३०

तिथिदेवतामन्त्राः

श्रीभगवान् :—

1 तिथियागं चतुर्वक्त्र ब्रवीमि सुखपाधनम् ।

काम्यकर्मणः कालः

काम्यस्य कर्मणः कालश्शुक्लपक्षस्तथा तिथिः ॥ 30.1 ॥

जपहोमार्चनैस्सम्यक्कालेष्वाराधयेत्सुधीः ।

तिथिदेवताः

2 अग्निर्ब्रह्माधनेशानौ विघ्नेशश्श्रीष्षडाननः ॥ 30.2 ॥

भानुर्वृषध्वजो दुर्गा यमो वलनिघादनः ।
विष्णुः कामोऽश्विनौ चन्द्र इत्युक्तास्तिथि देवताः ॥ 30.3 ॥

अग्नेर्मन्त्रः

प्रणवं नवबिन्दुं च वरुणं श्रीधरं ततः ।
गदध्वंसं भद्रहस्तं पावनं माधवं ततः ॥ 30.4 ॥

ठठान्तमुद्धृत्य मनुः कथितो जातवेदसः ।
अग्निमाद्यमनुस्वारं बीजं तेनाङ्गपद्धतिः ॥ 30.5 ॥

छन्दो विराट् देवलश्च द्रष्टाग्निरथिदेवता ।
चतुर्थ्यन्तं स्वाभिधानं नत्यन्तमसरो मनुः ॥ 30.6 ॥

ऋषिश्छन्दो देवतापि मनोरस्यापि पूर्ववत् ।
प्रत्यक्षरं लक्षजपस्साधनं मन्त्रयोर्द्वयोः ॥ 30.7 ॥

काम्यस्य लाभस्सर्वस्य फलमत्यन्तदुर्लभम् ।

ब्रह्मणोमन्त्रः

निगमादिं कालनेमिमृतधामविदर्भितम् ॥ 30.8 ॥

मार्ताण्डमन्दरयुतं प्रचण्डं माधवं नतिम् ।
इत्युद्धरेद्ब्रह्ममनुमुद्धारोऽन्यस्य कथ्यते ॥ 30.9 ॥

चतुर्थ्यन्तं ब्रह्मपदमाग्नेयीनिष्ठितं मनुः ।
वै राजमक्षप्रथमं विजयं रोहिणीपतिम् ॥ 30.10 ॥

अकारमेकनेत्रं च बीजं प्रणवसंयुतम् ।
एतदेवाङ्गसन्तानस्स्वरश्छन्दश्छलोहितः ॥ 30.11 ॥

मुनिर्ब्रह्माच देवश्च यष्टव्यं पङ्कजोतरे ।

कुबेरस्य मन्त्रः

प्रणवं सूक्ष्मदृष्टिं च भद्रपाणिं सबिन्दुकम् ॥ 30.12 ॥

उद्धृत्यैकाक्षरो मन्त्रः कुबेरस्य समिरितः ।
उष्णिक्छन्दो मुनिर्वह्निर्धनेशानश्च देवता ॥ 30.13 ॥

आरम्भं 3 नतिमन्वक्च सुभगं विघ्ननायकम् ।
पवित्रं विजयं पश्चाद्ध्वंसनं माधवं तथा ॥ 30.14 ॥

कमलं चोदयं प्रोच्य जृम्भलं मृगवल्लभम् ।
पावकं गोपनयुतं सदागतिमनन्तरम् ॥ 30.15 ॥

कुम्भं शशाङ्कं 4 भुवनं हेरम्बं रामसंयुतम् ।
वक्रतुण्डं जगत्प्राणं मन्दरं पश्चिमाननम् ॥ 30.16 ॥

आग्निमाद्यं मारुतं च प्रथमं प्रेतनायकम् ।
अचामादि मथाग्नेयीमुद्धृत्य मनुरीरितः ॥ 30.17 ॥

धनदस्य नभो द्रष्टा छन्दोगायत्रमिरितम् ।
दैवं धनाधिपो देवो बीजं पूर्ववदीरितम् ॥ 30.18 ॥

अङ्गष्ठे माणिभद्राख्यं तर्जन्यां पूर्णभद्रकम् ।
5 कलिमालिं मध्यमायां विकुण्डलमनामिकाम् ॥ 30.19 ॥

मूले कनिष्ठकायां च मध्ये च मणिबन्धयोः ।
मखेन्द्रं पाणितलयो 6 रङ्गन्यासे धनाधिपं ॥ 30.20 ॥

7 स्नात्वाजृम्भलमन्त्रेण प्रक्षिपेदुदकाञ्जलिम् ।
अम्भोजकर्णिकामध्ये महाकायं महोदरम् ॥ 30.21 ॥

द्विभुजं पीतवसनं चिन्तारत्नं रके स्थितम् ।
धारयन्तं मनः कान्तं मन्त्रिभ्यो पीप्सितं वसु ॥ 30.22 ॥

यक्षयक्षीपरिजनं ध्यायन्नर्घ्यादिभिर्यजेत् ।
ऋद्धिं गुप्तिं च तत्पार्श्वे चतुर्थ्यन्तं स्वसंज्ञया ॥ 30.23 ॥

8 अर्घ्याद्यैरर्चयित्वातु ततो जृम्भलमब्जज ।
कलिमालिं माणिभद्रं 9 चरेन्ध्रं पूर्णभद्रकम् ॥ 30.24 ॥

10 मुखेन्द्रं शिखिपूर्वं च कुण्डलं नलकूबरम् ।
अम्भोजकर्णिकामध्ये दलेष्विन्द्रादिषु क्रमात् ॥ 30.25 ॥

अर्चयेत्पुरतश्शङ्खनिधिं पद्मनिधिं तथा ।
11 शबलां पुरतो न्यस्येत्पृष्ठतः कल्पकद्रुमम् ॥ 30.26 ॥

जपहोमौ तर्पणादि फलं मूलमनोर्यथा ।

जृम्भलमन्त्रः

वक्ष्यामि जृम्भलमनुमर्णोद्धारेण संप्रति ॥ 30.27 ॥

ओमादिं सुभगं भद्रहस्तं वैधर 12 मक्षरम् ।
आदिदेवं मारुतं च धनदं भद्रबाहुकम् ॥ 30.28 ॥

पवित्रं विजयं चैव मारुतं माधवं तथा ।
जन्महन्तृ तथाम्नायं माधवं सूक्ष्मदर्शनम् ॥ 30.29 ॥

विक्ष्कम्भमादिदेवं च स्पर्शं स्वाहया युतम् ।
बीजमाद्यक्षरं भर्गो द्रष्टा च्छन्दो विराण्मनोः ॥ 30.30 ॥

देवता जृम्भलः कार्यः फलं सर्वं प्रयच्छति ।

विघ्नेशमन्त्रः

विघ्नेशमन्त्रमुद्धृत्य वर्णान् वक्ष्याम्यनुक्रमात् ॥ 30.31 ॥

उद्गीथं च तृतीयं च स्पर्शेषु 13 पुलहं मनुमम् ।
दण्ड इत्युद्धृतो मन्त्रो गणिकाष्षड्विराट्तथा ॥ 30.32 ॥

देवता विघ्नु राजश्च जपो लक्षत्रयं स्मृतम् ।
14 भूतं भव्यं भविष्यं च स्वप्ने पश्यति मन्त्रवित् ॥ 30.33 ॥

आरब्धं कर्मनिर्विघ्नं फलं दुग्धे यथेप्सितम् ।
तृतीयादिं च सुमुखमाद्यं 15 पश्चिमसंज्ञितम् ॥ 30.34 ॥

अचां मुखं च विजयं प्राणं माधवमन्वतः ।
सत्यन्तमादौ पूर्वोक्तं मनुं च मनुरीरितः ॥ 30.35 ॥

अजो मुनिश्छन्द उष्टिग्देवता विघ्ननायकः ।
सप्तलक्षं जपेन्मन्त्रं सिद्धयः पूर्वमिरिताः ॥ 30.36 ॥

एकाक्षरं नतिशिरो मनुरन्यस्समिरितः ।
निगमादिं दिनकरं ज्वलनं पञ्छबिन्दुकम् ॥ 30.37 ॥

सानुस्वारं गदध्वंसं पद्मनाभं च वामनम् ।
यष्टिं सहस्रकिरणं पावकं दण्डशेखरम् ॥ 30.38 ॥

त्रियक्षरमनुर्ब्रह्मन् कथितस्सर्वसाधनः ।
अङ्गादि गदितं वर्णमकारादिस्वरान्तकम् ॥ 30.39 ॥

प्रयुञ्जीत मनुश्चान्यो वक्ष्यते कमलासन ।
उद्गीथमादिं कमलं पावकं पञ्चबिन्दुकम् ॥ 30.40 ॥

16 अर्धेन्दुसहितं भद्रमनलं बिन्दुवामनम् ।
सरोरुहं समाहेन्द्रं महामया सयष्टिकम् ॥ 30.41 ॥

बीजं च तत्स्वराद्यर्णं गदध्वंसं प्रचण्डकम् ।
पश्चिमाननवैराजौ 17 मायां च वसुधारसं ॥ 30.42 ॥

आदिमग्नि 18 मकारं च फट्पदद्वयमिरयेत् ।
शशिनं 19 वरुणं वह्निं ककुभं भद्रबाहुकम् ॥ 30.43 ॥

मन्दरद्वयमेकारं वरुणं कमलामुखम् ।
अचां दक्षं गोपनं च विघ्नेशं 20 श्वसनं तथा ॥ 30.44 ॥

ठठान्तमत्थमुद्धारो बीजादि कथितं पुरा ।
ऐहिकामुष्मिकफलं सर्वमेतेन साधयेत् ॥ 30.45 ॥

श्रियं पूर्वोक्तमार्गेण देवीमर्घ्यादिभिर्यजेत् ।
तत्कटाक्षनिपातेन लभते श्रियमुत्तमाम् ॥ 30.46 ॥

षण्मुखमन्त्रः

तारं नतिं क्रोधरूपं प्रचण्डं दक्षमन्वतः ।
उदयं 21 खर्वदेहं च गोपनं च प्रभञ्जनम् ॥ 30.47 ॥

शशाङ्कं श्रीधरं ह्रस्वमृतधामसमाह्वयम् ।
दिनेशं माधवीमन्वक्प्रचण्डं मधुसूदनम् ॥ 30.48 ॥

श्वसनं स्वाहया सार्धं मनुरेषसमिरितः ।
जृम्भलं पुलहं चोर्ध्वलोकेशं यष्टिमस्तकम् ॥ 30.49 ॥

एतद्बीजसमुद्धारस्तदेवाङ्गमृषिः पुनः ।
वर्णात्मा कथितश्छन्दो गायत्रं देवता गुहः ॥ 30.50 ॥

दाडिमिकुसमप्रख्यां तन्मन्त्रेण समर्चयेत् ।
एवं कृतवतो वंशे सुब्रह्मण्यादयो ग्रहाः ॥ 30.51 ॥

न पीडयन्ति तद्वंश्यान् भवन्ति चिरजीविनः ।

भानुमन्त्रः

निगमादिं चोषधीशमनुनासिक्यमुद्धरेत् ॥ 30.52 ॥

एकाक्षरोऽयं कथितो मन्त्रस्सर्वार्थसाधकः ।
हारितो मन्त्रदृच्छन्दो विराट् सूर्यश्च देवता ॥ 30.53 ॥

ब्रह्मकोशं पद्मपाणिमृतं सुमुखसंज्ञितम् ।
22 रामबिन्दुं हृषी केशमग्निं वायुमचां मुखम् ॥ 30.54 ॥

वैधरं बिन्दुवैराजं वायुं तारं समुद्धरेत् ।
इत्थमष्टाक्षरो मन्त्रो बीजमेकाक्षरं स्मृतम् ॥ 30.55 ॥

ऋषिकत्रिश्च 23 देवश्च पूषा चैवाधिदेवता ।
24 परं सप्ताक्षरं मन्त्रं मन्त्रैरुद्धृत्यवर्ण्यते ॥ 30.56 ॥

सप्तार्णाः पूर्ववद्ग्राह्यस्सुभद्रं मधुसूदनम् ।
भद्रहस्तं च कलशं माधवं पूर्वमिरितम् ॥ 30.57 ॥

बीजमभ्यन्तरीकृत्वा द्विरुक्तं ककुभं तथा ।
अप्रमेयं गन्धवहमाद्यमेतदनन्तरम् ॥ 30.58 ॥

पादद्वितयमापाह्य मादिदेवमनन्तरम् ।
पावकं विक्रमयुतं वैधरं ऋतधाम च ॥ 30.59 ॥

मारुतं 25 चापि नासिक्यं विघ्नेशं गोपनाह्वयम् ।
कमलामादिपवनमाद्यं 26 द्विः पदमिरियेत् ॥ 30.60 ॥

माधवीमादिसहितमक्षरं 27 द्विरदं पठेत् ।
28 पवित्रं गोपनयुतं पठेमं ? स्वरसंयुतम् ॥ 30.61 ॥

विघ्नेशं दहतिं धातुं लोडन्तं द्विस्समुद्धरेत् ।
शान्तरोगं सुखपदं 29 पूर्वलोडन्तमध्यमम् ॥ 30.62 ॥

30 यमं चण्डं द्विरुच्चार्य त्रिरन्वक्प्रणवं पदम् ।
स्वनाम्ना प्रणवान्तेन मनुरेवं समुद्धृतः ॥ 30.63 ॥

बीजमङ्गानि चोक्तानि सिन्धुद्वीपश्च दृष्टवान् ।
अतिच्छन्दस्स्वयं छन्दस्सूर्यश्चानेन कथ्यते ॥ 30.64 ॥

पद्म 31 मध्ये कर्णिकायामादित्यं दलभूमिषु ।
प्राच्यादिषु ग्रहानन्यां 32 स्तदानीं बिम्बमर्चयेत् ॥ 30.65 ॥

क्रमात् षडृतवस्सर्वे गृहास्सानुग्रहास्तदा ।
आयुरारोग्यसौन्दर्य समृद्धि 33 मुखसंपदः ॥ 30.66 ॥

सप्तजन्मसुवंशेऽस्य भवन्तिनि रवग्रहाः ।

ईशानमन्त्रः

प्रणवं नतिमन्वक्च शुभदं च त्रिविक्रमम् ॥ 30.67 ॥

वरुणं गोपनं वायुमादिमुद्दृत्य मन्त्रवित् ।
मनुः पञ्चाक्षरः कार्यो बीजं संप्रति कथ्यते ॥ 30.68 ॥

गोपतिं विष्णुसहित मनुस्वारं समुद्धरेत् ।
बीजमेतच्चतुर्वक्त्र षडङ्गानामुदाहरेत् ॥ 30.69 ॥

उपमन्युऋषिश्छन्धो देवं गायत्रमुच्यते ।
प्रतिपाद्यो महाशानो जपस्स्याल्लक्षपञ्छकम् ॥ 30.70 ॥

अष्टाक्षरवदस्यापि फलसाधनमेव च ।
रक्ताम्बुजासनासिनमर्चयेत्तद्दलेषु च ॥ 30.71 ॥

प्रागादिषु षडङ्गानि पार्वतीनन्दिकेश्वरौ ।
क्रमाद्विन्यस्य पुरतो वाहनं सम्यगर्चयेत् ॥ 30.72 ॥

दिक्ष्वष्टानु सुरेन्द्रादीनष्टावर्घ्यादिनार्चयेत् ।
सृष्ट्यादिन्यसनं कृत्वा प्रथमं तदनन्तरम् ॥ 30.73 ॥

अक्षरस्यसनं कुर्यात् स्थानेष्वेतेषु पद्मज ।
मूर्ध्नि चास्ये च हृदये गुह्ये पादतले तथा ॥ 30.74 ॥

वर्णानां क्रमशो वर्णाः पञ्चानां कथ्यतेऽधुना ।
स्फटिकं पाटलं पीतं श्वेतं नीलमितिस्मरेत् ॥ 30.75 ॥

शिवोऽहमिति चात्मानं भावयेन्मन्त्रवित्तमः ।
34 ध्यायन्तं देवदेवेशमाराध्य वृषभध्वजम् ॥ 30.76 ॥

त्यक्त्वा संसारिकं दुःखमेति स्थानमनश्वरम् ।
भोगानप्यैहिकान् भुक्त्वा दुर्लभानमरैरपि ॥ 30.77 ॥

ओमादिसप्तवर्णानामुद्धारः पूर्वमिरितः ।
वैधरं नृहरिं मायां प्रचण्डं मधुसूदनम् ॥ 30.78 ॥

मन्दरं चोर्ध्वलोकेशं वैराजं द्विश्चतुर्मुख ।
पावकं पवनं देवदत्तं पाटलमन्वतः ॥ 30.79 ॥

गोपतिं मारुतमथो 35 मन्दरं माधवीं तथा ।
माधवं धनदं ब्रह्मन् मधुसूदनसंज्ञितम् ॥ 30.80 ॥

नासिक्यं पश्चिमं पद्मनाभं च पवनाह्वयम् ।
खड्गं द्विरुच्च रेत्स्वाहा इति मन्द्रं समुद्धृतम् ॥ 30.81 ॥

मनुमन्यं प्रवक्ष्यामि तमर्णैरुद्धराम्यहम् ।
36 तारमत्रिं गरुत्मन्तं रामं 37 सुमुखमन्वतः ॥ 30.82 ॥

गोपवं मन्दरं चोर्ध्वलोकेशं 38 विजयं पुनः ।
तमर्णं चाभिशङ्खं च माधवं वारुणाभिधम् ॥ 30.83 ॥

गोपनं च करालं च कमलं जृम्भलं ततः ।
श्रीधरं सुभगं मायां जन्मध्वंसमनन्तरम् ॥ 30.84 ॥

पाशपाणिं चादिदेवं भद्रहस्तं च पश्चिमम् ।
ऋताह्वयं वैधरं च मधुभिन्मारुतं ततः ॥ 30.85 ॥

39 सतिमुद्धृत्य कथितो वर्णान् षोडश संज्ञितान् ।
मन्त्रयोरनयोर्ब्रह्मन् जीवो द्रष्टाभिधीयते ॥ 30.86 ॥

धर्मवर्त्तीमहेशानो देवता दक्षिणातनुः ।
दिनेश रामसहितं श्वसनं 40 मतिबिन्दुमत् ॥ 30.87 ॥

बीजमेतदतो ध्यानमिशानस्य ब्रविमिते ।
कुन्देन्धुमुक्ताशङ्खाभं सर्वाकल्पपरिष्कृतम् ॥ 30.88 ॥

वैयाघ्रचर्मवसनं जटामण्डलमण्डितम् ।
नासाग्रन्यस्तनयनं शशिखण्डविराजितम् ॥ 30.89 ॥

प्रसन्नवदनं देवं चतुर्भुजमभीष्टदम् ।
वामजानुनि विन्यस्तवामेतरपदाम्बुजम् ॥ 30.90 ॥

प्फटिकामक्षमालां च बिभ्राणं दक्षिणेकरे ।
वामे कराम्बुजे स्वीये धृतविज्ञानपुस्तुकम् ॥ 30.91 ॥

दर्शयन्तं ज्ञानमुद्रां महर्षिगणसेवितम् ।
ध्यायतो मन्त्रिणस्त्वैवं सिध्वन्ति सकलाः कलाः ॥ 30.92 ॥

गङ्गाप्रवाहवत्तस्य वाक्प्रसारः प्रवर्तते ।
चतुर्वर्गफलावाप्तिस्तस्य हस्ते स्थिता ध्रुवम् ॥ 30.93 ॥

जपभूयस्तयो कामान् दुर्लभान् सुखमश्नुते ।

दुर्गामन्त्रः

तिथौ भगवतीं दुर्गां नवम्यां सम्यगर्चयेत् ॥ 30.94 ॥

निगमादिं वैधरं च भुवनं च विसर्जनम् ।
मनुरेकाक्षरः प्रोक्तस्समुद्धृत्य यथातथम् ॥ 30.95 ॥

स्वीकृत्यैकाक्षरं पूर्वं गदध्वंसं हुताशनम् ।
स्पर्शनं 41 गोधनाह्वानं नतिं च मनुरीरितः ॥ 30.96 ॥

बीजमस्योद्धरिष्यामि गोपतिं पावकं ततः ।
वामनं यष्टिशिरसमस्य कात्यायनो मुनिः ॥ 30.97 ॥

छन्दश्च देवि गायत्रं वनदुर्गा च देवता ।

मर्गाया मन्त्रान्तरम्

मन्त्रमन्यं प्रवक्ष्यामि दुर्गाश्रयमनुत्तमम् ॥ 30.98 ॥

निगमादिं विष्णुसंज्ञं कपिलं जृम्भलाह्वयम् ।
माधवं च सुरेन्द्रादिं प्रद्युम्नं कालनेमिजम् ॥ 30.99 ॥

मधुसूदननमानं पुलहं माययावृतम् ।
करालं देवदत्ताख्यं शशाङ्कं 42 कमलानुगौ ॥ 30.100 ॥

पवित्रमादि 43 देवान्तं नृहरिं स्पर्शनं तथा ।
ब्रह्मणमग्निं चोद्धृत्य पञ्चबिन्दुमनन्तरम् ॥ 30.101 ॥

आदिं श्रीवत्समुदयं सुभद्रं नासिकाह्वयम् ।
भास्करं भद्रबाहुद्वौ वैधरं गोपतिद्वयम् ॥ 30.102 ॥

पवित्रखड्गनामानौ द्वौ च दक्षमनन्तरम् ।
सुप्रतिष्ठं द्विरुच्चार्य दिनकृन्माधवीध्रुवौ ॥ 30.103 ॥

फट्कारमग्न्यादिमन्वगित्युद्धृत्य जपेन्मनुम् ।
44 अर्णोद्धारक्रमादन्यं मन्त्रं वच्मि चतुर्मुख ॥ 30.104 ॥

प्रणवं वैधरं पश्चाच्छ्रीधरं गदिनं तथा ।
वैश्वानरं मृगपतिं तमेवार्णमनन्तरम् ॥ 30.105 ॥

45 यान्तं नृसिंहं सुमुखं रामं स्वाहं समुद्धरेत् ।
46 उद्धृतोऽयं मनुश्चान्यो बीजमङ्गानि पूर्ववत् ॥ 30.106 ॥

ऋषिर्जयमतिश्छन्दो गिरिदुर्गाच देवता ।
उद्गीथं श्रीधरं चैव दृष्टिद्वन्द्वं त्रिविक्रमम् ॥ 30.107 ॥

क्रोधरूपि च जीमूतं पश्चिमं भुवनाह्वयम् ।
बहुलं श्रीधरं क्रोधं विक्रमं सरसीरुहम् ॥ 30.108 ॥

विक्रमं धर्मशीतांशुं शशाङ्कं च सुधामयम् ।
पश्चिमं 47 रामशिरसं क्रोधरूपं सविक्रमम् ॥ 30.109 ॥

भल्लायुधं तथा शङ्खमाधवीद्वयमाधवम् ।
शुक्लमादिं मृगपतिं श्रीधरं पश्चिमाननम् ॥ 30.110 ॥

नीहारदीधितिं सर्वरोधं विक्रमशीर्षकम् ।
वैराजं कपिलं शङ्खं वैधरं बन्धुमस्तकम् ॥ 30.111 ॥

शुभदं कमलं 48 वायुं मन्दरं वित्तवर्थनम् ।
आदिं करालमनिलं नासिक्यं यादसां पतिम् ॥ 30.112 ॥

गोपनं विजयं विघ्नुनायकं दक्षमाधवौ ।
सुभद्रं च गदिं 49 कुम्भं वैराजं बन्धुशीर्षकम् ॥ 30.113 ॥

शुभदं मन्दरं शङ्खं ठठान्तो मनुरीरितः ।
षोढा विभज्य तं मन्त्रं हृदयाद्यङ्गकल्पनम् ॥ 30.114 ॥

द्रष्टा वरेण्यको नाम ह्यनुष्ठुप्छन्द ईरितः ।
देवता वनदुर्गास्यात्तदष्टाक्षर 50 वत्फलम् ॥ 30.115 ॥

सर्वदाह्वयदुर्गाया मन्त्रमुद्धारयामि ते ।
उद्गीथं 51 नतिमन्वक्च सूक्ष्मदृग्दृष्टिशीर्षकम् ॥ 30.116 ॥

गदध्वंसमकारं च कुम्भनाद्यं चतुर्मुख ।
वैराजं राजमानं वै वैधरं श्रीधराह्वयम् ॥ 30.117 ॥

52 गदिनं बन्धुसंज्ञं च स्वाहाशीर्षं श्रियः पतिम् ।
गदिनं पावकं चैव दृष्टिमिकारमन्वतः ॥ 30.118 ॥

53 देहं च विक्रमं चण्डं रामं मन्दरसंज्ञितम् ।
मधुसूदं गन्धवहं माधवं 54 माधराह्वयम् ॥ 30.119 ॥

आदित्यं गोपनं दक्षमादिदेवं च मारुतम् ।
मृगेशं मन्धरं भानुं मधुसूदनसंज्ञितम् ॥ 30.120 ॥

पुलहं देवदत्तं च दक्षं च यदभास्करम् ? ।
राम 55 मुग्रात्मनात्मानं मधुसूदनमन्वतः ॥ 30.121 ॥

शशाङ्कं श्रीधरं सप्त 56 जिह्वं कुम्भं त्रिविक्रमम् ।
कजाननं गोपतिं च लक्ष्मीं भद्रं त्रिविक्रमम् ॥ 30.122 ॥

वैधरं भुवनाह्वानमुग्ररूपं च खेटकम् ।
भल्लायुधं तथा ब्रह्मन् श्वसनं नासिका 57 भुवम् ॥ 30.123 ॥

विधातारं हुतवहं विक्रमं च सुधारसम् ।
रामं च भद्रं सुभगमनिलं विघ्ननायकम् ॥ 30.124 ॥

रामं महेन्द्रसुभगं महेशं गगनाह्वायम् ।
मार्ताण्डमादिदेवं च शशाङ्कं श्रीधरं तथा ॥ 30.125 ॥

चित्रभानुं तथा दक्षं वैधरं हव्यवाहनम् ।
विघ्नेशं विक्रमं दृष्टिं देवदत्तमपां पतिम् ॥ 30.126 ॥

मधुसूदननामानं कलात्मानमतः परम् ।
भुवनं पावकं दृष्टिं 58 गोपनं विजयं तथा ॥ 30.127 ॥

वायुं 59 पवित्रमाकारं मुसलं विक्रमं पुनः ।
एकनेत्रं माधवं च कलशं पापकाह्वयम् ॥ 30.128 ॥

वैधरं देवदत्तं च विघ्नेशं मधुसूदनम् ।
दहनं गोपनं चैव मारुतं वनमालिनम् ॥ 30.129 ॥

मायां च वैधराह्वानं मधुसूदनमन्धरौ ।
ओतदेहं दृष्टिमग्निं पश्चिमाननमन्वतः ॥ 30.130 ॥

ऋतधामं विक्रमं च श्वसनं मृगनायकम् ।
पुष्टिभीजं त्रिरुच्चार्य सहस्रकिरणाह्वयम् ॥ 30.131 ॥

गुहालयमनुस्वारं बीजमेतत्त्रिरुद्धरेत् ।
60 भद्रं गुहालयं चैव विजयं गदिनं तथा ॥ 30.132 ॥

पद्मनाभं गोपतिं च कलशं मृगराट् तथा ।
वै राजमादिदेवं च डुण्डुभं लोचनोदयौ ॥ 30.133 ॥

उग्रात्मखेटकौ वह्निं 61 गोपतिं विहगाधिपम् ।
श्वेतांशु पश्चिमं लक्ष्मीमादिदेवमनन्तरम् ॥ 30.134 ॥

वक्रतुण्डं गोपनं च भद्रपाणिमनन्तरम् ।
विजयाकारमादिं च शशाङ्कं च सदागतिम् ॥ 30.135 ॥

द्विरभ्यसेत्कालनेमिं भद्रं पुण्यं द्विरुच्छरेत् ।
मन्दरं चादिदेवं च दहनं श्वसनं तथा ॥ 30.136 ॥

द्विर्ब्रूयात्सूक्ष्मदृग्ब्रह्मन् करालं विजयं पुनः ।
पीयूषमादिं विजयं वसुमस्तकनिष्ठितम् ॥ 30.137 ॥

निहारदीधितिमचामादिं पीतं समाधवम् ।
सुभद्रं कमलं चैकदृष्टिं च चतुरासन ॥ 30.138 ॥

पवित्रमृतधामानं त्रिविक्रममतः परम् ।
पुरुषात्मानमेणेशं पश्चिमं 62 पुरतस्तथा ॥ 30.139 ॥

ध्रुवं ध्रुवं तथा ह्रस्वं माहेन्द्रं मन्दरं ततः ।
सर्वरोधं गजास्यं च मायां कमलमन्दरौ ॥ 30.140 ॥

एकनेत्रमृतं 63 शुलं बहु कुक्षिं त्रिविक्रमम् ।
करालं पद्मनाभाख्यं विघ्नेशं विजयं तथा ॥ 30.141 ॥

भद्रहस्तं तथा रामं शशाङ्कं मनुमन्वतः ।
सुभद्रं गोपनं पश्चात्पञ्चान्तिकमथानिलम् ॥ 30.142 ॥

पश्चिमं पद्मनाभाख्य 64 मृतधामानमस्वतः ।
जृम्भलं पुलहं 65 पापहननं पद्मनाभकम् ॥ 30.143 ॥

दृष्टिं मृगेशममृतमार्यां च द्विर्गुहालयम् ।
पवित्रमृतधामानं वैधरं माधवं ततः ॥ 30.144 ॥

66 मारुतं कमलां पद्मपवित्रमृतधाम च ।
अत्रिं मृगपतिं लक्ष्मीं बहुलं पञ्चबिन्दुकम् ॥ 30.145 ॥

पवित्रमृतधामानं 67 वै राजं विक्रमं तथा ।
पश्चिमं पद्मनाभाख्यं वैधरं मृगवल्लभम् ॥ 30.146 ॥

दक्षं रविं गोपनाख्यं सुभद्रं भुवनं तथा ।
ककुभं माधवं पश्चान्माधवीं भास्कराह्वयम् ॥ 30.147 ॥

गोपनं मतिमन्तं च पुलहं माधवं रविम् ।
यष्टिं च व्याहरेद्ब्रह्मन् तथैव मधुसूदनम् ॥ 30.148 ॥

ध्रुवं नभोमणिं गोपं बिन्दुं च चतुरासन ।
68 एवं त्रि र्व्याहरेदर्णं सुगतं सागरोत्तमम् ॥ 30.149 ॥

मन्दरं भास्करं पश्चाद्गोपनं माधवीं तथा ।
आदिदेवं जगत्प्राणं माधवं नतिमुद्धरेत् ॥ 30.150 ॥

इत्येवमुद्धृतो मन्त्रो ब्रह्मन् सर्वार्थसिद्धदः ।
69 शतेन संमितो वर्णो रश्मीत्यादिभिरेव ? सः ॥ 30.151 ॥

भास्करं 70 मन्धरं पञ्चबिन्दुं यष्टिमनन्तरम् ।
उद्धृत्य बीजमेतेन षडङ्गानि प्रकल्पयेत् ॥ 30.152 ॥

द्रष्टा ककुत्स्थश्छन्दस्स्यादतिच्छन्दो 71 त्र देवता ।
सर्वदाह्वानमन्त्रस्य चतुर्लक्षोजपःस्मृतः ॥ 30.153 ॥

ज्ञानाद्ध्यानाज्जपान्मन्त्रस्सिद्धिं सर्वां प्रयच्छति ।
मन्त्रिणो नित्ययुक्तस्य प्रत्यहं प्रयतात्मनः ॥ 30.154 ॥

आमुष्मिकं चैहिकं च फलं सर्वं प्रयच्छति ।

यमस्य मन्त्रः

दशम्यामर्चयेद्ब्रह्मन् कृतान्तमभयप्रदम् ॥ 30.155 ॥

72 निगमादिं गन्धवहं हृषीकेशमन्तरम् ।
दण्डं प्रभञ्जनं दक्षं चादिदेवं सदागतिम् ॥ 30.156 ॥

73 नितिमुद्धृत्य कथितो मनुर्वैवस्वता 74 श्रयः ।
बीजमर्णान् समुद्धृत्य श्वसनं यष्टिशीर्षकम् ॥ 30.157 ॥

उदितं तेन बीजेन हृदयाद्यङ्गकल्पनम् ।
ऋषिस्सत्यतपाश्छन्दो गायत्रं दैवमिरितम् ॥ 30.158 ॥

मन्त्रश्च पितृदैवत्यो जपः स्यात्पञ्चलक्षकः ।
तेनाराध्य श्राद्धदेवमभीष्टं सर्वमश्नुते ॥ 30.159 ॥

इन्द्रस्य मन्त्रः

प्रथमं छन्दसामादिं विक्रमं मानुषेश्वरम् ।
वैधरं वह्निमपरं गोपनं पवनं मुखम् ॥ 30.160 ॥

सतिमुद्धृत्य माघोनः कथितो मनुरब्जज ।
वैधरं चोर्ध्वलोकेशं नासिक्यं बीजमुद्धृतम् ॥ 30.161 ॥

75 ऋषिर्देवो विराट् छन्दो देवता वलसूदनः ।
एतेनेष्ट्वा तुरासाहं साम्राज्य फलमश्नुते ॥ 30.162 ॥

विष्णोर्मन्त्रः

द्वादश्यां मालमन्त्रेण पूजयेदुक्तवर्त्मना ।
भगवन्तं श्रियः कान्तं फलमिप्सन् सुदुर्लभम् ॥ 30.163 ॥

कामस्य मन्त्रः

निगमादिं च नत्यन्तं पश्चिमोदयनं तथा ।
क्रोधरूपं पवित्रं च श्रीवत्सं पावकं ततः ॥ 30.164 ॥

आदिदेवं च पननं गोपनं 76 यष्टिमन्वतः ।
77 गोपतिं बहुलं पञ्छबिन्दुं नरहरिं ततः ॥ 30.165 ॥

और्वं यष्टिं च 78 कमलं गोपनं मन्दराह्वयम् ।
वैधरं देवदत्तं च कमलं गोपनं तथा ॥ 30.166 ॥

शङ्खं ठठान्तमुद्धृत्य मनुरेष समिरितः ।
79 स्वर्गादिं पुलहं बन्धुं नासिक्यं बीजमुद्धरेत् ॥ 30.167 ॥

ऋषिश्श्रीनिधिरस्योक्तो विराट् छन्दश्च देवता ।
मन्मथस्तेन यष्टव्यस्स सर्वफलकाङ्क्षिभिः ॥ 30.168 ॥

एकार्णमपरं मन्त्रमुद्धरिष्यामि पद्मज ।
तारं गरुडमौर्वं च सबिन्दुं मनुरीरितः ॥ 30.169 ॥

लक्षमेकं जपेन्मन्त्री कर्मण्याकर्षणादिके ।
समर्थं कामदैवत्यं मनुमन्यं ब्रवीमि ते ॥ 30.170 ॥

उद्गीथं कमलं पीतं 80 मायामर्धेन्दुशेखम् ।
करालं गोपनं दक्षं वैधरं तदनन्तरम् ॥ 30.171 ॥

मृगेन्द्रं वरुणं चादि 81 देवं श्वसनसंज्ञितम् ।
शुक्लं सुधामयं वह्निं ककुभं सविनायकम् ॥ 30.172 ॥

शशाङ्खं माधवं ब्रह्मसाधकं भास्कराह्वयम् ।
हैरम्बं गोपनं वायुं ककुभं यादसां पतिम् ॥ 30.173 ॥

पुलहं निगमादिं च तद्द्वयं 82 तद्विरुच्छरेत् ।
पश्चिमं त्वृतधामानं 83 पूर्णं पर्वभिरुच्छरेत् ॥ 30.174 ॥

शशाङ्कमादिं जलजं 84 पीतं वरुणमब्जज ।
ककुभं विष्णुविघ्नेसौ प्रथमं तग्मदिधितिम् ॥ 30.175 ॥

पद्मनाभं वैधरं च वायुमाद्यं च मन्दरम् ।
मन्दराद्यद्वयं भूयस्तदेव समनन्तरम् ॥ 30.176 ॥

वरुणं विष्णुमब्जां च यष्टि 85 मब्जोदयौ तथा ।
दहनं श्रीधरं वर्णं पुलहं ब्रह्मसाधनम् ॥ 30.177 ॥

करालमाद्यं 86 कलशं मुखं श्रीवत्समन्वतः ।
प्रभञ्जनं गोपनं च स्पर्शमाद्यमपां पतिम् ॥ 30.178 ॥

ठठास्तमुद्धृत्य मनुः कथितः कमलासन ।
ऋषिः कलिङ्गोऽतिच्छन्धश्छन्दः कामश्च देवता ॥ 30.179 ॥

जपेद्द्विरष्टौ लक्षाणि नासाध्यं तेन मन्द्रिणा ।
रतिश्च विरतिश्चोभे तस्य पार्श्वे स्थिते सदा ॥ 30.180 ॥

87 मन्त्र स्तयोश्छतुर्थ्यन्तं नाममात्रं त्रिशीर्षकम् ।
88 मदनः प्रथमो भाणस्तथैवोन्मादनोऽपरः ॥ 30.181 ॥

मोहनं द्वेषणं च द्वे दीपनं पञ्चमं स्मृतम् ।
मल्लिका केतकी जातिः पङ्कजं यूधिका तथा ॥ 30.182 ॥

पुष्पाणि क्रमशो भाणान्या हुस्तेषां मनुः पुनः ।
संविद्यर्णाश्च सहिताश्चतुर्थ्यन्तास्समाह्वयाः ॥ 30.183 ॥

तेषां सत्यन्तसहितं तैस्तेषामर्चनं विधुः ।
धनुरङ्कशपाशाश्च तस्यास्त्राणि मनोभुवः ॥ 30.184 ॥

मन्त्राश्च पूर्ववत्तेषां नामान्येव चतुर्मुख ।
कल्पकानोकह 89 प्राय पुष्पितद्रुमशोभिते ॥ 30.185 ॥

उद्याने मञ्जु 90 शिञ्जानपक्षिसङ्घिनिषेविते ।
मध्ये महाह्रदे पूर्णे सरोजैश्च विकस्वरैः ॥ 30.186 ॥

विष्टरे काञ्चने न्यस्ते शुभा स्तरणसंयुते ।
आसीनं सह देवीभ्यां सर्वाभरणभूषितम् ॥ 30.187 ॥

रक्तचन्दनलिप्ताङ्गं रक्तमाल्योपशोभितम् ।
चारुकुण्डलिनं कान्तं युवानं क्षौमवासनम् ॥ 30.188 ॥

वसानमप्सरोमुख्यै स्त्रीगणैः परितो वृतम् ।
ध्यायन्ननेन मनुना क्रमादर्घ्यादिभिर्यजेत् ॥ 30.189 ॥

91 कामगायत्रिया वापि यजेत मकरध्वजम् ।
जपादि पूर्ववत्सर्वं वश्यं च भुवनत्रयम् ॥ 30.190 ॥

मन्त्रिणो नित्ययुक्तस्य किमन्यैरतिसिस्तरैः ।

अश्विनोर्मन्त्रः

अश्विनोर्मन्त्रमधुना ब्रवीमि कमलासन ॥ 30.191 ॥

उद्धृत्य पूर्वमुद्गीथं विघ्नेशं पाटलप्रियम् ।
ब्रह्मसाधननामानं श्रीवत्सं च सुधामयम् ॥ 30.192 ॥

मायां सुभद्र 92 माकारमश्विनोरीरितो मनुः ।
आदिमर्धेन्दुसहितं बीजं तेनाङ्गकल्पना ॥ 30.193 ॥

भृगुर्द्रष्टा बृहच्छन्दः प्रतिपाद्यौ तथाश्विनौ ।
जपन्वैपञ्चलक्षेण सिद्धिस्सर्वार्णसाधनः ॥ 30.194 ॥

राजयक्ष्मादयो रोगा न तिष्ठन्ति तदन्वये ।
औषधानि च दक्षाणि व्याधीनामपनोदने ॥ 30.195 ॥

तत्करस्पर्शमात्रेण सर्वं वस्त्वौषधंभवेत् ।

सोमस्य मन्त्रः

पौर्णमास्यां तथा सोमं यजेत मनुवित्तमः ॥ 30.196 ॥

निगमादिं पूर्णचन्द्रमोतदेहं समन्दरम् ।
93 मधुमारुतविघ्नेशं माधवीं च विसर्जनम् ॥ 30.197 ॥

सोमस्य कथितो मन्त्रो बीजमुद्धारयामिते ।
सितमादिमनुस्वारं कुर्यात्तेनाङ्गसन्ततिम् ॥ 30.198 ॥

द्रष्टा कौमोदको नाम पङ्त्किच्छन्दस्स देवता ।
जपः पूर्ववदेवास्य गायत्र्या वा समर्चयेत् ॥ 30.199 ॥

फलं च सर्वं पूर्वोक्तं चन्द्रसालोक्यमप्यथ ।
इत्युक्तास्तिथमो देवास्तेषां मन्त्रास्समर्चनम् ॥ 30.200 ॥

फलानि च समस्तानि 94 क्रमेणाप्युदितानि ते ।
95 नाराध्यं तिथियोगैस्तैरैहिका मुष्मिकात्मकम् ॥ 30.201 ॥

फलं मन्त्रप्रसाधेन तद्देवानां महत्तया ।
नुकृतान्यपि कर्माणि विना विघ्नेशपूजया ॥ 30.202 ॥

न फलन्त्यन्तरायेण निहतानि चतुर्मुख ।
तदादौ कर्मकुर्वाणैराराध्यो विघ्ननायजः ॥ 30.203 ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मेतन्त्रे चर्यापादे तिथिदेवतामन्त्रोद्धारो नाम त्रिंशोऽध्यायः.

***** —–


  1. तिथियोगं. ↩︎

  2. अग्निः प्रजेनश्चेशानो. ↩︎

  3. मत्वं च. ↩︎

  4. पवनं हेरम्बं कामसंज्ञितम् । ↩︎

  5. कलिमादिं मध्य माया विजृम्भलमनामिका ॥ ↩︎

  6. र्दहेन्यं सेर्धनासिकम् ॥ ↩︎

  7. ज्ञात्वा. ↩︎

  8. नत्यन्तेनार्चयित्वातु. ↩︎

  9. वरेन्द्रम्. ↩︎

  10. मुखेन्दुं खिपूर्णं. ↩︎

  11. शंबरं. ↩︎

  12. राक्षसम्. ↩︎

  13. सुलभं मनुम् । दग्धमित्ययुतो मन्द्रोगणना. ↩︎

  14. भूतं भनद्भ विष्यं च. ↩︎

  15. पंचम. ↩︎

  16. आद्येन्दुसहितं भद्रं बाहुलं. ↩︎

  17. मायाश्चैव. ↩︎

  18. मनादिं च. ↩︎

  19. कलशं. ↩︎

  20. सवनम्. ↩︎

  21. सर्व. ↩︎

  22. माया-रामबिन्दुं. ↩︎

  23. दैनं च देवतापुरुषस्तथा. ↩︎

  24. पुषातथापरं. ↩︎

  25. चानुनासिक्ये. ↩︎

  26. द्विः पाद. ↩︎

  27. द्विरुदं पदम्. ↩︎

  28. पश्चिमं. ↩︎

  29. प्रपूर्वेलोटि मध्यमम्. ↩︎

  30. यमं चण्डाद्वि. ↩︎

  31. पत्रे. ↩︎

  32. नद्यादिनि समर्चयेत् - अर्घ्यादिषु तथार्चयेत्. ↩︎

  33. सुख. ↩︎

  34. ध्यायन्नेनं समाराध्य देवेशम्. ↩︎

  35. मधुनं माधवी. ↩︎

  36. तारमादिम्. ↩︎

  37. सुखमुखं ततः. ↩︎

  38. भुवनं. ↩︎

  39. अग्नि. ↩︎

  40. मनुबिन्दुमत्. ↩︎

  41. गोपनाह्वानम्. ↩︎

  42. कलशानुजौ. ↩︎

  43. देवंतम्. ↩︎

  44. अस्योद्धारः. ↩︎

  45. यान्तं नासिक्यसुमुखं नामस्वाहान्तमु. ↩︎

  46. इत्युद्धृतो. ↩︎

  47. राजशिखरम्. ↩︎

  48. वासुं मदनम्. ↩︎

  49. घोरं. ↩︎

  50. वद्भवेत्. ↩︎

  51. तिथि. ↩︎

  52. माधवं स्वाहा धनं दृष्टिं. ↩︎

  53. देवम्. ↩︎

  54. मन्दरा. ↩︎

  55. मुग्रात्मनामा. ↩︎

  56. जिह्वा कुम्भं च. ↩︎

  57. ह्वयम्. ↩︎

  58. गोधनं. ↩︎

  59. पवित्रमाकारं कमलम्. ↩︎

  60. सुभद्रं गुहालयं चक्रम्. ↩︎

  61. गोपनं. ↩︎

  62. पुरुषंत. ↩︎

  63. शीलं बहुकुक्षिम् . शीलं लम्बकुक्षिम्. ↩︎

  64. मत्रिधाम समन्वितम्. ↩︎

  65. पश्चात् पावकम्. ↩︎

  66. माधवम्. ↩︎

  67. मुखं वैराजविक्रमम् । तं तथा पश्चिमं पद्मं वैधरं मृगवल्लभम्. ↩︎

  68. यन्त्रितम्. ↩︎

  69. नतेन. ↩︎

  70. दहनं. ↩︎

  71. धिदेवता. ↩︎

  72. उद्गीथमादिम्. ↩︎

  73. मनुद्धारोऽपि. ↩︎

  74. ह्वयः. ↩︎

  75. ऋषिर्जीवो. ↩︎

  76. यष्टिमस्तकम्. ↩︎

  77. गोपनम्. ↩︎

  78. कलशम्. ↩︎

  79. स्पर्शादिं. ↩︎

  80. मास. ↩︎

  81. श्वेतं. ↩︎

  82. च द्विरुद्धरेत्. ↩︎

  83. मर्णपूर्णं द्वि. ↩︎

  84. मया. माया इति स्यात्. ↩︎

  85. मब्जौ जयम्. ↩︎

  86. सयशम्. ↩︎

  87. मन्त्रोद्वयोश्चतुर्थ्यन्तनामनीति विशीर्षकम् त्रिशीर्षकम्. ↩︎

  88. मादन इति स्यात् । प्रच्छाद इत्यपि क्वचित्पाठः. ↩︎

  89. श्रात. ↩︎

  90. गमन. ↩︎

  91. सामगायत्र्या. ↩︎

  92. मुद्धृत्य. अश्विनो. ↩︎

  93. मधुद्विण्मारुतं विघ्नो. ↩︎

  94. क्रमेणोदीरितानि. ↩︎

  95. नासाध्यं. ↩︎