.
विघ्नराजोत्पत्तिः
ब्रह्मा :—
भगवन् विघ्नराजस्य जन्मकीदृक्कुतश्च सः ।
भूषणानां च कोटीरप्रमुखानां यथातथम् ॥ 31.1 ॥
चक्रादीनामायुधानां तार्क्ष्यसेनेशयोरपि ।
मनवः पूजितायैस्तैः पूजिताः फलहेतवः ॥ 31.2 ॥
इति सर्वं समाचक्ष्वमयि 1 ते यद्यनुग्रहः ।
श्रीभगवान् :—
असुरैरर्दिता देवा बलिनो युद्धदुर्जयौः ॥ 31.3 ॥
शरण्यं शरणं जग्मुः प्रद्युम्नमभयप्रदम् ।
देवा :—
आहवेषु वयं दैत्यैर्बलवन्तोपि बाधिताः ॥ 31.4 ॥
यथा ते विघ्नविहताः पलायन्ते तथा कुरु ।
प्रद्युम्नस्तैरिति प्रोक्तः क्रुद्धस्संरक्तलोचनः ॥ 31.5 ॥
कोपात्तस्य समुद्भूतस्सम्यक् स्तम्भेरमानवः ।
सञ्जातं प्राञ्जलिपुटं कुर्वाणं तं पुरस्थ्सितम् ॥ 31.6 ॥
तं दृष्ट्वा गजवद्वक्त्रं प्रोवाचेदं वचस्तदा ।
देवानामसुराणां च सङ्ग्रामे समुपस्थिते ॥ 31.7 ॥
सन्निधाय भवांस्तत्र दैत्यानां विघ्नमाचर ।
इत्युक्त्वा मिषतस्तस्य प्रद्युम्नो भगवान् हरिः ॥ 31.8 ॥
अन्तर्दधे सुराश्चापि प्रतिजग्मुर्यथा 2 गतम् ।
ततः प्रभृति विघ्नेश प्रसादाद्देवतागणाः ॥ 31.9 ॥
असुरान् जघ्निवांसस्तेन च जग्मुः पराभवम् ।
आकल्पमनुनिर्देशः
तत्र किरीटमन्त्रः.
आकल्पस्य किरीटस्य मनुं वक्ष्यामि संप्रति ॥ 31.10 ॥
व्यापिनं नतिमुद्धृत्य कमलं तदनन्तरम् ।
महामायां सप्तजिह्वं पञ्चबिन्दुसमाह्वयम् ॥ 31.11 ॥
हृदयाह्लादमाकारं पवनं शुक्लमन्दरौ ।
दाक्षायणीशविजयौ मन्दरं च सरोरुहम् ॥ 31.12 ॥
श्रीधरं हृदयाह्लोदं माधवं वित्तवर्धनम् ।
कुम्भं हुताशनं देवदत्तं क्षीरं सुधामयम् ॥ 31.13 ॥
दहनं गोपनं वायुं करालं कमलोद्भव ।
ओतदेहं क्षितिधरं 3 विक्रमं धूमकेतनम् ॥ 31.14 ॥
अमृतं बन्धुसहितं भद्रहस्तं त्रिविक्रमम् ।
चतुर्गतिं श्रीधरं च विजयं माधवं तथा ॥ 31.15 ॥
4 हस्तिवक्त्रं वैधरं च भुवनं कामगं ततः ।
वैराजं वैधराह्वानमिरयित्वा ततः परम् ॥ 31.16 ॥
रामं पवित्रं विजयं गोपनं द्विरदाननम् ।
5 महेन्द्रं कुञ्जरमुखं विक्रमं सूक्ष्मलोचनम् ॥ 31.17 ॥
गोपनं 6 स्पर्शनामादिदेवं समसरोरुहम् ।
माहेन्द्रं 7 पश्चिमं चादिदेवं च धनदाह्वयम् ॥ 31.18 ॥
विक्रमं पश्चिमं चैव विजयं च तुरानन ।
प्रभञ्जनमृगेशं च मधुसूदन संज्ञितम् ॥ 31.19 ॥
मार्ताण्डं पापकमथो पञ्चबिन्दुं सबिन्दुकम् ।
करालमृतधामानं महामायां सयष्टिकम् ॥ 31.20 ॥
गोपतिं श्रीधरयुतं नासिक्यं फट्कृतिं तथा ।
स्वाहायां विरमेन्मन्त्रं बीजमस्योच्यतेऽधुना ॥ 31.21 ॥
कमलं त्वृतधामानं महामाया परिष्कृतम् ।
8 उद्धृतं षत्षडङ्गानि द्रष्टा चाखण्डल स्तथा ॥ 31.22 ॥
छन्दश्च पङ्त्किरित्युक्तं किरीटो देवतापि च ।
किरीटिनं च द्विभुजं महाकायं 9 महोदरम् ॥ 31.23 ॥
कृताञ्जलिपुटं प्रह्वं सुस्थितं भूषणैर्युतम् ।
ध्यात्वैवं मन्त्रविन्मन्त्रं पञ्चलक्षमतन्द्रितः ॥ 31.24 ॥
नत्यन्तं
श्रीवत्समन्त्रः
छन्दसामादिं श्रीशब्दं कलशं तथा ।
एकनेत्रं हुतवहं शशाङ्कं मधुसूदनम् ॥ 31.25 ॥
सदागतिं चादिदेवं नासिक्यं यष्टिसंज्ञितम् ।
लक्ष्मीं करालं पुलहं महामायां सबिन्दुकम् ॥ 31.26 ॥
तार्क्ष्यमौर्वादिकं यष्टिं हुंफट्कारं हुतान्तिमम् ।
श्रीभीजं तद्भवेद्बीज मृषिश्चैव प्रजापतिः ॥ 31.27 ॥
विराट् छन्दश्च गायत्रं श्रीवत्सो देवता मता ।
श्रीवत्समन्त्रमपरं कथयामि चतुर्मुख ॥ 31.28 ॥
ओंकारं प्रथमं सोमं स्वरादि जयमारुतौ ।
माधवं तारकाधीशमेकनेत्रं समारुतम् ॥ 31.29 ॥
कलशं विजयं पश्चान्महामायापरिष्कृतम् ।
शुक्लं च तारं श्वसनं कुंभं वैराजमेव च ॥ 31.30 ॥
अनलं पूर्णचन्द्रं च पुलहं माधवं तथा ।
सत्यन्तं शुक्लविजयौ श्वसनं श्वेतरोचिषम् ॥ 31.31 ॥
दक्षं दरं देवदत्तामोषधीशं तथाब्जज ।
वैराजं प्रथमं कुम्भमृतधामवदर्भितौ ॥ 31.32 ॥
10 जयं सदागतिं देवदत्तं चैव ठठान्तिमम् ।
श्रीभीजं पूर्वमेवोक्तमृषिर्देवल उच्यते ॥ 31.33 ॥
छन्दश्चाक्षरपङ्त्किस्स्याच्छ्रीवत्सो देवता मता ।
ततो लक्षजपेनैव सर्वान्कामानवाप्नुयात् ॥ 31.34 ॥
रौस्तुभमन्त्रः
प्रणवादिं च सत्यन्तं विधातारं तथा मनुम् ।
सकारं विजयं लोकं सुभद्रं मधुविद्विषम् ॥ 31.35 ॥
प्रभञ्जनं पावकं च वैराजं विघ्ननायकम् ।
गोपनं धनदं मायां पश्चिमं प्रथमस्वरम् ॥ 31.36 ॥
11 वै राजं मारुतं पश्चादेकारं प्रथमस्वरम् ।
माधवीं पद्मनाभं च विजयं ब्रह्मसाधनम् ॥ 31.37 ॥
अग्निं भल्लायुधं कुम्भमाकारं मारुतं तथा ।
अचां द्वितीयं 12 कमलं पुलहं च पवित्रकम् ॥ 31.38 ॥
आदिदेवं च धनदं त्रिविक्रममनन्तरम् ।
पश्चिमं विजयं चादिं 13 स्पर्शनं माधवं तथा ॥ 31.39 ॥
ओषधीशमिकारं च दृष्टिं च धनदं पुनः ।
रामं प्रद्यम्नसहितं पश्चिमं पद्मनाभकम् ॥ 31.40 ॥
प्रभञ्जनं छलध्वंसं 14 द्वयं स्वाहावसानकम् ।
कौस्तुभं बिन्दुसहितं बीजमेतदृष्टिः पुनः ॥ 31.41 ॥
जमदग्निर्विराट् छन्दो देवता कौस्तुभाह्वया ।
कौस्तुभं च चतुर्थ्यन्तमुच्चार्यनतिमु 15 द्धरेत् ॥ 31.42 ॥
पञ्चलक्षजपादस्य मनोस्सिध्यति वाञ्छितम् ।
वनमालामन्त्रः
सप्तार्णपूर्वकं 16 कुम्भं भद्रहस्तं प्रियद्विषम् ॥ 31.43 ॥
17 भद्रहस्तं मन्दरं च मधुसूदनमब्जज ।
पुलहं देवदत्तं च माधवीं मधुसूदनम् ॥ 31.44 ॥
माहेन्द्रं रामनामानं विघ्नेशं पञ्चबिन्दुकम् ।
पश्चिमं श्रीधरं वह्निं भुवनं तदनन्तरम् ॥ 31.45 ॥
क्रोधाग्निं वासुदेवं च वैराजौ द्वौ च मन्दरम् ।
पश्चिमं पद्मनाभं च माया शिरसमन्वतः ॥ 31.46 ॥
मारुतं माधवयुतं ठठान्तो मनुरीरितः ।
कलशं मारुतं पश्चादुदयश्चा 18 निरुद्धकम् ॥ 31.47 ॥
बीजं मुनिश्च धनदः छन्दः पङ्क्तिश्च देवता ।
वनमालापरं मन्त्रं कथयामि महाफलम् ॥ 31.48 ॥
ब्रह्मकोशं नतिं कुम्भं मुखं विघ्नेश 19 मन्दरौ ।
गोपनं पुलहं चादिदेवं 20 शङ्खं च गोधनम् ॥ 31.49 ॥
माधवं सूदनं वायुं मृगेशं दक्षगोपनौ ।
चतुर्गतिश्चादिदेवमनलं सगुहालयम् ॥ 31.50 ॥
पश्चिमं विक्रमपरं प्रचण्डं पञ्चिबिन्दुकम् ।
दक्षं दिनकरं 21 चक्षुर्द्वितीयं श्वेतदीधितिम् ॥ 31.51 ॥
दक्षद्वयं वासुदेवं तिग्मांशुं बन्धुशीर्षकम् ।
द्विरदास्यं पञ्चबिन्दुं श्वेतरोचिषमादिमत् ॥ 31.52 ॥
अमृतं वह्निशिरसं कमलं गोपनाह्वयम् ।
मन्दरं 22 वैधरं मायां पञ्चमं गजवाहनम् ॥ 31.53 ॥
माधवं श्वेतदीधिं च कुम्भं बहुलशीर्षकम् ।
विजयं चैकदृष्टिं च वरुणं पाटलप्रियम् ॥ 31.54 ॥
चतुर्गतिं सूदनं च मारुतं चादिमत्तथा ।
चतुर्थमृतधामान 23 मग्निं च श्वसनं पुनः ॥ 31.55 ॥
ब्रह्मकोशपरां चैव भद्रपाणिं च पद्मजाम् ।
विजयं प्रणवादिं च श्वेतदीधितिमब्जज ॥ 31.56 ॥
शशाङ्कं पद्मनाभं वै धरं मायामहाधनौ ।
पश्चिमं विजयं माया 24 शीर्षं विघ्नेशमिरयेत् ॥ 31.57 ॥
विक्रमं सूक्ष्मदृष्टिं च गोपनं च चतुर्मुख ।
जन्मध्वंसं च कलशं पुलहं च द्विरुच्छरेत् ॥ 31.58 ॥
25 पूर्ववच्च द्विरभ्यस्य पुष्टिबीजमथोद्धरेत् ।
गोपतिं गोपनं यष्टिं वरुणं चादिबिन्धुकम् ॥ 31.59 ॥
भास्करं भुवनं यिष्टिं फट्कारं च ठठान्तिमम् ।
पियीषं पवनं ब्रह्मसाधनं यष्टिशीर्षकम् ॥ 31.60 ॥
बीजमेतच्चतुर्वक्त्र 26 प्रधानार्णाङ्गकल्पना ।
27 भवश्चास्य मुनिश्छन्दो अस्या उष्णिश्च देवता ॥ 31.61 ॥
द्विभुजां बालिकां पीनवक्षोरुहविभूषिताम् ।
करण्डमकुटोपेतां बिभ्राणां वनमालिकाम् ॥ 31.62 ॥
दर्पणं वामहस्तेन बिभ्राणां दक्षिणेन तु ।
पुष्पमञ्ज 28 लिकां द्वाभ्यां ध्यात्वालक्षं जपेन्मनुम् ॥ 31.63 ॥
अन्येषां भूषणानां च चतुर्थ्यन्तं समाह्वयम् ।
मन्त्रं मनोन्तं जानीयाद्भीजमाद्यं प्रकल्पयेत् ॥ 31.64 ॥
प्रभामन्त्रः
प्रभामनुं प्रवक्ष्यामि यथावदवधारय ।
उद्गीथमादिं नत्यन्तं पश्चिमं त्वृतधामकम् ॥ 31.65 ॥
भल्लायुधं चादिदेवं श्वसनं सूक्ष्मलोचनम् ।
अचां द्वितीयं श्वेतांशु कमलं 29 चादिमत्तया ॥ 31.66 ॥
पावकं चौषधं पद्मपाणिं वै राजमन्वतः ।
मृगेशं जन्मविध्वंसं ब्रह्मसाधनसंयुतम् ॥ 31.67 ॥
ककुभं कलशं चादि देवं पुलहमब्जज ।
ओङ्कारं माधवीमग्निं मायामस्तकभूषितम् ॥ 31.68 ॥
पाटलप्रियमाकारं पीताभं मधुविध्विषम् ।
श्रीवत्समादिं विजयं शशाङ्कं विष्णुमस्तकम् ॥ 31.69 ॥
मार्ताण्डमिन्दुमनलं मधुसूदनमारुतौ ।
श्रियः प्रतिमथैकाक्षं गोपनं कमलोद्भव ॥ 31.70 ॥
अमृतं त्वृतधामानं विजयं कमलालयाम् ।
ओतदेहं सुभद्रं च बन्धुमस्तकभूषितम् ॥ 31.71 ॥
विजयं गोपनं प्राणं हुंफट्कारं ठठान्तकम् ।
आद्यर्णं यष्णिसहितं बीजमस्यप्रकीर्तितम् ॥ 31.72 ॥
ऋषिर्भास्कर एतस्य पङ्त्किश्छन्दश्च देवता ।
प्रभा जपश्च मन्त्रस्य लक्षसङ्ख्यः प्रकीर्तितः ॥ 31.73 ॥
भोगांश्च पुष्करान् भुक्त्वामन्त्रविन्मन्त्रवैभवात् ।
परं पदमवाप्नोति देहत्यागेन संशयः ॥ 31.74 ॥
अक्षमालामन्त्रः
निगमादिं कौस्तुभं च गोपनं बिन्दुमैन्दवम् ।
विक्रमं वैधरं पुण्यं रामं शुक्लसमाह्वयम् ॥ 31.75 ॥
वै राजमग्नि माकारं स्पर्शनं विष्णुमस्तकम् ।
सत्यन्तमुद्धरेन्मन्त्रमेवमक्षस्रजस्सुधीः ॥ 31.76 ॥
अक्षमालाधरं ध्यायेद्विभुजं स्फटिकप्रभम् ।
अलङ्कृतं पीतवस्त्रं पद्मविष्टरसंस्थितम् ॥ 31.77 ॥
वरदाभयदाकारं मन्त्रस्य च जपस्तथा ।
मन्त्री च महदाप्नोति फलमत्यन्तदुर्लभम् ॥ 31.78 ॥
धूपमन्त्रः
उद्गीथं सुभगं शङ्खमूर्ध्वयष्टिमनन्तरम् ।
धनदं च हृषीकेशं मन्दरं ब्रह्मनाधनम् ॥ 31.79 ॥
बहुलं 30 चैकनेत्रं च पञ्चान्तं बन्धुमस्तकम् ।
अनलं गोपनं शङ्खमचामादिं नतिं ततः ॥ 31.80 ॥
धूपपात्रमनुः प्रोक्तो
घंटामन्त्रः
घण्टामन्त्रः प्रवक्ष्यते ।
आम्नायादिं क्षितिधरं हृषीकेशं रविं तथा ॥ 31.81 ॥
31 गुहालयं च नासिक्यं पद्मपाणिं प्रचण्डकम् ।
झषमाकार संयुक्तं चतुर्गतिनमस्कृतिः ॥ 31.82 ॥
कथितश्च मनुर्ब्रह्मन्
दीपमन्त्रः
दीपपात्रस्य कथ्यते ।
उद्गीथं ककुभं चादिं गदध्वंसम 32 चां मुखम् ॥ 31.83 ॥
पावकं विजयं 33 जन्महन्तारं ब्रह्मसाधनम् ।
वैराजं विक्रमपरमनलं च गुहालयम् ॥ 31.84 ॥
पश्चिमं चादिदेवं च श्वसनं 34 नतिशीर्षकम् ।
दीपपात्रस्य कथितो मनु
सुदर्शनमन्त्रः
स्संप्रति कथ्यते ॥ 31.85 ॥
ब्रह्मकोशमुखं 35 ब्रह्मन् सप्तार्णं तदनन्तरम् ।
शशाङ्कं श्रीधर दृष्टिमादिलक्ष्मीं हुताशनम् ॥ 31.86 ॥
लम्बोदरं चादिदेवं दरं विष्णुं च माधवम् ।
नभोमणिमथो रामं पुलहं चादिमत्तथा ॥ 31.87 ॥
वक्रतुण्डं विधातारं वक्रतुण्डमचां मुखम् ।
कमलं त्वृतधामानं यान्तं च मधुसूधनम् ॥ 31.88 ॥
मुसलं गोपनयुतं श्वसनं ककुभं ततः ।
अमृतं 36 पीतवर्णार्णं हुंफट्कारं ठठान्तिमम् ॥ 31.89 ॥
शुक्लं मुखं सबिन्दुं च बीजमेवं समुद्धरेत् ।
तारं करालमाकारं पुलहं चादिमत्तथा ॥ 31.90 ॥
वक्रतुण्डं विधातारं 37 बहुलं मधुविद्विषम् ।
आदिं चतुर्गतिं हुंफडित्यादि हृदयादिषु ॥ 31.91 ॥
कालरुद्रोऽथ भगवानृषिश्छन्दः प्रकीर्तितः ।
गायत्री देवता चास्य 38 हेतिराजस्सुदर्शनः ॥ 31.92 ॥
जपेद्द्वादशलक्षं तु सिद्धयो मूलमन्त्रवत् ।
सुदर्शनस्य मन्त्रान्तरम्
आदितस्सप्तवर्णांश्च पूर्वोक्तान् शशिनं तथा ॥ 31.93 ॥
श्रीधरं वैधरं विष्णुं श्रीवत्समनलं तथा ।
भद्र 39 हस्तादि देवं च शङ्खादिं च चतुर्मुख ॥ 31.94 ॥
सुदर्शनस्य कथितो द्वादशार्णात्मको मनुः ।
बीजमङ्गं यथापूर्वं द्रष्टा च कपिलस्म्सृतः ॥ 31.95 ॥
छन्दो विराट् देवता च हेति राजस्सुदर्शनः ।
40 जफो द्वादशलक्षं च द्विषट्काक्षरवत्फलम् ॥ 31.96 ॥
आम्नायादिं च नत्यन्तं सुदर्शनपदं ततः ।
चतुर्थ्यन्तं प्रयुञ्जीत फलमष्टाक्षरे यथा ॥ 31.97 ॥
ऋषिर्भवस्तथा च्छन्दो गायत्रं हेति 41 राडिनः ।
पूर्वोदितं द्विषट्कार्णं माधवी मादिमुद्धरेत् ॥ 31.98 ॥
नभोमणिं चादिदेवं वक्रतुण्ड 42 मचां मुखम् ।
कराल मृतमग्निं च गोपनं ककुभं तथा ॥ 31.99 ॥
अचां 43 द्वयं गन्धवहं मुखं दक्षं चतुर्मुख ।
गोपतिं गोपनमथो जृम्भलं चादिमत्तथा ॥ 31.100 ॥
महेन्द्रं यादसां नाथं 44 द्विरदं पन्नगाधिपम् ।
स्पर्शनं नृहरिं कुम्भं रामं सुभगमन्वतः ॥ 31.101 ॥
प्राचेतसं सयष्टिं च शुक्लमादिं दरं तथा ।
अमृतं बन्धुसहितं धनाध्यक्षमपां पतिम् ॥ 31.102 ॥
नासिक्यं शशिनं चादिं मारुतं मन्दरद्वयम् ।
मुखं लक्ष्मीं तथै काक्षं वसुं चैव गुहालयम् ॥ 31.103 ॥
सयष्टिं कुञ्जरमुखं 45 गोपनं शुभदं दरम् ।
माधवीं गोपतिं चैव गोपनं कालनेमिजित् ॥ 31.104 ॥
माहेन्द्रं गोपनं शङ्खं ककुभं कुम्भसंज्ञितम् ।
पुलहं मुसलं कुम्भं 46 महेन्द्रं भुवनाह्वयम् ॥ 31.105 ॥
गदध्वंसं हुतवहं वै राजं मृगवल्लभम् ।
जन्मध्वंसं शशधरमेणएशं च ठठान्तिमम् ॥ 31.106 ॥
बीजमङ्गं यथापूर्व मृषिस्स्यान्नीललोहितः ।
47 यष्टिश्छन्दश्च कथितो देवता हेतिराडसौ ॥ 31.107 ॥
जपेल्लक्षत्रयं मन्त्री 48 जपस्यास्य च वैभवात् ।
निग्रहेऽनुग्रहे शक्तिस्तम्भविद्वेषणादिकृत् ॥ 31.108 ॥
चलाचलसमुद्रादिशोषणं कम्सनं तथा ।
तत्कटाक्षविनिक्षेपात्सृष्ट्यादीनां 49 विधिर्भवेत् ॥ 31.109 ॥
सुदर्शनमहामन्त्रः
सुदर्शनमहामन्त्रं वक्ष्यामि चतुरासन ।
मातृकाचक्रमालिख्य समभ्यर्च्य यथाविधि ॥ 31.110 ॥
स्वीकृत्य द्वादशार्णांश्च वक्रतुण्डमचां मुखम् ।
करालमग्नि सहितं गोपनं मारुतं ततः ॥ 31.111 ॥
पश्चिमं पावकं खड्गमनलं च 50 कृशानुकम् ।
विधातारं चादिदेवं पुलहं मधुसूदनम् ॥ 31.112 ॥
51 दरं हुतवहं तार्क्ष्यं द्विर्वसुं च समुद्धरेत् ।
पाटलप्रियामाकारं 52 दरं ध्रुवसमन्वितम् ॥ 31.113 ॥
लक्ष्मीं मुखं च वै राजमग्निं भुवनशीर्षकम् ।
द्विरदाननमाकारं कमलां मधुसूदनम् ॥ 31.114 ॥
स्पर्शनं वैधरं चादिमनलं वैधरं तथा ।
अमृतं चादिदेवं च महेन्ध्रं च समिकरणम् ॥ 31.115 ॥
शुक्लं मुखं भास्करं च कमलं विक्रमं तथा ।
अनलं सुमुखं विष्णुं पद्मनाभविनायकौ ॥ 31.116 ॥
जन्मध्वंसं च कलशं पुलहं बन्धुसंमितम् ।
वैराजं शुभदं रामं खर्वदेहं हुताशनम् ॥ 31.117 ॥
वैधरं त्वृतधामानं नृहरिं मृगवल्लभम् ।
पवित्रमृतधामानं माधवं भुजगं ततः ॥ 31.118 ॥
चतुर्गतिं तथा दृष्टिं चादिदेवं हुताशनम् ।
भुवनं चण्डमत्रिं च ऊकारं कमलोद्भव ॥ 31.119 ॥
क्रोधरूपं दिनमणिं विघ्नेशं मधुसूदनम् ।
एकाक्षं मन्दरं पद्मं वैधरं गोपतिं तथा ॥ 31.120 ॥
पश्चिमं वक्रतुण्डं च खड्गं गोपनमन्वतः ।
भूधरं 53 मारुतं स्पर्शं तृतीयं 54 ककुभं तथा ॥ 31.121 ॥
यान्तं च विजयं त्वग्निमाकारं श्वेतरोचिषम् ।
55 अदिं दरं तथेन्द्रं च विजयं 56 ज्वलनं तथा ॥ 31.122 ॥
श्रीधरं च गदध्वंसं भुवनं च हुताशनम् ।
उदयं चतुर्गतिं विघ्ननायकं त्वेकचक्षुषम् ॥ 31.123 ॥
स्वाहाधवं 57 गोपनं च यष्टिं च कमलालयाम् ।
वक्रतुण्डं चोर्ध्वलोकं प्रचण्डं वसुमस्तकम् ॥ 31.124 ॥
मारुतं वरुणं चाग्निं पश्चिमं स्वान्तमब्जज ।
पवित्रमृतधामानं मारुतोदयसंज्ञितौ ॥ 31.125 ॥
विरिञ्चविजयौ चाग्नि देवमन्दरश्रीधरौ ।
मारुतात् षष्ठमन्त्रं च पद्मां विजय 58 मादिमत् ॥ 31.126 ॥
59 यष्टिं लक्ष्म्यास्तृतीयं च शिखण्डं ब्रह्मसाधनम् ।
खेटकं मारुतं पापहननं पावकं ततः ॥ 31.127 ॥
शशाङ्कं विक्रमं 60 चार्तिदण्डनं विक्रमं तथा ।
अर्धेन्दुशेखरं पश्चात्पञ्जान्तमृतधाम च ॥ 31.128 ॥
नभोमणिं पवित्रं च पवनान्तं च मन्दरम् ।
गजाननं च विजयं दहनं बिन्दुशेखरम् ॥ 31.129 ॥
नीहारदीधितिं यष्टिं सान्तं चैवाग्निसप्तमम् ।
माधवीमिन्दुयान्तौ च दक्षं च मधुविद्विषम् ॥ 31.130 ॥
अर्धेन्दुमिन्दुमाकारं मन्दरं माययायुतम् ।
क्रोधरूपं हुतवहं भुवनं पुण्यविक्रमौ ॥ 31.131 ॥
61 यान्तं सुभद्रमोंकारं मुसलं द्विरदाननम् ।
धनदं विक्रमं स्पर्शं गोपनं च चतुर्गतिम् ॥ 31.132 ॥
वैराजं वामनं तार्क्ष्यं प्रचण्डं श्वेतदीधितिम् ।
विक्रमं वैधरं पुण्यं 62 प्रचण्डं कुञ्जराननम् ॥ 31.133 ॥
एकनेत्रं हुतवहं मधुसूदनसंज्ञितम् ।
यान्तोदयौ शुक्ललोकौ बहुलं ब्रह्मसाधनम् ॥ 31.134 ॥
सप्तार्चिश्श्रीधरं 63 त्विन्द्रं यष्टिं पञ्चान्तकं तथा ।
64 यान्तं चाग्निं द्वितीयं च मन्दरं पवनद्वयम् ॥ 31.135 ॥
भद्रपाणिमथैकाक्षं यान्तं च मधुविद्विषम् ।
लम्बकुक्षिं च विजयं शिखिनं मन्दरं तथा ॥ 31.136 ॥
सर्वरोधं भद्रबाहुं माधवं कमलं ततः ।
नासिक्यं खर्वदेहं च वक्रतुण्डं सरोरुहम् ॥ 31.137 ॥
यान्तं कुशेशयं कुम्भं सुमुखं द्विस्समुद्धरेत् ।
ओतदेहं तथा 65 दिं च श्वसनं विजयं तथा ॥ 31.138 ॥
करालमग्नि वदनं मुखं पवकगोपनौ ।
निहारदीथितिं चैव चषकं हव्यवाहनम् ॥ 31.139 ॥
विघ्नेशं गोपनं चाग्निं मधुसूदनमारुतौ ।
चण्डं हुतवहं रामं पुलहं बन्धुशीर्षकम् ॥ 31.140 ॥
सुधामयमिकारं च महान्द्रं रामशीर्षकम् ।
स्पर्शान्तं 66 विक्रमाध्यं च नत्यन्तं बन्धु 67 मस्तकम् ॥ 31.141 ॥
खड्गं त्रिविक्रं पीतवर्णाभं च त्रिविक्रमम् ।
माधवीं सर्वरोधं च 68 वैधरं मन्दरद्वयम् ॥ 31.142 ॥
69 यान्तार्णाग्निरथं पश्चाद्यान्तं गोपनमस्तकम् ।
विहगेशं श्वेतरोचिर्मुखं हुतवहं तथा ॥ 31.143 ॥
श्रीधरं चैकनयनं पश्चिमं बन्धुमस्तकम् ।
श्रीवत्समादिदेवान्तं प्रचण्डं कमलाभिधम् ॥ 31.144 ॥
अथोर्ध्वलोकं श्रीवत्सं मन्धरं मधुविद्विषम् ।
प्रचण्डं पुण्डरीकाक्षं शुभदं च सरोरुहम् ॥ 31.145 ॥
70 वनं गजमुखं बन्धुं भुवनं मृगवल्लभम् ।
अमृतं चैकनयनं पञ्चबिन्दुं सुधामयम् ॥ 31.146 ॥
विक्रमं कुञ्जरमुखं गोपनं धूलिकेतनम् ।
करालं जन्मविध्वसं कुलिशं च हुताशनम् ॥ 31.147 ॥
शशाङ्कमादिं यान्तं च वरुणं पुलहं तथा ।
हृषीकेशं तथैकाक्षं वरुणं बन्धुशीर्षकम् ॥ 31.148 ॥
क्रोधरूपं 71 गोपतिं च दान्तं मन्दरगोपनौ ।
शिखिनं स्पर्शनं चादिं षट्कृत्वः पुलहं क्षिपेत् ॥ 31.149 ॥
जयं सदागतिं बन्धुं पियूषं विक्रमाभिधम् ।
हिरण्यगर्भमनलं मन्दरद्वयमब्जज ॥ 31.150 ॥
पुण्डरीकाक्ष 72 मग्न्यन्तं विजयं रामशीर्षकम् ।
नभोमणिं चादिदेवममृतं मायया युतम् ॥ 31.151 ॥
अत्रिं च धनदं कुम्भं द्वयमर्धेन्दुमादिमत् ।
हस्तिवक्त्रं च कमलमसलं च सुधामयम् ॥ 31.152 ॥
अग्निं च गोपनं मान्तं श्रीधरं सुभगं तथा ।
स्पर्शत्रयं बृहद्भानुं गोपनं सुमुखं ततः ॥ 31.153 ॥
माधवीं वासुदेवं च वैधरं माधवाह्वयम् ।
सुभद्रं चन्द्रधवलं मुसलं च द्विरुच्छरेत् ॥ 31.154 ॥
ब्रह्मन्ननन्तरं तस्य मारुतं मधुविद्विषम् ।
कुम्भं सविक्रमं लक्ष्मीं सुधादीधितिविक्रमौ ॥ 31.155 ॥
क्रोधरूपं प्रचण्डं च भुवनं वक्रतुण्डकम् ।
करालं शिखिनं दक्षं भद्रहस्तं 73 तथोदरम् ॥ 31.156 ॥
ओषधीशं तथा दक्षं 74 पानकं च ठठान्तिमम् ।
बीजाङ्गदेवतानिर्देशः
बीजमङ्गं यथापुर्वमृषिर्दक्षः प्रजापतिः ॥ 31.157 ॥
छन्दोऽतिच्छन्द एतस्य देवता 75 च सुदर्शनः ।
सप्ताधिका सप्तदिश्च वर्णानां द्वे शते समे ॥ 31.158 ॥
जपेन सिध्यति मनुर्लक्षद्वादशसङ्ख्यया ।
जपकालदेशादिनिर्देशः
कृष्णपक्षे चतुर्दश्या मुपोष्य 76 प्रयतात्मवान् ॥ 31.159 ॥
निशीथे दृढधीर्मन्त्रीश्मशाने वा चतुष्पथे ।
जपेद्भूतादयस्तस्य प्रत्यक्षास्सर्वकामदाः ॥ 31.160 ॥
अपरस्सुदर्शनमहामन्त्रः
महासुदर्शनं मन्त्रमपरं कथयामिते ।
द्विषट्काक्षरमुद्धृत्य गोपतिं मृगवल्लभम् ॥ 31.161 ॥
वैरांज विक्रम 77 परमनलं मधुसूदनम् ।
78 गदध्वंसमचामादिं दक्षं दिनकराह्वयम् ॥ 31.162 ॥
गोपनं धृतिमन्तं च पुलहं पश्चिमाननम् ।
ऋतधामा दिनमणिं पावकं सुमुखं ततः ॥ 31.163 ॥
अमृतं ककुभं पद्मनाभं 79 गोपतिमब्जज ।
सुभगं बन्धुशिरसं पवित्रं विजयं तथा ॥ 31.164 ॥
चतुर्गतिं देवदत्तं पश्चिमं 80 बन्धुमस्तकम् ।
प्रचण्डं पुण्डरीकाक्षं 81 गोपनं वैधराह्वयम् ॥ 31.165 ॥
सरामं चैकनेत्रं च मारुतं 82 ब्रह्मसाधनम् ।
अत्रिं चतुर्गतिं श्वेतदीधितं च 83 स्वरादिमत् ॥ 31.166 ॥
विघ्नेशद्वितयं पश्चान्मायामस्तकमुद्धरेत् ।
सुभद्रं सूदनं शङ्खं वैधरं पञ्चबिन्दुकम् ॥ 31.167 ॥
पश्चिमं चैकनयनं सूदनं गदिनं तथा ।
भद्रबाहुं सरामं च ककुभं कुम्भ 84 गोपनौ ॥ 31.168 ॥
माहेन्द्रं सूदनं 85 विश्वरूपं भूधरमब्जज ।
शुभदं विजयं शुक्लं गोपनं श्वेतदीधितिम् ॥ 31.169 ॥
ऋतं च सूदनं यान्तं देवरं मन्दरोदयौ ।
भृगुं खड्गधरौ द्वौ च माधवं भुवनाह्वयम् ॥ 31.170 ॥
आकारं वक्रतुण्डं च वैधरं श्रीधरं तथा ।
उग्रात्मानं पवित्रं च पद्मनाभं च माधवम् ॥ 31.171 ॥
नृहरिं सूदनं शुक्लं भुवनं बहुलद्वयम् ।
तार्क्ष्यं झषं 86 गोपनं च 87 कमलं बन्धुमस्तकम् ॥ 31.172 ॥
विघ्नेशं वामनपरं सुभद्रं सगुहालयम् ।
एकनेत्रं चादिदेवं पश्चिमाननमब्जज ॥ 31.173 ॥
शुक्लं दक्षं सूदनं च यान्तं पश्छिमवक्त्रकम् ।
ऋतधाम तथा दक्षं सर्वरोधं सपश्चिमम् ॥ 31.174 ॥
विक्रमं शुभदं चादिदेवं खड्गधरं तथा ।
चतुर्गतिं वासुदेवं गदध्वंसं सविक्रमम् ॥ 31.175 ॥
भद्रहस्तं पञ्चबिन्दुबिन्दुमोषधीशं करालकम् ।
विघ्नेशं वैधरं कुम्भं विक्रामणमनन्तरम् ॥ 31.176 ॥
कुञ्जराननमाकारं चतुर्गतिमचां मुखम् ।
88 शिखिनं मानुषेशं च नृहरिं स्पर्शषोडशीम् ॥ 31.177 ॥
ऋतधामोतदेहं च भद्र 89 बाहुमनन्तरम् ।
अचां द्वितीयं दृष्टिं च गदिनं पद्मनाभकम् ॥ 31.178 ॥
मार्ताण्डं सूदनं विघ्ननायकं विजयं तथा ।
पद्मनाभं 90 गोपनं च शुक्लमादिं दराह्वयम् ॥ 31.179 ॥
तत्समष्टिं द्विरुच्चार्य सोममादिं सयष्टिकम् ।
भास्करं पावकं चैव द्विर्वक्तव्यं तदक्षरम् ॥ 31.180 ॥
पीयूषं विक्रमं पुण्यं कलशं यष्टिशीर्षकम् ।
शशाङ्कमादिं शङ्खं च पूर्ववत्कमलोद्भव ॥ 31.181 ॥
पीयूषं रामशिरसं स्पर्शानामपि षोडशम् ।
ऋतं च सूदनं शुक्ल 91 मत्रिं चैव यथापुरम् ॥ 31.182 ॥
तार्क्ष्यद्वयं च कमलां विजयं त्वृतधाम च ।
हृषीकेशं तथा भद्रद्वयं मधुनिघादनम् ॥ 31.183 ॥
श्रीवत्सं चादिमनलं श्रियः पतिमनन्तरम् ।
पञ्छान्तकं पद्मनाभमेकाक्षं मृगवल्लभम् ॥ 31.184 ॥
जन्मध्वंसं श्वेतरश्मिमेणएशं दृष्टिवामनौ ।
सुभद्रं बन्धुशिरसं स्पर्शानां षोडशाक्षरम् ॥ 31.185 ॥
विक्रमं चैकविंशं च बन्धुं तन्मस्तकस्थितम् ।
सुमुखं पवनाह्वानं ब्र्हमसाविजयाह्वयम् ? ॥ 31.186 ॥
दहनं भद्रममृतं मतिमन्तं च सूदनम् ।
प्रचण्डं गोपनं शुक्लं भुवनं बहुलं तथा ॥ 31.187 ॥
भल्लायुधं श्रीधरं च मुसलं प्रेतनायकम् ।
माधवं वैधरं विघ्ननायकं द्वितीयं तथा ॥ 31.188 ॥
अचां द्वितीयं पञ्चान्तं विष्कंभं द्विरदाननम् ।
विक्रमं माधवीमग्निं वासुदेवं चतुर्मुख ॥ 31.189 ॥
वक्रतुण्डं मानुषेशमप्रमेयं वनस्रजम् ।
धरित्रीं कमलाक्षं च सूक्ष्मदृग्बन्धुमस्तकम् ॥ 31.190 ॥
विघ्नेशं वैधरं प्रेतनायकं माययायुतम् ।
हैरम्बं वैधरं चादिं पश्छिमं त्वृतधामकम् ॥ 31.191 ॥
विजयं रामशिरसं भास्करं विजयाह्वयम् ।
अत्रिं मृगेशं वरुणं गोपनं श्वेतदीधितिम् ॥ 31.192 ॥
श्रीधरं बहुलं पीतं जृम्भलं मोहनाशनम् ।
पश्चिमं भुवनं विघ्ननायकद्वितयं तथा ॥ 31.193 ॥
अचां द्वितीयं कमलमादिं शङ्खं विनायकम् ।
पश्चिमं भुवनं बिन्दुं शशाङ्कं द्विगुणं तथा ॥ 31.194 ॥
भद्रबाहुं सरामं च सुधादीधितिगोपनौ ।
यान्तं समिरणं चादिं पश्चिमं जातवेदनम् ॥ 31.195 ॥
अमृतं विक्रमपरं वैधरं 92 चानलं तथा ।
गोपनं विजयं विघ्ननायकं विजयाह्वयम् ॥ 31.196 ॥
ऋतवधामं नलसिजं पद्मनाभं पितामह ।
वैराजं श्वसनं चादिदेवं भल्लायुधं करम् ॥ 31.197 ॥
श्वसनं प्रणवादिं च विघ्नेशं 93 सर्वविक्रमौ ।
94 करालमृतधामान्तं विजयं धनसंज्ञितम् ॥ 31.198 ॥
स्वच्छन्धमथं दृष्टिं च चतुर्गति मनन्तरम् ।
शशाङ्कं पुल्लनयनं वासुदेवं च खेटकम् ॥ 31.199 ॥
शङ्खं पुलहमोङ्कारं मार्ताण्डं पश्चिमानम् ।
क्रोधं वनस्रजं भूमिं नासिक्यं श्वेतदीधितिम् ॥ 31.200 ॥
षोडशं कपिलं भानुं चतुर्गतिमनन्तरम् ।
विधातारं तथा शैलं विजयं कमलोद्भव ॥ 31.201 ॥
अचां त्रयोदशं चाग्निं कमलं चन्द्रदीधितिम् ।
वक्रतुण्डं चादिदेवं 95 शङ्खं पीतमचां मुखम् ॥ 31.202 ॥
पूर्णचन्द्रं तथा दक्षं भुवनं वैधरात्मकम् ।
पद्मनाभं ध्रुवं लक्ष्मीं ब्रह्मसाधनसंज्ञितम् ॥ 31.203 ॥
क्रोधरूपं दरं चादिं माधवं गोपतिं तथा ।
विक्रमं माधवं भानुं सरामं सूक्ष्मलोचनम् ॥ 31.204 ॥
गदध्वंसं च पीयूषं विघ्नेशं पश्चिमाननम् ।
अचां द्वितीयं शुभदं सूदनं यष्टिशीर्षकम् ॥ 31.205 ॥
करालं श्रीधरं लक्ष्मीं मृगेशं द्विरदाननम् ।
पद्मपाणिं भूधराख्यं द्वयं 96 वैधरमाधवौ ॥ 31.206 ॥
पश्चिमं पवनं लक्ष्मीं ब्रह्मसाधनसंज्ञितम् ।
क्रोधरूपमचामादिं स्पर्शनं दक्षगोपनौ ॥ 31.207 ॥
धान्तं चतुर्गतिं पापहननं बहुलं तथा ।
वक्रतुण्डं करालं च 97 ककुभं त्वृधाम च ॥ 31.208 ॥
भद्रबाहुं 98 चलध्वंसं मृगेशं दृष्टिमादिमम् ।
द्विरदाननयष्टिं च अनलं गोपनाह्वयम् ॥ 31.209 ॥
99 सध्रुवं पुलहं बिन्दुं माहेन्द्रं मधुसूदनम् ।
अर्धचन्द्रं तथा चन्द्रं नासिक्यं तद्द्विरुद्धरेत् ॥ 31.210 ॥
शशाङ्कमृतधामानं सूधनं यष्टिशीर्षकम् ।
तद्विरभ्यस्य शीतांशुमर्पितं वसुमस्तकम् ॥ 31.211 ॥
पुलहं वासुदेवाख्यं स्रष्टारंद्विरदाननम् ।
विक्रमं बहुलं ब्रह्मन् गोपनं बहुलं तथा ॥ 31.212 ॥
प्रचण्डं 100 जन्मविध्वंसं विघ्नेशं च 101 तृतीयकम् ।
अचां 102 दृष्टिं द्वितीयान्तं भद्रबाहुं पवित्रकम् ॥ 31.213 ॥
ऋतं च कार द्विरदं चाननं मन्दराह्वयम् ।
प्रद्योतनं गोपनं च शशाङ्कं च श्रियः पतिम् ॥ 31.214 ॥
वैधरं शुभदं चाग्निं श्रीवत्सं ब्रह्मसाधनम् ।
सुमुखं विक्रमपरं विजयं मुखमब्जज ॥ 31.215 ॥
अत्रिं सरामं पञ्चान्तं सुभगं मधुसूदनम् ।
यष्टिं करालमाकारं चतुर्गतिमनन्तरम् ॥ 31.216 ॥
अपां पतिं श्वेतरश्मिं श्रियः पतिमतः परम् ।
स्तम्बरमाननं मायां कलशं 103 दीप्तरोचिषम् ॥ 31.217 ॥
सुभगं गोपनं यान्तं गोपनं पश्चिमाननम् ।
हृषीकेशं वसुं शङ्खं 104 गोपनं द्वितीयं पुनः ॥ 31.218 ॥
यष्टिबीजं द्विरुच्चार्य 105 तिग्मदीधिं पवित्रकम् ।
ऋतधामतथैकाक्षं विक्रमं बहुलाह्वयम् ॥ 31.219 ॥
गदध्वंसं तथैकाक्षं विक्रमं बहुलाह्वयम् ।
106 गुहालयं पापहनममृतं मधुविद्विषम् ॥ 31.220 ॥
रोचिश्श्रियः पतिं कान्तं वैधरं माधवं तथा ।
पीयूषमादिं कमल 107 मशिवं धनदाह्वयम् ॥ 31.221 ॥
ऋतधाम तथै काक्षमचामेकदशं तथा ।
द्विरुद्धरेत्कामभीजं वैधरं 108 तूदयाह्वयम् ॥ 31.222 ॥
गदध्वंसं तथै वाग्नि मस्तकस्थं पवित्रकम् ।
गोपनं विजयं चादिदेवं विष्कम्भसंज्ञितम् ॥ 31.223 ॥
त्रिदशाकारमेकारं श्वेतांशु विक्रमं तथा ।
गजवक्त्रं सूदनं च कपिलाक्षमनन्तरम् ॥ 31.224 ॥
तृतीयं ककुभद्वन्द्वमस्तकं वसुं पुनः ।
जन्मध्वंसं च जलजं सुधादीधितिविक्रमौ ॥ 31.225 ॥
109 कलशं पुरुषात्मानं गहनं पद्मनाभकम् ।
भास्करं सुमुखं ब्रह्मन् भुवनं विजयं 110 वसु ॥ 31.226 ॥
द्रुहिणं त्वृतधामानं भूधरं क्रोधनं ततः ।
स्पर्शानां षोडशार्णं च 111 कुम्भेशं मुसलं ततः ॥ 31.227 ॥
निहारदीधितिमचा 112 मेकदेशमतः परम् ।
चतुर्गतिं भद्रहस्तं विजयं पद्मनाभकम् ॥ 31.228 ॥
हैरम्बं गोपनं चैव गदिनं कलुषापहम् ।
अचां द्वितीयं 113 कमलां गोपनं वित्तवर्धनम् ॥ 31.229 ॥
114 हरिणाननमाये द्वे ककुभं वरुणाह्वयम् ।
115 ज्वलनं मानुषघ्नं च विघ्नेशं गोपनाह्वयम् ॥ 31.230 ॥
श्रीवत्सं 116 द्विशदं शुक्लमचामादिं सरोरुहम् ।
ब्रह्मन् पञ्चान्तकमतः 117 धृतावासुमतः परम् ? ॥ 31.231 ॥
वैराजमग्निं नृहरिं ब्रह्मसाधनसंज्ञितम् ।
सुभद्रं सुमुखं कुम्भं मारुतं चोतदेहकम् ॥ 31.232 ॥
दक्षं दाक्षायणीकान्तं मन्दरं पञ्चबिन्दुकम् ।
धूमध्वजं प्रचण्डं च सूदनं कतृतीयकम् ॥ 31.233 ॥
118 हरिवक्त्रं रामसंज्ञं दृष्टिविक्रममब्जज ।
शुभदं कपिलं 119 ह्रस्वं भद्रहस्तं समिरणम् ॥ 31.234 ॥
निहारदीधितिमचामादिं कुम्भं हुताशनम् ।
शुक्लमोङ्कारसंयुक्तं सुभद्रं मधुसूदनम् ॥ 31.235 ॥
स्पर्शं तृतीयमनलं विजयं सप्तमिं कलाम् ।
विक्रमं सूक्ष्मदृष्टिं च श्रीधरं यादसां पतिम् ॥ 31.236 ॥
हेरम्बं वासुदेवं च भद्रहस्तं च माधवीम् ।
अचां द्वितीयं 120 दृष्टिं च कमलं बहुलं तथा ॥ 31.237 ॥
स्पर्शान्तं भुवनं चक्रं भृगुं ककुभसंज्ञितम् ।
नभोमणिं विक्रमं च पाटलं मधुविद्विषम् ॥ 31.238 ॥
भल्लायुधं बन्धु 121 शीर्षं विघ्नेशं वैधराह्वयम् ।
वक्रतुण्डमाचामादिं कमलं पीठपूर्वकम् ॥ 31.239 ॥
गोपनं मानुषं चैव 122 पुलहं बन्धुमस्तकम् ।
ओतदेहं तथा पीतं जन्मध्वसं त्रिविक्रमम् ॥ 31.240 ॥
गोपतिं वरुणं विघ्ननायकं त्वृतधामकम् ।
एकाक्षं मारुतं चादिदेवं बहुलमस्तकम् ॥ 31.241 ॥
123 पवनं सूक्ष्मदृक् प्रोक्तं सूदनं च चतुर्गतिम् ।
सुभद्रं च बृहद्भानुं गदिनं वरुणं मुखम् ॥ 31.242 ॥
जयं कुम्भेशमखिलमृतं भुवनसंज्ञितम् ।
दृष्टिं च धनदं दक्षं हृषीकेशं जयाह्वयम् ॥ 31.243 ॥
शशाङ्कं भुवनं चादिं कमलामद्रिमस्तकम् ।
विघ्नेशं भुवनं चादिं कमलामद्रिमस्तकम् ।
विघ्नेशं पश्चिमं बन्धुं नासिक्यं गदिनं तथा ॥ 31.244 ॥
माहेन्द्रं शशिनं देवदत्तं लक्ष्मीं श्रियःपतिम् ।
पञ्चान्तकं पद्मनाभं गोपनं विघ्ननायकम् ॥ 31.245 ॥
अमृतं समिरणमचां द्वितीयं पश्चिमाननम् ।
वैराजं माधवीमूर्ध्वलोकेशं विजयद्वयम् ॥ 31.246 ॥
बहुलं समिरणं देवदत्तं मन्दर 124 गोपने ।
गोपनं चौषधीशं च भुवनं वैधराह्वयम् ॥ 31.247 ॥
श्रीवत्समग्निं विघ्नेशं गोपनं च चतुर्गतिम् ।
हुंफट्कारं ठठान्तं च मनुमेवं समुद्धरेत् ॥ 31.248 ॥
बीजाङ्गादिनिर्देशः
बीजाङ्गानि यथापूर्वमृषिस्स्यान्नीललोहितः ।
छन्धश्च वरिवंसंज्ञो देवता च सुदर्शनः ॥ 31.249 ॥
अष्टलक्षं जपेद्ब्रह्मन् पाताले दिवि वा भुवि ।
गतिनन् प्रतिहन्येत मन्त्रिणो मन्त्रवैभवात् ॥ 31.250 ॥
सुदर्शननृसिंहमन्त्रः
सुदर्शननृसिंहाख्यं मन्त्रं ब्रूमि चतुर्मुख ।
उद्गीधं नृहरिं 125 पद्मनाभां सङ्कर्षणाह्वयम् ॥ 31.251 ॥
नासिक्यं शुक्लमादिं च गोपतिं प्रणवादि च ।
निहारदीधितं पद्मनाभं च मधुविद्विषम् ॥ 31.252 ॥
अनलं ककुभं कुम्भं गोपनं पुलहात्मकम् ।
अचां द्वितीयं स्पर्शान्तं सूदनं पुलहाह्वयम् ॥ 31.253 ॥
विक्रमं कुञ्जरमुखं 126 माधवं तस्य मस्तके ।
मार्ताण्डं भद्रहस्तं च द्विरुच्चार्य प्रभाकरम् ॥ 31.254 ॥
श्रीधरं कपिलाक्षं च फट्कारं खेटकीं ततः ।
ठठान्तमेवं कथितं द्वाविंशत्यक्षरात्मकम् ॥ 31.255 ॥
बीजमङ्गानि चोक्तानि छन्दो गायत्रमिरितम् ॥
द्रष्टा च जमदग्निस्स्याद्धेवता च सुदर्शनः ॥ 31.256 ॥
सुदर्शननृसिंहध्यानम्
सुदर्शनस्य हृदये विष्ठितं नृहरिं हरम् ।
स्फटिकाचलसङ्काशं परश्शतसटाकुलम् ॥ 31.257 ॥
127 प्रलयाम्बुदनिर्घोषगम्भिरगहनध्वनिम् ।
शज्खचक्रधरं द्वाभ्यां कराभ्यामितरौ पुनः ॥ 31.258 ॥
प्रसार्य जानुनोर्भी 128 मं नखदम्भोलिभीषणौ ।
व्यत्यस्तचरणद्वन्द्वमासीनं पद्मविष्टरे ॥ 31.259 ॥
भ्रुकुटीकुटिलं योगपट्टिकादृढबन्धकम् ।
व्यादायवक्त्रकुहरं दंष्ट्रिणं स्फुटिताधरम् ॥ 31.260 ॥
त्रिणेत्रमखिलाकल्पकल्पितं ब्रह्मगर्जितम् ।
ध्याये 129 देवं च तन्मन्त्रं मन्त्री तरति दुर्गतिम् ॥ 31.261 ॥
सकृत्स्मरणमात्रेण यथाभिलषितं फलम् ।
अन्येषु मन्त्रकल्पेषु यदुक्तं तत्समश्नुते ॥ 31.262 ॥
पाञ्छजन्यमन्त्रः
वक्ष्यामि पाञ्चजन्यस्य मन्त्रं सर्वार्थसाधनम् ।
उद्गीथमादौ सप्तार्णानुद्धृत्य तदनन्तरम् ॥ 31.263 ॥
पश्चिमं भुवनं चण्डं पुण्डरीकं हुताशनम् ।
महामायां करालं च गोपनं पन्नगाधिपम् ॥ 31.264 ॥
सूदनं च तथा सङ्खं 130 कलशं मधुसूदनम् ।
मारुतं भुवनाह्वानं मन्दरं भुवनं ततः ॥ 31.265 ॥
खर्वदेहं तथा चादिदेवं श्वसनमादिमत् ।
वैधरं पञ्चबिन्दुं च पश्चिमं विजयं ततः ॥ 31.266 ॥
यान्तं गुहालयं पापहननं मधुविद्विषम् ।
शङ्खं लक्ष्मीं तथायष्टिं खर्वदेहं च 131 पश्चिमम् ॥ 31.267 ॥
आदिदेवं महेन्द्रं च मधुसूदनशीर्षकम् ।
वायुं ठठान्तमुदितमिति प्रोक्तो मनुर्महान् ॥ 31.268 ॥
श्रीवत्सो यष्टिरुद्गीथो बीजमेतत्प्रकीर्तितम् ।
अमुष्य सनको द्रष्टा छन्दस्स्याद्बृहती मनोः ॥ 31.269 ॥
देवता पाञ्चजन्यश्च चतुर्लक्षोजपः स्मृतः ।
पाञ्चजन्यमन्त्रान्तरम्
अतोऽन्यं पाञ्चजन्यस्य मन्त्रं शृणु चतुर्मुख ॥ 31.270 ॥
सप्तार्णमुद्धरेदादौ पश्चिमं मधुसूदनम् ।
भृगुं चन्ध्रधरं खड्गधवलं ककुभाह्वयम् ॥ 31.271 ॥
गजवक्त्रं तथा नायुमादि देवं समिरणम् ।
पश्छिमं सप्तममचां सुमुखं निगमादिकम् ॥ 31.272 ॥
पीयूषमत्रिं 132 सुभगं वरुणं मधुविद्विषम् ।
गजास्यमादिदेवं च श्वसनं श्वेतरोचिषम् ॥ 31.273 ॥
वैधरं गोपनं चापि गदध्वंसं चतुर्मुख ।
वैराजं विक्रमं दक्षं श्रीधरं तर्क्ष्यवाहनम् ॥ 31.274 ॥
गोपनं स्पर्शनं जन्महन्तरं सलिताधिपम् ।
महेन्द्रमादिं 133 ज्वलनं तथाचं षष्ठिपश्चिमौ ॥ 31.275 ॥
गोपनं पश्चिमं गोपं पीतवर्णं मधुद्विषम् ।
श्वसनं च ठठान्तं च मनुरित्थमुदाहृतः ॥ 31.276 ॥
जीमङ्गानि वैतस्य देवता चापि पूर्ववत् ।
विष्वक्सेन ऋषिश्छन्दस्सुप्रतिष्ठापितामह ॥ 31.277 ॥
पञ्चलक्षजपेनास्य साधको मन्द्रवैभवात् ।
अतलादिषु लोकेषु 134 चरन्न प्रतिहन्यते ॥ 31.278 ॥
किं पिनर्दर्मकामार्थमोक्षाः कमलसम्भव ।
कौमोदकीमन्त्रः
सप्तार्णमग्रे गोविन्दं गदिनं दृष्टिसूदनौ ॥ 31.279 ॥
चतुर्गतिं चातिवीरं भल्लायुधमचां मुखम् ।
अपां पतिं हुतमहमुकारं पश्चिमाननम् ॥ 31.280 ॥
रामं प्रचण्डं गोविन्दं ब्रह्मसङ्कर्षणावपि ।
मन्दरं वासुदेवाह्वं वैधरं विष्णुमस्तकम् ॥ 31.281 ॥
कुशेशयधरे वीरसेनं हुंफट् ठठान्तिमम् ।
इति कौमोदकीमन्त्रमुद्धरेद्बीजमस्यतु ॥ 31.282 ॥
स्पर्शद्वितीयमर्धेन्दुमेतेनैवाङ्गकल्पना ।
ऋषिः कृष्णस्तथा 135 छन्दः पङ्त्किः कौमोदकी पुनः ॥ 31.283 ॥
देवता लक्षमन्त्रश्च जवतस्पिद्धिदो भवेत् ।
पद्ममन्त्रः
आदावुद्धृत्य 136 चोङ्कारं गोपनं दृष्टिविक्रमौ ॥ 31.284 ॥
वैराजं मारुतं पापहननं 137 वसुमस्तकम् ।
वैराजं बन्धुशिरसं माधवीं सूदनं दरम् ॥ 31.285 ॥
पाटलप्रियमाकारं समिरणमचां मुखम् ।
यान्तं गुहालयं ब्रह्मन् पश्चिमं बन्धुमस्तकम् ॥ 31.286 ॥
सुमुखं देवदत्तं च हुंफट्कारं 138 ठठान्तिमम् ।
नादं पकारमाकारमर्धेन्दुशिरसं पुनः ॥ 31.287 ॥
बीजं प्रकल्पयेद्ब्रह्मन्नमनै पाङ्गकल्पना ।
द्रष्टा विरञ्चश्छन्दश्च विराट्पद्मोऽधिदेवता ॥ 31.288 ॥
दशलक्षजपात्सिद्धिरखइलं प्राप्नुयान्नरः ।
इति पद्ममनुः प्रोक्तो बीजेनान्याङ्गकल्पना ॥ 31.289 ॥
मुसलमन्त्रः
शुक्लं पुनर्विष्णु वह्निपीयूषं गोपनाह्वयम् ।
सप्तार्णाद्धरणात्पश्छान्मन्दरं कमलासन ॥ 31.290 ॥
शशाङ्कमादिं पुलहं गोपनं पवनं पुनः ।
ज्वलनं गोपनं दक्षं गोपनं कमलोद्भव ॥ 31.291 ॥
चतुर्गतिं च भुवनं सुमुखं मधुविद्विषम् ।
दरं मुखं ठठान्तं च मन्त्रविन्मन्त्रमुद्धरेत् ॥ 31.292 ॥
मन्दरं भुवनं यष्टिमितिबीजमिदं मनोः ।
मुद्गस्यादृषिश्छन्दो विराण्मन्द्रस्य देवता ॥ 31.293 ॥
मुसलः पञ्चलक्षं तु 139 मन्त्रमस्य प्रचक्षते ।
खड्गमन्त्रः
उद्धृत्य सप्तवर्णांश्च हैरम्बं मधुसूदनम् ॥ 31.294 ॥
140 गजह्वमत्रिं कमलं मधुशत्रुं चतुर्गतिम् ।
विष्णुं शुक्लं पुनर्विष्णुं वह्निपियूषगोपनाः ॥ 31.295 ॥
शशाङ्कं भुवनं वह्निं श्रीवत्सं ब्रह्मसाधनम् ।
सुमुखं विक्रमं चापि वैधरं विजयं तथा ॥ 31.296 ॥
रामं पञ्चान्तकं पुण्यं गोपनं यष्टिशीर्षकम् ।
पञ्चान्तकं गोपनं च श्वसनं हुंकृतिं तथा ॥ 31.297 ॥
फट्कारं स्वाहया सार्धं खड्गस्य गदितो मनुः ।
चक्रमन्त्रस्य बीजं स्यादृषिश्श्रीनिधिरुच्यते ॥ 31.298 ॥
छन्दो विराढधिपतिः खड्गाख्यो हेतिराड्भवेत् ।
लक्षत्रयं जपेन्मन्त्री काङ्क्षितां सिद्धिमश्नुते ॥ 31.299 ॥
शार्ङ्गमन्त्रः
सप्तार्णं कल्पयित्वादौ श्रीवत्सं मधुसूदनम् ।
शार्ङ्गहस्तं गदध्वंसं मधुसूदन शीर्षकम् ॥ 31.300 ॥
ज्वलनं पवनादिं च वह्निं शुक्लमपां पतिम् ।
मधुसूदनपूर्णेन्दुभुवनं हव्यवाहनम् ॥ 31.301 ॥
पवित्रं सप्तममचां श्रियं मन्दरमादिमत् ।
विघ्नेशं गोपनं शङ्खं मुखं पश्चिम 141 श्रीधरम् ॥ 31.302 ॥
बहुलं भुवनं क्रोधं त्रयोदशमचां तथा ।
हुताशमेकदृष्टीद्वौ मन्दरं पद्मसम्भव ॥ 31.303 ॥
142 पवित्रमृतधामानं वायुं यष्टिं मधुद्विषम् ।
चतुर्गतिं हुंकृतिं च फट्कारं च ठठान्तिमम् ॥ 31.304 ॥
हुंफडन्तं मनुं कृत्वा बीजमाद्यर्णमुद्धरेत् ।
ऋषिर्हुतान्तो मन्त्रस्य छन्दश्छन्दोऽधिदेवता ॥ 31.305 ॥
बाणो जपन्नष्टलक्षं समरे विजयी भवेत् ।
ब्रह्मकोशं नतिं सर्गं कलात्मा कमलाह्वयम् ॥ 31.306 ॥
महेन्द्रं गोपनपरं शुभदं मधुविद्विषम् ।
शशाङ्कं श्रीधरं वह्निं वरुणं बन्धुमस्तकम् ॥ 31.307 ॥
विघ्नेशमादिदेवं च शुभदं गोपनं तथा ।
पवनं कुटामौर्वं च नासिक्यं भास्करो मनुः ॥ 31.308 ॥
यष्टिं हुङ्कारफट्कारौ हुतान्तं मनुमुद्धरेत् ।
पीयूषमादिमर्धेन्दुं बीजं चामुष्य कल्पयेत् ॥ 31.309 ॥
शतदृग्दृष्टवान् मन्त्रं माच्छ्दो देवतापि च ।
पञ्चलक्षं जपेन्मन्द्रं विजयेत्तरसा रिपून् ॥ 31.310 ॥
पाशमन्त्रः
उद्गीधं पापहननं गोपनं सद्ध्रुवं मनुः ।
पश्चिमं गोपनं लक्ष्मीमादिदेवसमिरणौ ॥ 31.311 ॥
नत्यन्तं कल्पयेन्मन्त्रमृषिः प्राचेतसः स्मृतः ।
छन्दो विराडधिपतिः पशो लक्षत्रयं जपः ॥ 31.312 ॥
अङ्कशमन्त्रः
ब्रह्मकोशमचामादिं नासिक्यं सरसीरुहम् ।
भुवनं शुभदं पश्चादादिदेवं गदागतिम् ॥ 31.313 ॥
नत्यन्तमिरयेन्मन्त्रं द्रष्टा सत्यो विराट्पुनः ।
छन्दोऽङ्कुशो देवता स्याल्लक्षत्रयमिमं जपेत् ॥ 31.314 ॥
प्रणवादि चतुर्थ्यन्तं नामधेयं ठठान्तकम् ।
अन्येषामायुधानां च मन्द्रबीजमथादिमत् ॥ 31.315 ॥
सिद्धयश्च यथापूर्वं भवन्ति जपतोऽखिलाः ।
गारुडमहमन्त्रः
143 अतो वक्ष्ये मनुं ब्रह्मन् शूयतां कथ्यतेऽधुना ॥ 31.316 ॥
वश्याकर्षण विद्वेष मारणो च्चाटनादिषु ।
शोषणस्तम्भनावेश सर्पाकर्षण कर्मसु ॥ 31.317 ॥
144 नष्टायनविषक्षेप समुद्रतरणादिषु ।
नभोलङ्घन वाय्वग्नि जलभूमि प्रवेशने ॥ 31.318 ॥
इन्द्रजालादिविद्यासु 145 ऋषीणां विजये तथा ।
अतीतानागतज्ञाने भूतसंपनने तथा ॥ 31.319 ॥
देवता सन्निधानादौ 146 स्फोटिमूर्ष्यादिकर्मणि ? ।
एवमादिषु साध्येषु तथा न्येष्वपि 147 सर्मसु ॥ 31.320 ॥
इति मन्त्रं प्रयुञ्जीत गरुत्मन्तमनुस्मरेत् ।
सट्तार्णान् पूर्वमुद्धृत्य गदिनं हव्यवाहनम् ॥ 31.321 ॥
148 भुवं पुण्डरीकाक्षं गोपनं पवनं पुनः ।
पश्चिमं भुवनं वह्निं श्रीधरं क्रोधविग्रहम् ॥ 31.322 ॥
ब्रह्मसाधनवैराजौ जयमन्दरामादिमत् ।
अमृतं गोपनं चापि गोपतिं द्विरदाननम् ॥ 31.323 ॥
आदिदेवं नभस्वन्तं 149 अनलं च रमाधरम् ।
प्रचण्डं कमलं भद्रहस्तं वामनमस्तकम् ॥ 31.324 ॥
श्वसनं रोहिणीशं च मृगेशं मानुषेश्वरम् ।
गोपन गदिनं पश्चात्कमलां भुवनं तथा ॥ 31.325 ॥
वासुदेवं प्रचण्डं च विक्रमं विजयं तथा ।
150 वै राजं रामसहितं गदिनं मोहनाशनम् ॥ 31.326 ॥
अचां 151 तृतीयमर्धेन्दुं पञ्चान्तकमधुद्विषौ ।
मारुतं धूमकेतुं च सप्तकृत्वस्समुद्धरेत् ॥ 31.327 ॥
हृङ्कृतिं फट्कृतिं स्वाहमोतदेहं ध्रुवं तथा ।
पुलहं सप्तकृत्वश्च हुंफट्कारं ठठान्तकम् ॥ 31.328 ॥
तारं वरुणगोविन्दौ विघ्नेशमथ माधवम् ।
स्पर्शा 152 न्तकमकारं च पञ्चकृत्वस्सदागतिम् ॥ 31.329 ॥
षट्कृत्वो वरुणं चापि हुंफट् स्वाहावसानकम् ।
निगमं पश्चिमं कूटं विक्रमं 153 विघ्नुगोपनौ ॥ 31.330 ॥
ककुभं गोपनं चापि षट्कृत्वो मारुतं पुनः ।
व्यञ्जनार्णेषु सर्वत्र सुखोच्चारणमिच्छता ॥ 31.331 ॥
स्वरानुद्धरणे कल्प्यं मनुश्शास्त्रोक्तवर्त्मना ।
हुंफट्स्वाहावसानं च गारुडं मन्त्रमुद्धरेत् ॥ 31.332 ॥
पञ्चान्तकमनुस्स्वारं बीजमेतस्य कल्पयेत् ।
आदौ सुवर्णवचनं वक्रतुण्डगिरं पुनः ॥ 31.333 ॥
महासुवर्ण इत्येवं खगेश्वरशिरस्तथा ।
अनन्तवीर्यवन्ताख्यं पक्षिराजं तथा न्तिमम् ॥ 31.334 ॥
प्रणवादि यतुरथ्यन्त 154 नत्यन्तानि चतुर्मुख ।
कल्पयित्वाङ्गमन्द्राणि षड्भिरेतैर्यथाक्रमम् ॥ 31.335 ॥
अङ्गानि हृदयादीनि स्पृशेन्मन्त्रविचक्षणः ।
अमुष्य काश्यपो द्रष्टा छन्दः पङ्त्किर्निगद्यते ॥ 31.336 ॥
देवता गरुडस्तस्य जपो लक्षत्रयं स्मृतः ।
अधस्ताद्वटवृक्षस्य साधकस्साधयेन्मनुम् ॥ 31.337 ॥
आम्नायादिं नरहरिं वामनं पश्चिमाननम् ।
वैराजं 155 पावकं तारमिति पञ्चाक्षरो मनुः ॥ 31.338 ॥
ऋषिर्मरिचिरेतस्य गरुडो देवता तथा ।
छन्दश्च देवी गायत्रं षडङ्गानि पुनस्स्वयम् ॥ 31.339 ॥
उद्गीधं कमलं 156 वायुं वासुदेवं ध्रुवं तथा ।
पश्चिमं बहुलं ब्रह्मसाधनं यष्टिमस्तकम् ॥ 31.340 ॥
विघ्नेशं विक्रमं वह्निं महामायां ध्रुवं पुनः ।
पुष्पभद्रं तथा पीठं वामनं यष्टिकौस्तुभम् ॥ 31.341 ॥
बिन्दुं कलशचन्द्रार्धौ सूर्यार्धान्दुकलात्मनः ।
पन्नगाधिपतिं बन्धुं वरुणं यादसां मुखम् ॥ 31.342 ॥
हुतान्तमुद्धरेन्मन्त्रमिति गारुडमुत्तमम् ।
स्यादिमं जगतस्साक्षात्प्रत्यक्षं पक्षिपुञ्गवः ॥ 31.343 ॥
ब्रह्मकाशमथो पद्मं नासिक्यं भूधराह्वयम् ।
यष्टिं पापस्य हन्तरं बिन्दुं कमलमन्दरम् ॥ 31.344 ॥
अर्धेन्दुकलशं बिन्दुं पश्चिमं पन्नगाशनम् ।
विक्रमाग्निमथो शत्रुं ककुभं मधुसूदनम् ॥ 31.345 ॥
वायुं स्वाहान्तमित्येव 157 मन्यं गारुडमिरयेत् ।
आकाशारोहनं सिद्धिर्जपादस्य भविष्यति ॥ 31.346 ॥
एवं कृत्वाद्यमोङ्कार मादिदेवं खपश्चिम् ।
स्वच्छन्दं 158 च द्विरुच्छार्य गदिनं हव्यवाहनम् ॥ 31.347 ॥
भुवनं मेदिनीं च द्विर्मन्दरं मधुसूदनम् ।
वैराजं 159 विपुलं पश्चाद्वामनं च द्विरीरयेत् ॥ 31.348 ॥
पवित्रं पद्मकञ्जं च नागेन्द्रं वायुमादिमत् ।
एताद्विःकल्पयित्वाथो गोपनं यष्टिमन्तिमम् ॥ 31.349 ॥
160 तुष्टिबीजार्धशशिनं ठठान्तं कल्पयेन्मनुम् ।
सप्तार्णानादितः कृत्वा भास्करं हव्यवाहनम् ॥ 31.350 ॥
गोपनं यष्टिमार्ताण्डौ हव्यवाहन 161 वामनौ ।
चन्द्रर्धौ द्वादशात्मानं हृषीकेशमथो ध्रुवम् ॥ 31.351 ॥
वरुणं हृदयाह्लादं द्वन्द्वं कमलमाधवौ ।
वैराजं श्रीधरो भूयः पीठस्तु भुवनद्वयम् ॥ 31.352 ॥
विजयं श्रीधरं वह्निं भुवनं पुनरीरयेत् ।
लोकनेत्रोर्ध्वनासिक्यं करालं ब्रह्मसाधनम् ॥ 31.353 ॥
अनलं यष्टिमनिलं यष्टिं कुम्भो ध्रुवं तथा ।
हुतान्तमिति सर्वार्थं जानीयाद्गारुडं मनुम् ॥ 31.354 ॥
सप्तार्णमुद्दृत्य पुनः कलशं बन्धुमस्तकम् ।
क्रोधरूपं प्रचण्डं च त्रिदशाहारमाधवौ ॥ 31.355 ॥
चन्द्रं स्वाहापतिं चापि शशिनं बहुलं तथा ।
मृगाङ्कं श्रीधरं वह्निं भुवनं द्वि चतुष्टयम् ॥ 31.356 ॥
भानुमत्पुलहद्वन्द्वं हुं फडन्तं हुता न्तिमम् ।
इत्यन्यं गारुडं मन्त्रमूहेन्मन्द्रविचक्षणः ॥ 31.357 ॥
पवनेन हुताशेन महेन्द्रेण प्रचेतसा ।
एतैश्चतुर्बिः प्रत्येकं क्रमव्यस्तैर्विषं हरेत् ॥ 31.358 ॥
समस्त्रैः प्रातिलोम्येन स्तम्भनादि समाचरेत् ।
व्यापिनं विघ्नुराजं च दामोदरमथो ध्रुवम् ॥ 31.359 ॥
162 एवमादिमिति ब्रह्मन् त्य्रक्षरं मनुमुद्धरेत् ।
163 यैनैव साधितो मन्त्रः 164 यक्षराजोपलक्षितः ॥ 31.360 ॥
त्रीणि तस्य भविष्यन्ति भुवनानि 165 विशेषताम् ।
आदिद्वितीयं भुवनं पञ्छान्तममृतं तथा ॥ 31.361 ॥
गदिनं श्रीधरं वह्निमुदयं 166 चादिमम्बुजम् ।
वैराजं विक्रमं स्वाहा 167 और्वं च कमलाह्वयम् ॥ 31.362 ॥
भुवनं पर्वतं बन्धुं माहेन्द्रादि श्रियं तथा ।
विक्रमं तार्क्ष्यवाहं च मृगेशं मन्दरं तथा ॥ 31.363 ॥
आदिसूर्यो गोपनं च मन्दरं भुवनं 168 दिशम् ।
अग्निं मृगाधिपं चापि स्वाहाकारावसानिकम् ॥ 31.364 ॥
इति मुद्रामनुर्ब्रह्मन् कल्पयेदथ मण्डलम् ।
विस्तरेषु 169 निरीक्षन्तां तेषां सङ्ख्या न विद्यते ॥ 31.365 ॥
आत्मानं चिन्तयेन्मन्त्री गरुत्मन्तमनन्यधीः ।
गरुडद्यानप्रकारः
अथ द्यानं प्रवक्ष्यामि पक्षिराजस्य पद्मज ॥ 31.366 ॥
मेरुशृङ्गनिभाकारं रुक्मपक्षतिमण्डलम् ।
वैडूर्यनीलवासाग्रं वक्रतुण्डं भयङ्करम् ॥ 31.367 ॥
वज्रकल्पन 170 खाकारं कल्पितोत्कटिकासनम् ।
171 स्नगम्भूरनिर्ह्रदं शिलाघनभुजान्तरम् ॥ 31.368 ॥
अनन्तकर्णाभरणं मूर्ध्नि वासुकिभूषणम् ।
महापद्मादरं पद्मदाम वेष्टितभूषणम् ॥ 31.369 ॥
मस्तके बद्धकार्कोटं कलाभोः ? कटिवेष्टितम् ।
उपवीतकृतेनापि सङ्खपातेन भूषितम् ॥ 31.370 ॥
जयेन कुलिकेनापि कल्पि 172 तानघमूपुरम् ।
धनङ्जयाभिनेधान विजयेन च भोगिना ॥ 31.371 ॥
वामदक्षिणहस्ताभ्यां बिभ्राणं कलकद्वयम् ।
बालपल्लवताम्रेण वारवाणेन शोभितम् ॥ 31.372 ॥
उद्भिन्नभ्रुकुटीबन्धं करण्डमुकुटं तथा ।
पक्षविक्षेपगम्भीर कृतोर्ध्वनयनभ्रमम् ॥ 31.373 ॥
दंष्ट्राकरालवदनं ताम्रवर्तुलचक्षुमम् ।
इत्थं ध्यात्वा गरुत्मन्तमेकतानेन चेतसा ॥ 31.374 ॥
साधयेत्साधनीयानि दुर्लभान्यपि नातिभीः ।
यथाक्तं जपतोमन्द्रमादित्येन्यस्तचक्षुषः ॥ 31.375 ॥
ऊर्ध्वबाहोर्भविष्यन्ति दासा 173 इव फणीश्वराः ।
विष्वक्सेनमन्त्रः
विष्वक्सेनमनुर्ब्रह्मन् कथ्यते सर्वसिद्धदः ॥ 31.376 ॥
तारं सुधामयं रामं क्रोधरूपं सुधामयम् ।
करालं शशिनं पश्चान्माधवं कुञ्जराननम् ॥ 31.377 ॥
गोपनं मारुतं चापि ठठान्तं मन्त्रमुद्धरेत् ।
तारेण बिन्दुना चापि बीजमेतस्य कल्पयेत् ॥ 31.378 ॥
एतेनै वाङ्गमन्त्राणि कल्प्यानि कमलासन ।
विश्वनाथमृषिं प्राहुर्विराट्छन्दो निगद्यते ॥ 31.379 ॥
देवता च मनोस्तस्य विष्वक्सेनो महाबलः ।
मन्त्रान्तरम्
अथ्यान्यः कल्पितो मन्त्रो विष्वक्सेनस्य पद्मज ॥ 31.380 ॥
उद्गीथं भद्रपाणिं च मन्दरं ब्रह्मसाधनम् ।
174 सुभद्रं गदिनं कुम्भं सुमुखान्तं समाधवम् ॥ 31.381 ॥
स्पर्शादिं बिन्दुसहितं सध्रुवं कमलासन ।
दरान्तं गोपनं ब्रह्मन् धनदं रामशीर्षकम् ॥ 31.382 ॥
पश्चिमं निगमादिं च वै राजं च समाह्वयम् ।
खड्गहस्तं सरामं च जयं वसुवरं तथा ॥ 31.383 ॥
सुभदं सरोरुहं वैराजं विक्रममस्तकम् ।
पद्मपाणिं भद्रपाणिं पाशपाणिं च पश्चिमम् ॥ 31.384 ॥
सोदयं शत्रुहननं मृगेशं वक्रतुण्डकम् ।
प्रचण्डं पुण्डरीकाक्षं मधुशत्रुं चतुर्गतिम् ॥ 31.385 ॥
खड्गहस्तमचामादिं प्रचण्डं झषमर्पितम् ।
सुभद्रान्तं मधुद्वेषिं 175 वै राजं द्विर्वसु परम् ॥ 31.386 ॥
अचां द्वितीयं सुभगं पुण्डरीकविदर्भितम् ।
वैधरं विष्णुसहितं प्रचण्डं सवनालयम् ॥ 31.387 ॥
176 श्रीवत्सं सध्रुवं खड्ग हस्तहरं तथा ।
कमलं त्वृतधामं च सुभगं वसुगोपनौ ॥ 31.388 ॥
चतुर्गतिमचामादिं वैधरं गोपनं तथा ।
विजयं श्वसनं दत्तं सूदनं मृगताञ्छनम् ॥ 31.389 ॥
समाधवं द 177 धानं च कमलं माधवं ततः ।
पीतं च धनदं कुम्भमर्पितं सध्रुवं पुनः ॥ 31.390 ॥
कलानिधिं च पुरध ? मादि देवं चतुर्गतिम् ।
वैधरं वरुणं मायां खेटकं च समुद्धरेत् ॥ 31.391 ॥
पश्चिमं पद्मनाभं च मावृतं शुभमालिनीम् ।
समन्दरं 178 दरान्तं च मधुद्वेषिं समन्त्रजित् ॥ 31.392 ॥
ऐन्दवं कतृतीयं च संमतं 179 माठराभिधम् ।
सुन्दरं वैधरं पञ्च बिन्दुकं भद्रकं तथा ॥ 31.393 ॥
स्पर्शेषु षोडशं पद्मनाभं च चतुरासन ।
गोपनं 180 चैन्दवमथो चतुर्गतिमनन्तरम् ॥ 31.394 ॥
भान्तं मधुद्विषं यान्तं दरं च द्विस्समुद्धरेत् ।
181 कद्वितीयं सूदनं च वैधरं च चतुर्गतिम् ॥ 31.395 ॥
द्विर्वक्तव्यं दिनकरं भद्रपाणिमनन्तरम् ।
वैधरं भास्करं चापि पश्चिमं वक्रतुण्डकम् ॥ 31.396 ॥
मन्दरं सर्वरोधं च द्विर्गतीरिति ? संमितम् ।
गोपतिं सुमुखं चापि शुभदं ब्रह्मसाधनम् ॥ 31.397 ॥
क्रोधं चतुर्गतिं 182 चापि आदिबीजं चतुर्मुख ।
आदिदेवं तथा कुम्भं संप्रसारणमक्षरम् ॥ 31.398 ॥
श्रीवत्सं पुरुषात्मानं मन्त्रविक्रमनिष्ठितम् ।
वरुणं शङ्खमपरं पश्चिमं पद्मनाभकम् ॥ 31.399 ॥
सुभद्रं च मधुद्वेषिं कुंभं भद्रकरं तथा ।
वैधरं शुभदं चाग्निं चतुर्गितमनन्तरम् ॥ 31.400 ॥
हुङ्कारं च वषट्कारमिरयेत्कमलासन ।
शुभदं वामनपरं क्रोधं चाग्निं मधुद्विषम् ॥ 31.401 ॥
चतुर्गतिं सूदनं च वक्रतुण्डं समिरणम् ।
183 माधवीं विजयं भद्रहस्तं च समतं ? पुनः ॥ 31.402 ॥
विधातारं मृगेशं च भागं यान्तं सविक्रमम् ।
सरोरुहं मधुद्वेषिं पश्चिमं रानुशीर्षकम् ॥ 31.403 ॥
महेन्द्रममृतं बन्धुं कतृतीयं 184 मृगं तथा ।
भास्करं सूदनमथो शङ्खं खड्गधरं पुनः ॥ 31.404 ॥
वैराजं सोदयं चैव कतृतीयं वसुं परम् ।
द्वितीयं वासुदेवं च तृतीयं बन्धुसंहितम् ॥ 31.405 ॥
माधवं वरुणं पार्श्वमेदरं ? दरगोपनौ ।
185 चतुर्गतिं खड्गधरं सऋतं ब्रह्मसाधनम् ॥ 31.406 ॥
सबिन्दुं पश्चिमं चैव वाचां सप्तमसाधने ।
सध्रुवं चेन्धिराभीजं पुष्टिबीजं सहुंकृतिम् ॥ 31.407 ॥
सुधारसं चौर्वपरं 186 माधवं च चतुर्मुख ।
वौषट्कारं तथा लक्ष्मीं दरान्तं पञ्चबिन्दुकम् ॥ 31.408 ॥
यान्तं च सूदनं मान्तं श्रीशब्दं भद्रपाणिनम् ।
विक्रमं पुलहं धूलिकेतनं सूरिनन्दनम् ॥ 31.409 ॥
हुंकृतिं वैधरं भानुं विघ्नेशं मधुसूदनम् ।
खर्वदेहं सबन्धुं च पीतं भल्लायुधं तथा ॥ 31.410 ॥
माधवं वरुणं भद्रहस्तं सर्गिणमब्जज ।
पवित्रं सूदनमथो वैराजं च समिरणम् ॥ 31.411 ॥
ओंकारादि जयं पीतं सूदनं विधुरं पुनः ।
श्रीधरं 187 माणिभद्रं च द्विरदं विक्रमं तथा ॥ 31.412 ॥
वक्रतुण्डधरं बिन्दुं पियूषं रामशीर्षकम् ।
अत्रिं च सूदनं यास्तं मन्दरं दरवैधरौ ॥ 31.413 ॥
द्वयं वसुशिरश्शङ्खं कुम्भं विक्रममस्तकम् ।
पूर्णं घटं सध्रुवं च 188 वैधरं च चतुर्गतिम् ॥ 31.414 ॥
शुक्लं घटं वह्निपरं वैधरं च मधुद्विषम् ।
सुभद्रं मधुविद्वेषं सरसीरुहसम्भव ॥ 31.415 ॥
कपिलाक्षं हुतवहं नृसिंहं च समुद्दरेत् ।
बीजान्येतद्विरुच्चार्य शुक्लपीतान्तिमाक्षरम् ॥ 31.416 ॥
शीर्षं च गोपनं चण्डं पश्चिमं जयतत्परम् ।
भल्लायुधं मारुतं च सर्गिणं चतुरासन ॥ 31.417 ॥
कृपाकं करीरं च वसुतच्छिरसं तथा ।
सुभद्रमूर्ध्वलोकेशं विजयं संप्रसारणम् ॥ 31.418 ॥
सुभद्रं पुरुषात्मानं 189 कलान्तं फट्कृतिं तथा ।
निगमादिं शशधरं माधवं वसुमाधवम् ॥ 31.419 ॥
भल्लायुधं तथासर्गं फट्कृतिं दक्षमक्षरम् ।
गोवतिं गोपनं कुम्भं विक्रमं क्रोधरूपिणम् ॥ 31.420 ॥
प्रचण्डं सार्धममृतं माधवं घटविक्रमम् ।
उग्रात्मानं तथा कुम्भं कमलं 190 द्विविधुंतुदम् ॥ 31.421 ॥
दत्तं भद्रं सूदनं च दक्षान्तं हुंफडन्तकम् ।
स्वाहावसानमित्येवं विष्वेक्सेनमहामनुम् ॥ 31.422 ॥
उद्धरेद्बीजमस्याथ तारं कुम्भं मनुं ध्रुवम् ।
कल्पयेदमुनैवाङ्गमन्त्रं मन्त्रविचक्षणः ॥ 31.423 ॥
द्रुपदो दृष्टवानेतच्छन्दोऽतिच्छन्द उच्यते ।
विष्वक्सेनो देवता च जपेल्लक्षत्रयं पुनः ॥ 31.424 ॥
एतं महामनुं ब्रह्मन् जपतस्सिद्धि 191 काङ्क्षया ।
सुरासुरेभ्यस्सर्वेभ्यो भयं तस्य प्रणश्यति ॥ 31.425 ॥
विष्वक्सेनाराधनप्रकारः
अथेदानीं प्रवक्ष्यामि तस्याराधनसंयुतम् ।
कल्पयित्वा महापद्मं दलैर्द्वादशभिर्युतम् ॥ 31.426 ॥
कर्णिकायां समासीनं 192 सैनान्यं सम्यगर्चयेत् ।
विष्वक्सेन नमस्तेऽस्तु 193 नमो मृत्युभयापह ॥ 31.427 ॥
नमः पारिष देशाय धुर्यय जगतां नमः ।
चराचराणामदिस्त्वं जन्म 194 नाशो न विद्यते ॥ 31.428 ॥
195 धुरमाधाय लोकानां त्वय्येव पुरुषोत्तमः ।
योगनिद्रा सुखवशश्शेते शेषे मनोहरे ॥ 31.429 ॥
एकान्तिनां तपोभक्ति प्रकर्षक्षीणकर्मणाम् ।
भगवत्प्राप्तये द्वारदृष्टयस्त्वां प्रभूतये ॥ 31.430 ॥
ब्रह्माणमाहुः कल्पादौ पालने मधुविद्विषम् ।
पतिं पशूनां संहारे जगतस्तस्थुषामपि ॥ 31.431 ॥
पादेन मेदिनीं 196 विश्वां मध्येन परमम्बरम् ।
नाकं मूर्ध्ना त्वमाक्रम्यतिष्ठस्येको जगन्मयः ॥ 31.432 ॥
त्वं भूमिस्त्वमपां स्थानं तेजश्च त्वं समिरणः ।
आकाशस्त्वं त्वामियन्ते विभूतिर्वाप्य तिष्ठति ॥ 31.433 ॥
त्वमेव भास्करो भूत्वा विश्वं तपसि विष्टपम् ।
आह्लादयसि तद्भूयस्सोमो भूत्वाकृपा 197 निधिः ॥ 31.434 ॥
सत्वरूपस्य ते रूपे गुणावन्यो रजस्तमः ।
198 शुक्लरूपे यथा रूपे शुक्लरूपस्य वस्तुनः ॥ 31.435 ॥
199 त्वां सृष्ट्वा भगवानादौ 200 भङ्त्क्वा तैर्हेतुभिः पुनः ।
त्वां स्मृत्वा सत्तमं पश्चात्पुमानेति 201 त्वदात्मताम् ॥ 31.436 ॥
वैभवे निजेनैव भिभ्राणेत्वयि विष्टपम् ।
202 पितामहस्सुखं शेषे शेषेऽशेषजगत्पतिः ॥ 31.437 ॥
ऋग्भिः प्रातस्तुवन्ति त्वां यजुर्भिर्मध्यमेदिने ।
सायाह्ने सामभिः पुण्यैस्सूर्यात्मानं द्विजातयः ॥ 31.438 ॥
प्रवृत्तिहेतुं विश्वस्य त्वामेव प्रकृतिं विदुः ।
पुमांसमप्युदासीनं तत्साक्षिणमकल्मषम् ॥ 31.439 ॥
न किङ्चिदभि 203 रूपं यद्विश्वं ते विष्टवं पुनः ।
नास्तिते नामधेयं चत्वं नामाग्निं सुहृद्विदः ॥ 31.440 ॥
सङ्ख्या नास्ति गुणानां ते तेजसामपि भास्वतः ।
षड्गुणा इति उक्तत्वात्प्रमेयादीन् प्रचक्षते ॥ 31.441 ॥
शक्नोषि बुध्यसे विश्वं भिभर्ति नविकारयम् । ?
ईशिषे द्विषतो हंसि त्वमेव भुवनत्रयम् ॥ 31.442 ॥
हितैषी त्वं यथा स्वामिन् भक्तानां गतपाप्मनाम् ।
तथा च बान्धपास्तेषां साक्षादात्माहिकं बहु ॥ 31.443 ॥
204 त्वदानिनव ? सिन्धूनां दीधितीनामिवांशुमान् ।
स्वामिन्नाम्नायमूलानां विद्यानां प्रभवो भवान् ॥ 31.444 ॥
न तु तिष्ठन्ति शास्त्राणि बहुनि कथयन्नपि ।
न च त्वद्भक्तिसाराणां कल्याणानि विचिन्तयन् ॥ 31.445 ॥
भवेऽस्मिन् दुः खबहुले त्वामाहुर्योगिनां गतिम् ।
अपां शिवानामाधारमध्वगानां विवासिनाम् ॥ 31.446 ॥
धन्यं तव प्रदेशेषु गत्यन्तरमपश्यताम् ।
निर्वापयसि नोचेच्च त्वं कटाक्षसुधारसैः ॥ 31.447 ॥
दुःखदावाग्नि भिर्दग्धा जन्तवस्तं महीमयाः ।
विशालवक्षसं श्यामं पुण्डरीकनिभेक्षणम् ॥ 31.448 ॥
सालाकारचतुर्बाहुं त्वा महं खरणं व्रजे ।
चक्रवाक इवादित्यं चातको वारिदं यथा ॥ 31.449 ॥
चकोरा इव शीतांशु मार्तस्त्वामहयाश्रये ।
एतत्पठति यस्तोत्रं श्रुतिभिस्संस्थितं 205 त्विदम् ॥ 31.450 ॥
प्रीयते तस्य भगवान् सेनानीरविलम्बितम् ।
दद्याच्च सम्पदस्सर्वास्तस्मैभक्ताय दुर्लभाः ॥ 31.451 ॥
इति श्रीपाङ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे 206 किरीटादिमन्द्रोद्धारणं नाम एकत्रिंशोऽध्यायः.
-
चेदस्त्यनुग्रहः. ↩︎
-
पुरम्. ↩︎
-
महामायां ध्वजं तथा. ↩︎
-
वह्निवक्त्रम्. विघ्नं दान्तम्. ↩︎
-
उपेन्द्रं. ↩︎
-
स्पर्शनामानमादिदेवं सरोरुहम्. ↩︎
-
पंचमं. ↩︎
-
उद्धनं. ↩︎
-
महाभुजम् । ↩︎
-
विजयं सदागतिं. ↩︎
-
इतमर्धं क्वचिदधिकमस्ति. ↩︎
-
कलशं. ↩︎
-
मारुतं. ↩︎
-
मधुं यमं. ↩︎
-
च्चरेत्. ↩︎
-
बन्दुं मन्दरं मधुवि. ↩︎
-
इतमर्धं क्वचिन्नास्ति. ↩︎
-
ग्निमा धवौ. ↩︎
-
सुन्दरौ । रोदनं पुलहम्. ↩︎
-
खड्गं च रोधनम्. ↩︎
-
चाक्षं द्वि. ↩︎
-
वैधरमचां. ↩︎
-
म्मतिश्च. ↩︎
-
विक्रमं सूक्ष्मदृष्टि च. ↩︎
-
प्रपूर्नं च. ↩︎
-
प्रथमा. ↩︎
-
भवस्वामि मुनिश्छन्दस्स्या दुष्णिक्साच. ↩︎
-
रिशैलाभ्यां. ↩︎
-
चांदिमं तथा. ↩︎
-
पंच. ↩︎
-
विजयं त्वथ. इदमेकं पद्यं क्वचिन्नास्ति. ↩︎
-
वाङ्मुखम्. ↩︎
-
ब्रह्म. ↩︎
-
नखशीर्षनम्. ↩︎
-
ब्रह्म. ↩︎
-
पूर्णवर्णाभं फट्कारान्तं ठठान्तकम् ॥ ↩︎
-
बहुमूलम्. ↩︎
-
मन्त्रराजं सुर्शनम्. ↩︎
-
हस्तं चादिदेवं. ↩︎
-
जपेत्. ↩︎
-
संज्ञितम्. ↩︎
-
मवाङ्मुखं. ↩︎
-
द्वितीयम्. ↩︎
-
दरं द्विः. ↩︎
-
शोभनं. ↩︎
-
नत्यन्तं. ↩︎
-
अत्रिः. ↩︎
-
मन्त्रस्या. ↩︎
-
निधि. ↩︎
-
कृशागमम्. ↩︎
-
उदयं. ↩︎
-
दरत्रयसमन्वितः. ↩︎
-
माधनम्. ↩︎
-
ककुभाह्वयं. ↩︎
-
आदिदेवं. ↩︎
-
जननं. ↩︎
-
गोधनं. ↩︎
-
मादितः. ↩︎
-
षष्टिं. ↩︎
-
चादि. ↩︎
-
धान्तम्. ↩︎
-
गोपनं. ↩︎
-
चेन्दुम्. ↩︎
-
यान्तमचां द्वितीयम्. ↩︎
-
त्रिं च. ↩︎
-
विक्रमं चान्यं. ↩︎
-
सस्तकम्. ↩︎
-
मन्दरं वैधरद्वयम् ॥ ↩︎
-
यान्तार्ण शिरसम्. ↩︎
-
भुवनम्. ↩︎
-
गोपनम्. ↩︎
-
मत्यन्तं. ↩︎
-
तथोदयम्. ↩︎
-
पवनं. ↩︎
-
स्यात्सुदर्शनः. ↩︎
-
दृढमा. ↩︎
-
परं यान्तं च - परं वामनं. ↩︎
-
जन्मध्वंसं. ↩︎
-
गोपन. ↩︎
-
बन्धुसप्तकम्. ↩︎
-
गोधनं वैधरं ध्वजम्. ↩︎
-
च प्रसाधनम्. ↩︎
-
सुरादिमत्. ↩︎
-
शोभनौ. ↩︎
-
क्रोधरूपम्. ↩︎
-
गोपतिम्. ↩︎
-
मलयं. ↩︎
-
शंखिनम्. ↩︎
-
बाहुं समन्दरम्. ↩︎
-
गोपतिम्. ↩︎
-
मुग्रं चैन यथापुरम् ॥ लक्ष. ↩︎
-
चानिलं तथा. ↩︎
-
शर्वविक्रमौ. ↩︎
-
करालम्' इत्यारभ्य
विधातारम्’ इत्यन्तं क्वचिन्नास्ति. ↩︎ -
शङ्खं पीतमवाङ्मुखं. ↩︎
-
भूधर. ↩︎
-
ऋतधाम च धाम च. ↩︎
-
गदध्वंसं. ↩︎
-
बन्धूहम्. ↩︎
-
छलि. ↩︎
-
द्वितीयकम्. ↩︎
-
दृष्टिद्वयं यान्तम्. ↩︎
-
सप्त. ↩︎
-
श्रीद्विज. श्रीबीजद्वितियं. ↩︎
-
निगमादिं. ↩︎
-
गुहाश्रयम्. ↩︎
-
मनलं. ↩︎
-
मरणा. ↩︎
-
मुसलं. ↩︎
-
सुखम्. ↩︎
-
मृगेशं. ↩︎
-
मेकादश. ↩︎
-
कमलम्. ↩︎
-
वारणानन. ↩︎
-
अनलं मानुषेशं च. ↩︎
-
जलजं. ↩︎
-
कोशाष्टकेपि त्रुटिः. क्वचित् यथा पाङ्त्काः पाठः. ↩︎
-
करिवक्त्रं. ↩︎
-
भद्रहस्तं पुण्यं. ↩︎
-
तुष्टिं च. ↩︎
-
रसं—शरो. ↩︎
-
पुलहद्वय. ↩︎
-
पावनं. ↩︎
-
गोपती । गोपतिम्. ↩︎
-
ब्रह्म. ↩︎
-
वामनं. ↩︎
-
हाराद्यङ्गदनिर्घोषगम्भिर भयद. ↩︎
-
मनखदम्भोलिनिर्मितौ । विन्यस्त. ↩︎
-
द्धेनं जपेन्मन्त्रं. ↩︎
-
कमलम्. ↩︎
-
पंचमम्. ↩︎
-
सुमुखम्. ↩︎
-
जलजं. ↩︎
-
गतिर्न. ↩︎
-
चन्दो देवी. ↩︎
-
चोद्गीथं. ↩︎
-
विजयं तथा. ↩︎
-
हुतान्तिमम्. ↩︎
-
जप. ↩︎
-
गजास्यात्रिसरोजानि. ↩︎
-
माधवौ. ↩︎
-
“पवित्रम्” इत्यरभ्य उत्तरत्र. " अतो वक्ष्येमनुम्" इत्यन्तं क्वचित्कोशे गलितम्. ↩︎
-
कथयिष्ये. ↩︎
-
अष्टा. ↩︎
-
ऋणानां विषये सुराणां विषये. ↩︎
-
स्फुटमुष्ट्यादि. ↩︎
-
मन्त्रवित् । इत्थं. ↩︎
-
केशनं. ↩︎
-
श्रीधरं च. ↩︎
-
वैधरं. ↩︎
-
द्वितीय. ↩︎
-
न्तर. ↩︎
-
वह्नि. ↩︎
-
सत्यन्तादि. ↩︎
-
पावकस्सौर इति. ↩︎
-
वह्निं. ↩︎
-
धन्यं. ↩︎
-
द्वित्रिरुच्चार्य. ↩︎
-
पुलहं. ↩︎
-
पुष्टिबीजाद्यशशिनो. ↩︎
-
मारुतौ. ↩︎
-
मेघ. ↩︎
-
येनैष. ↩︎
-
पक्षिराज इति साधु. ↩︎
-
विधेस्तथा. ↩︎
-
भद्र. ↩︎
-
ओणपं. ↩︎
-
दृशं. ↩︎
-
निरीक्ष्यान्तः. ↩︎
-
कर्तारिं कल्पितोत्कटिसाधनम्. ↩︎
-
भवनं भीम. घनगम्भीर, इति स्यात्. ↩︎
-
तं नव. ↩︎
-
एव. ↩︎
-
सुभगं. ↩︎
-
वैधरं गोपनं तथा. ↩︎
-
बहुषुकोशेषु त्रुटिर्दृश्यते. क्वचित् पाठान्तरमस्ति. यथा—खड्गहस्तमचामादिं गोपनं वैधरं तथा. ↩︎
-
यान्तं. ↩︎
-
मन्त्रराजं. ↩︎
-
माधवा. ↩︎
-
माधव. ↩︎
-
कतृतीयं. ↩︎
-
चद्विः. ↩︎
-
माधवम्. ↩︎
-
मृतम्. ↩︎
-
चतुर्थ्यन्तं. ↩︎
-
मयमर्धं. ↩︎
-
मणिपुत्रम्. ↩︎
-
माधरं. ↩︎
-
कालान्तम्. ↩︎
-
द्विर्वसुं तथा. ↩︎
-
काङ्क्षिणः. ↩︎
-
तेनाद्यम्. ↩︎
-
नेमो नुत्युभयानपि. ↩︎
-
नादिर्न. ↩︎
-
विविधाय च. ↩︎
-
विश्वं. ↩︎
-
निधे. ↩︎
-
कृष्ण. ↩︎
-
त्वां श्रुत्वा. ↩︎
-
भुक्त्वा. ↩︎
-
`त्वमात्मवान्' ↩︎
-
वीत भार. ↩︎
-
रूपेण. ↩︎
-
जलामामिन सिन्दुर्वै. ↩︎
-
स्थिरम्. ↩︎
-
“विष्वक्सेनोत्पत्ति किरीटादि” इति क्वचित्पाठः. विघ्नराजो त्पत्ति किरीटादि मन्द्रोद्धारो नाम." इति साधु. ↩︎