३३

.

औपचारिक मन्त्रकल्पः

ब्रह्मा :—

अथौपचारिकान् 1 मन्त्रान् शुश्रूषे भगवन्नहम् ।
2 प्रयुज्यमानैर्यैः प्रीतिर्महती ते भविष्यति ॥ 33.1 ॥

श्रीभगवान् :—

ब्रह्मन्नाराधनाङ्गानि मन्त्राण्यवहितश्शृणु ।
यानि श्रुत्यन्तभागेषु शृण्वन्ति ब्रह्मवादिनः ॥ 33.2 ॥

3 ब्रह्मकोशं पुरस्कृत्य ककुभं 4 ब्रह्ममस्तकम् ।
वैराजं देवरं पश्चादेकनेत्रमृगेश्वरौ ॥ 33.3 ॥

पवित्रभुवनौ चापि ब्रह्मन् चण्डवनालयौ ।
हुताश वामनौ पद्मागोपनौ विनतात्मजम् ॥ 33.4 ॥

विघ्नेशं मन्दरं कान्तं कलात्मा च जयाजयौ ।
पीयूषरामौ श्रीकुम्भौ सूक्ष्मं गोपनपश्चिमौ ॥ 33.5 ॥

वरुणं भद्रहस्तान्तं विघ्नेशं पाटलप्रियम् ।
अनिरुद्धं 5 जयेणेशौ शुक्लं जयमथोदयम् ॥ 33.6 ॥

भास्वन्तमृतधामानं शत्रुदाहकवामनौ ।
6 पद्मादिदेवौ श्रीवत्सं दक्षं भास्करगोपनौ ॥ 33.7 ॥

पवित्र 7 भुवनौ वह्निभुवनौ शत्रुदाहकम् ।
पश्चिमास्यं 8 मकारं च हुताशनसुधारसौ ॥ 33.8 ॥

अन्तिमं ककुभं कृत्वा जितन्तामनुमिरयेत् ।
भानुविष्णुध्रुवं बीजं ब्रह्मन्नेतस्य कल्पयेत् ॥ 33.9 ॥

अङ्गान्यप्यमुना कुर्यादृषिस्सनके उच्यते ।
छन्धोऽनुष्टुप्तथैतस्य देवता 9 पुरुषोत्तमः ॥ 33.10 ॥

जपोऽम्बुतर्पणं होमं 10 कृतं षोडशलक्षवत् ।
धर्मार्थकाममोक्षार्थान् पुंसां सर्वं प्रयच्छति ॥ 33.11 ॥

पञ्चोपनिषन्मन्त्राः

पञ्चोपनिषदां मन्त्रानथ ते कथ याम्यहम् ।
परमेष्ठी पुमान् विश्वो निवृत्तस्सर्व एव हि ॥ 33.12 ॥

आम्नायादिं क्रोधरूपं 11 सङ्कर्षणगजानम् ।
दक्षानिरुद्धौ 12 पापघ्न वह्निगोपनमारुतान् ॥ 33.13 ॥

पवित्रपापकौ दक्षमाधवौ पद्मसम्भव ।
क्रोधकौस्तुभ सङ्खाद्यैर्गोपनं जयमन्दरौ ॥ 33.14 ॥

विघ्नेशमाधवौ चान्ते परमेष्टिनमिरयेत् ।
ऋषिरादित्यनामास्य च्छन्दो गायत्र मुच्यते ॥ 33.15 ॥

देवता च सदा विष्णु र्जपेद्ध्वादशलक्षवान् ।

पुरुषमन्त्रः

प्रथमं प्रणवं कृत्वा धूलिकेतन गोवनौ ॥ 33.16 ॥

विघ्नेश द्वितयं दक्षकलान्तौ पश्चिमाननम् ।
वह्न्येदिदेवौ शङ्खाख्यं पश्चिमं भुवनं तथा ॥ 33.17 ॥

पावकं 13 भुवनं पश्चाच्चक्रं दाहकगोपनौ ।
जयदक्षौ भद्रपाणी देवदत्तौ तथा न्तिमौ ॥ 33.18 ॥

इत्येवं पौरुषं मन्त्रमिरयेन्मन्त्रकोविदः ।
ऋषिं नारदमस्याहुश्छन्दो गायत्रमीरितम् ॥ 33.19 ॥

देवता वासुदेवश्छ

विश्वमन्त्रः

शृणु विश्वमतः परम् ।
ताराग्निगोपनौ 14 दक्षभद्रपाणी कलान्तिमौ ॥ 33.20 ॥

पवित्रवह्न्यादिदेवान् शङ्खं वरुणविक्रमौ ।
श्रीवत्सकुंभौ विजयमन्दरौ विघ्नमाधवौ ॥ 33.21 ॥

इतीरितो विश्वमन्त्रः पुनर्द्रष्टा भृगुर्मनोः ।
छन्दो गायत्रमेतस्य वाच्यस्सङ्कर्षणाभिधः ॥ 33.22 ॥

निवृत्तमन्त्रः

उद्गीथकुम्भादिदेवौ विघ्नेशद्वयमस्तकम् ।
मन्दरं 15 वरुणं पापहननं वह्निगोपनौ ॥ 33.23 ॥

वायुं विघ्नेश्वरं रामं पीयूषं 16 वसुमस्तकम् ।
एकनेत्रं वायुमादिदेवान् वैराजमन्दरौ ॥ 33.24 ॥

मनुष्येशं मृगेशानं निवृत्तिमनुरीरितः ।
ऋषिस्तु नारदश्छन्दो गायत्रं पूर्वमीरितम् ॥ 33.25 ॥

प्रद्युम्नो देवताऽनेन निवृत्तिं लभते पुमान् ।

सर्वमन्त्रः

प्रणवं पीतवर्णाभं गोपनं मानुषेश्वरम् ॥ 33.26 ॥

माधवीं सर्गिणं पापहननं वह्निगोपनौ ।
चतुर्गतिं कलात्मानं कुम्भं पावकगोपनौ ॥ 33.27 ॥

वै राजमन्दरौ स्याता मुद्धार्य चतुरासन ।
गजास्यं देवदत्तान्तं सर्वमन्त्रं प्रकल्पयेत् ॥ 33.28 ॥

उष्णिक्छन्दः पुनस्त्वस्य दृष्टास्यान्नीललोहितः ।
अनिरुद्दो देवता च मनवः पञ्च कीर्तिताः ॥ 33.29 ॥

पञ्चोपनिषदः पुण्या 17 स्ता एताश्चतुरानन ।
महापातकनाशिन्यः 18 पराकादि फलप्रदाः ॥ 33.30 ॥

एतास्सम्यगधीतेयो वेदान्तानथवाखलान् ।
तावुभौ सदृशौमन्ये 19 पञ्चभूश्शस्य तेऽधुना ॥ 33.31 ॥

प्रायश्चित्तेषु होमेषु प्रतिष्ठाप्रोक्षणादिषु ।
प्रयुञ्जीत पुमानेतास्सर्वपापप्रणाशिनीः ॥ 33.32 ॥

शान्तिमन्त्रचतुष्टयम्

अतः परं प्रवक्ष्यामि शान्तिमन्त्रचतुष्टयम् ।
प्रणवं मधुहन्तारं पवनं मधुसूदनम् ॥ 33.33 ॥

भास्करं पुरुषात्मानं गदिविघ्नेशमाधवान् ।
भल्लायुधं हृषी 20 केशमग्निं भल्लायुधोदयम् ॥ 33.34 ॥

कुम्भं मृगाङ्कपीयूषौ कमलाननमन्तिमम् ।
शुक्लं 21 कुम्भमथो शत्रुं भास्करं गोपनं तथा ॥ 33.35 ॥

इतीरयेन्मनुं ब्रह्मन् ऋषिस्याद्देवता 22 मनोः ।
छन्दो गायत्रमेतस्य देवता तिग्मतेजसः ॥ 33.36 ॥

उद्गीथं विजयं कुम्भो विघ्नेशात्रिर्मृगेश्वराः ।
पियूषगोपनौ भद्रह 23 स्तगोपनयष्टयः ॥ 33.37 ॥

जृम्भलं पद्मनाभं च भानु 24 मद्विजयोनयः ।
मुसलि गोपनः पश्चा 25 ज्जयं कुम्भं च माधवम् ॥ 33.38 ॥

नेत्रोतदेहौ सूर्यश्च 26 श्रीधरौ विजयावनौ ।
श्रीविघ्नेशस्सुभद्रोऽथ गदी वरुणमस्तकाः ॥ 33.39 ॥

वैराजकुम्भादिदेवा दक्षो मधुनिघादनः ।
आदित्यरामनासिक्यचन्द्र वामनसर्गिणः ॥ 33.40 ॥

हुतान्त इति मन्त्रोऽयमाहनीयश्चतुर्मुख ।
ऋषिमस्य 27 भृगुं प्राहुश्छन्दो गायत्रमित्यपि ॥ 33.41 ॥

हुताशनो देवता च देवानां प्रथमं मुखम् ।
निगमादिं श्रियः कान्तौ विजयद्वय 28 विक्रमौ ॥ 33.42 ॥

29 क्रोधमेघौ पवित्रं च श्रीधरं पावकोदयौ ।
उग्रात्मवह्नीद्युमणिरनलं बन्धु मस्तकम् ॥ 33.43 ॥

पवित्रं बन्धुनासिक्यं गदिनं पुलहं तथा ।
दृष्टिं मृगेशं द्युमणिं रामो वैधरपावकौ ॥ 33.44 ॥

वरुणं मायया साकं प्रचण्डं पाटलप्रियं ।
पवित्रदहनौ वायुस्वच्छन्धौ ठठपश्छिमौ ॥ 33.45 ॥

इत्थं प्रकल्पयेन्मन्त्रमृषिर्धनद उच्यते ।
छन्दो गायत्रमेतस्य देवता हरिपिङ्गलः ॥ 33.46 ॥

30 तारं पवित्रं विजयं विघ्नेशं भृगुगोपनौ ।
भास्करं पुरुषात्मानं गदिनं विघ्नमाधवौ ॥ 33.47 ॥

भल्लायुधहृषीकेशौ वह्निं भल्लायुधं तथा ।
कुम्भसंपुटितंशुक्लं चन्द्रपियूषगोपनान् ॥ 33.48 ॥

31 भानुमन्तमथो शत्रुमिति मन्त्रं विवेचयेत् ।
ऋषिर्बृहस्पतिस्तस्य छन्दः पूर्ववदीरितम् ॥ 33.49 ॥

आदित्यो देवता ह्येवमुक्तं मन्त्रचतुष्टयम् ।
यत्रमन्त्रं क्रियाद्रव्यहीनं शान्त्यादिकर्मणि ॥ 33.50 ॥

तस्मिन्नेतत्प्रयुञ्जीत तथायं साधको विधिः ।

पञ्च विंशतितत्वमन्त्राः

मन्त्राणि ते प्रवक्ष्यामि तत्त्वानां पञ्चविंशतेः ॥ 33.51 ॥

प्रयुज्यमानैर्यैर्विश्वं प्राणितिप्राणवर्जितम् ।
प्रणवस्योपरि स्पर्शानाहुर्वामनमस्तकान् ॥ 33.52 ॥

नमोन्तान् प्रातिलोम्येन योजयेत्पञ्चविंशतिम् ।
परशब्दं चतुर्थ्यन्तं न तेः पश्छात्प्रकल्पयेत् ॥ 33.53 ॥

जीवं देहं तथा 32 बुद्धिर्गर्वं पश्चान्मनस्तथा ।
शब्दस्पर्शौ तथा रूपं रसो गन्धश्च पञ्चकम् ॥ 33.54 ॥

एतान् पञ्चापि विषयान् तन्मन्त्रवचनोदरान् ।
श्रोत्रं त्वक्च तथा नेत्रं जिह्वा घ्राणं ततः परम् ॥ 33.55 ॥

वाचं पाणिं तथा पादं पायूपस्थं पितामह ।
पृथिवीं प्रथमं तोयं तेजोमारुतमन्वतः ॥ 33.56 ॥

प्योम चान्ते चतुर्थ्यन्तै रात्मशब्दैस्तथो त्तरैः ।
कृतनामानिमान् शब्दान्मन्त्ररूपेण कल्पयेत् ॥ 33.57 ॥

दीपमन्त्रः

उद्गीथकृतनासिक्यौ हुताशं 33 बिन्दुमस्तकम् ।
ककुभं गदिनं वासुदेवं विजयवा मनौ ॥ 33.58 ॥

वह्निं गुहालयं चापि पवित्र मधुसूदनौ ।
चतुर्गतिं 34 मनुं प्राणं दीपार्थं मनुमिरयेत् ॥ 33.59 ॥

अक्षसूत्रमन्त्रः

तारं सूर्यहृषीकेशयष्टयः पुष्टिभीजवान् ।
मेघबिन्दू शुक्लरामौ ऋषिः पुण्यत्रिविक्रमौ ॥ 33.60 ॥

इन्दुर्गुहालयं पश्चाज्जयपावकगोपनाः ।
35 इति वायुर्नतिमत्स्या दक्षसूत्रमनुर्महान् ॥ 33.61 ॥

अर्घ्यमन्त्रः

तारं श्रीरामकौमारपुरुषात्ममृगेश्वरौ ।
विष्णुं पंचान्तकं वह्निं धूमध्वजगुहालयौ ॥ 33.62 ॥

पवित्रबन्धुसुमुखा माधवं प्रथमं तथा ।
हुताशं पद्मपाणिंच 36 वायुं वह्निं गुहालयम् ॥ 33.63 ॥

पश्चिमास्य 37 मधोशत्रुं शङ्खं च नतिमस्तकम् ।
इत्यर्घ्यमन्त्रं रचयेत्

पाद्यमन्त्रः

अथ पाद्यमनुं शृणु ॥ 33.64 ॥

तारं गदिद्रुवौ चापि गदध्वंसिमृगाधिपौ ।
पश्चिमं रामशिरसं विजयं 38 वह्निपश्छिमौ ॥ 33.65 ॥

एकविंशं पद्मनाभं मायां पवनपङ्कजौ ।
वह्निं द्वितीयमनिलं पापघ्नं मधुसूदनम् ॥ 33.66 ॥

39 वैधरं मारुतं वह्निं हृषीकेशोऽथ पश्चिमम् ।
रामं सुमुखसारङ्गौ नत्यन्तं मन्त्रमिरयेत् ॥ 33.67 ॥

अचमनमन्त्रः

आदौ व्यापिं शुक्ल वह्निं चन्द्रकुम्भौ जयानिलौ ।
मन्दरं पद्मनाभं च वै राजाग्निगुहालयाः ॥ 33.68 ॥

40 पापहन्तारमद्वेषी वनमाली मृगेश्वरौ ।
गोपनो वक्रतुण्डश्च दक्षविघ्नेशगोपनाः ॥ 33.69 ॥

वैराजदक्षौ विघ्नेशमाधवौ नतिमस्तकम् ।
इत्यचमन 41 मन्त्रस्स्याद्रूपादीनि यथा अमि ॥ 33.70 ॥

भोगनिवेदनमन्त्रः

42 प्रथमं चेदपि मनोन्धो पावान्दुरितात्मवान् ? ।
43 रामं दृष्टिमनुस्वारं गदिनं विष्णुसप्तमम् ॥ 33.71 ॥

आदित्यगोपनौ चण्डं वह्निजायावसानकम् ।
इत्येतत्कल्पितं मन्त्रं प्रतिभोगनिवेदनम् ॥ 33.72 ॥

प्रयुञ्जीत प्रयोगं च तस्मात्साधारणो मनुः ।

पुषाञ्जलिमन्त्रः

द्विषट्काक्षरमुधृत्य शिखण्डिपुलहं ध्रुवम् ॥ 33.73 ॥

सुभद्रकुंभौ विजयश्रीधरौ दक्षमाधवौ ।
पवित्रभुवनौ क्रोधपश्चिमान 44 नगोपनाः ॥ 33.74 ॥

ठठान्तमथ नत्यन्तं मनुमित्थं प्रकल्पयेत् ।
पुष्पाञ्जलिप्रदानेषु नियुञ्जीत जितं पुनः ॥ 33.75 ॥

वस्त्रमन्त्रः

तारश्शुक्लघटो यष्टिश्चन्द्रमा भुवनो नलः ।
सुभद्रवाय्यौतदेहनत्यन्तो मनुरीरितः ॥ 33.76 ॥

तेनाराधन 45 वस्त्रं स्यादाप्यायनमुपाचरेत् ।
इत्थमाराधनाङ्गानि मन्त्राणि कथितानि ते ॥ 33.77 ॥

ऐहिकसुखसाधनमन्त्राः

इदानीमैकान् मन्त्रान् प्रवक्ष्यामि मनोहरान् ।
स्वीकृत्य सप्तवर्णानि रोहिणिशमपांपतिम् ॥ 33.78 ॥

पवित्रमानुषेशनौ गोपनं पुण्यविक्रमौ ।
पश्चिमं विजयं वायुं माधवो वरुणानिलौ ॥ 33.79 ॥

वासुदेवं तथा दक्षं गोपनं जयमन्दरौ ।
विघ्नेशमाधवौ पापहननं पवनं तथा ॥ 33.80 ॥

गुहालयमथो यष्टिं सूर्यमूर्ध्वं जगत्पतिम् ।
यष्टिं कुम्भं जगत्प्राणं हृषीकेशं तथा ध्रुवम् ॥ 33.81 ॥

श्वेतांशुं वरुणं बिन्दुं द्विसूर्यं वामनं ध्रुवम् ।
ठठान्तिकं मनुं ब्रह्मन्नीरये 46 दथ तारकम् ॥ 33.82 ॥

नत्यन्तं शुक्लवरुणौ पश्चिमं विक्रमं जयम् ।
बन्धुमग्निं हृषीकेशं पश्चिमं मधुसूदनम् ॥ 33.83 ॥

चतुर्गतिमचामादिं माहेन्द्रं विष्णुपन्नगौ ।
मन्दरं वामनं पश्चात्पश्चिमं विजयानिलौ ॥ 33.84 ॥

देवदत्तं श्रियं वह्निं महामायां महाबलाम् ।
हृषीकेशं ध्रुवं चापि बीजमाम्रेडयेदिमम् ॥ 33.85 ॥

पवित्र 47 मनलं चण्डं गोपनं द्विविनायकम् ।
वैधरं मधुहन्तारं विजयं मन्दरं तथा ॥ 33.86 ॥

भद्रहस्तं मृगेशं च ठठान्तं मन्त्रमिरयेत् ।
सिन्धुद्वीपो मनोर्द्रष्टा विराट् छन्दो निगद्यते ॥ 33.87 ॥

स्वप्नादिपति रेतस्य देवता परमः पुमान् ।
हृषीकेशं यष्टिमन्त्रमिरयेन्मन्त्रकोविदः ॥ 33.88 ॥

उष्णिक्छन्दः पुनस्तस्य देवता नृहरिर्हरिः ।
48 तथा हि रसनामानि.. 49 मन्त्रं प्रचक्षते ॥ 33.89 ॥

50 अभिन्नविटपस्कन्धं स्पृष्ट्वा श्वत्थमिमं जपेत् ।
अहोभिस्सप्तभिर्मृत्युं लङ्घयेत्सं यतेन्द्रियाः ॥ 33.90 ॥

अल्पायाससाध्यामन्त्राः

अथाल्यायाससाध्यानि शृणु मन्त्राणि पद्मज ।
व्यापिनं पुरुषात्मानं वासुदेवं 51 नपश्चिमम् ॥ 33.91 ॥

रामं 52 विघ्नेश्वरं मायामुद्गीधरहितानिमान् ।
53 दक्षादीशादिदेवानामथाब्जं सुप्रतिष्ठितम् ॥ 33.92 ॥

वायुं पद्म 54 मथोशत्रुं शङ्खवह्निध्रुवानपि ।
हुतान्तमुद्धरेत्क 55 र्णगोभितिं मन्त्रमुत्तमम् ॥ 33.93 ॥

जपेल्लक्षमिमं मन्त्रमुफोष्यैकादशे हनि ।
द्वादश्यामपि कुर्यात् स्त्रीं 56 समुन्नतपयोधराम् ॥ 33.94 ॥

आवाह्य तस्यां 57 हुत्वा च पूजयित्वाच योगिनीम् ।
मध्यरात्रे बलिं दत्वा छिन्द्यात्तां प्रतियातनाम् ॥ 33.95 ॥

भूतं 58 भवद्भविष्यं च तस्य वक्ष्यति योगिनी ।
अम्नायादिं विधातारं प्रचण्डं वसुमस्तकम् ॥ 33.96 ॥

पश्चिमं विक्रमं लक्ष्मीं गोपनं खड्ग 59 धारिणम् ।
सविक्रमं घटं चाग्निं घटं च द्विरदाननम् ॥ 33.97 ॥

पङ्कजं 60 वारुणमथो सरसीरुहसम्भव ।
ककुभं वह्निमपरं पीयूषं गोपनं तथा ॥ 33.98 ॥

झषं गुहालयं चापि शङ्खं 61 वह्निं च मन्दरम् ।
श्रीधरं पद्मवैराजं गोपनं सूक्ष्मलोचनम् ॥ 33.99 ॥

वह्निं प्रचण्डं विघ्नेशं रामं मन्दरपावकौ ।
पीतादिदेवौ पुलहं यष्टिं पद्मगुहान्तिमौ ॥ 33.100 ॥

एकनेत्रं 62 श्रियं वह्निं वामनं वह्निमाधवौ ।
मृगेशभावसद्बन्धोन् विघ्नोपहतिकं तथा ॥ 33.101 ॥

स्वच्छन्दं विजयं वह्निं वीरसेनसरोरुहौ ।
आदिदेवं 63 तथा चन्द्ररविदृष्टिशुभप्रदौ ॥ 33.102 ॥

वह्निं विनायकं रामं द्विर्दक्षं चतुरासनम् ।
प्रचण्डः पावको यष्टिः पश्चिमास्यहुताशनौ ॥ 33.103 ॥

पियूषरामसहितौ शुभदं वायुगोपनौ ।
विजयं पञ्चबिन्दुं च वै राजं मधुसूदनम् ॥ 33.104 ॥

गणेशगोपनौ पश्चाद्गदिनं विजयं घटम् ।
एकदृष्टिं तथा वह्निं मन्दरं मधुसूदनम् ॥ 33.105 ॥

कुञ्जराननविष्ण्वन्तौ विघ्नेशं बन्धुमस्तकम् ।
ककुभं चन्द्रधवलं गोपनं पश्चिमाननम् ॥ 33.106 ॥

चतुर्गतिं ठठोपान्तमिति मन्त्रं प्रकल्पयेत् ।
अधस्तान्ने त्रवृक्षन्य जपेन्नेतदतन्द्रितः ॥ 33.107 ॥

नष्टं मुष्टिं 64 चिन्तनां च जानात्येतत्प्रसादतः ।

जलस्तम्भनमन्त्रः

सप्ताक्षरं प्रकल्प्यादौ वरुणं गोपनं दरम् ॥ 33.108 ॥

पियूषमाधवं दक्षं दृष्टिवह्निदरद्वयम् ।
पश्चिमाग्निमुखानेतान् दहनस्यान्तरोदितान् ॥ 33.109 ॥

सूर्य 65 रामौ पीबतन्धो द्विः प्रकल्प्यचतुष्टयम् ।
शुक्लं यष्टिविवस्वन्तौ वह्निं स्वाहावसानिकम् ॥ 33.110 ॥

इत्यम्बुस्तम्भनं मन्त्रं कल्पयेत्कमलासन ।

नदीवेगस्तम्भनमन्त्रः

प्रणवादिं वासुदेवं शुभदं पङ्क 66 जं तथा ॥ 33.111 ॥

मायामभ्यस्य हन्तारं फलहं शशिनं जयम् ।
यष्टिं भल्लायुधं चापि विघ्नेशं राममस्तकम् ॥ 33.112 ॥

सत्यन्तमुदकस्तम्भं मन्त्रं मन्त्र 67 विदीरयेत् ।
अनयोः पूर्वमन्त्रेण स्थितवत्सलिते चरेत् ॥ 33.113 ॥

उत्तरेण तु सिन्धूनां वेगस्तम्भं समाचरेत् ।

अग्निस्तम्भनमन्त्रः

अग्निस्तम्भनमन्त्रं ते कथयामि यथातथम् ॥ 33.114 ॥

सप्ताक्षरं कुम्भवह्निं भुवनं वनमालिनम् ।
गोपनं पुरुषात्मानं त्रिवह्निं शशलाञ्चनम् ॥ 33.115 ॥

वैराजबिन्दुं ह्रस्वान्तं चतुर्गतिमथो ठठम् ।
इत्यग्निस्तम्भनं मन्त्रं साधयेतयुतं नरः ॥ 33.116 ॥

68 लोहतैलं घृतं क्षीरं परशुं सलिलं तथा ।
सप्तचैतानि संस्पृश्य शीतश्छाग्निर्भविष्यति ॥ 33.117 ॥

69 उदरे पङ्कजस्येव सुखमासीत श्रुष्मणः ।

गोमहिषादिवश्यमन्त्रः

सप्ताक्षरं चतुर्थ्यन्तं विध्णुशब्दं चतुर्मुख ॥ 33.118 ॥

70 पवित्रं श्रीहृषीकेशं विघ्नेशं मधुसूदनम् ।
प्रद्युम्नं पापहननं विजयं वायुमाधवौ ॥ 33.119 ॥

71 दृष्टिं मन्दरं 72 पाताद्विष्ठठान्तं मन्त्रमिरयेत् ।
गवां च महिषाणां च कुर्यादेतेन वश्यताम् ॥ 33.120 ॥

व्यालादिदमनमन्त्रः

आदौ चतुस्त्रिवर्णानि धरप्रदगुहालयौ ।
पवित्रवह्निकमलं सुमुखं वह्निगोपनौ ॥ 33.121 ॥

वायुषठान्त इत्येष व्यालादिदमनो मनुः ।

रिपुनाशकपिशाचवशमन्त्रः

प्रणवे षष्ठशब्दादि सम्बुध्यन्तं पिशाचवत् ॥ 33.122 ॥

ऊर्ध्वलोकेश हननं 73 पाषाणेषु ठठोमनुः ।
इदं हि जपतो मन्त्रं रिपुमूर्धनि ताडयेत् ॥ 33.123 ॥

पिशाचरूपं प्रत्यक्षं पाषाणैरस्थिभिश्शवैः ।

गन्धर्वसाधनमन्त्रः

74 व्यापिनं गदिनं भद्रहस्तं पुण्यस्सरित्फतिम् ॥ 33.124 ॥

75 वह्निं हुताशं विष्ण्वन्तं ककुभं कुम्भविक्रमौ ।
श्रीकुम्भगोपनान् कुम्भं शशाङ्कं ब्रह्मसाधनम् ॥ 33.125 ॥

द्विर्मन्दरं 76 मधोश्शत्रुं सुभद्रं बन्धुमस्तकम् ।
पितं क्रोधन 77 मायामं विजयं गोपनं ध्रुवम् ॥ 33.126 ॥

ब्रह्माणं मानुषेशानं वायुं गोपनमस्तकम् ।
बिन्दुं पवित्र 78 मनलं मारुतं प्रेतनायकम् ॥ 33.127 ॥

स्वाहावसानं गान्धर्वं मन्त्रमित्थं प्रकल्पयेत् ।
अथर्वणमिमं मन्त्रं 79 पिनाकिशिरसि स्थितम् ॥ 33.128 ॥

अधस्तात्पारिजातस्य हेमसिंहासनस्थितम् ।
80 आयामि नीभिर्मालाभिर्दिव्याभिश्शोभिवक्षसम् ॥ 33.129 ॥

दिङ्नागमदलिप्ताङ्गं 81 दिव्याभरणभूषितम् ।
रूपयौवनयुक्ताभिर्वालव्यजनपाणिभिः ॥ 33.130 ॥

नित्यं षोढसवर्षाभिरुत्पलस्निग्धदृष्टिभिः ।
महाकुल प्रसूताभिर्मदविह्वल 82 मूर्तिभिः ॥ 33.131 ॥

अद्भुतभ्रूविरासाभिश्श्रवणप्रियगीतिभिः ।
ईषद्वि स्रंसिवा सोभिरंसव्युकुलमौलिभिः ॥ 33.132 ॥

स्तनान्दोलितहाराभिः कदलिसुभगोरुभिः ।
कुटिलालकमालाभिः कन्यकाभिर्निषेवितम् ॥ 33.133 ॥

कृतावधानं गीतेषु किन्नराणां मुहुर्मुहुः ।
गन्धर्वाधिपतिं ध्यायन्लक्षं मन्त्रमिमं जपेत् ॥ 33.134 ॥

अथेनमुपतिष्ठनै कुलवत्योवरास्त्रियः ।
गन्धर्वराजवचनाद्रूप यौवनशालिनः ॥ 33.135 ॥

इन्द्रजालमन्त्रः

अथेन्द्रजालमन्त्रस्य स्वरूपं कथयामिते ।
ब्रह्मकुंभौ वीरसेनौ क्रोधं 83 सुमुखवारुणौ ॥ 33.136 ॥

रामं दक्षं मधोश्शत्रुं चतुर्गतिमृगेश्वरौ ।
मोहयत्यथ रूपाणि द्विः प्रदर्शयमस्तकम् ॥ 33.137 ॥

हुङ्कारं चतुरभ्यस्तं ब्रह्मन् किलिकिलिं तथा ।
ऋतद्वयं कुम्भरामौ पवित्रानलवामनान् ॥ 33.138 ॥

विजयं लोचने कृत्वा गर्भद्वितयमस्तकम् ।
नानारूपाणि मायेद्वे द्विर्मन्त्रमितिकल्पयेत् ॥ 33.139 ॥

जपेन लक्षसङ्ख्येन माया प्रत्यक्षसंगता ।
यद्यदिष्टं साधकस्य तत्तत्कुर्वीत तत्क्षणात् ॥ 33.140 ॥

ब्रह्माद्या देवतास्सर्वा गगनस्थाः प्रदर्शयेत् ।
84 गहनं मेदिनीं कुर्याद्यामिनिं दिवसं तथा ॥ 33.141 ॥

जीवन्तमप्सुविहितं प्राणपन्तं 85 तथा शवम् ।
मरुप्रदेशं वारिणि शुष्यन्तं पयसां निथिम् ॥ 33.142 ॥

षड्रसं वैपरीत्येन देशानप्ययथातथम् ।
पाषाणैस्ताडयेद्देहे नेत्राद्युत्पाटनं तथा ॥ 33.143 ॥

खल्वाट केशसंरोहं यूनस्थ्सविरतां तथा ।
पुंसस्त्रीत्वं तथा स्त्रीणां पुस्त्वं क्लीबस्य तद्द्वयम् ॥ 33.144 ॥

तयोर्वाक्लीबतां चित्रं श्मश्रुस्तनविपर्ययम् ।
गीतं शुक्ल स्तथा 86 गीता मन्यथा भावभागिनः ॥ 33.145 ॥

अगर्भिणीं गर्भिणीं च गर्भिणीं चाप्यगर्भिणीम् ।
पादादिभङ्गसन्धाने नभः कुसुमसम्भवः ॥ 33.146 ॥

अचिन्तितानि शैलानां पतनानि यथेप्सितम् ।
मनुष्यादिषु शृङ्गाणि गगनारोहणं तथा ॥ 33.147 ॥

अकाल रणसंरंभान् प्रतिमाकर्षणं तथा ।
कठिनानां द्रवीभावं 87 द्रवतां कठिनात्मताम् ॥ 33.148 ॥

अद्यापि प्रलयावस्थामुन्मज्जन निमज्जने ।
खड्गादिभि 88 रभङ्गं च जङ्गमं स्थावरं तथा ॥ 33.149 ॥

आचेतनेषु चैतन्यं चेतनेषु विचेतनाम् ।
रूपदर्शनमन्धस्य मूकस्य मधुरां गिरम् ॥ 33.150 ॥

श्रवणं बधिरस्यापि पज्गोर्गमसमद्भुतम् ।
प्रदर्शनं विमानानां भुवि 89 सूर्येन्दुमण्डलम् ॥ 33.151 ॥

90 शिलावर्षं महाघोरं राहुग्रासमपर्वणि ।
एतस्थानप्रविष्टानि भुवनानि चतुर्दश ॥ 33.152 ॥

आसनस्थस्य पतनं तुमुलं च परस्परम् ।
प्रतीपगमनं सिन्धो रासनं हव्यवाहने ॥ 33.153 ॥

तत्क्षणेपि प्ररूढानां वृक्षाणां पल्लवं फलम् ।
सेचनं हव्यवाहेन ज्वलनं वयसा तथा ॥ 33.154 ॥

मध्याह्नसमये ज्योत्स्नांदिङ्मोहं वातसम्ब्रमम् ।
चित्तादिधातु सङ्क्षोभं प्रत्यक्षस्याप्यदर्शनम् ॥ 33.155 ॥

शैलशृङ्गा 91 द्यपतना 92 द्गव्यनस्य प्रदर्शनम् ।

इत्थं भूतानि चित्राणि कुर्यान्मायानुभावतः ॥ 33.156 ॥

सप्तयक्षीमन्त्रः

इदानीं सप्तयक्षीणां मन्त्राणि कथ यामिते ।

सुन्दरीमन्त्रः

आगच्छ सुन्दरी स्वाहावसानं प्रणवादिमम् ॥ 33.157 ॥

इत्येष सुन्दरी 93 मन्त्रो मन्त्रादेः कार्यमाचरेत् ।

मनोहरामन्त्रः

प्रणवं प्रथमं सर्वं मनो हर नमो ठठ ॥ 33.158 ॥

इत्थं 94 मनोहरी मन्त्रः प्रियमिष्टं प्रयच्चति ।

कनकवतीमन्त्रः

95 उद्गीथं कनकं ब्रह्मन् 96 पक्ष्यते मैधुनप्रिय ? ॥ 33.159 ॥

ठठः कनकवत्यास्स्यान्मन्त्रः कामुकसिद्धिदः ।

कामेश्वरीमन्त्रः

97 ममागच्छ चतुर्वक्त्र कामेश्वरि ठठान्तिमम् ॥ 33.160 ॥

इति कामेश्वरीमन्त्रः सर्वां सिद्धिं प्रयच्छति ।
98 आरुह्य शयनं 99 नक्तमे काकि पुष्पगन्धवान् ॥ 33.161 ॥

ध्यायेत्कामेश्वरिं यक्षिं सा तस्य भवति प्रिया ।
100 यदान्यां कामयेन्मन्त्री सा तस्य वशमाचरेत् ॥ 33.162 ॥

रतिप्रियामन्त्रः

स्वाहान्तः कथितो मन्त्रो ब्रह्मात्पाते रतिप्रिये ।
प्रिता रतिप्रिया यक्षी साधकस्य प्रयच्छति ॥ 33.163 ॥

दिव्यान्योदनवासांसि कुसुमाद्यनुलेपनम् ।
पादुकाञ्जन खड्गादीन् भाषणानि रसायनम् ॥ 33.164 ॥

पद्मिनिमन्त्रः

101 ओं पद्मिनि ठठो मन्त्रं पद्मिनि यस्य देवता ।
ओं श्रीं ह्रीं द्वयमागच्छ द्वयं यक्षि ठठान्तिमम् ॥ 33.165 ॥

प्रणवद्वितयं पुष्टिबीजं पश्छान्नति स्तथा ।

यामिनीमन्त्रः

वातादिदेवौ 102 दक्षाद्यं बन्धुं विघ्नेशमारुतौ ॥ 33.166 ॥

वीरसेनमथो शुक्लं कुम्भं वह्निं च पश्चिमम् ।
हृषीकेशं जयं कुम्भं श्रीद्धुवौ 103 कमलासन ॥ 33.167 ॥

पञ्चबिन्दुं ठठान्तं च यामिनीमन्त्रमुद्धरेत् ।
एतज्जपेन पुरुषो विभवं लभते परम् ॥ 33.168 ॥

द्वन्द्वानि पुंसां स्त्रीणां च रहितान्यपि योजयेत् ।
यद्यद्वस्तु तथान्येषां स्त्रियो वा पुरुषोऽपि वा ॥ 33.169 ॥

ताम्भूलं 104 कुसुमं वापि तद्वान्वहमुपानयेत् ।
यस्यैते मनवस्सप्त सिद्धाः पुंसश्चतुर्मुख ॥ 33.170 ॥

यक्ष्यस्तस्य भविष्यन्ति 105 किङ्कयन् इति देवताः ।
मेरुमन्धरविन्ध्यादिशिखरेषु यथातथम् ॥ 33.171 ॥

साधकं रमयिष्यान्ति कल्पं भोगै रमानुषैः ।

पिशाचमन्त्राः

ब्रह्मन् पिशाचमन्त्राणि 106 श्रुणुष्व गदतो मम ॥ 33.172 ॥

107 सप्ताक्षराणि सप्तार्कगोपनाः कुम्भविक्रमौ ।
क्रोधप्रचण्डौ वरुणमृगेशौ विपुलस्तथा ॥ 33.173 ॥

द्विकुण्डसस्पमिस्वाहा मनुरेष प्रकीर्तितः ।
बद्नि यादमुना ब्रह्मन्नाविष्टस्य शिखां पुनः ॥ 33.174 ॥

सप्ताक्षरं पुरस्कृत्य चतुर्थ्यं विष्णुमस्तकम् ।
108 गुरुर्बन्धुःपिता कामो मन्दरं विक्रमं तथा ॥ 33.175 ॥

पुलहं विक्रमं पश्छाद्भल्लायुधगुहालयौ ।
वै राजपापहननौ विजयं बन्धुमस्तकम् ॥ 33.176 ॥

हुताशगोपनौ ब्रह्मन् ककुभं 109 ब्रह्मसूदनौ ।
पवित्रशङ्खौ विजयं मायां स्वाहावसानकम् ॥ 33.177 ॥

इतिमन्त्रं प्रकल्प्‌याथ बलिमेतेन दापयेत् ।
पूर्वं मन्त्रदशार्णानि महेन्द्रो राममस्तकः ॥ 33.178 ॥

पवित्र 110 पापनौ पीतगौपनौ पश्चिमाननौ ।
वह्न्यन्तसूदनौ विघ्नगोपनौ पपनं तथा ॥ 33.179 ॥

111 गदी हुतवहस्सूर्यो वनमालि पितामह ।
मानं शब्द शिरस्स्वाहा गन्धमन्त्रः प्रकल्पितः ॥ 33.180 ॥

द्वादशार्णमुखं पूर्वं वह्निं सुमुखविक्रमौ ।
माहेन्द्रविक्रमौ भानुर्दक्षं विजययोर्द्वयम् ॥ 33.181 ॥

द्विर्वारिशब्दं कमलं देवदत्तं विनायकम् ।
स्वाहान्तमिरयेन्मन्त्र 112 मावेशे विनियोजयेत् ॥ 33.182 ॥

स्तम्भे वा पुरुषे वापि 113 पयस्तेनाभिमन्त्रितम् ।
विक्षिपेदथ भूतानि स्तम्भ 114 मप्याविशन्तितम् ॥ 33.183 ॥

अष्टाक्षरमुखस्सूर्यो वह्निर्दिः कमलासन ।
व्यस्तौ पुनस्तयोर्वह्नावुभयत्र त्रिविक्रमौ ॥ 33.184 ॥

आदित्यरामं नासिक्यं 115 घटसं वावकप्रियाः ? ।
116 येन साग्रहमन्त्रस्य पिशाचादिभयावहम् ॥ 33.185 ॥

भूतप्रतिकृतिं कृत्वा शालिपिष्टैर्महोदरीम् ।
भित्वा तीक्ष्णेन शस्त्रेण भूतं साक्षाद्भविष्यति ॥ 33.186 ॥

भूतग्रहपिशाचादीनपस्मारमथापि वा ।
कूश्माण्‍डयक्षगन्धर्वब्रह्मरक्षस्सुरासुरान् ॥ 33.187 ॥

आवेशयेद्धरेच्चापि मन्त्रैरेतैश्चतुर्मुख ।
यद्यदेभिरशक्यं स्यात्तत्तत्कुर्याद्विचक्षणः ॥ 33.188 ॥

117 सुदर्शनस्य मन्त्रेण नारसिह्मेन वा पुनः ।
त्रैलोक्यमोहनेना पि साक्षा दष्टाक्षरेण वा ॥ 33.189 ॥

संहितोपसिंहारः

इति मन्त्रप्रभावस्ते कथितः पद्मसम्भन ।
118 चर्या च विधिवत्प्रोक्ता धर्मकामार्थमुक्तिदा ॥ 33.190 ॥

119 इदं हि पावनं शास्त्रमधीते यस्समाहितः ।
त्रिष्वप्यमुष्य लोकेषु ज्ञेयमन्यन्नविद्यते ॥ 33.191 ॥

शास्त्रोपदेशागमप्रकारः

पद्म :—

इत्युक्त्वा ब्रह्मणे शान्त्रं भगवान् भूतभावनः ।
वासुदेवः परं ब्रह्मतत्रैवान्तरधीयत ॥ 33.192 ॥

अथ विस्मयमानात्मा ब्रह्मालोकपितामहः ।
अजगाम स्वकं लोकं स्तूयमानो महर्षिभिः ॥ 33.193 ॥

कपिलाय ददौ ब्रह्माशास्त्रमेतन्महर्षये ।
स चापि भगवान्मह्यं मयाते कथितं पुनः ॥ 33.194 ॥

तत्पाताल मिदं हित्वा जम्भूद्विपमितो व्रज ।
हिमवत्सर्वते रम्ये समाधाय मनश्शुभम् ॥ 33.195 ॥

आराधय हृषीकेशं 120 विधानैः पाञ्चकालिकैः ।
इति ब्रुवाणे पद्मे तु लब्ध्वा हृष्टेन चेतसा ॥ 33.196 ॥

अयोग्याज्ञानतिमिरं शास्त्राञ्जनशलाकया ।

संवर्तस्य पातालाज्जंबूद्वीपागमनम्

121 निवृत्य पातालतलात्कृत्वा पद्मं प्रदक्षिणम् ॥ 33.197 ॥

अमुष्मिन् शैलशिखरे देवदारुभिरावृते ।
महाभागवतैः पुण्यैः पञ्चरात्रविशारदैः ॥ 33.198 ॥

तपस्वाध्यायनिरतैस्सेविते परमर्षिभिः ।
हृदयेभ्यस्समाहृत्य हृदयं संयमादिभिः ॥ 33.199 ॥

अराधयामि विश्वेशं वासुदेवं जगद्गुरम् ।
122 अन्यमानीय तद्वाचा तं ध्यायन्मनसा पुनः ॥ 33.200 ॥

कालेनाराधनं कुर्वन् भजामि परमेश्वरम् ।
त्वमप्याराधय क्षिप्रं चतुर्प्योहमधोक्षजम् ॥ 33.201 ॥

शास्त्रगोपनम्

मया ते कथितं शास्त्रं सावधानेन किं श्रुतम् ।
इदं ते नातपस्काय नाभक्ताय कदाचन ॥ 33.202 ॥

न चाशुश्रूषवे वाच्यं न च मां यो भ्यसूयति ।

तन्त्रेषु पञ्चरत्नानि

तन्त्राणां चैवरत्नानि पञ्चाहुः परमर्षयः ॥ 33.203 ॥

पाद्मं सनत्कुमाराख्यं तथा परमसंहिता ।
पद्मोद्भवं च माहेन्ध्रं कण्वतन्त्रामृतानि 123 च ॥ 33.204 ॥

तदा प्रभृति ये शिष्टास्ततो हं हिमवत्तटे ।
आराधयं चतुर्बाहुं नियतः पुरुषोत्तमम् ॥ 33.205 ॥

भवन्तोपि यतात्मानो भक्तिमन्तो जनार्दने ।
केन वा कथितं शास्त्रमृषयः कल्मषापहम् ॥ 33.206 ॥

शास्त्रश्रवणे फलम्

इदं महोपनिषदं श्रद्धधानशश्रुणोति यः ।
स याति शाश्वतं 124 स्थानं दुष्प्रापमकृतात्मभिः ॥ 33.207 ॥

येन मां प्रथमामान यथा पद्म गुरोर्गुरुः ।
तेनेदं श्रीयते ? पुण्या मतनोत्पद्म संहिताम् ॥ 33.208 ॥

ऋषयस्तं भवन्तोपि भगन्तु पुरुषोत्तमम् ।
प्रदास्यति स युष्मभ्य मपवर्गं तपोधनाः ॥ 33.209 ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चार्यापादे समाराधनाङ्ग मन्त्रोद्धारो नाम त्रयस्त्रिंशोऽध्यायः.

      चर्यापादस्समाप्तः.

      समाप्ताचेयं संहिता.

  1. सर्वान् इति. क्वचित्पाठः. ↩︎

  2. प्रोच्यमानै र्यथाप्रीतिः. ↩︎

  3. बन्धुकोशं. ↩︎

  4. बन्धुमस्तकम्. ↩︎

  5. जयेणांशौ. ↩︎

  6. पद्मां च दत्तं. ↩︎

  7. विक्रमौ. ↩︎

  8. महामोयम्. ↩︎

  9. पुरुषो महान्. ↩︎

  10. कुर्यात्. ↩︎

  11. सङ्कर्षणविनायकाः. ↩︎

  12. नान्तानि. ↩︎

  13. श्रीधरं पश्चात् श्रत्रुं. ↩︎

  14. भद्रपाणिदक्षकमान्तिमौ. ↩︎

  15. सर्गिणं पाप. ↩︎

  16. समघाननं. ↩︎

  17. स्ता एव. ↩︎

  18. पारत्य्रादि. ↩︎

  19. कोशेषु सर्वेषु एवमेवास्ति. ↩︎

  20. केशं मर्त्य. भल्लायुधे दधौ. ↩︎

  21. कुम्भं मधोश्शत्रुं इति. ↩︎

  22. पुनः. ↩︎

  23. स्तं देवन दृष्टयः. ↩︎

  24. मद्विजयाननः. ↩︎

  25. द्विजयः कुम्भमाधवौ. ↩︎

  26. श्रीधरो विजयगोपनौ । श्रीविघ्नेशौ. ↩︎

  27. मनुं. ↩︎

  28. पातरौ ? ↩︎

  29. क्रोधाखेयौ. ↩︎

  30. कालं पवित्रं कमलं. ↩︎

  31. भानुमन्तं मधोश्शत्रुं इति स्यात्. ↩︎

  32. बुद्धिमहङ्कारं मन. ↩︎

  33. बन्धु. ↩︎

  34. नतिप्रान्तं दीपान्तं. ↩︎

  35. क्वचित्कोशे पाददौ अक्षरद्वयत्रुटिः. अथ " वायुनतिमत् इत्यस्ति अन्यत्र—इति वायु र्मतिर्मत्स्यात्" इति दृश्यते. ↩︎

  36. वह्निं ब्रह्मगुहालयौ. ↩︎

  37. मधोशरत्रुमन्दरं. ↩︎

  38. रामपञ्चकं. ↩︎

  39. सुभगं. ↩︎

  40. पापहन्ता च रामश्च. ↩︎

  41. मन्त्रस्य धूपादीनां. ↩︎

  42. क्वचित्कोशे " प्रथमं चेदनो…न्धूपान्दुरितात्मवान्" इति दृश्यते. अन्यत्र यथापाङ्त्कां दृश्यते. शुद्धरोशसंवाद श्शुद्धिकरः. ↩︎

  43. राजमुष्टिमनुस्कारं—सप्तकम्. ↩︎

  44. गोधनान्. ↩︎

  45. मप्यायनमानयनमाचरेत्. ↩︎

  46. दधितारकं. ↩︎

  47. मनिलं किंच. ↩︎

  48. अथाङ्गिरस. ↩︎

  49. सर्वत्राक्षरत्रुटिः. ↩︎

  50. अभग्न. ↩︎

  51. द्विनीलयम्. ↩︎

  52. विश्वेश्वरम्. ↩︎

  53. " दक्षादीशानादि देवान्मायाज्जम्." ↩︎

  54. मथोश्शत्रुं इति स्यात्. ↩︎

  55. र्णगोभूति. र्णभोनिधिः. ↩︎

  56. उन्नतस्य. ↩︎

  57. हृत्वा. ↩︎

  58. भव्यं भविष्यच्च. ↩︎

  59. धारिणीम्. ↩︎

  60. दारुणम. ↩︎

  61. वह्निमपश्चिमं. ↩︎

  62. ध्रुवं. ↩︎

  63. तथा चादौ दूरदृष्टि शुभप्रदौ. ↩︎

  64. मुष्टं इति स्यात्किम्. ↩︎

  65. रामोपि तद्बन्धो. ↩︎

  66. जद्वयं. ↩︎

  67. मितीर. ↩︎

  68. लोहं तैल. ↩︎

  69. उत्तरे पङ्कजस्यैव मुखमासीत पुष्पिणः. ↩︎

  70. पवित्रार्थं हृषी. ↩︎

  71. वृष्टिं. ↩︎

  72. वाताद्विः. ↩︎

  73. पाषाणेषतरोमनुः. ↩︎

  74. गदिनं व्यापिनं हस्तं सरस्यो वा. ↩︎

  75. वह्निं हुताशनं विष्णुं. ↩︎

  76. मथो शत्रुं. ↩︎

  77. धारामम्. ↩︎

  78. मनिलं. ↩︎

  79. पिनाङ्गिशिरसोत्थितम्. ↩︎

  80. आयामिनीभिर्ज्वालाभिः. ↩︎

  81. रत्ना. ↩︎

  82. दृष्टिभिः. ↩︎

  83. सुभग. ↩︎

  84. गगनं मेदनीं कुर्यास्मेदिनिं च दिवं. ↩︎

  85. तथा वशम्. ↩︎

  86. गीत—भागिनाम्. ↩︎

  87. द्राविणां कठिणेय. ↩︎

  88. श्शिरोभङ्गं. ↩︎

  89. सूर्यादि. ↩︎

  90. शिलावर्षमहाधारां. ↩︎

  91. दिपतनं गव्यं न्यस्य. ↩︎

  92. गव्यन्यस्य. ↩︎

  93. मन्त्रे मन्त्र्यादेः. ↩︎

  94. मनोहरं मन्त्रं प्रियादिष्टं. ↩︎

  95. उद्गीथः करकी ब्रह्मन् प्रत्युतो मैधुनप्रिये. ↩︎

  96. ब्रह्मन्…मथो मथुनतर्पिये. ↩︎

  97. मामागच्छ. ↩︎

  98. अत्रक्वचित्कोशे पद्यमेक मधिकमस्ति. यथा—" दिव्यान्योदनवासांसि कुसुमान्य नुलेपनम् । पादुकांजनखड्गादीन् भुषणानि रसायनम् ॥" इति. ↩︎

  99. रक्त. ↩︎

  100. यदन्यं. ↩︎

  101. पद्मिनीं तां. ↩︎

  102. दक्षाख्यं. ↩︎

  103. कमलानलौ. ↩︎

  104. कुंकुमं वापि तद्वाहनमु. ↩︎

  105. किं कार्यमिति. ↩︎

  106. कथयिष्ये यथातथम्. ↩︎

  107. सप्ताक्षराण्यथो दक्षगोपनौ. ↩︎

  108. “गुरुर्बन्धुः” इत्यात्यर्धत्रयं क्वचिदधिकमस्ति. ↩︎

  109. भृगु. ↩︎

  110. पवनौ पीतगोपनौ पश्चिमानलौ. ↩︎

  111. भक्तिः. ↩︎

  112. तमावेशे नि. ↩︎

  113. यस्तेनास्यभि. ↩︎

  114. माप्या. ↩︎

  115. स्फुटस्थो पानक. ↩︎

  116. एनसा. ↩︎

  117. सौदर्शनेन मन्त्रेण. ↩︎

  118. भवचर्या च विधिनत्प्रोक्ता कमलसम्भव ॥ ↩︎

  119. इदमेकायनं. ↩︎

  120. विधिभिः. ↩︎

  121. निर्वर्त्य. ↩︎

  122. अन्नमानीय तद्वाचा तध्यायन्मन. ↩︎

  123. रक्षादिमन्त्र माद्यन्ते. ↩︎

  124. ब्रह्म—इत्यध्यायस्त्रयस्त्रिं शच्चर्यापादः प्रकीर्तित इति अर्धंकेषु चित्कोशेषु दृश्यते ॥ ↩︎