.
सुदर्शनमन्त्रकल्पः
ब्रह्मा :—
ऐहिकामुष्मिकं सर्वं मन्त्रं सौदर्शनं परम् ।
शुश्रूषोर्भगवन्नद्य रहस्यमपि पावनम् ॥ 32.1 ॥
भक्ताय मह्यं दातव्यं प्रणताय यथातथम् ।
श्रीभगवान् :—-
हन्त ते कथ यिष्यामि मन्त्रं सर्वार्थसाधनम् ॥ 32.2 ॥
यथार्थनाम तेनायं नाख्येयो यस्य कस्य चित् ।
उद्गीथमुद्धरेत्पूर्वं चन्द्रमाद्यं नभोमणिम् ॥ 32.3 ॥
1 अत्रिं सितद्युतिं वह्निं गोपनं ज्वलनं मुखम् ।
2 ऊष्माणमुदयं वीरं पुल्लाक्षं विष्णुमस्तकम् ॥ 32.4 ॥
हृदयाह्लादमित्येव मन्त्रोद्धारश्चतुर्मुख ।
वह्निमादिमनुस्वारं बीजमुद्धृत्य कल्पयेत् ॥ 32.5 ॥
षडङ्गमनुवर्णानामुद्धारः कथ्यते क्रमात् ।
अङ्गत्रयं चतुर्वक्त्र पूर्वमाविष्कृतं मया ॥ 32.6 ॥
चतुर्थ्यन्तं चक्रपदमुद्गीथादि प्रयोजयेत् ।
अनन्तरं सूर्यपदं तद्विभक्ते च तत्पदम् ॥ 32.7 ॥
पञ्चमं षष्ठमप्यङ्गं पदं तत्तद्विभक्तिकम् ।
उद्धार्यं च साहस्रादि ज्वालाधारादि पूर्वकम् ॥ 32.8 ॥
एवमङ्गानि षड्ब्रह्मन्नुक्तानि गहनानि ते ।
अहिर्बुध्य्नोमनोर्द्रष्टा विराट्छन्दस्सुदर्शनः ॥ 32.9 ॥
देवता मुनयश्चात्र प्रत्यक्षरमथाब्जज ।
व्यासः कण्वो नारदश्च वसिष्ठः परमो भृगुः ॥ 32.10 ॥
अत्रिष्षडेते द्रष्टारश्छन्दांस्यक्षरशश्शृणु ।
उष्णिग्बृहत्यौ गायत्रं पङ्त्किश्च जगती विराट् ॥ 32.11 ॥
वर्णाः कालाग्निवराणाभाः कालाश्चैवहिदेवताः ।
करयोर्न्यस्य तलयोरुभयोरक्षराणि षट् ॥ 32.12 ॥
प्रथमान्तार्णशिष्टानामङ्गुष्ठादिषु पर्वसु ।
अङ्गुलीषु क्रमादेवमक्षरन्यास ईरितः ॥ 32.13 ॥
देहे च मूर्ध्निचास्ये च हृदये गुह्यजानुनोः ।
पादयोर्न्यसनीयानि क्रमान्मन्त्राक्षराणि षट् ॥ 32.14 ॥
श्रीसुदर्शनगायत्री मपरां न पराजिताम् ।
वक्ष्यामि तस्याश्चोद्धारः पदशः कथ्यतेऽधुना ॥ 32.15 ॥
उद्गीथादि चतुर्थ्यन्तं सुदर्शनपदं ततः ।
वेत्तिं लुडन्तमपरं बह्वर्थं पद मिरयेत् ॥ 32.16 ॥
महापूर्वं चक्रपदं तद्विभक्ति 3 र्विभूतिजम् ।
ध्यायन्ती पदमुच्चार्य पूर्ववत्तिङ्विभूषितम् ॥ 32.17 ॥
तत्पदं चास्मदादेशो नः पदं च द्विशीर्षकम् ।
प्रपूर्वं 4 चो दयान्तं च पदमित्युद्धरेन्मनुम् ॥ 32.18 ॥
अस्य बीजं तु पूर्वोक्तं वेदितव्यं चतुर्मुख ।
आशासु 5 दशसु स्थाप्य मन्त्रं तच्चक्रमुद्रया ॥ 32.19 ॥
तन्मध्येस्थितमात्मानमग्निज्वालापरीतवत् ।
चक्रपङ्कजध्यानप्रकारः
ध्यायेत् क्षिततले शुद्धे सहस्रदलपङ्कजे ॥ 32.20 ॥
कर्णिकायां चक्रधरं द्विभुजं वृत्तलोचनम् ।
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् ॥ 32.21 ॥
महोदरं महाकायं जपाकुसमसन्निभम् ।
करण्डमुकुटोपेतं रक्ताम्बरविभूषितम् ॥ 32.22 ॥
धारयन्तं शिखारत्ने चक्रमेकसमप्रभम् ।
नाभिनेमिसमायुक्तं ज्वालामण्डलदुस्सहम् ॥ 32.23 ॥
ज्वलत् षडरसंयुक्तमयुतार्कसमप्रभम् ।
पद्ममेवं स्थितं धायेत्तन्नाभौ च सुविस्तृते ॥ 32.24 ॥
चक्राभिमानिसं देवं द्विहस्तं पुरुषंस्थितम् ।
रक्ताम्बरधरं रक्तं रक्तचन्दनपङ्किलम् ॥ 32.25 ॥
करण्डमुकुटोपेतं सर्वाकल्पपरिष्कृतम् ।
दंष्ट्राकरावदनं भ्रुकुटीकुटिलाननम् ॥ 32.26 ॥
उद्गिरन्तं हुतवहं खरण्डैर्मारुतानुकम् ? ।
विष्फुलिङ्गान् दुर्विषहान्विसृजन्तमनेकशः ॥ 32.27 ॥
कामरूप 6 सहस्रेभ्यः प्रलयाम्बदनिस्वनम् ।
तर्जनं वामतर्जन्या बिभ्राणं दक्षिणे करे ॥ 32.28 ॥
निपीडिताङ्गलिं शत्रुं प्रहरन्नि वभीषणम् ? ।
दहन्निव च नेत्राभ्यां पिबन्निव महोदधिम् ॥ 32.29 ॥
ध्यात्वैवमर्चयेद्भोगैरर्घ्यादिभिरतन्द्रितः ।
सिद्धये मन्त्रराजस्य पुरश्चर्या यथोदिता ॥ 32.30 ॥
देशे काले च मन्त्रस्य 7 रूपं सङ्ख्या च पूर्ववत् ।
मन्त्रसाधननियमः
खाककन्दफलक्षीरसक्तुपिण्डान्न भक्षणः ॥ 32.31 ॥
तोयैस्पर्पणमग्नौ च जुहुयात्समिदादिभिः ।
मन्द्रस्सिध्यति तस्यैवं कुर्वाणस्य यथाविधि ॥ 32.32 ॥
सिद्धइं च सूचयत्यस्य स्वप्ने मङ्गलदर्शनम् ।
शान्तिकपौष्टिकादिकर्मसु मन्त्रविनियोगविधिः
प्रयुञ्जीतततो मन्त्रं शान्तिकादिषु कर्मसु ॥ 32.33 ॥
षोडशस्तम्भसंयुक्तं कल्पयेद्यागणमण्टपम् ।
स्थापयेत्तत्र विधिपत्कुम्भानां पञ्चविंशतिम् ॥ 32.34 ॥
वेष्टितान् सूत्रवस्त्राद्यै र्धान्यराशिषु मङ्गलान् ।
एषु द्रव्याणि सङ्गृह्य न्यसेत्कमलसम्भव ॥ 32.35 ॥
घृतमुष्णोदकं रत्नं फलदोक मनन्तरम् ।
लोहतोयं मर्जानाम्भो गन्धाम्भशाचक्षतोदकम् ॥ 32.36 ॥
यपोदकं क्रमाधेषु कुम्भेषु नवसु क्षिपेत् ।
पाद्यं गुळोदकं चैव 8 दधि चेक्षुरसं तथा ॥ 32.37 ॥
अर्घ्यं च नालिकेराम्भः क्षीरं च तदनन्तरम् ।
सर्वौषधिबजलं तद्वदाचामं मङ्गलोदकम् ॥ 32.38 ॥
मधुपूर्वं शान्तिवारि पञ्चगव्यमनन्तरम् ।
मूलोदकं 9 कषायाम्भः पुक्ष्पवारि चतुर्मुख ॥ 32.39 ॥
द्रव्याण्ये तेषु कुम्भेषु बहिष्ठेषु विनिक्षिपेत् ।
प्रत्येकं शतकृत्वश्च मन्द्रेणै वाभिमन्त्रयेत् ॥ 32.40 ॥
कुम्भे द्रव्याणि निक्षिप्य चक्रब्जं वर्तयेत्ततः ।
तन्मध्येमन्त्रराजेन यष्टव्यं तत्सुदर्शनम् ॥ 32.41 ॥
कुण्डेवृत्तेच जुहुयात्समि 10 दन्नादिभिः क्रमात् ।
हुत्वा निशायां मानुना प्रभातेऽर्घ्यादिभिः क्रमात् ॥ 32.42 ॥
अर्चयित्वा हेतिराजं हुत्वाग्नौ समिदादिभिः ।
भूर्जपत्रे लिखेच्चक्रं नाभिनेमिसमन्वितम् ॥ 32.43 ॥
षडरं तत्र पूर्वादि 11 क्रमाच्चैव षडक्षरम् ।
लिखित्वच्छन्दसामादि तन्मध्यै साध्यनाम च ॥ 32.44 ॥
हेमसूच्यालिखेद्द्रव्यैर्मिश्रितैश्चन्दनादिभिः ।
चन्दनद्वयकाश्मिररोचनागुरु 12 मुख्यकैः ॥ 32.45 ॥
गन्धद्रव्यैस्सुसंपिष्टैः पश्चात्तां भूर्जपत्रिकाम् ।
गुलिकां कारयेत्तां च शालितण्डुलराशिषु ॥ 32.46 ॥
अधिवास्या 13 स्वहं कुम्भैस्स्नापयित्वा यथाविधि ।
बन्धयेत्तां मातुरङ्गेमन्द्रेणानेन मन्त्रवित् ॥ 32.47 ॥
गुलिकाबन्धनेनैव मुक्तोरोगादिभिर्नरः ।
तेजस्वी भवति क्षिप्रं त्वचा मुक्तो यथारगः ॥ 32.48 ॥
ज्वलितस्य भवेच्छान्तिः प्रसूनैर्निम्बसम्भवैः ।
दूर्वाङ्कुरांश्चूतदलैस्सिक्तैर्मधुपयोघृतैः ॥ 32.49 ॥
मनुना जुहुयादग्नौ सप्तरात्रमतन्त्रितः ।
प्रत्येहं दशसाहस्रसङ्ख्याया रोगिसन्निधौ ॥ 32.50 ॥
अभिषिच्य तथा कुम्भै रोगिणं चक्रविद्यया ।
बध्वा च गुलिकां मन्त्रीमोचयेज्ज्वलितं ज्वरात् ॥ 32.51 ॥
गोभूहिरण्यवस्त्राद्यैर्मन्त्रिणं तोषयेत्ततः ।
ब्राह्मणेभ्यो यथाशक्ति दद्याद्गोकम्बलादिकम् ॥ 32.52 ॥
भूतग्रहि पिशाचादि 14 पीडितानां तथा नृणाम् ।
शान्तये जुहुयादग्नौ किंशुकोत्थैस्समिच्छतैः ॥ 32.53 ॥
त्रियहं त्रिसहस्रैश्च तेषां बध्वा शिखां ततः ।
गुग्गुलूत्थेन धूपेन धूपितान् गृहपीडितान् ॥ 32.54 ॥
ताडयेन्मन्त्रजप्तेन दण्डेन लतयापि वा ।
पिशाचादिस्ततो ब्रूयान्मुञ्छामिति प्रपीडितः ॥ 32.55 ॥
शपथं कारयित्वातु शिखाबन्धं च मोचयेत् ।
स्थापितैः कलशैः पश्चान्मन्त्रेण ग्रहपीडितम् ॥ 32.56 ॥
स्नापयेद्बन्धयेच्छापि गुलिकामभिमन्त्रिताम् ।
ततो विमुच्य 15 तेरोगाच्छेतो वाग्भिरुपद्रवात् ॥ 32.57 ॥
तेजस्वी शतमायुश्च भवेन्मन्त्रप्रभावतः ।
नारीच दुर्भगा चक्रधारणात्सुभगा भवेत् ॥ 32.58 ॥
वन्ध्या च गर्भिणी सद्यस्सुप्रसूस्स्यादपप्रनूः ।
अनृतुस्स्यादृतुमती विमुखा सुमुखा भवेत् ॥ 32.59 ॥
विरहे सङ्गता भर्ता भवेदचिरकालतः ।
स्त्रीप्रसूः पुंप्रसूतिश्च अन्तना स्तनमण्डिता ॥ 32.60 ॥
कुमारपक्षिपीडादौ बालानां च यथोदितैः ।
विदिभिर्मुच्यते दुःखाल्लभते चायुरुत्तमम् ॥ 32.61 ॥
प्रासादादिषु ब्रह्मरक्षस्समुच्चाटनविधिः
प्रासादेपि नरेन्द्रस्य ब्रह्मरक्षोमुखैर्गृहैः ।
प्रवेशे सति तन्मध्ये कुम्भान् 16 रत्नसमन्वितान् ॥ 32.62 ॥
स्थापयित्वा यथापूर्वं समिदाद्यैरतन्द्रितः ।
मन्त्रेण जुहुयान्मन्त्री द्वादशाहन् समाहितः ॥ 32.63 ॥
प्रत्येकं दशसाहस्रसङ्ख्याया कमलासन ।
ताम्रपात्रे शिलायां वा चक्रमालिख्य तत्पुनः ॥ 32.64 ॥
धान्यराशिषु संस्थाप्य निशायां प्रातरुत्थितः ।
प्रासादद्वारि निखनेद्दिक्षु चाष्टसु 17 मुद्रितम् ॥ 32.65 ॥
प्रोक्षयेत्कुम्भुतोयेन गृहं सर्वमशेषतः ।
18 पलायन्ते ग्रहस्सर्वे दूरतस्सर्वतो मुखाः ॥ 32.66 ॥
तद्रष्ट्रेपि न तिष्ठन्ति सर्वकालमसंशयम् ।
प्रासादवर्तिनस्सर्वे जीवन्ति निरुपद्रवाः ॥ 32.67 ॥
धनधान्यसमृद्धिश्च यथा धनदवेस्मनि ।
मूषिकादुर्निमित्तनिरावणविधिः
वस्त्रशय्यासानादीनां दंशने मूषिकादिभिः ॥ 32.68 ॥
रक्तस्त्रीदर्शने वापि केशानां दहने तथा ।
अकस्मद्गोपुरादीनां 19 दहनेऽशनिपीडिते ॥ 32.69 ॥
निशि शक्रधनुर्दर्शे निवाते चैत्यभूरुहः ।
भङ्गे वल्मीकजनने दुस्स्वप्नेऽन्यत्र तादृशे ॥ 32.70 ॥
एवमादौ दुर्निमित्तै शान्तिमेतेन कारयेत् ।
यज्ञवृक्षसमिद्भिश्च होमः पूर्वोक्तसङ्ख्यया ॥ 32.71 ॥
पुष्टिविधिः
20 कुर्याच्च शान्तिं पुष्ट्यादिकर्मणा कमलासन ।
कर्मभेदेन कुण्डभेदविधिः
कथ्यन्ते तानि बहुधा नाभेदं यान्ति भेदतः ॥ 32.72 ॥
सर्वाभ्युदयकर्माणि चतुरश्रेषु कारयेत् ।
पौष्टिकं पद्मकुण्डेषु शान्तिं वृत्ते सुखावहः ॥ 32.73 ॥
त्रिकोणे मारणं कर्म कुण्डे चापाकृतौ पुनः ।
उच्चाटनं यक्षकन्यासाधने कोणपञ्चके ॥ 32.74 ॥
षडश्रे स्तम्भनं कर्म सप्ताश्रे मोहनं भवेत् ।
विद्वेषणं नवाश्रेस्यादष्टाश्रे मारणं विधिम् ॥ 32.75 ॥
एकादशाश्रे ब्रह्मादिवशीकरणमाचरेत् ।
कुण्डे दशाश्रे पश्यादि देवतातोषणोविधिः ॥ 32.76 ॥
द्वादशाश्रेषु पुरुषं वैकुण्ठं द्रष्टुमाचरेत् ।
योन्याकारे विवाहार्थं 21 कन्यार्थं कमलासन ॥ 32.77 ॥
चतुर्विंशत्यङ्गुले स्याद्विस्तारायामकल्पनम् ।
खातं तावद्भिरेव स्यात्कुण्डेषु नियतिं शृणु ॥ 32.78 ॥
तदर्धं पादमथवा चतुरङ्गुलमेव वा ।
परितो द्व्यङ्गुलं हित्वा बहिस्तिस्रश्च वेदिकाः ॥ 32.79 ॥
कार्यास्तासां च विस्तारश्चतुरङ्गुलसंमितः ।
तावत्ये पोन्नतिर्ब्रह्मन् कुण्डस्य धनुषः पुनः ॥ 32.80 ॥
अङ्गुल्या नवतिष्षट्च ज्या च षट्त्रिंशदङ्गुला ।
शङ्कुं विधाय तन्मध्ये दशाङ्गुलसमायतम् ॥ 32.81 ॥
भ्रामयेत्परितस्सूत्रं कुण्डं तद्वलयाकृतिम् ।
चतुरश्रस्य कुण्टस्य विभजेत्पञ्चधा भुजम् ॥ 32.82 ॥
22 द्वौ भागौ भुजमेकं चत्रिं शत्पञ्चाथवा पुनः ।
अङ्गुलीनां भवेदेषां त्रिकोणाङ्के भुजः स्मृतः ॥ 32.83 ॥
कुण्डे षडश्रे च भुजा अष्टाष्टैकादशाङ्गुलाः ।
एको भुजः पञ्चकोणे विंशत्यङ्गुलिसंमितः ॥ 32.84 ॥
सप्ताश्रे च भूजायामो यवषट्काधिकः पुनः ।
तिस्रश्च दश चाङ्गुल्यः कुण्डे त्वष्टाश्रिभिर्युते ॥ 32.85 ॥
द्व्यधिका दश वा भूमौ दशांगुल्यः प्रकीर्तिताः ।
अंगुल्योस्तु भुजायामो नलस्कन्दांश कीर्तितः ॥ ? 32.86 ॥
23 नावाश्रकुण्डेषु यवा पञ्चकोणे भुजायतिः ।
दश चाङ्गुलयः प्रोक्ता दशाश्रे च चतुर्मुख ॥ 32.87 ॥
24 यवाः पञ्च भुजायामो नव चाङ्गुलयः स्मृताः ।
एकादशाश्रेकुण्डे तु यवैरष्टाभिरन्वितः ॥ 32.88 ॥
अष्टावङ्गुलयः कुण्डे द्वादशाश्रे भुजायतिः ।
अष्टादशांगुला फ्रोक्ता योनिकुण्डेषु चायतिः ॥ 32.89 ॥
अष्टौ च चत्वारिंशच्च भवेदंगुलयोऽब्जज ।
गजोष्ठसन्निभा योनिर्यद्वाश्वत्थदलोपमा ॥ 32.90 ॥
कुण्डा 25 न्युक्तान्यथेदानीं शान्त्यादिः प्रतिकल्प्यते ।
यत्कुण्डं यस्य कथितं शान्त्यादेस्तस्य तद्भवेत् ॥ 32.91 ॥
अश्ववारणशालासु चक्रयन्त्रं यथाविधि ।
लिखित्वा ताम्रदार्वादौ निशायामधिवासयेत् ॥ 32.92 ॥
सहस्करृतः कर्तप्यो होमः 26 कुण्डे शुभे यतः ।
समिद्भिर्यज्ञ योग्याभिः स्थापयेत्कुम्भमर्चितम् ॥ 32.93 ॥
अथ प्रभाते शालायां यन्त्रं खन्यान्महीतले ।
प्रोक्षयेत्कुम्भतोयेन गजानश्वान् पृथक्पृथक् ॥ 32.94 ॥
सौदर्शनेन मन्त्रेण पुण्याहं पाचयेत्तथा ।
नश्यन्ति व्याधयस्तेषां गजाश्वानां चतुर्मुख ॥ 32.95 ॥
बलं 27 स्यादधिकं तेषामिति सप्ताहमाचरेत् ।
ब्राह्मणेभ्यो धनं दद्या 28 द्यथाशक्ति च दक्षिणाम् ॥ 32.96 ॥
29 ऊर्जस्वलमथो ब्रह्मन् गजाश्वंजायते भृशम् ।
तथा च प्रत्यहं होमस्स्यात्सुदर्शनविद्यया ॥ 32.97 ॥
इत्थं गोमहिषादीनां रक्षां कुर्वीत मन्द्रवित् ।
पुररक्षाविधिः
पुररक्षामथब्रह्मन् प्रवक्ष्यामि यथातथम् ॥ 32.98 ॥
स्तम्भैष्षोडशभिर्युक्तां दर्भमाला परिष्कृताम् ।
पुरमध्ये प्रपां कृत्वा जुहुयात्सर्पिषा पुनः ॥ 32.99 ॥
पालाशीभिस्समिद्भिश्च दिनान्येकोनविंशतिः ।
दिक्ष्वाष्टासु तथा मध्ये पुरस्य कमलासन ॥ 32.100 ॥
खन्यात्सौदर्शनं 30 यन्त्रं स्थापयेत्कुम्भमञ्जसा ।
तोयेन प्रोक्षयेद्विद्वान्नगरं चक्रविद्यया ॥ 32.101 ॥
ऋग्भिश्च पावमानीभिः प्रशस्तार्यथाक्रमम् ।
पुरद्वारेषु सौधेषु मण्टपेषु महीबृताम् ॥ 32.102 ॥
सर्वत्र निखनेच्छक्रं जुहुया 31 त्समिदादिभिः ।
मरणव्याधिदुर्भिक्षज्वरादिव्याधयः पुनः ॥ 32.103 ॥
नश्यन्ति बलवन्तश्च भवन्ति पुरवासिनः ।
ग्राममध्ये तथा दिक्षु विदिक्षु चतुरासन ॥ 32.104 ॥
शृङ्गाटकेषु सर्वेषु निखनेदायुधा 32 धिपम् ।
गृहवेतालरक्षांसि व्याध 33 यश्चज्वरा दयः ॥ 32.105 ॥
न बाधन्ते पुरं ग्रममपस्मारादयस्तथा ।
न तस्करभयं किञ्छिदकालमरणं तथा ॥ 32.106 ॥
पुरुषायुषवन्तस्स्युर्नरा धान्यधनान्विताः ।
सौभाग्यं कान्तिरारोग्यं तथा कुलविपर्धयः ॥ 32.107 ॥
ब्रह्मवर्चस 34 मित्येतद्ब्राह्मणानां भविष्यति ।
पयस्विन्यो भविषन्ति गावः पीनपयोधराः ॥ 32.108 ॥
35 तद्राष्ट्रेषु मनुष्याणां भद्रमेव भविष्यति ।
पन्नगनिवारणम्
अथ वक्ष्यामि ते ब्रह्मन् पन्नगानां निवारणम् ॥ 32.109 ॥
देवालये नदीतीरे नन्दनोपवनेषु वा ।
चतुस्तम्भसमायुक्तं चतुस्तोरणभूषितम् ॥ 32.110 ॥
अभितो दर्भमालाभिश्शोभितं होम 36 मण्डलम् ।
कृत्वा तस्मि 37 न्नपां कुम्भान् स्थापयित्वा नवापरान् ॥ 32.111 ॥
प्राच्यां वेद्यां पुनः कुर्यात्कुण्डं पूर्वोक्तलक्षणम् ।
यजेदेतेषु कुम्भेषु नव 38 मूर्तिर्यजेत्क्रमात् ॥ 32.112 ॥
39 निवेद्य पायसं तेभ्यः पश्चात्कुण्डे हुताशनम् ।
40 आददीताथ ताम्रेण तालमात्रं भुजङ्गमम् ॥ 32.113 ॥
प्रकल्प्य शेषमन्त्रेण प्रतिष्टाप्य पितामह ।
तस्मिंश्चक्रं लिखेत्तस्य मध्ये मत्स्याकृतिं पुनः ॥ 32.114 ॥
गरुडं शङ्खपालं च कृष्णमन्त्रं च वेष्टनम् ।
तन्नागयन्त्रं क्षीरेण घृतेन मधुनापि च ॥ 32.115 ॥
दध्ना शकृद्रसेनापि स्नापयेच्चक्रविद्यया ।
पुष्पगन्धप्रदीपाद्यैरुपचारैस्तथापरैः ॥ 32.116 ॥
इष्ट्वा नागं स्वमन्त्रेण चक्रं चक्रस्य विद्यया ।
कुण्डमध्ये पुनर्नागयन्त्रं खन्याद्विचक्षणः ॥ 32.117 ॥
तस्य चोत्तानरूपस्य हुताश मुपरिस्थितम् ।
कृत्वा दध्ना घृतेनापि पयसा मधुनापि वा ॥ 32.118 ॥
समिद्भिर्ब्रह्म वृक्षस्य जुहुयान्मन्त्रकोविदः ।
सहस्रकृत्वः प्रत्येकमथ गोपयसोक्षितैः ॥ 32.119 ॥
41 नीवारभागैस्सप्ताहं जुहुयादयुतैरपि ।
अपो नस्त्वितिमन्त्रेण जुहुयात्साधकोत्तमः ॥ 32.120 ॥
त्रिष्वहस्सु व्यतीतेषु पर्जन्यो मेघवाहनः ।
42 द्वावयेदवनीं कृत्स्नां भूयोपि सलिलोदयैः ॥ 32.121 ॥
अतिवृष्टि प्रशमनम्
अतिवृष्टि प्रशमनं प्रवक्ष्यामि चतुर्मुख ।
विङ्गलाकारमात्मानं ध्यात्वा 43 पियीषभावितम् ॥ 32.122 ॥
शूलवज्र 44 धरं चापि मन्त्रवि 45 न्मन्त्रभूषणम् ।
तैलाज्यसिक्तै 46 र्जुहुयाल्लाजनर्षपलावणैः ॥ 32.123 ॥
जुहुयाज्ज्वलिते वह्नावयुतं सप्तसागरात् ।
वृष्टिशब्दं पुरस्कृत्य स्तम्भयेति पदद्वयम् ॥ 32.124 ॥
प्रयोक्तव्यमिदं ब्रह्मन्मन्त्रान्ते मन्द्रवेदिना ।
अथ शाम्यति सा वृष्टिर्महती चक्रविद्यया ॥ 32.125 ॥
राष्ट्रादीनां क्षोभशान्तिः
अथ राष्ट्रपुरादीनां क्षोभशान्तिं तथा शृणु ।
अक्षराष्ठगतं चक्रं प्रतिष्ठाप्य यथाविधि ॥ 32.126 ॥
पुरे राष्ट्रे 47 तथा खन्यात्तत्काष्ठैर्जुहुयात्तथा ।
सहसा क्षोभमायान्ति वाजिवारणसंकुलम् ॥ 32.127 ॥
राष्ट्रं च क्षुभितं ब्रह्मन्ननवस्थं भविष्यति ।
यति शान्तौ मतिं कुर्याच्चक्रमुद्वास्य तत्पुनः ॥ 32.128 ॥
स्नापयेद्भगवन्तं च सहश्रकलशाम्बभिः ।
झडित्येव प्रशान्तं प्याद्दुरितं पुरराष्ट्रयोः ॥ 32.129 ॥
राष्टादिलम्भनम्
राष्ट्रादिलम्भनं तेऽद्य प्रवक्ष्यामि चतुर्मुख ।
उपेतं दलषट्कोणे कर्णिकाकेसरान्वितम् ॥ 32.130 ॥
चक्राब्जं कारयेद्भूमौ मेध्यायां कमलासन ।
तद्बहिर्नाभिवलयं षडरं तद्भहिर्लिखेत् ॥ 32.131 ॥
तद्बहिर्नेमिवलंय ज्वालामाला समन्वितम् ।
तद्बहिः कल्पयेत्पीठं चतुर्द्वार परिष्कृतम् ॥ 32.132 ॥
48 शोभोपशोभयुक्तं च कृत्वा मण्डलमिदृशम् ।
तस्मिन् सुदर्शनं ब्रह्मन् पूजयित्वा यथाविधि ॥ 32.133 ॥
समिद्भिरन्नै राङ्यैश्छ हुत्वा मन्त्रं प्रसीदतु ।
49 शृङ्गे चक्रं देहराष्ट्रं देहराष्ट्रं तथा धनम् ॥ 32.134 ॥
इत्येतां 50 पावनीं गाधां जपान्ते प्रार्थयन्पठेत् ।
51 अथ तस्य पुरं राष्ट्रं ग्रामं चक्रं प्रयच्छति ॥ 32.135 ॥
प्रभ्रष्टराज्य प्राप्तिविधिः
अथ प्रभष्टराज्यानां 52 मनुजानां यथा श्रियः ।
तथा वक्ष्यामिते ब्रह्मन्नुवायं चक्रविद्यया ॥ 32.136 ॥
53 अन्तस्थितस्य पद्मस्य 54 स्यात्पलाशचतुष्टयम् ।
55 अथाष्टौ द्वादश ब्रह्मन् षोडशाथ चतुष्टयम् ॥ 32.137 ॥
विंशतिश्च तथा त्रिंशद्द्वौ क्रमेण बहिश्छदाः ।
इति षड्विध 56 पत्रस्य कर्णिकायां सुदर्शनम् ॥ 32.138 ॥
57 येष्वथो षट्प्रकारेषु पलाशेषु यथाक्रमम् ।
मूर्तीश्चतस्रः प्रथमं तथाष्टौ द्व्यधिका दश ॥ 32.139 ॥
षोडशाथ सहस्रं च विंशतिश्च पितामह ।
अथ द्वात्रिंशतिं पश्चादन्तरालेषु 58 षट् स्वपि ॥ 32.140 ॥
यथाक्रमं भूषणानि श्रीवत्सप्रभृतीन्यथ ।
अष्टौ शक्तीश्श्रिया सार्धं चक्रादिं होम 59 मण्डलम् ॥ 32.141 ॥
कवीन् सप्ताधिकान् पञ्च कुमुदादीननन्तरम् ।
इन्द्रादीनथ दिक्पालान् पूजयेन्मन्त्रकल्पवित् ॥ 32.142 ॥
समिद्भिर्भिल्वरूपाभिस्तलैः पद्मैस्तथा घृतैः ।
सहस्रकृत्वः प्रत्येकं जुहुयाच्चक्रविद्यया ॥ 32.143 ॥
इत्थं गते सप्तरात्रे प्रातरुत्थाय मन्त्रवित् ।
स्थापितैः पञ्चविंशत्या कुम्भैश्शालिकृतासनैः ॥ 32.144 ॥
घृतादिपूरितैर्ब्रह्मन् चक्रविद्याभिमन्त्रितैः ।
राज्यभ्रष्टं 60 मन्त्रहीनं दन्युभिः परिपीडितम् ॥ 32.145 ॥
राजानं ब्राह्मणं वैश्यं तथान्यं दुरिताहतम् ।
अभिषिंचेत् स्मरन् चक्रं तन्मन्त्रेण विधानवित् ॥ 32.146 ॥
तथा प्रकल्पयेत्यन्त्रं दापयेद्दक्षिणां गुरोः ।
इत्थं कृते चतुर्विक्त्रसौभाग्यं 61 राज्यलम्भनम् ॥ 32.147 ॥
दस्युनाशो भवेद्भद्रं स्यात्सुदर्शनतेजसा ।
आदावन्ते तथा ब्रह्मन् 62 हंसमन्त्रवता पुनः ॥ 32.148 ॥
नाशयेच्चक्रमन्त्रेण विषं स्थापरजङ्गमम् ।
सङ्ग्रामविजयविधिः
अथ सङ्ग्रामविजयं वक्ष्यामि कमलासन ॥ 32.149 ॥
कृपाणे तोरमे शक्तौ शरेषु वलये तथा ।
आयुधेषु तथान्येषु ललाटे वाजिहस्तिनाम् ॥ 32.150 ॥
तथा द्वज 63 पठान्तेषु लिखित्वाचक्रमण्डलम् ।
प्रविश्य समरं भीमं रिपूणां रोमहर्षणम् ॥ 32.151 ॥
हेषितेन तुरङ्गाणां बृह्मितेन विषाणिनाम् ।
हर्षनादेन योधानां रथनेमिस्वनैस्तथा ॥ 32.152 ॥
तुरङ्गम खुरक्षुण्डैः पार्थिवैः पांसुमण्डलैः ।
तिरोहितनभस्सूर्यं कृतान्तसदनोपमम् ॥ 32.153 ॥
64 रुधिरास्राव संभ्रान्तं वेतालमिथुनोद्यतम् ।
मांससङ्ग्राह 65 णोड्डीनसहस्रश्येनसङ्कुलम् ॥ 32.154 ॥
ज्वालामालामयं चक्रं ध्यायन् जित्वा रिपूनपि ।
अक्षनागप्रहरणैर्निष्कृयेत्पृतनामुखम् ॥ 32.155 ॥
अथ वा राज्यसीमासु शङ्कान् खदिरसम्भवान् ।
स्थापयेच्चक्रमेन्त्रेण हुतशिष्टघृतोक्षितान् ॥ 32.156 ॥
अग्निप्रकाररूपस्तेन शक्यं प्रेक्षितुं परैः ।
प्रवेशे 66 कम्पनं ब्रह्मन् ब्रह्मविद्या प्रभावतः ॥ 32.157 ॥
यत्र यत्र भयं पुंसां तत्र तत्राभयं भवेत् ।
चक्रमध्यस्तमात्मानं 67 ध्यायन्तं कुपितात्मनः ॥ 32.158 ॥
पर्वतारोहणेऽरण्ये सागरप्लवनादिषु ।
व्याघ्रसिंहवराहादि सन्निपातैः खिले पथि ॥ 32.159 ॥
गच्छन्न 68 भयमाप्नोति चक्रमन्त्रमिमं जपन् ।
तं नच्छिन्दन्ति शस्त्राणि न तं दहति पापकः ॥ 32.160 ॥
न चैनं क्लेदयन्त्यापो यस्यैष हृदये मनुः ।
ब्राह्मणक्षत्रवैश्यानां शूद्राणां कमलासन ॥ 32.161 ॥
प्रतिलोमानुलोमानां कुर्यात्सं 69 वनसं पुनः ।
समिद्भिर्ब्रह्मवृक्षाणामश्वत्थवटवृक्षयोः ॥ 32.162 ॥
प्लक्षोदुम्बरजातीना 70 मपवर्गस्य पापके ।
होमं कुर्याद्यथासङ्ख्यं तथा तज्जातियोषिताम् ॥ 32.163 ॥
ब्राह्मणश्श्रियमाप्नोति होमेन श्वेतपङ्कजैः ।
रक्तपद्मैर्नरेन्द्रस्य वैश्यस्य श्वेतपाटलैः ॥ 32.164 ॥
श्रीफलैराहुतिं कुर्वन् राष्ट्रस्याधिपतिर्भवेत् ।
अङ्गेन न्यस्तमन्त्रेण यां स्पृशेदङ्गनां नरः ॥ 32.165 ॥
तस्य सा वशमायाति मृतं चाप्यनुगच्छति ।
अपमृत्युनिवारणम्
अपमृत्युजयं वक्ष्ये यथातदवधारय ॥ 32.166 ॥
होमशालागते कुण्डे सम्य 71 गाधाय पङ्कजम् ।
तस्मिन्नावाह्य 72 देवेशं दूर्वाकाण्डैर्यथोक्षितैः ॥ 32.167 ॥
जुहुयात्कोटिभिर्मन्त्रैर्यथाशक्त्यथवा पुनः ।
इति मासद्वयं रक्षेत्पावकं नियतेन्ध्रियः ॥ 32.168 ॥
होमान्ते यदि भूपालस्तुलारोहणमाचरेत् ।
अन्यश्चेदात्मनोयत्स्वं दद्याद्ब्राह्मणसात्प्रति ॥ 32.169 ॥
कलशैः पञ्चविंशत्या 73 स्नापयेच्चक्रविद्यया ।
एवं कृते चतुर्वक्त्र कालमृत्युं जयेन्नरः ॥ 32.170 ॥
अपमृत्युः कथं तस्य तज्जये नास्ति संशयः।
अथवा कालमृत्योश्च जयो पायोऽपगम्यताम् ॥ 32.171 ॥
निष्टैस्सहस्रसङ्ख्यातैः प्रतिकृत्य पितामह ।
द्विभुजं पुरुषाकारं भ्रुकुटीकुटिलेक्षणम् ॥ 32.172 ॥
दंष्ट्राकरालवदनं वराहरुधिरेक्षणम् ।
यष्टिं करेण सव्येन पाशं वामेन बिभ्रतम् ॥ 32.173 ॥
प्रक्षाल्य पञ्चभिर्गवैः पञ्चोपनिषदा तथा ।
नवकैरभिषिच्याथ धान्यराशिषु निक्षिपेत् ॥ 32.174 ॥
आवाह्य पश्चाद्व्याहृत्या पूजयित्वास्वनामभिः ।
होममग्नौ प्रकुर्वीत समिच्चरुघृतैरपि ॥ 32.175 ॥
ऋग्भिः कृता न्तलिङ्गाभिर्ब्रह्मन् व्याहृतिभि स्तथा ।
ततः प्रभाते विप्राय तं पुमांसं हिरण्मयम् ॥ 32.176 ॥
पूताय भगवद्भक्त्या पञ्चकालानुवर्तिने ।
दापयेत्काल 74 मृत्युं च जित्वास्यात्प्रायषं पदम् ॥ 32.177 ॥
मारणविधिः
अथ मारणमेतर्हि श्रूयितां चतुरासन ।
विविक्ते कल्पयेद्देशे होमशालां विधानवित् ॥ 32.178 ॥
तन्मध्ये कल्पयेत्कुण्टचार्यो दक्षिमाणामुखः ।
गृहीत्वाक्षस्य फलकां हस्तद्वयसमायताम् ॥ 32.179 ॥
तदर्धविस्त्रृतां ब्रह्मन् घनं च चतुरङ्गलम् ।
तस्या लिखित्वा द्वेष्यस्य वपुः प्रत्यक्षसंमितम् ॥ 32.180 ॥
प्रतिकूलेऽथ नक्षत्रे रिपोरष्टमराशिषु ।
कृष्णपक्षे विशेषेण प्रकुर्यान्मरणक्रियाम् ॥ 32.181 ॥
प्राच्यां भागेऽथ कुण्डस्य षडरं चक्रमालिखेत् ।
कृष्णसूत्रेरलङ्कृत्य तस्मिन् चक्रं प्रतिष्ठितम् ॥ 32.182 ॥
कृष्णगन्धैः कृष्णपुष्पैः पूजयेत् कृष्णवारिभिः ।
75 श्मशानाद्वा सुनिलयाद्वल्मीकान्मृदमाहरेत् ॥ 32.183 ॥
तां रिपोः पादधूलीभिर्व्यामिश्रां कमलासन ।
उन्मत्तरसमिश्रेण खरमूत्रेण पेषयेत् ॥ 32.184 ॥
विष्ठया वा मृदा वापि द्वेष्यस्य प्रतियातनाम् ।
तस्यां प्राणान् प्रतिष्ठाप्य मन्त्रेणानेन मन्त्रवित् ॥ 32.185 ॥
उद्गीथमप्रमेयं च मन्दरं भुवनं तथा ।
क्रोधानिलौ पश्चिमास्यं हुताशं मधुसूदनम् ॥ 32.186 ॥
प्रचण्डगोपनौ रामं भास्करं पश्चिमाननम् ।
नमध्यं गोपनद्वन्द्वममुष्येति पदं पुनः ॥ 32.187 ॥
जीवा इह स्थिता शब्दं विष्णुदक्षोदयां स्तथा ।
क्रोधरूपं 76 तपस्यन्तं सर्वशब्दमनन्तरम् ॥ 32.188 ॥
विक्रमं विघ्नराजात्रिवह्नि बन्धू च गोपनम् ।
वनमालाधरं रामं पाङ्मनः काय इत्यपि ॥ 32.189 ॥
77 अथ माया तृतीयान्तं लोडन्तं 78 यानि यन्मुखम् ।
स्वाहावसानमुद्धृत्य प्रणवान्तानिकं ? मनुम् ॥ 32.190 ॥
तां च प्राणवतीं कुण्डे खन्यामत्तानशायिनीम् ।
फलकास्थितमाकामनु 79 लिप्य पातामह ॥ 32.191 ॥
पूर्वोक्तया मृदा पश्चात्प्राणिनं प्राणविद्यया ।
पादेनाक्रान्तहृदयो रोषलोहितलोचनः ॥ 32.192 ॥
सहस्रकृत्वश्चक्रस्य मन्त्रं भाषेत मन्त्रवित् ।
80 वृषवृक्षप्ररूढेन शङ्कुना नेत्रयोर्हृदि ॥ 32.193 ॥
हस्तयोः पादयोर्गुह्येश्रोत्रयोर्नासिकोदरे ।
अन्येष्वपि प्रतीकेषु 81 वधं कुर्याद्विचक्षणः ॥ 32.194 ॥
तथा कृते रिपो स्ततद्गात्रं हीनं भविष्यति ।
अथ कुण्डेश्मशानाग्निं निदधीत पितामह ॥ 32.195 ॥
दर्भैः परिस्तरे द्वेद्वां दक्षिणापश्चिमोन्मुखान् ।
परिधिं तद्वदाकीर्य कृत्वा राक्षां तथात्मनः ॥ 32.196 ॥
ऋत्विग्भिष्षोडशोद्दिष्टैर्द्वारेष्वध्ययने कृते ।
ब्राह्मणेभ्यो धनं दत्वा हेतिराजमनुस्मरन् ॥ 32.197 ॥
अक्षकाष्ठप्रक्लृप्ताभ्यां स्रुक्स्रुवाभ्यां यथाविधि ।
कृष्णपन्नगराजीव कृष्णोतु क्षतजोक्षितैः ॥ 32.198 ॥
मरीचैस्सर्षपै 82 र्युक्तानष्टधान्याष्टधान्वितान् ।
समिधोऽक्षस्य जुहुयात्सहस्रं प्रतिवासरम् ॥ 32.199 ॥
रिपुनक्षत्र वृक्षाणां समिधश्छापि मन्त्रवित् ।
मन्त्रान्ते शत्रुनामानं मारयेति प्रकीर्तयेत् ॥ 32.200 ॥
83 होतव्यं चावमानेन होमं कृत्वा दिने दिने ।
यावद्भवति कृत्याया दर्शनं जातवेदसि ॥ 32.201 ॥
क्रमेणतावज्जु हुयाद्वासरावेकविंशतिम् ।
फलकामपि वेदस्थां होमधूपेन धूपयेत् ॥ 32.202 ॥
अगुरुं गुग्गुलं चापि धूपार्थ मनले दहेत् ।
अथ सप्तस्वतीतेषु दिवसेषु पितामह ॥ 32.203 ॥
सप्तस्वहस्सु मध्ये च यथाक्रमनुमि ज्वराः ।
आक्रोशो वेदना तीव्रा गात्राणामविधेयता ॥ 32.204 ॥
हिक्का निश्वासविच्छेदो जिह्वाहानिस्तथारिपोः ।
भवन्तिहि प्रभावेन चक्रमन्त्रस्य निश्चितम् ॥ 32.205 ॥
इति द्विसप्तकेऽतीते दिवसेऽनन्तरे पुनः ।
मध्यरेत्रे कृते होमे 84 कृत्या तस्माद्विभावसोः ॥ 32.206 ॥
त्रिशूलभीषणैर्हस्तै 85 स्सप्तभिस्त्रिभिरङ्घ्रिभिः ।
जिह्वया रक्तवर्षिण्या लेलिहाना निजं मुखम् ॥ 32.207 ॥
उद्गिरन्ती स्वनेत्राभ्यामाज्वसिक्तं हविर्भुजम् ।
नरास्थिमालां बिभ्राणा 86 पुरीतत्कतमेखला ॥ 32.208 ॥
कपोलकुण्डलोपेता प्रहसन्ती भयानकम् ।
दण्डं घण्टां तथा शूर्पं मार्जनीं पाशमण्डलम् ॥ 32.209 ॥
बिभ्रती लम्बमानाभ्यां 87 हस्ताभ्यां मुक्तमूर्धजा ।
अधिरूढापरस्कन्धमन्धकारनिभाकृतिः ॥ 32.210 ॥
स्फुलिङ्गमण्डलस्थेव विमुक्ताटोपभीषणा ।
उत्थाय प्राञ्जलिर्भूत्वा किंकरोमिति भाषते ॥ 32. 211 ॥
अभिधास्यत्यथाचार्यः प्राणान् हर रिपोरिति ।
आदिष्टा सा तथेत्युक्त्वा रिपुं तस्य महात्मनः ॥ 32.212 ॥
अपि दूरस्थितं हत्वा गुरुं पुनरुपैष्यति ।
अथ 88 पूर्णाहुंतिं हुत्वा होतृभिस्सह मन्त्रवित् ॥ 32.213 ॥
89 द्वाविंशे दिवसेलक्षं षडक्षरमिमं जपेत् ।
तथापराजितं मन्त्रं नारसिह्ममनुं तथा ॥ 32.214 ॥
घृतादिपूरितैः कुम्भैर्विंशत्या पञ्चभिः पुनः ।
आत्माभिषेकं 90 कुर्वीत चक्रमन्त्राभिमन्त्रितैः ॥ 32.215 ॥
एनसो मुच्यते [^91] तस्मात्तथा शान्तिर्भविष्यति ।
उच्चाटनम्
उच्चाटनं प्रवक्ष्यामि यथावत्कमलासन ॥ 32.216 ॥
निम्बदुत्तूरप्रत्राणां श्मशानाङ्गारमिश्रितैः ।
रसैरक्षस्य 91 काष्ठेन द्विहस्ते प्रेतवाससि ॥ 32.217 ॥
षट्कोणे नाभिनेम्यज्के मण्डले क्रमशोलिखेत् ।
नामधेयं रिपोरन्तः 92 प्रोच्ययामे थ पश्चिमे ॥ 32.218 ॥
यकारं भुवनं ब्रह्मन् झकारं 93 भुवनं तथा ।
शिष्टेषु त्रिषु कोणेषु 94 तथोष्टे मण्डलादयः ॥ 32.219 ॥
तदारूढं रिपुं चापि कुणअडे चापाकृतौ पुनः ।
समिद्भिर्निंबवृक्षस्य तथा च विषभूरुहः ॥ 32.220 ॥
जुहुयादभितो वह्नावमृतं प्लोषयन् रिपुम् ।
यत्र ध्वजं तं बध्नी यादुच्छ्रिते चैत्यपादपे ॥ 32.221 ॥
अहोभिरेकविंशत्या रिपुस्तस्य महानपि ।
अधिष्टानं निजं हित्वा भार्यापुत्रादिभिस्सह ॥ 32.222 ॥
पलायते दिगन्तेषु न क्वचिल्लभते स्थितिम् ।
विद्वेषणम्
अथ विद्वेषणं ब्रह्मन् यथावदवधारय ॥ 32.223 ॥
अक्षपादपकाष्ठेन स्निग्धयोराकृतिद्वयोः ।
कृत्वा तयोर्लिखेन्मन्त्रं नामधेयं तयोरपि ॥ 32.224 ॥
विद्वेषय पदोपेत 95 मसृजाध्याङ्क्ष कारयोः ।
आखुमार्जारयोर्ब्रह्मन् तथा सर्वमयूरयोः ॥ 32.225 ॥
तथान्येषां विरुद्धानां तिरश्चां पक्षिणामपि ।
निब 96 ध्य रज्जुमायामां मूर्धजैर्महिषाश्वयोः ॥ 32.226 ॥
तथा ते अकृती बध्वा 97 व्यस्तयोस्तुकृतं मुखम् ।
98 अपिदध्यात्तयोरास्यं जपेन्मन्त्रं षडक्षरम् ॥ 32.227 ॥
कुण्डे च होमं कुर्वीत समिद्भि 99 र्मृत्युबन्धयोः ।
अष्टोत्तरसहस्रेण 100 हुयादग्नौ सुदर्शनम् ॥ 32.228 ॥
युध्येत स्निग्धयोर्द्वन्द्वं काकोलूकादिसंमितम् ।
इत्थं दश स्वतीतेषु दिवसेषु स मन्त्रवित् ॥ 32.229 ॥
अपाकृष्यति दम्पत्यो 101 ममत्वं मित्रयोरपि ।
102 क्षीरैस्नायात्तयोर्भूयः प्रीतर्भवति पूर्ववत् ॥ 32.230 ॥
स्तम्भनम्
अथाभिधीयते ब्रह्मन् स्तम्भनं तं निशम्यताम् ।
शिलातले लिखित्वाथ चतुष्कोण चतुष्टयम् ॥ 32.231 ॥
तेषु प्रत्येकमालिख्य 103 पत्रैर्दिव्यैः पितामह ।
गृहं वामनमन्त्रं 104 तमिन्दुकान्तचतुष्टयम् ॥ 32.232 ॥
वज्राङ्कमपि पुष्पैस्तत्पूजयेत्कनकप्रभम् ।
स्थापयित्वा 105 स्थण्डिलेऽस्मिन्नासित्वा मन्त्रमिरयेत् ॥ 32.233 ॥
स्तम्भयेति पदं चापि जुहुयादर्कखण्डिकाः ।
106 स्तम्भनं स्यात् झडित्येवं विवाहे गर्भलाभके ॥ 32.234 ॥
वादजल्पवितण्डासु कथास्वपि च वादिनाम् ।
वक्ष्यामि 107 स्खलनं ब्रह्मन् लिखित्वा प्रतियातनाम् ॥ 32.235 ॥
108 द्वेष्यस्यालयवैस्तल्या गोमयाङ्गारमिश्रितैः ।
तदङ्गेषु लिखेन्मन्त्रं तद्बीजेन समन्वितम् ॥ 32.236 ॥
अथ स्याच्छक्तिहीनं तु 109 मतिद्वेषस्य देहिनः ।
अथ ते ताडनं वक्ष्ये 110 दुत्तूरहयमारयोः ॥ 32.237 ॥
अर्कस्य च रसे ब्रह्मन् श्मशानाङ्गारमिश्रितैः ।
ळिखेत्प्रतिकृतिं बिल्व काष्ठे प्रेतस्य वासनि ॥ 32.238 ॥
सङ्खकीलमथाधाय चतुरङ्गुलसंमितम् ।
अङ्गानि ताडये त्तस्य तेन कीलेन मन्त्रवित् ॥ 32.239 ॥
षडक्षरस्य कुर्वीत नित्यं जप मतन्द्रितः ।
धनादिहानिस्तस्य स्यान्न्यस्ते द्वेष्टि स मन्त्रवित् ॥ 32.240 ॥
वशीकारः
वशीकारमहं ब्रह्मन् भूपतीनां ब्रवीमिते ।
111 कुष्ठकुङ्गुमसिद्धार्धकर्पूरागुरुचन्दनैः ॥ 32.241 ॥
गोरोचनान्वितैश्चापि कुसुम्भरजसा सह ।
भूर्जपत्रे ळिखेच्चक्रं षडरेषु षडक्षरम् ॥ 32.242 ॥
तद्बहिर्द्वादशारं च नाभिनेमिसमन्वितम् ।
द्वादशाक्षरमालिख्य द्वादशारं ततो बहिः ॥ 32.243 ॥
अष्टाक्षरेण मन्त्रेण हंसमन्त्रेण चान्वितम् ।
तद्बहिर्द्वादशज्वालं पाशाङ्कुशमनुद्वयम् ॥ 32.244 ॥
साध्यस्य नामधेयेन प्रणवेनान्तराङ्कितम् ।
आभिष्षोडशभिर्ब्रह्मन् विदर्भितमनन्तरम् ॥ 32.245 ॥
तदेतद्गुलिकां कृत्वा पद्मसूत्रेण वेष्टिताम् ।
चक्राब्जे वा सितां कृत्वा पूजितां कुसुमादिभिः ॥ 32.246 ॥
होमं पद्माकृतौकुण्डेकृत्वा कुसुमसर्पिषा ।
द्वादशाहानिकृत्वैवं 112 मङ्गाल्यादीनि साधयेत् ॥ 32.247 ॥
राजदयो मुखं तस्य प्रेक्षन्तेविवशा इव ।
तस्य दूरात्पलायन्ते कूश्माण्डप्रमुखा ग्रहाः ॥ 32.248 ॥
पातालसाधनम्
रसादल प्रवेशं ते कथयामि चतुर्मुख ।
बिल्वदारुं समासाद्य कुसुम्भरजसा सुधीः ॥ 32.249 ॥
लिखित्वा षडरं चक्रं बहिस्तस्याथ मन्त्रवित् ।
113 यथोपदेशं पातालं पन्नगासुरसङ्कुलम् ॥ 32.250 ॥
लिखेत्कृत्वा पुनः कुण्डं तस्मिन्नाधाय पावकम् ।
जुहुयान्न रमांसेन जपेन्मन्त्रं च सर्वशः ॥ 32.251 ॥
द्वादशाहेन ते पश्चात्पापालतलसंश्रयाः ।
उपस्थास्यन्ति तं भीता युवत्यः कामपीडिताः ॥ 32.252 ॥
तं ग्रहिष्यन्ति भर्तारमहं पुर्वं शुचिस्मिताः ।
पाणिभिर्लोलवलयैः कामयानाः प्रियंवदाः ॥ 32.253 ॥
रसायनादि दास्यन्ति तस्मै पातालवर्तिने ।
114 तद्भक्षणेन दीर्घायुस्ताभिस्सह यथेप्सितम् ॥ 32.254 ॥
रंस्यते रम्यदेशेषु यत्र वा जायते रुचिः ।
खड्गसिद्धिः
खड्गस्य साधनं ब्रह्मन्निदानीं कथयामिते ॥ 32.255 ॥
अश्वत्थपत्रा न्तरितं खड्गं शास्त्रोक्तलक्षणम् ।
115 स्पृष्ट्वा षडक्षरं मन्त्रं जपेद्ध्यात्वा सुदर्शनम् ॥ 32.256 ॥
अथ खड्गस्य तापस्यात्सयक्ष्यादीनि जेष्यते ।
तस्मिन् धूमायमाने तु गन्धर्वाधिपतिर्भवेत् ॥ 32.257 ॥
तस्मिन् ज्वालामुखे ब्रह्मन् विद्याधरपतिर्भवेत् ।
गृहीत्वा तं पुनः खड्गं यथेष्टं लोकमाप्नुयात् ॥ 32.258 ॥
परकायप्रवेशः
गोमयेनोपलिप्तेऽथ शून्यागारे पितामह ।
चक्रं लिखित्वा सुमनास्सितपुष्पौरलंकृतम् ॥ 32.259 ॥
116 व्रणहीनं शवं तस्मिन् ब्राह्मणस्य नृपस्य वा ।
प्राचीन शिरसं कृत्वा माहिषेन घृतेन तम् ॥ 32.260 ॥
पादयोर्मन्त्रविल्लिम्पेदसहायोऽप्रमत्तधीः ।
तद्वक्षसि पदं कृत्वा मन्त्रराजमिदं जपेत् ॥ 32.261 ॥
प्रत्यहं जुहुयादग्नौ समिद्भि 117 र्वेत्रभूरुहः ।
कृते सङ्ख्यं ? जपेन्मन्त्रं 118 जनहोमैः पितामह ॥ 32.262 ॥
उत्थास्यति शवः प्राणी निशीथे कल्पिताञ्जलिः ।
सतस्मै मन्द्रसिद्धाय वक्ति दिव्यं रसायनम् ॥ 32.263 ॥
पादुकामञ्जनं खड्गं प्रदास्यति यथेप्सितम् ।
यदिदं तेन खड्गेन हत्वा 119 श्नीयात्तदामिषम् ॥ 32.264 ॥
त्रैलोक्य 120 विषयं ज्ञानं लप्स्यते चतुरासन ।
वलीपलितहीनत्वममरत्वं च सेत्स्यति ॥ 32.265 ॥
निधानान्यपि गूढानि प्रत्यक्षमिव पश्यति ।
रससिद्धिः
रसं विमृज्य पाषाणे लिखेच्चक्रं षडक्षरम् ॥ 32.266 ॥
रसं निधाय मूषायां बध्वाद्रव्यैर्यथोचितैः ।
कृत्वाभिमन्त्रित्रंब्रह्मन् चक्रमन्त्रेण कल्पवित् ॥ 32.267 ॥
उपयुञ्जीत मेधावी जपेच्चापि षडक्षरम् ।
आरोग्यं बलमैश्वर्यं कालमृत्युव्यतिक्रमम् ॥ 32.268 ॥
वाग्मित्वं बुद्धिमत्वं च रूपसंवननं वयः ।
सभस्थले गतिश्चापि साक्षादिव गरुत्मतः ॥ 32.269 ॥
इत्यादयो गुणास्तस्य भविष्यन्तिन संशयः ।
पादुकासिद्धिः
यथा न पादखेदस्स्याद्दूरं गत्वापि तच्छ्रुणु ॥ 32.270 ॥
काकजङ्घामुपादाय कोकिलेक्षणसंहिताम् ।
बलां 121 मोटारसैस्तेषां सऱपुङ्खरसान्वितैः ॥ 32.271 ॥
122 सर्षपस्नेहंसमिश्रैश्चक्रमान्त्राभिमन्त्रितैः ।
123 लिप्त्वा पादयुतं चक्रं कृत्वारण्यमहापथे ॥ 32.272 ॥
योजनानां सहस्रे द्वे न खेदं समवाप्नुयात् ।
यक्षीसाधनम्
यक्षीसिद्धिं प्रवक्ष्यामि तां लिखेत् क्षौम 124 पाससि ॥ 32.273 ॥
न्य ग्रोधमाले तां 125 ध्यात्वा यक्षीविद्यां जपेद्बधः ।
आराध्य गुग्गुलूत्थेन धूपेन कमलासन ॥ 32.274 ॥
समिद्भिर्वटवृक्षस्य तथाशोक करञ्जयोः ।
रक्तपद्मैस्तिलैश्चापि जुहुयाज्जातवेदसि ॥ 32.275 ॥
एकविंशति रात्रान्ते कम्पते स वटो मुहुः ।
दृढबुद्धिः पुनश्चापि मन्त्रमेवं जपेद्बुधः ॥ 32.276 ॥
अथ प्रत्यक्षरूपा सा यक्षी कल्याणलक्षणा ।
स्निग्धेव जननी सिद्धिं 126 तस्मै दत्वा यथेप्सिताम् ॥ 32.277 ॥
अमुनैव विधानेन यक्षा वैश्रवणादयः ।
प्रत्यक्षभूता दास्यन्ति साधकेन वृतं 127 वरं ॥ 32.278 ॥
यथा यथाऽधिको होमो जपे वा कमलोद्भव ।
अमुष्य चक्रमन्त्रस्य पञ्चकोटिर्यथोत्तरम् ॥ 32.279 ॥
तथा तथा 128 पदान्येता न्यवधूयेत किल्बिषम् ।
आदित्यानां सशाङ्कस्य वसूनां मरुतामपि ॥ 32.280 ॥
अश्विनोर्वासवस्यापि मन्वादीनां तपस्विनाम् ।
रुद्राणां ब्रह्मणश्चापि चक्रमन्त्रस्य वैभाव्त ॥ 32.281 ॥
सहस्र कोटिसङ्ख्येन होमेन च जपेन च ।
तपसा चातितीव्रेण लभते वैष्णवं पदम् ॥ 32.282 ॥
किं भूयसा प्रलापेन यत्रेष्टं यद्भविष्यति ।
स तेन तेन लभते पापे भ्योपि प्रमुच्यते ॥ 32.283 ॥
इत्येतत्कथितो ब्रह्मन् षडक्षरमहामनोः ।
129 कलास्संग्रहरूपेण रहस्यस्सर्वसिद्धिदः ॥ 32.284 ॥
इति श्रीपाञ्चरात्रे महोपनिदि पाद्मेतन्त्रे चर्यापादे 130 सुदर्शनमहामन्त्र वैभवो नाम द्वात्रिंशोऽध्यायः.
-
अत्रिम्. ↩︎
-
ऊष्मान्तमुदयं बिन्दुं. ↩︎
-
विभूषितम्. ↩︎
-
च दयान्तं. ↩︎
-
दर्शनम्. ↩︎
-
समूहेभ्यः. ↩︎
-
जपसङ्ख्या. ↩︎
-
मधु वेक्षु. ↩︎
-
क्षालनाम्भः पुष्पन्दरि. ↩︎
-
दन्नघृतादिभिः. ↩︎
-
क्रमादेवम्. ↩︎
-
सम्मितौ । मुख्यद्रव्यै. ↩︎
-
तुरैः कुम्भैः स्थापयित्वा. ↩︎
-
गृहीतानां. ↩︎
-
गृह्णन्विचेतो वाभि रूपवान्. ↩︎
-
रक्त. ↩︎
-
मन्त्रितम्. ↩︎
-
उपासन्ते गृहास्सर्वे पुरतः. ↩︎
-
भेदने. ↩︎
-
कुण्डानिशान्तिं पुष्पादि. ↩︎
-
वश्यार्थं. ↩︎
-
द्वौ भारौ. ↩︎
-
नचाश्रकुण्डेषु यवा पञ्च एको. ↩︎
-
नवाः. ↩︎
-
द्युक्ता यथेदानीम्. ↩︎
-
कुम्भे उभे-कुण्डे यथोदिते. ↩︎
-
भवत्यधिकमिति सप्ताहं तु समाचरेत्. ↩︎
-
दाचार्यय च. ↩︎
-
मार्गस्थलमथो. ↩︎
-
मन्त्रं. ↩︎
-
त्कमालादिना. ↩︎
-
दिभिः. ↩︎
-
यो मकरादयः. ↩︎
-
मन्यद्यत्. ↩︎
-
तद्राष्टेपि. ↩︎
-
मण्टपम्. ↩︎
-
न्नवान्. ↩︎
-
मूतीर्यथाक्रमम्. ↩︎
-
निवेद्यं पायसान्नं स्यात्. ↩︎
-
आददीतं तथा. ↩︎
-
वानीरभङ्गैः. ↩︎
-
प्लापये. ↩︎
-
पि स्वकृतं तथा. ↩︎
-
करं चापि मन्त्रवित्कोपि भूषणः. ↩︎
-
द्भूरिभूषयः. ↩︎
-
मधु च राजसर्षपलानलैः. ↩︎
-
तथा चैव. ↩︎
-
भोगोप. ↩︎
-
मह्यं त्वङ्गे चक्रमेकं. ↩︎
-
पावकीम्. ↩︎
-
यदि तस्य. ↩︎
-
पुरा भूता. ↩︎
-
अथ. ↩︎
-
स्यात्पञ्चाशच्चतुष्टयम्. ↩︎
-
तथा. ↩︎
-
मन्त्रस्य. ↩︎
-
इष्ट्वाषत् यट्फ्रकारेषु. ↩︎
-
सत्स्वपि. ↩︎
-
मण्टपम्. ↩︎
-
भाग्यहीनं. ↩︎
-
राजलङ्घनं. राज्यलाभदम्. ↩︎
-
विश्व. ↩︎
-
पताकेषु. ↩︎
-
रुधिरस्वमसं. ↩︎
-
णासीन. ↩︎
-
किंपुनर्ब्रह्मन् चक्र. ↩︎
-
ध्यात्वान्तं. ↩︎
-
यमवा. ↩︎
-
वननाम्बुज. वलनं पुनः. ↩︎
-
मापामार्गस्य. ↩︎
-
गारा द्यपावकम्. ↩︎
-
हेतीशं. ↩︎
-
स्थाप. ↩︎
-
मृत्युं वासजित्वा स्यायुषम्. इत्यस्ति. ↩︎
-
श्मशानादौ. ↩︎
-
नभस्वन्तं. ↩︎
-
प्रथमायां. ↩︎
-
धान्यवान्मुखम्. ↩︎
-
लिख्य. ↩︎
-
अक्षवृक्ष-अथवा-विषवृक्ष-इति स्यात्किम्. ↩︎
-
वेधं. ↩︎
-
र्मिश्रैस्तथान्यैश्चौषधान्वितैः. ↩︎
-
होतव्यश्च प्रमाणेन. ↩︎
-
कृत्यां तस्या. ↩︎
-
स्सन्दर्शितशरादिभिः. ↩︎
-
नूपुरीकृतमेखला. ↩︎
-
स्तनाभ्यां. ↩︎
-
पूर्व. ↩︎
-
द्वादशे. ↩︎
-
कुर्वन्ति. ↩︎
-
कामेन द्विहस्ते व्रत. ↩︎
-
प्राच्ये याम्येथ पश्चिमे । ककारं भवनं ब्रह्मन्नीकार भवनं पुनः. ↩︎
-
भवनम्. ↩︎
-
सर्वकोशेष्वपि अशुद्धिः. ↩︎
-
मसृजा ध्वांक्षतारयोः. ↩︎
-
ध्यारज्जु मायाया. ↩︎
-
व्यत्यस्तंयोः कृता मुखी-वास्तधोस्तु कृतामुखी । ↩︎
-
कृते खन्या - अथ खन्या. ↩︎
-
र्मृणबालयोः. ↩︎
-
ध्यायन्न. ↩︎
-
ममृत्यं. ↩︎
-
क्षीरस्नानात्. ↩︎
-
प्रीतै. ↩︎
-
तमिंद्र. ↩︎
-
तले तस्मिन्. ↩︎
-
स्तम्भनस्य झडित्येव. ↩︎
-
तिलकं. ↩︎
-
द्वेष्यस्य वयमेवस्तु भिक्षागोमय कुम्भकैः। तदनैषु. ↩︎
-
मयि द्वेष्यस्य. ↩︎
-
दुर्धूरं भय. ↩︎
-
कुष्ठं च कुङ्गुमं लोध्रं. ↩︎
-
मङ्गलादिषु. ↩︎
-
यथोद्देशं च. ↩︎
-
ततः प्रभावात्. ↩︎
-
दृष्ट्वा. ↩︎
-
प्राणहीनं. ↩︎
-
र्नेत्र. ↩︎
-
तत्तद्धोमैः. ↩︎
-
नीया. ↩︎
-
विजयं. ↩︎
-
मोटां. ↩︎
-
सहस्रस्तेन. ↩︎
-
लिप्तपादयुतं चक्रं गत्वारणमहापथम्. ↩︎
-
वाससीम्. ↩︎
-
स्नात्वा. ↩︎
-
रक्षेद्दत्वा. ↩︎
-
वृतम्. ↩︎
-
वदान्येतान्यावेद्याविह. ↩︎
-
कारस्संग्रह. ↩︎
-
क्वचित्कोशे. “ऐहिकामुष्मिकसुदर्शन” इति अक्षराणि कृश्यन्ते. तत्र " फलप्रद" इत्यपि पदं योजितं चेत् साधुसमन्वीयात्. ↩︎