर्णयः
भगवत्प्रीत येचैत द्दानशासन मुत्तमं
लिखित्वा भगवन्नाम्मात्वर्चकायप्रदापयेत्॥ 34
देवनाम्मातु भूदान मुत्तमं परिचक्षते
अर्चकस्य भवेन्नाम्मा मध्यमं फलदायकम्॥ 35
अधमं चोदितं कर्ता स्वनाम्मा यदितल्लिखेत्
केवलं परमार्धाय कर्तातु भगवद्ग्रुहम्॥ 36
देवादायस्वीकरणे अर्चकस्यार्हता यजमानस्य प्रत्यवायश्चछ
यदिनिर्माय तेतर्हि तद्देवाल यरूपतः
आदायं लभतेचैत त्किञ्चिद्वा(धिकमेववा)घनमेववा॥ 37
विषप्रायं(तुतंवीक्ष्य[दृष्ट्वा])समालोक्यअर्चकेभ्यः प्रदापयेत्
कृतेत्वेत न्महात्यागङ्कर्तासद्यशमाव्मुयात्॥ 38
योमोहाद्लव मात्रंवादेवादायं (तुभक्षयेत्)भुजत्यसौ
सगच्छेन्नरकान् घोरान्‌ शारवादीन् नराधमः॥ 39
तस्मात्सर्व प्रयत्नेन निष्कामोस्धापयेद्धरिम्।
स्थानाचार्यलक्षणं
भगवत्पादतीर्थाम्बु सेवनार्थंवरेत्ततः॥ 40
स्थानाचार्यञ्चतत्थ्साने हस्तकञ्चनियोजयेत्
सद्वंशचो सत्यवादी सज्जनोसद्गुकणारः॥ 41
सदाचारीच सद्भक्त स्सदाहरि परायणः
क्रोधलोभमदाद्यैस्तु वर्जितोवैष्णवोत्तमः॥ 42
वेदवेदाङ्ग वेदीच तपस्स्वाध्यायतत्परः
पाञ्चरात्र विधानज्ञः पञ्चसंस्कार(संयुतः)दीक्षितः॥ 43
पाञ्चकालिक धर्मज्ञः परमैकान्तिरुत्तमः
सर्वावयवसम्पूर्णो सदारोग्यशरीरकः॥ 44
तत्कर्तव्यविधयः
वयोवृद्धः कृपामूर्ति स्थ्सानाचार्येभवेच्छुचिः
वंश(पारम्परेणैव)क्रमागतेनैवविधिनाहरिसन्निधौ॥ 45
प्रसादं भगवत्तीर्धं प्रधमं(सपरिगृहेत्)तुपरिगृहेत्
आलयेचैव वस्तव्य महोरात्रं स्वयं गुरुः॥ 46
सूर्योदयं समारभ्य यावदर्चावसानकं
तत्सम्मानादि तदाश्रमनिर्णयः
ब्रह्मोत्सवादिकेत्वादौ तस्यसन्मानमुत्यते॥ 47
ब्रह्मचारिर्ग्रुहस्तोवा यतिर्वा लक्षणैर्युतः
स्थानाचार्योभवेत्सत्यमिति(शास्त्रविनिश्चयः)शास्त्रेषुनिश्चयः॥ 48
यतिश्चेदुत्तमः प्रोक्तोगृहस्थुर्मध्य मस्मृतः
अधमो ब्रह्मचारीस्यात्थ्सानाचार्य विनिश्चये॥ 49
मठसाम्प्रदाय निरूपणं
स्थानाधीपोयतियदिस्यात्तन्निवेशार्धमादरात्
द्वितीयावरणेवापि तृतीयावरणेपिवा॥ 50
मठमेकन्तुनिर्माय दातव्यङ्कर्त्रुरिच्छया
मठस्यसाम्प्रदायेन मुख्यशिष्यो भवेद्गुरुः॥ 51
यतिश्चेन्मधनाम्नाच गृहस्थस्तस्यनामनि
तदुपाथिप्रकल्पनं
ग्रामंवाभूमिवातस्य जीवनार्धं प्रकल्पयेत्॥ 52
तत्सङ्ख्या निर्णयः
क्षेत्राधिक्यतयाप्येकद्वि त्रिसङ्ख्याकवैष्णवान्
स्थानाचार्य पदेकर्तानिश्छित्य तदनन्तरम्॥ 53
अध्यापकाः
वेदपारायणार्धेच शास्तप्रस्तोत्रप्रपाठने
द्राविडाम्नायपठने प्रत्यहन्देवसन्निधौ॥ 54
(अध्यापक गणं स्थाप्यं) आध्यापकानीचवरये त्पूर्वोक्तेनैववर्त्मना
तत्सङ्ख्या निर्णयः
सहस्रमयुतन्नापि शतमष्टोत्तरन्तुवा॥ 55
चतुस्सप्तति सङ्ख्यावा द्वात्रिंशद्वायधाविधि
द्वादशाष्टाचतदनु चतुरोप्यधमाधमम्॥ 56
अध्यापकान् तुवरयेत्ध्सानाधिपतिनासह
अथ्ययन प्रशस्तिः
देवालयेषुसर्वत्र मुख्यमध्ययसंस्मृतम्॥ 57
शरीरेपोषणंयद्व न्मुख्यमित्यभिधीयते
तधैवाध्यापकैर्नित्य मालयेस्तोत्रमुच्यते॥ 58
अथ्यापक सङ्ख्या यामुत्तमाधम निरूपणम्
अध्यापकानांसङ्ख्यास्या दयुतन्दिव्यमुत्तमं
सहस्रनामगणनात्तत्सङ्ख्याचोत्तमोत्तमम्॥ 59
अष्टोत्तरशतंयस्तु तत्स्यादुत्तममध्यमं
चतुस्सप्तति(पीठाख्य)सङ्ख्याक मुत्तमाधममीरितम्॥ 60
द्वात्रिंशदुपचाराणां सङ्ख्यास्यान्मध्यमोत्तमा
चतुर्विंशतिनामानां सङ्ख्यामध्यममध्यमा॥ 61
उपचारैष्षोडशभिः मध्यमाधममुच्यते
भूतादिमुनिसङ्ख्याकम् अधमोत्तममीरितम्॥ 62
अष्टदिक्सङ्ख्ययायत्तु तत्स्यादधममध्यमं
व्यूहसङ्ख्यातुसाप्रोक्ता अधमाधमनामकम्॥ 63
इत्येतेध्यापकाःप्रोक्तावैष्णवार्चाविधानके
एतैस्तुसर्वदागेहे देवदेवस्यशार्ज्गिणः॥ 64
आध्येतव्यास्सदावेदशास्त्रस्तोत्रादिकाश्शुभाः
क्षेत्राधिक्यतया अध्यापकसङ्ख्या निर्णयं
दिव्यक्षेत्केषु(सर्वेषु)सर्वत्र उत्तमोत्तमसङ्ख्यया॥ 65
अध्यापकगणंस्थाप्यं सर्वलोकसुखावहम्
अशक्तश्च्येददाकर्ता अधमोत्तमसङ्ख्यकान्॥ 66
अध्यापकान्तुवरयेत्तस्मादल्पन्नकारयेत्
अथ्यापकानां कर्तव्यविथयः तत्सान्मातादि
ऋग्वेदं पूर्वदिग्भागे यजुर्वेदञ्च दक्षिणे॥ 67
पश्चिमेसामवेदञ्च अधर्वं चोत्तरेतधा
इतिहासं(चाग्निदेशे.)चाग्निकोणे नैरुत्यांस्तोत्रमुत्यते॥ 68
धर्मशास्त्रन्तुवायव्ये ईशा(न्याम्मन्त्रपाठकं.)न्यामागमंस्मृतं
द्राविडाम्नायमेकैकं चतुर्दिक्षुचपाठयेत्॥ 69
द्वादशाक्षरसङ्ख्याका श्चैवमध्यापकास्सदा
दिवारात्रञ्चदेवेशं प्रार्धयेल्लोकरक्षणे॥ 70
राजाराष्ट्राभिवृध्यर्धं निर्मलेनैवचेतसा
यात्राकालेपिचैतेषां स्तवंहारिसमीपतः॥ 71
वस्तव्यन्नान्यधायात्रा पुनातिग्रामवासिनः
तस्मात्तान् केवलम्भूत सरोयोगीश्वरादिकान्॥ 72
मत्वालोकस्तुसम्भाव्य तरिष्यतिविनिश्चयं
देवालयेपिचैतेषां सत्कारम्प्रधमं(चरेत्)स्मृतम्॥ 73
हरिप्रसादतीर्थाद्यै रादौतान्‌परि(तोषयेत्)तृप्त्ययेत्
शेषामुपाधिपरिकल्पनम्
ऎतेषाञ्जीवनार्धाय यजमा(नस्स्यशक्तितः)नोयधावसु॥ 74
भूमिंवाभृतकंवापि शाश्वतम्परिकल्पयेत्
भूवसत्त्युत्तमम्प्रोक्तं भृतकन्त्वधमम्भवेत्॥ 75
तस्मात्सर्वप्रयत्नेन भूमीमेवप्रदापयेत्
हस्तकाःतत्कर्तव्यविधयः
अर्चकस्यसहायार्धं देवकार्येष्वहर्निशम्॥ 76
पात्रादिशोधनार्थञ्च दीपप्रज्वलनार्धकं
हस्तघण्टाचालनार्थं प्रोक्षणायस्थलादिकम्॥ 77
तत्सङ्ख्या
एकस्यार्चकविप्रस्य द्वौद्वौसङ्ख्याकवैष्णवौ
अर्चकार्हैश्चसर्वैश्च लक्षणैस्संयुतौशुचौ॥ 78
तदुपाधिः
हस्तकौवरयेत्तेषां भूमिंवाभृतकन्तुवा
निर्णीतव्यं यधाशक्ति यजमानेनभक्तितः॥ 79
पाचकाः त्सङ्ख्याच.
त्रिकालन्देवदेवस्य हविःपचनकर्मणि
द्वादशन्नवकंवापि षट्त्रिसङ्ख्याकवैष्णवान्॥ 80
पाचकान् लक्षणैर्युक्तान् पूर्वोक्तविधिनातुवै
तद्विधयः
पाकशस्त्रेषुनिपुणान् निर्णीतव्यंयधावसु॥ 81
हविःचनकालेतु तेबध्वानाशिकापुटं
नैवेद्यान्तम्प्रवर्तेत भयभक्तियुतास्सतम्॥ 82
सम्भाषणम्परित्याज्यं पूक्वोक्तसमयेद्विजाः
तदुपाधिः.
येतेषाञ्जीवनार्धाय भूमिंवाभृतकन्तुवा॥ 83
कर्तास्वशक्तिमालोक्य(यधाशक्तिविनिश्चयेत्)निर्णीतव्यं द्विजोत्तमाः
तदितर परिचारक निर्णयः
भेरीमृदङ्गपटह वीणावेण्वादिवाद्यकान्॥ 84
घण्टाकाहलतूर्यादि मर्दलध्वनिकारकान्
नृत्तगीतादिनिपुणान् वन्दिमागथलेखकान्॥ 85
वेत्रहस्तान् भटाञ्चैव गजाश्वोष्ठ्रादिपालकान्
गोपालकान् देवदासीः रधसारधिकान् तधा॥ 86
स्धानशुद्धिकरान्‌चैव पात्रशुद्धिकरान्‌तधा
छत्रचामरवेत्रादि धारकान्‌वाहकान्‌ततः॥ 87
देवपूजाभिवृध्यर्धं यधाशक्तिनियोजयेत्
देवालयसेवकानर्हतानिरूपणं
सेवकास्सर्वयेवैते पञ्चसंस्कारसंयुताः॥ 88
अन्वास्त्वनर्हाइत्युक्ताहरेर्गेहेबुधोत्तमाः
एदेषाञ्जीवनार्धाय भूमिंवाभृतकन्तुवा॥ 89
तदुपाथिः प्रकल्पनं फलश्रुतिः
यधायोग्यंविनिश्चित्य यजमानःप्रसन्नधीः
तान्‌तान्‌निश्चितकार्येषु तदाकर्तानियोजयेत्॥ 90
एवमुक्तविधानेन पाञ्चरात्रोक्तवर्त्मना
(परिचारकैश्च सर्वैश्च,)परिचारकवर्गैश्च यःप्रतिष्ठाप्यतेहरिम्॥ 91
सयातिपरमंस्धानं योगीनामपिदुर्लभं
साक्षाद्वैकुण्ठनगरं(तत्रसायुज्यमाप्नुयात्)तत्रास्तेभगवानिव॥ 92
सर्वपरिचारिक निर्णयशक्त्यभावे
यजमानस्यविभवे सर्वानेतान्‌प्रकल्पयेत्
नोचेदर्चकमेकंवा वरयेद्भक्तिभावतः॥ 93
अर्चकद्वितयंशौरिं संस्थाप्यचयधाविधि
यजमानोप्यशक्तश्चेत्सम्पूर्णम्फलमाप्नुयात्॥ 94
जीर्णोद्धारे यधा पूर्वक सङ्ख्या प्रकल्पनन्तल्लोपे प्रत्यवाय किधनञ्च
जीर्णोद्धारादिसमये प्यालयस्यमधुद्विषः
ऋष्यादिपूजितेस्थाने पारम्पर्याक्रमंविवा॥ 95
विशेषन्नाचरेत्किञ्चि(ल्लोकक्षेमार्ध मेवहि)द्राजाराष्ट्राभिवृद्धये
क्रोधाद्वालोभतोवापि मोहाद्वापत्सरेणवा॥ 96
यःकरोतिविभेदोस्मिन् तस्यवंशक्षयं(धृवं)स्मृतं
दिव्यक्षेत्रेषुसर्वत्र पारम्पर्याक्रमागते॥ 97
परिचारकसङ्ख्याया(मल्पाधिक्या)मल्पाधिक्यन्नकारयेत्
आधिक्यन्निष्फलम्प्रोक्तम् अल्पत्वंलोकनाशकम्॥ 98
तस्मात्सर्वप्रयत्नेन(विभेदन्तुवकारयेत्)न्यूनाधिक्यन्नकारयेत्
इत्येवमर्चकादिनां सङ्ख्यानिर्णयमुत्तमम्॥ 99
हरिणास्वयमेवोक्तं पुराकमलजन्मने
सङ्ग्रहेणमया(चैतत्)त्वद्यबोधितं(संयमीश्वराः)गोप्यमुत्तमम्॥ 100
इति श्रीपाञ्चरात्र-रहस्यसारे परमपुरुषसंहितायाम्
अर्चक-परिचारकादि-सङ्ख्यानिर्णयो नाम
द्वितीयोऽध्यायः