श्रीमत्पाञ्चरात्र दिव्यागमान्तर्गत
श्रीपरमपुरुष संहिता.
प्रथमाध्यायः शास्त्रावतरणं.
मङ्गलं
श्लो॥ श्रीवैकुण्ठनिवासाय श्रीनिवासाय वेधसे।
शङ्खचक्रगदापद्म धारिणे वनमालिने॥ 1
भक्ताभीष्टप्रदाताय भव्यरूपायशार्जिणे।
पतितावन दीक्षाय परमात्मस्वरूपिणे॥ 2
सृष्टिस्थित्यन्तरूपाय सुरेशाय परायच।
मत्स्याद्यनन्तरूपाय(मत्स्यकच्चादिरूपाय)माथवायनमोनमः॥ 3
भागीरधीतीरवर्णनम्
एकदानारदोमौनि(प्यटन् भुवन त्रयं) स्सञ्चरन् भुवनत्रयम्।
नानातरुलतागुल्मैः नानामृगसमाकुलैः॥ 4
नानापुष्पफलैश्चैव नानाजाति विहङ्गमैः।
निषेवितंसदारम्यं भागीरध्यास्तटम्महत्॥ 5
तत्रनारदागमनं-
मुनिमुख्यैस्चमोपेतं महापातकनाशनम्।
गत्वा(तत्रतु सुस्नात्वा)स्नात्वामहभक्त्याध्यात्वा(तुमथुविद्विषं)चैवजनार्दनम्॥ 6
तत्रस्थान् संयमीन्द्राञ्च नमस्कृत्ययधाविधि।
तानुवाच मुनीन्द्रस्तु भक्तिनम्रस्त्विदंवचः॥ 7
नारदवचनं-
भोनंयमिवरायूयं किमर्धमिहचागताः।
किं कुर्वन्त्यत्रमे सर्वं विदतां विस्तरेणच॥ 8
एवं सम्प्रार्धितास्सर्वे ऋषयोहृष्टचेतसाः।
सुरर्षि प्रवरंवीक्ष्य(नमस्कृत्य पुनःपुनः) प्रणम्यचमुहुर्मुहुः॥ 9
तेतमूचुरिदंवाक्यं वक्ष्यमाणेन वर्त्मना।
भगवन् सर्वधर्मज्ञ नारदद्विज(सत्तम)पुङ्गव॥ 10
ऋषि प्रतिवचनं-
वयम्पवित्रितास्सर्वे भवद्दर्शनहेतुना।
(किन्त्वेतदाश्रमञ्चैव)किन्त्वस्मदाश्रमञ्चैतत् भवत्पादाब्जरेणुभिः॥ 11
परमं पावनं चाभू दस्मत्तप फलन्तुत्वम्।
भावितास्सत्वमेतद्वै महत्मन् मुनिशेखर॥ 12
(आस्माभिस्समधीतान्स्यु स्सर्वे वेदाश्चभूतले)अस्माभिस्तुपुरासर्वे वेदाधीतास्समग्रतः।
तधैवचतदङ्गानि शास्त्राण्यन्यानि विस्तरात्॥ 13
किन्त्व स्माकम्ब्रह्मनिष्ठा नकेनापिच प्रापिता।
तस्मात्तद्ञातु(कामेन)कामास्तु इहागत्यसुदुस्तरम्॥ 14
तसस्तप्तं चिरन्तेन शङ्करोप्रीतमानसः।
पार्वत्यासहितोदेवः प्रत्यक्षमभवन्मुने॥ 15
तस्यवैकृपयास्माकम् एकायनमहाश्रुतेः।
विज्ञानं प्रापितोकिञ्चि त्तस्याचरण(दीक्षया)दीक्षिताः॥ 16
अत्रभागीरधीतीरे कृतावासावयम्मुने
किन्त्वस्माकमिदानीञ्च भगवच्छास्त्रचोदिते। 17
हरेरर्चादिकेकेचि त्संशयाः परिवर्तते।
तेषान्निवारणार्धाय त्वमेवार्हसिनारद॥ 18
एकायन शृतिप्रोक्त सर्वधर्म विदाम्भुवि।
त्वत्समोनास्ति कोप्यस्मिन् लोकेवादिविचापिवा॥ 19
तस्माच्छ्रीमत्साञ्चरात्र शास्त्रोक्तेनैववर्त्मना।
अस्मत्संशयजालन्तु(विनिवार्यकृपाङ्कुरु)परिहृत्यदयाङ्कुरु॥ 20
पुनरपिनारद वचनम्
इति सम्प्रार्धितान् मौनीन् दृष्ट्यातुकरुणानिधिः।
नारदो परमैकान्ति रित्येवञ्चाभ्यभाषत॥ 21
शास्त्रावतरणं
श्रूयतां(मद्यमुनःयो)मुन यस्सर्वे यदुष्माभिरपेक्षितम्।
भगवच्छास्त्रराहस्यं यधाशक्तिवदाम्यहम्॥ 22
पुरात्वेतन्महाशास्त्रं लोकानुग्रहकाम्यया।
ममपित्राविधात्रातु वैकुण्ठनगरे श्रुतम्॥ 23
श्रीमन्नारायणोशौरि र्हरिःपरमपूरुषः।
पञ्चरात्रिषु तत्सर्वं ब्रह्मणेप्य वदत्स्वयम्॥ 24
तदन्वेतन्मयाधीतं समग्रम्ममपितृणा।
सरहस्यञ्च श्रीविष्णो राराधन परं परम्॥ 25
एतद्ज्ञात्वाभवाम्बोधि निमग्नामानवाभुवि।
शाश्वतं श्रीहरेस्ध्सानं प्राप्नुवन्तिन संशयः॥ 26
इत्येवंवदतन्धीरं नारदम्मुनिसत्तमम्।
वीक्ष्यहृष्टमनांसस्तु ऋषयोभगवत्प्रियाः॥ 27
तमाश्रमेचोपविश्य अर्घ्यपाद्यादि(कैल्लुभैः) पूर्वकम्।
नमभ्यर्च्यफलादीनि कन्दमूल मधूनिच॥ 28
दत्वासन्तृप्त्यविधिव त्तस्यसावीप्यभूतले।
तेचोपविश्यहृदये ध्यायन्(तुमधुविद्विषं)देवञ्जनार्दनम्॥ 29
संशयान् पृच्छतुञ्चैक मेकमा रेभिरेतधा
इति श्रीपाञ्चरात्र-रहस्यसारे परमपुरुष-संहितायां
शास्त्रावतरणं नाम प्रथमोऽध्यायः