श्रियादीनां मन्त्राः
श्रीभगवान् :—
देवीनां च श्रियादीनां मन्त्रान् विष्टरकल्पनम् ।
मन्त्रांश्च परिवाराणां प्रथमावरणादिषु ॥ 29.1 ॥
अनुक्रमेण वक्ष्यामि यथा तदनधारय ।
श्रीमन्त्रः
छन्दसामादिराद्यर्णं तुर्यमग्नेरनन्तरम् ॥ 29.2 ॥
अग्निश्च महती मायामनुस्वारश्च 1 पश्चिमः ।
एकाक्षरो मनुर्ब्रह्मन् श्रियस्सर्वफलप्रदः ॥ 29.3 ॥
2 ऋषिर्मङ्कणकः प्रोक्तश्छन्दो गायत्रमुच्यते ।
श्रीरस्य देवताऽङ्गानि स्वेन रूपेण कल्पयेत् ॥ 29.4 ॥
बिल्वानोकहमूले तु लक्षजापेन साधयेत् ।
समिद्भिश्च तदीयाभिर्जुहुयाल्लक्षसङ्ख्यया ॥ 29.5 ॥
श्रीपुष्पैः पायसान्नैश्च जुहुयादुक्तसङ्ख्यया ।
श्रियमाप्नोति महतीं श्रीकामो नात्र संशयः ॥ 29.6 ॥
प्रणवादि चतुर्थ्यन्तं नाम नत्यन्तमिरितम् ।
चतुरक्षरमन्त्रोयमपरश्श्रीसमाश्रितः ॥ 29.7 ॥
ऋषिरस्य धनाध्यक्षश्छन्दश्श्रीर्देवता तथा ।
प्रत्यक्षरं जपेल्लक्षं साधको मन्त्रसिद्धये ॥ 29.8 ॥
3 प्राग्वच्च बीजमङ्गानि फलमप्यस्य पूर्ववत् ।
निगमादिं भद्रहस्तं हैरम्बं मन्दरा 4 दिपम् ॥ 29.9 ॥
शुभदं दहनं मायां मारुतं माधवं तथा ।
सप्ताक्षरोऽयं श्रीमन्त्रस्सर्वमन्यद्यथापुरम् ॥ 29.10 ॥
गृहीत्वैकाक्षरं पूर्वं भानु 5 मग्निं च वामनम् ।
भल्लायुधं च महेन्द्रं हृषीकेशं सयष्टिकम् ॥ 29.11 ॥
शशाङ्कमौर्वं नासिक्यं सुभद्रं गदिनं परम् ।
जलाधिदैवमाद्यर्णं वै राजं गोधनं धरम् ॥ 29.12 ॥
पुलहं 6 कमलं शक्रं दहकं पाटलप्रियम् ।
गोधनं कमलं चित्रभानुं मायाविभूषितम् ॥ 29.13 ॥
प्रभञ्जनं मृगेशं च स्वाहायां विरमेत्ततः ।
षोडशाक्षरमन्त्रोऽयं श्रियः कमलसम्भव ॥ 29.14 ॥
ओङ्कारपूर्वं नत्यन्तं कमलं मन्दरं तथा ।
माहेन्द्रं वरुणं चादिदेवं चन्द्रं त्रिविक्रमम् ॥ 29.15 ॥
विघ्नेशं पञ्चबिन्दुं च हुतान्तं त्विदमिरितम् ।
बीजाति पूर्ववत्सर्वं परिगृह्य चतुर्मुख ॥ 29.16 ॥
7 पूर्वोक्तांश्चतुरोवर्णान् गृहीत्वातदनन्तरम् ।
देवानां दानवचनं हुमान्तं तदनन्तरम् ॥ 29.17 ॥
इत्युद्धृतो मनुश्चान्यश्श्रियः कमलसम्भव ।
उद्धृत्य पूर्वमुद्गीथं श्रीवत्समनलं तथा ॥ 29.18 ॥
वामनं यष्टि 8 शिरसं दिनेशं यान्तमब्जज ।
पञ्चबिन्दुं सयष्टिं च शुभदं वसुमस्तकम् ॥ 29.19 ॥
महामायाङ्कितं दण्डं ठ ठ इत्यवसानकम् ।
मङ्कणोऽस्य ऋषिश्छन्दो गायत्री श्रीश्च देवता ॥ 29.20 ॥
जपेल्लक्षत्रयं मन्त्रं बिल्वारण्येऽथ साधयेत् ।
वश्याकर्षणभूलाभ 9 खनिरत्नादिसिद्धयः ॥ 29.21 ॥
मण्डलध्यानप्रकारः
ध्यानमस्य प्रवक्ष्यामि श्रियो महेन्द्रमण्डले ।
आसीनायाः 10 परिजनानिन्द्रादीनर्चयेत्क्रमात् ॥ 29.22 ॥
चतुर्थ्यन्तं स्वनामोक्त्वा सत्यन्तं मन्त्रमब्जज ।
मण्डले तत्र पद्मस्य पूर्वादिषु दलेषु च ॥ 29.23 ॥
वासुदेवादयो प्योहाश्चत्वारो दिक्ष्ववस्थिताः ।
तेषां नाम चतुर्थ्यन्तं सत्यन्तं प्रणवान्वितम् ॥ 29.24 ॥
गग्गुलुश्च 11 कुरण्डश्च दमक 12 श्शललस्तथा ।
कोणवर्णेषु संस्थ्यप्य 13 मन्त्रांस्तन्नामपूर्वकम् ॥ 29.25 ॥
रतिस्सरस्वती भूमिः प्रितिः कीर्तिश्चतुर्मुख ।
शान्तिः पुष्टिश्च तुष्टिश्च श्रियोऽधस्ताच्च शक्तयः ॥ 29.26 ॥
नामानि तासां 14 मनवो यथापूर्वमुदीरिताः ।
पार्श्वे च दक्षिणे तस्याश्श्रियः पद्मनिधिस्थ्सितः ॥ 29.27 ॥
वामे शङ्खनिधिर्नाम तयोर्मन्त्रं यथापुरम् ।
धनदादीनां मन्त्राः
धनदो माणिभद्रश्च जृम्भलो नलकूभरः ॥ 29.28 ॥
पूर्णभद्रश्चलेन्द्रश्च कलिस्रक्शिबिकुण्डलः ।
पूर्वादिदिक्षु भविनामेताषां मनुरुच्यते ॥ 29.29 ॥
निगमादिं सुभद्रं च एकदन्तं सयष्टिकम् ।
धनदस्य मनुः प्रोक्तो नाम नत्यन्तमेव च ॥ 29.30 ॥
भल्लायुधं पद्मनाभं पञ्चिबिन्दुं सदण्डकम् ।
नलकूबरमन्त्रश्च कथितः कमलोद्भव ॥ 29.31 ॥
ककुभं पद्मनाभं च नासिक्यं 15 जृम्भलो मनुः ।
स्पर्शान्तं पुलहं चोर्ध्वलोकेशं तदनन्तरम् ॥ 29.32 ॥
माणिभद्रस्य 16 सदृशो मनुस्सर्वार्थसाधकः ।
पश्चिमं पीतवर्णाभं भुवनं यष्टिमस्तकम् ॥ 29.33 ॥
पूर्णभद्रस्य कथितो मनुरेवं चतुर्मुख ।
वक्रतुण्डं च भुवनं पुलहं भुवनं पुनः ॥ 29.34 ॥
नासिक्यं मनुरेतस्मिन् शिभिकुण्डलनामनि ।
ब्रह्माणमादिं पुलहं गुहालयसयष्टिकम् ॥ 29.35 ॥
उद्धारश्च मनोरेवं कथितः कलिमालिनः ।
वक्रतुण्डं पीतवर्णं हृषीकेशं च तद्ध्रवम् ॥ 29.36 ॥
चरेन्द्रमन्त्रः कथितः पूर्वादिषु यथाक्रमम् ।
मन्दरं पुलहञ्चैव गुहालयविदर्भितम् ॥ 29.37 ॥
17 माहेन्द्रस्य मनुः प्रोक्तस्सुभगः पुलहोदयः ।
18 धनाध्यक्षस्य मन्त्रोऽयं कथितः कमलासन ॥ 29.38 ॥
चिन्तामणिप्रभृतीनां मन्त्राः
पार्श्वेच दक्षिणे पूज्याश्श्रियः परिजना स्थिताः ।
खड्गदामोदरं चैव महामायां सबिन्दुकम् ॥ 29.39 ॥
चिन्तारत्नस्य कथितो मनुः पूर्वदलाश्रयः ।
श्रीवत्समग्निं 19 भुवनं सदण्डं च चतुर्मुख ॥ 29.40 ॥
कथित 20 श्छ बलामन्त्रस्तार्क्ष्यस्थाने समर्चनम् ।
इन्द्रादयो लोकपालास्स्वाशासु परितस्थ्सिताः ॥ 29.41 ॥
तृतीयावरणे 21 चापि बलाकी वनमालिनी ।
विभीषी शाङ्करी चैव दिक्षु पूर्वादिषु स्थिताः ॥ 29.42 ॥
सकञ्चुका वेत्रहस्ता मन्त्रास्तासां समाह्वयाः ।
विष्वक्सेनपदे पुष्पदारिणि मर्चयेत्ततः ॥ 29.43 ॥
कल्पकं पारिजातं च हरिचन्दनभूरुहम् ।
सन्तानमन्दरौ चैव द्वारभूषुनिवेशयेत् ॥ 29.44 ॥
बिल्वं च सरसीं चैव शतपत्रसमाकुलाम् ।
श्रियं परिगतां पक्षि 22 सङ्घातकलनिस्वनाम् ॥ 29.45 ॥
परिवारान् प्रकल्प्यैपं तत्तन्नामभिरर्चयेत् ।
चतुर्थ्यन्तैर्नतिपरैः प्रणवप्रमुखैस्तथा ॥ 29.46 ॥
श्रियो मालामन्त्रः
मालामन्त्रं प्रवक्ष्यामि श्रियः कमलसम्भव ।
उद्गीथमुक्त्वा प्रथमं नतिश्चतदनन्तरम् ॥ 29.47 ॥
उक्त्वा भगवती 23 शब्दे श्रीचतुर्थ्यन्तमन्वतः ।
धीरापदं च सम्बुद्धौ श्रीपूर्वं निलयं तथा ॥ 29.48 ॥
आकारपूर्वं भरणं शतमण्डित मन्वतः ।
शरीरेति च सम्बुद्धिः पदान्येवं समुद्धरेत् ॥ 29.49 ॥
24 भास्करं चानलं पञ्च बिन्दुं चन्द्रार्धशेखम् ।
कलात्मानं विसर्गान्तं बीजयेतत्समुद्धरेत् ॥ 29.50 ॥
द्विरुच्चार्यं भरपदं पापशब्दादनन्तरम् ।
अलक्ष्मीमितिवक्तव्यं नाशयेति द्विरीरयेत् ॥ 29.51 ॥
भास्करं चानलं पञ्च बिन्दुं यष्टिमनन्तरम् ।
त्रिरभ्यसेत्तथा सप्तजन्मपूर्वर्जितं तथा ॥ 29.52 ॥
अखलं प्रोच्य दारिद्र्यं पदं दूरात्तथा पदम् ।
उत्सारयेति द्विः प्रोच्य चन्द्रमादि 25 विसर्गितम् ॥ 29.53 ॥
26 त्रिस्त्रिः प्रोच्यं त्वदभक्त ? जनशब्दमनन्तरम् ।
वसुं 27 नियोजयेत्युक्त्वा धारयेति पदं पुनः ॥ 29.54 ॥
पूरयेति द्विरुच्चार्य पदमम्भोरुहासन ।
प्रपन्नलोकं ह्रीङ्कारं त्रिरुच्छार्य हयं गजम् ॥ 29.55 ॥
विविधं पशुमुच्चार्य निचयं तदनन्तरम् ।
दासीदासं परिजनं 28 तदन्तं द्विर्विलोकय ॥ 29.56 ॥
मां च सौम्येति चेत्युक्त्वा अवलोकनसंयुतम् ।
लक्ष्मीमग्निं विक्रमं च श्रीधरं यष्टिमस्तकम् ॥ 29.57 ॥
त्रिरुच्चार्य 29 यजेति द्विर्भवतीति च पद्मज ।
सुरासुरेत्यनुगुणं सिद्धगन्धर्वराक्षसम् ॥ 29.58 ॥
यक्षविद्याधरवदं निखिलं जन्तुशब्दकम् ।
मनोभिरिति चाराङ्क्ष्य समागममनन्तरम् ॥ 29.59 ॥
प्रियेति सम्बुद्धिपदं भास्करं सगुहालयम् ।
सार्धचन्द्रमिदं बीजं त्रिरुच्चार्य परादिते ॥ 29.60 ॥
वरं विविधमुच्चार्य सितमालाम्बरं तथा ।
धारणीति समुच्छार्यं निखिलं रोचिषं वसु ॥ 29.61 ॥
निचया भवती पद्मा सम्बुद्धौ तत्त्रयं पदम् ।
श्रीपदं चापि नत्यन्तमस्त्वित्यतत्क्रियापदम् ॥ 29.62 ॥
युष्मच्छब्दं चतुर्थ्यन्तं ठठान्तो मनुरीरितः ।
पूर्ववद्बीजमस्यापि मन्त्रं भङ्त्क्वाङ्गकल्पना ॥ 29.63 ॥
छन्दोऽतिच्छन्द एतस्य देवता श्रीर्धनादिपः ।
द्रष्टा फलं जपश्चास्य द्विषट्काक्षरवत्फलम् ॥ 29.64 ॥
वसुधामन्त्रः
30 अधुना वसुधामन्त्रं प्रवक्ष्यामि चतुर्मुख ।
ब्रह्मकोशं मुखं तस्य श्रीवत्सं ज्वलनं तथा ॥ 29.65 ॥
वामनं 31 माधवं 32 देवदत्तं श्रीबीजमेव च ।
कमलं बहुलं पञ्चबिन्दुं सुभगमन्वतः ॥ 29.66 ॥
भद्रहस्तं विधातारमनलं वामनं तथा ।
सुभगं गोपनयुतं विघ्नेशं च समिरणम् ॥ 29.67 ॥
करालमग्निमिकारं ठठान्तं षोडशाक्षरम् ।
तारादिवसुमध्यं च ठठान्तं हृदयादिषु ॥ 29.68 ॥
33 अङ्गेषु योजयेन्मन्त्रं नमस्कारपदं शृणु ।
सामाया च तथा सौम्या सम्बुद्धौ तत्पदद्वयम् ॥ 29.69 ॥
समयङ्करि चेत्यचुक्त्वा महाशब्दमनन्तरम् ।
टाबन्तस्समयाशब्दस्सम्बुद्धौ च ठठावधि ॥ 29.70 ॥
ह्यान्तमेति तथा पूर्वं गच्छेति पदमन्वतः ।
दिर्वक्तव्यं पदद्वन्द्वं 34 भगपूर्वावधीति च ॥ 29.71 ॥
वसुशब्दं देही शीर्षं ठठान्तं तेन 35 चाह्वयेत् ।
देवीं च वसुधां ध्यायेत्तप्तहालकरोचिषम् ॥ 29.72 ॥
सिंहासनस्थामाकल्पैरनेकैर्भूषितां सदा ।
गृहीतदाडिमिनालवामहस्तां तथेतरे ॥ 29.73 ॥
हस्ते दधानां सुभगं चिन्तारत्नं चतुर्मुख ।
पूर्णं नानाविधैरत्नैः कुम्भं 36 चोर्ध्वमुखं स्थितम् ॥ 29.74 ॥
दक्षिणे चरणाङ्गष्ठे पश्चिमामरभूरुहम् ।
पार्श्वयोरुभयोश्चापि वालव्यजनपाणिभिः ॥ 29.75 ॥
अन्याभिश्शुक्ल ताम्बूलधारिणीभिश्च सेविताम् ।
शङ्खपद्मनिदी चापि वमन्तौ विपुलं धनम् ॥ 29.76 ॥
परस्परमुखप्रेक्षौ परिवाहौ स्थितौ पुनः ।
अनुक्तपरिवाराश्च ग्राह्याश्श्रीमनुवर्त्मना ॥ 29.77 ॥
जपप्रकारः
समुद्रगायास्सरितस्स्रोतसि प्राङ्मुखस्थ्सितः ।
37 मस्तदघ्ने जपेल्लक्षं मन्त्रसिद्धौ समाहितः ॥ 29.78 ॥
वैशाखे मासिशुक्ले च पक्षे मासर्क्षपश्चिमे ।
व्रतं समापये 38 च्चक्रे पूजयेच्च महानिशि ॥ 29.79 ॥
मल्लिकावकुलैश्चान्यैस्सुगन्धैः कालजैश्शुभैः ।
गोघृतैश्च तिलैरन्यैर्यथाभिलषितैरलम् ॥ 29.80 ॥
तर्पणं मन्त्रजापं च नित्यमेतत्समाचरेत् ।
एवमाचरतस्सम्यङ्मन्त्रिणो यावदायुषम् ॥ 29.81 ॥
वसति श्रीर्गृहे तस्य सप्तजन्मसु निश्चला ।
धरण्याः मन्त्रः
मनुं धरण्या वक्ष्यामि साधनं च यथातथम् ॥ 29.82 ॥
छन्दसामादिमुद्धृत्य सूक्ष्मादृक्पुलहं तथा ।
हृषीकेशं विसर्गान्तं मनुरेकाक्षरः स्मृतः ॥ 29.83 ॥
गोपनं पञ्चबिन्दुं च ऊर्ध्वलोकेशमन्वतः ।
वीरसेनं कलान्तं च सङ्कर्षणसमाह्वयम् ॥ 29.84 ॥
39 सबिन्दुं गदिनं तानं ? कल्पयेद्धृतयादिषु ।
पैठरोस्य मुनिश्छन्दो दैवं गायत्रमिरितम् ॥ 29.85 ॥
देवता धरणी देवी जपेल्लक्षमतन्त्रितः ।
मनुर्धरण्यास्सप्तार्णः कथ्यते कमलासन ॥ 29.86 ॥
धनदं पावकं चादिं सुमुखं 40 गोधनाह्वयम् ।
नत्यन्तमेवं सप्तार्णो धरण्यास्सम्प्रदर्शितः ॥ 29.87 ॥
मनुश्चतुस्त्रिंशवर्णः कथ्यते कमलोद्भव ।
आदाय चादौ सप्तार्णान् कुम्भमादि मचामनु ॥ 29.88 ॥
शशाङ्कमादिं भुवनं सुभगं दत्तसञ्ज्ञितम् ।
सुभद्रमूर्ध्वलोकेशं विजयं विष्णुशीर्षकम् ॥ 29.89 ॥
मोहनाशं तथाकारं वै राजं चाग्निविक्रमम् ।
भल्लायुधं च महेन्द्रं हृषीकेशविगर्हितम् ॥ 29.90 ॥
सानुस्वारं च 41 कमलं पावकं सगुहालयम् ।
नासिक्यं त्रिदशाहारं त्रिविक्रमसमाह्वयम् ॥ 29.91 ॥
क्रोधरूपं च सुमुखं सोदकं कलशं ततः ।
प्रणवादिं च 42 महेन्द्रं वर्णानां च समुद्धरेत् ॥ 29.92 ॥
सुभद्रं देवत्तं च भास्करं यष्टिमस्तकम् ।
43 पावकं पाटलं ब्रह्म माहेन्द्रं च 44 गुहालयम् ॥ 29.93 ॥
प्रभञ्जनं पूर्णचन्द्रमौषधं यष्टिसंयुतम् ।
स्वाहायां विरतिर्मन्त्रः कथितः कमलासन ॥ 29.94 ॥
पूर्वोक्तं बीजमङ्गानि ऋषिश्छन्धश्च देवता ।
सरस्वत्याः मन्त्रः
सारस्वतं मनुवरं प्रवक्ष्यामि यथा तथम् ॥ 29.95 ॥
निगमादिं श्वेतरश्मिं मनुमर्धेन्दुशेखरम् ।
45 इत्युद्धरेत्स्वयं गां च द्रष्टा कश्यपनन्दनः ॥ 29.96 ॥
छन्दश्च देवी गायत्रं देवता भारती स्वयम् ।
लक्षमेकं नियमवान् जपेन्मन्त्रमतन्द्रितः ॥ 29.97 ॥
अतुला वाग्निभूतिस्स्याल्लभते ज्ञानमुत्तमम् ।
46 सकृद्ग्रहणमात्रेण ग्रहणं दृढमश्नुते ॥ 29.98 ॥
स्मृतिप्रमोषो नैवास्य सभायां न पराभवः ।
अन्यं सारस्वतं मन्त्रमधुना कथयामि ते ॥ 29.99 ॥
47 मुखमस्य ब्रह्मकोशं गोधनं चेन्दुशेखम् ।
कमलं पुलहं मायामनुस्स्वारपरिष्कृताम् ॥ 29.100 ॥
48 यष्टिं यष्ट्याविसर्गान्तः पूर्वोक्तं मन्त्रमन्वतः ।
त्रियक्षरस्य चोद्धारः कथितः कमलासन ॥ 29.101 ॥
द्रष्टा वसिष्ठो मन्त्रस्य विराट् छन्दस्सरस्वती ।
देवता जपनङ्ख्या च लक्षत्रयमुदाहृतम् ॥ 29.102 ॥
परापरज्ञो पाग्मी च सप्तकृतोऽभिमन्त्रितम् ।
जलं पिबेद्ध्रुवं तस्य कल्याणी वाग्भविष्यति ॥ 29.103 ॥
षडक्षरगणो मन्त्रः कथ्यते कमलासन ।
तारकं वरुणं चादिं नासिक्यं ज्वलनाह्वयम् ॥ 29.104 ॥
मधुसूदनमन्वक्छ हुम्फडन्तं नमस्कृतिः ।
ऋषिर्महेश्वरश्छन्दो विराट् सैव च देवता ॥ 29.105 ॥
दशाक्षरं मन्त्रराजं 49 वर्णोद्धारेण चोच्यते ।
व्यापी सुधारसश्चापि वैधरो विष्णुमस्तकः ॥ 29.106 ॥
वर्णा 50 स्त एव चत्वार स्समनन्तरमिरिताः ।
ईरयित्वा 51 तथा कुम्भं मधुसूदनमन्वतः ॥ 29.107 ॥
पञ्चान्तकः पाशपाणिं मधुसूधनपश्चिमम् ।
वैधरं रामसहितं विघ्नेसं बन्धुमस्तकम् ॥ 29.108 ॥
हुतान्तमर्णानुद्धृत्य मनुरेष समिरितः ।
अङ्गानि रूपं मन्त्रस्य बीजमेवं विभाजितम् ॥ 29.109 ॥
चन्द्रमण्डलमध्यस्थां तुषारनिचयप्रभाम् ।
वमन्तीममृतं वक्त्राज्जिह्वामध्यगतां स्मरेत् ॥ 29.110 ॥
ध्यायतो मन्द्रिणस्तस्य वाक्सिद्धिरतुला भवेत् ।
निगमादिं च नत्त्यन्तं सुभद्रं गदिनं तथा ॥ 29.111 ॥
कुम्भमादिं च विजयं 52 गोविन्दं मधुकेतनम् ।
विजयं माधवयुतं ठठान्तं 53 मनुमुद्धरेत् ॥ 29.112 ॥
ज्वलनं चादिमर्धेन्दु बीजमेवं समुद्दरेत् ।
द्रष्टास्य देवलश्छन्दो विराट् देवी रति स्तथा ॥ 29.113 ॥
दश लक्षं जपेन्मन्त्रं ततस्सिध्यति मन्त्रिणः ।
वश्याकर्षण विद्वेषमुखा च फलसन्ततिः ॥ 29.114 ॥
दूरादागमनं चापि प्रोषितस्याऽचिराद्भवेत् ।
सप्तवर्णान् समुच्चार्य पूर्वोक्तान् समनन्तरम् ॥ 29.115 ॥
पवित्रं पीठमन्वक्छ पञ्चबिन्दुमनन्तरम् ।
वैराजं 54 गोधनं वायुं ठठान्तं मनुमुद्धरेत् ॥ 29.116 ॥
एकचक्षुश्च पीठं च हृषीकेशं सबिन्दुकम् ।
बीजमुक्तं मनोरस्य मुनिरङ्गिरसः स्मृतः ॥ 29.117 ॥
छन्दश्च देवी गायत्रं देवता प्रीतिरुच्यते ।
साधयित्वा यथापूर्वं धर्मादिफलभाग्भवेत् ॥ 29.118 ॥
सप्तार्णाः पूर्व वद्ग्राह्याः करालं वामनं ततः ।
एकदृग्गोधनं चित्रभानुं च मधुसूदनम् ॥ 29.119 ॥
यष्टिं 55 करालमग्निं च ध्रुवं चाग्नेश्च योषितम् ।
तदेव बीजं द्रष्टा च मनुः कीर्तिश्च देवता ॥ 29.120 ॥
छन्दश्च देवी गायत्रं पूर्ववत्सिद्धिसाधने ।
वर्णानादाय सप्तादौ परिशिष्टान् समुद्धरेत् ॥ 29.121 ॥
श्रीवत्सं गोपनं भद्रपाणिं च विजयं तथा ।
स्पर्शनं वीरसेनं च शुभदं दहनं मनुम् ॥ 29.122 ॥
यष्टिं च भास्करोपेतं पावकं बिन्दुपञ्चकम् ।
सयष्टिं बीजसहितं श्रियस्स्वाहापदावधि ॥ 29.123 ॥
छन्दो विराट् गौतम र्षिर्देवता शान्तिरुच्यते ।
मनुना साधयेद्ब्रह्मन् पादुकादिफलं महत् ॥ 29.124 ॥
सप्तवर्णा यथापूर्वं नृहरिं पावकं तथा ।
महामायामनुस्वारं विजयं प्रणवादिकम् ॥ 29.125 ॥
उदयं क्रोधरूपं च भूधरं गोपनं तथा ।
ठठान्तमेवमुद्धृत्य मनुर्ज्ञेयो विचक्षणैः ॥ 29.126 ॥
द्रष्टा व्यासो विराट्छन्दो देवता तुष्टिरुच्यते ।
लक्षत्रयजपेनैव तुष्टिश्च महती भवेत् ॥ 29.127 ॥
सप्तार्णाः पूर्ववद्ग्राह्याश्शिष्टार्णस्योद्धृतिः क्रमात् ।
भास्करं पावकं पञ्चबिन्दुं यष्टिसमन्वितम् ॥ 29.128 ॥
पवित्रं भुवनं क्रोधरूपं भूधरमन्वतः ।
गोविन्दमाग्नेयी मन्वगुद्धृत्य मनुरीरितः ॥ 29.129 ॥
56 द्रष्टेरितस्तथेशाना पुष्टिश्छन्दो विराडभूत् ।
अष्टलक्षं जपेन्मन्त्रं पुष्टिकामस्समाहितः ॥ 29.130 ॥
भुक्त्वा भोगांश्च विपुलान् रसायनपुरोगमान् ।
अतलादिषु लोकेषु मन्त्री चरति देववत् ॥ 29.131 ॥
आधारशक्त्यादिमन्त्राः
योगासनाङ्गा न्याधारशक्त्यादीनि चतुर्मुख ।
यानि तेषां कल्पनेषु वर्णोद्धारपुरस्सरम् ॥ 29.132 ॥
मन्त्रान्वक्ष्याम्यानुपूर्व्यायथावदवधारय ।
ब्रह्मसोशमुखं विद्यात्पवित्रमृतधाम च ॥ 29.133 ॥
हृषीकेशं बिन्दुपरं प्रतर्दनमतः परम् ।
पद्मनाभं च नासिक्यं गोपनं सुभगं पुनः ॥ 29.134 ॥
आदिदेवं हुतवहं श्रीवत्सं कमलाह्वयम् ।
वैराजं वीनसेनं च नतिमेवं समुद्धरेत् ॥ 29.135 ॥
आधारशक्तिमन्त्रोयं कथितः कमलासन ।
चतुर्मुखं चतुर्भाहुं शुद्धस्फटिकवर्चनम् ॥ 29.136 ॥
किरीटहारकेयूरप्रमुखाकल्पभूषितम् ।
श्रीवत्साङ्कं शङ्खचक्रगदापद्मायुधैर्युतम् ॥ 29.137 ॥
तेजोमण्डलमध्यस्थं ध्यायेदाधाररूपिणम् ।
ब्रह्मकोशं दिनकरं भुवनं पापकाह्वयम् ॥ 29.138 ॥
गुहालयं ध्रुवं भूयः कमलं सगुहालयम् ।
पावकं मन्दरं पद्ममाकारं 57 विपुलं तथा ॥ 29.139 ॥
गोपनं च गदध्वंसं विनायकमनन्तरम् ।
58 प्रभञ्जनं माधवं च सत्यन्तं मनुमुद्दरेत् ॥ 29.140 ॥
एकवक्त्रं चतुर्भाहुं जपापुष्पसमद्युतिम् ।
शङ्कचक्रधरं क्रुद्धं 59 पद्मकौमोदकीधरम् ॥ 29.141 ॥
वह्निमण्डलमध्यस्थं 60 ज्वलनापीतविग्रहम् ।
61 सकलाभरणोपेतं ध्यायेत्कूर्ममनन्तरम् ॥ 29.142 ॥
अनन्तमन्त्रः
62 उद्गीधं भानुमाकारं यष्टिमादिं विनायकम् ।
द्विरदं विजयाकारं श्वसनं प्रथमं स्वरम् ॥ 29.143 ॥
63 नतिं चोद्धृत्य मन्त्रोऽयमनन्तस्य प्रदर्शितः ।
स्फटिकाद्रिप्रतीकाशं चतुर्भाहुं किरीटिनम् ॥ 29.144 ॥
पूर्णचन्द्राननं सौम्यं सितपुष्पौर्विराजितम् ।
लाङ्गलं मुसलं मुख्यकरयोर्दधतं शिवम् ॥ 29.145 ॥
जघन्यकरयोश्शङ्खचक्रद्वन्द्वं यथायथम् ।
नीलाम्बरधरं दंष्ट्राकरालवदनैर्युतम् ॥ 29.146 ॥
64 प्रशान्तवपुषा युक्तं सहस्रफलमुन्नतम् ।
फणामणिसहस्रांशु नीराजनविराजितम् ॥ 29.147 ॥
अनन्तवक्त्रकुहरैरुद्वमन्तमुदर्चिषम् ।
मण्डलीकृतनागेन्द्र 65 भोगवेष्टन विग्रहम् ॥ 29.148 ॥
ध्यायेदनन्तमुभयोः पार्श्वयोर्नागयोषितः ।
देव्यस्तस्य सुखासीनाः फणामण्डल मण्डिताः ॥ 29.149 ॥
भूमन्त्रः
ध्यात्वा भुवो मनुः पश्चाद्वर्णोद्धारेण वक्ष्यते ।
तारं सुभगनामानमर्चिष्मन्तं चतुर्मुख ॥ 29.150 ॥
सुमुखं 66 गोधनं वायुं नत्यन्तमिति कल्पयेत् ।
पीठकल्पनविधिः तन्मन्त्राश्च
तस्योपरि फणीन्द्रस्य तपनीयनिभां शुभाम् ॥ 29.151 ॥
चतुरश्रां महापीठिं कल्पयेन्मधुविद्विषः ।
धर्मादीनां चतुर्णां 67 त्वधर्मादीनां च तावताम् ॥ 29.152 ॥
पादानां कल्पनामन्तरा वक्ष्यन्ते कमलासन ।
आद्यर्णान् प्रणवादीं श्च सानुस्वारान् यथायथम् ॥ 29.153 ॥
चतुर्थ्यन्तानि नामानि प्रोच्यान्ते नतिमिरयेत् ।
मथ्ये सदाशिवपदं पादत्वेन प्रकल्पयेत् ॥ 29.154 ॥
तच्चतुर्थ्यन्तमादौ च भास्करं सगुहालयम् ।
नत्यन्तं चैव पादानां नवानां कल्पयेन्मनून् ॥ 29.155 ॥
ऋगादयश्चतुर्वेदा 68 स्तेषां तु मनवः पुनः ।
सानुस्वारां स्तदाद्यर्णान् प्रोच्यादौ कमलासन ॥ 29.156 ॥
चतुर्थ्यन्तानि नामानि ऋगादीनां सतीः पुनः ।
मनून् प्रकल्पयेदेवं भौतिकादिरहङ्कृतिः ॥ 29.157 ॥
तिस्रः प्रकल्पयेत्पश्चात्तासां मन्त्रान् ब्रवीमि ते ।
प्रणवादीन् पुल्लनयनानचामादिं सदण्डकम् ॥ 29.158 ॥
भौतिकादिरहङ्कारश्चतुर्थ्यन्तो नति स्तथा ।
पश्चिमं मारुतं चोर्ध्वलोकेशं बिन्दुमस्तकम् ॥ 29.159 ॥
पदं च तैजसं शिष्टं पूर्ववन्मनुरीरितः ।
कुम्भमौर्वं सनासिक्यं वै कारिपदमन्वतः ॥ 29.160 ॥
शिष्टं यथापुरं सर्वं मनुरन्यस्समिरितः ।
सत्वं रजस्तमश्चेति गुणान् पश्चात्प्रकल्पयेत् ॥ 29.161 ॥
सानुस्वारंस्तदाद्यर्णान् चतुर्थ्यन्तांस्तदाह्वयान् ।
मनून् प्रकल्पयेदेवं मह्याद्यैस्तत्प्रकल्पनम् ॥ 29.162 ॥
आत्मशब्जं चतुर्थ्यन्तं मह्यादि पदपूर्वकम् ।
हुम्फढन्तं च सत्यन्तं प्रयुञ्जीत मनुं पुनः ॥ 29.163 ॥
प्रणवं मन्दरं यष्टिं मुसलं पञ्चबिन्दुकम् ।
अमृतं गोपनयुतं विजयं माधवीं तथा ॥ 29.164 ॥
भद्रहस्तं मृगेशं च नतिमुद्धृत्य मन्त्रवित् ।
मन्त्रेणास्तरणाध्यासो वह्न्यादेर्मण्डलत्रयम् ॥ 29.165 ॥
तस्यो परि 69 ष्टादध्यासान् मन्त्रान् सर्वान्यथाक्रमम् ।
पावकं शशिनं सूर्यं 70 त्रयमाकारबिन्दुकम् ॥ 29.166 ॥
मनुमेवं समुद्धृत्य पद्मं चोरिकल्पयेत् ।
प्रणवं पश्चिमं यष्टिं पवित्रं विजयं तथा ॥ 29.167 ॥
दक्षं च गोपन 71 परं श्वसनं च विनायकम् ।
विष्णुं च मन्दरं स्वर्गमुद्धृत्या 72 जमनुः स्मृतः ॥ 29.168 ॥
श्रीवत्सादिद्वादशानां शक्तीनां तत्समाह्वयाः ।
चतुर्थ्यन्तास्सना 73 सिक्यास्तदाद्यर्ण पुरस्कृताः ॥ 29.169 ॥
मन्त्रोभद्रासनस्यैष कथितः कल्पाना क्रमः ।
ब्रह्मसनकादि परिवारकल्पनम्
ब्रह्मादय 74स्ततः पश्छात्सनकादित्रयं पुनः ॥ 29.170 ॥
75 विनायकश्च दुर्गा चमन्त्रिणो गुरुरस्वतः ।
प्रणवाद्याश्चतुर्थ्यन्ता नत्यन्ताश्च तदाह्वयाः ॥ 29.171 ॥
76 तानर्चयेच्च ब्रह्मदीन् परिचर्यामुखे हरेः ।
प्रथमावरणे यष्टव्याः
अष्टौ व्याप्त्यादिकाश्शक्तीः प्रथमावरणे जयेत् ॥ 29.172 ॥
पूर्ववत्तत्समाख्याभिर्मन्त्रैः पञ्चायुधान्यपि ।
दिव्यानि दिक्पतीन् सर्वानिन्द्रादीन् विहगाधिपम् ॥ 29.173 ॥
सेनेशं च चतुर्थ्यन्तैर्नत्यन्तैश्च स्वनामभिः ।
पूर्ववत्पूजयेद्प्रह्मन्
चण्डप्रचण्डमोमन्त्रः
77 द्वितीयावरणे ततः ॥ 29.174 ॥
चण्डप्रचण्डावन्तस्थ्सौ द्वार्स्थौ च मनुना जयेत् ।
निगमादिं खड्गधरमृतमोतं सयष्टिकम् ॥ 29.175 ॥
वक्रतुण्डं प्रचण्डं च पुण्डरीकाक्षगोपनौ ।
प्रभञ्जनं चाप्रमेयं नत्यन्तो मनुरीरितः ॥ 29.176 ॥
प्रथमं छन्द सामादिं पश्चिमं 78 ऋतधामकम् ।
सदण्डं पापहननं दहनं वक्रतुण्डकम् ॥ 29.177 ॥
प्रचण्डं पुण्डरीकाक्षं चतुर्थ्यन्तं तथा नतिः ।
चण्डप्रचण्डयोर्मन्त्रस्समुद्धृत्यार्णमिरितः ॥ 29.178 ॥
उदुम्बरस्य मन्त्रः
उदुम्बुरस्य सत्यन्तं 79 शान्तिमादिविभक्तिकम् ।
उदीरयेदधिष्ठात्री तस्य शान्तिश्च देवात ॥ 29.179 ॥
सरस्वति दक्षिणस्यां रतिश्चोत्तरदारुणि ।
श्रीः पश्चिमादधस्तस्य शान्तिर्भवति देवता ॥ 29.180 ॥
चतुर्थ्यनं च तन्नाममन्त्रश्चोक्तश्चतुर्मुख ।
कवाटे दक्षिणे विश्वनेत्रस्याद्देवता तथा ॥ 29.181 ॥
उत्तरे विश्ववक्त्रश्च देवता वेत्रदारुषु ।
वसन्ति वेदशास्त्राणि नाराचेषु तथा मराः ॥ 29.182 ॥
ऋषयः कीरदेशेषु भूतेशः पट्टिका भुवि ।
विश्वभावनवासस्स्यात्कन्दपट्टद्वयं तथा ॥ 29.183 ॥
नाम तेषां चतुर्थ्यन्तं मनुर्वास्तुपतेस्तथा ।
क्षेत्रेशमन्त्रः
क्षेत्रेशस्य मनुर्ब्रह्मन् छन्दसामादिमुद्धरेत् ॥ 29.184 ॥
नृसिंहमुदयं दक्षमृतधामसदण्डकम् ।
चतुर्थ्यन्तं नमोन्तं च तार्क्ष्यमग्रेहरेस्थ्सितम् ॥ 29.185 ॥
द्वारपार्श्वे शङ्खचक्रद्वयं तत्सञ्ज्ञयार्चयेत् ।
वच्मि 80 धामार्चने मन्त्रं छन्दसामादिमुद्धरेत् ॥ 29.186 ॥
वरुणं बन्धुशिरसं क्रोधरूपं वनस्रजम् ।
वरुणं देवदत्तं च पश्चिमं वह्निगोपनौ ॥ 29.187 ॥
शशाङ्क 81 मादिदेवान्तं वैधरं दहनं ततः ।
हृषीकेशं 82 पश्चिमं च रामं सुमुखमन्वतः ॥ 29.188 ॥
माधवं हुम्फडन्तं च 83 स्वाहान्तावधिको मनुः ।
दिङ्मार्तिनिर्देशः
दिङ्मार्तयश्चानुपूर्व्या कथ्यन्ते कमलासन ॥ 29.189 ॥
इन्द्रेशानौ नृसिंहश्च विरिञ्चश्च क्रमाद्भवेत् ।
दिङ्मार्तयोऽथवा शक्तिधरः पशुपति स्तथा ॥ 29.190 ॥
श्रीधरो धनदश्चेति यद्वाक्रोडाकृतिर्हरिः ।
नृसिंहश्श्रीधरश्चेति हयशीर्षाकृति स्तथा ॥ 29.191 ॥
अपि वा स्याच्चतुर्वक्त्र नरनारायणावुभौ ।
हरिः कृष्णश्च कथितो यद्वा सत्यादयः क्रमात् ॥ 29.192 ॥
वासुदेवादयो प्योहा यद्वा दिङ्मार्तयः क्रमात् ।
क्रमाच्च तोरणायान्ते पूर्वपश्चिमधामयोः ॥ 29.193 ॥
चतुरश्रायते धाम्नि पूर्वपश्चिमनासयोः ।
पूर्णश्च पुष्करश्छद्वावधिष्टाने पुनः क्रमात् ॥ 29.194 ॥
आग्नेये हस्तिवदनो याम्ये पशुपति स्तथा ।
वारुणे दक्षिणामूर्तिः कौभेरे विश्वरूपधृक् ॥ 29.195 ॥
शाङ्करे च चतुर्वक्त्र तस्मिन् भगवती तथा ।
अन्तर्मण्डलसम्बन्धिगोपुरोभयपार्श्वयोः ॥ 29.196 ॥
चन्द्रादित्यौ तथोर्व्यां तु 84 इन्द्रदिक्षु विदिक्षु च ।
मन्मथश्च विधाता च 85 वि श्वेशष्षण्मुख स्तथा ॥ 29.197 ॥
दुर्गाधनदरुद्राश्च क्षेत्रेश स्तदनन्तरम् ।
सोमेशानान्तरे चैव विष्वक्सेनः प्रतिष्ठितः ॥ 29.198 ॥
दक्षिणोर्वीतले सप्तमातरो वीरभद्रकः ।
विघ्नेशः पार्श्वयोस्तेषां ज्येष्ठां निरृतिभूतले ॥ 29.199 ॥
द्वितीयावरणे यष्टव्याः
इन्ध्रादयस्स्वासु दिक्षु द्वितीयावरणे पुनः ।
भगवत्प्रमुखे तर्क्ष्योद्वितीयावरणे ततः ॥ 29.200 ॥
बहिरावरणे यष्टव्याः
तदीयगोपुरद्वारपार्श्वयोः पुरषाच्युतौ ।
86 खलुरिकाधरित्रीषु वह्न्यादीनां दिशि क्रमात् ॥ 29.201 ॥
हयशीर्षः कर्षणश्च क्रोडाकृतिरनन्तरम् ।
प्रद्युम्नोऽनन्तनामानावनिरुद्धोनृकेसरी ॥ 29.202 ॥
चक्रं च मुसलं शङ्खं खङ्गं कौमोदकीं धनुः ।
वज्रं पद्ममिति प्रोक्तं प्रागादिषु तृतीयके ॥ 29.203 ॥
गोपुरोभयपार्श्वस्था द्वादशाश्शीतरश्मयः ।
यमाग्निमध्ये पसवः पितरो यमरक्षसोः ॥ 29.204 ॥
विश्वे देवाश्च मध्यस्था निरृतेर्वरुणस्य च ।
मरुतः पाशहस्तस्य श्वसनस्य च मध्यमाः ॥ 29.205 ॥
पाशिमारुतयोर्मध्ये मुनयस्सप्त च स्थिताः ।
कुबेरेशानयोर्मध्ये रुद्राश्चैकादवस्मृताः ॥ 29.206 ॥
क्षेत्रपालश्चतत्रैव प्राच्यादौ कुमुदादयः ।
87 मर्यादाह्वयसालस्य द्वारि पुर्णश्च पुष्करः ॥ 29.207 ॥
उर्वीतले समाराध्याः प्राङ्कणेक्लृप्तपीठके ।
स्थाप्याश्चै 88 पोत्तमगणाः प्राच्यादिष्वष्टनु क्रमात् ॥ 29.208 ॥
तथोपेन्द्रादयस्थ्साप्या महत्यावरणे ततः ।
महीतले मध्यगणा विश्वे शाद्या दिशि क्रमात् ॥ 29.209 ॥
जयादयो गोपुराणां बहिर्भूमौ व्यवस्थिताः ।
बलिपीठे बलिदानप्रमः
बलिपीठेषु सर्वत्र प्रथमावरणादिषु ॥ 29.210 ॥
आद्याश्छ 89 कामजाश्चैव ये भूताः प्राग्दिशि स्थिताः ।
प्रसन्नाः परितुष्टास्ते गृह्णन्तु बलिकाङ्क्षिणः ॥ 29.211 ॥
भूमौ प्योम्नि तथा वृक्षपर्वतादिषु विष्ठिताः ।
90 विनायक क्षेत्रपालाश्शूराश्च कुमुदादयः ॥ 29.212 ॥
सर्वैः पारिषदैश्चान्यैप्सार्धं गृह्णन्तु ते बलिम् ।
91 चण्डादयोथ द्वारस्थाश्चतुर्थ्यन्तैस्स्वानामभिः ॥ 29.213 ॥
प्रणपाद्यैश्च नत्यन्तैर्देवीपरिजनान्विताः ।
सवाहनास्ते सम्पूज्यास्स्वे स्वे देशे चतुर्मुख ॥ 29.214 ॥
बलिपीठेषु सर्वेषां बलिग्रहणकाङ्क्षिणाम् ।
तत्तन्नामसमुच्चार्य बलिर्देयो विचक्षणैः ॥ 29.215 ॥
क्षेत्राशार्चनं विना बलिदानस्य निष्फलत्वम्
धामेशानं विना तेन बलिदानेन योऽर्चति ।
92 हरन्ति राष्ट्रं राजानं धाम चात्मानमेव च ॥ 29.216 ॥
परिवारानसभ्यर्च्यतथैवाग्नेस्समिन्धरम् ।
93 भोगैरकृत्वा देवस्य पूजा स्यान्निष्प्रयोजना ॥ 29.217 ॥
तस्माद्यथोक्तमार्गेण पूजनं स्थानवृद्धिदम् ।
वर्धनं राजराष्ट्राणां प्रजानां वृद्धिकाङ्क्षिणाम् ॥ 29.218 ॥
दृश्यादृश्येन रूपेण स्थितानां बलिकाङ्क्षिणाम् ।
भूतानां भूतिकामेन देयोऽवश्यं बलिस्सदा ॥ 29.219 ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मे तन्त्रे चर्यापादे श्रियादिपरिवार मन्त्रवर्णनं नाम एकोनत्रिंशोऽध्यायः.
-
पञ्चमः. ↩︎
-
मङ्कणक इत्यत्र द्विदियोऽनुनासिकोवर्णः स्वनर्ग प्रथमद्वितीयाभ्यां पृथक् सन्दानितो द्विधा पठ्यते. ↩︎
-
प्रागुक्त. ↩︎
-
भिधम् ॥ शुभदं मन्दरं. ↩︎
-
मुग्रं च. ↩︎
-
कलहं शक्र. ↩︎
-
इदमेकं पद्यङ्क्वचिन्न. ↩︎
-
सहितम्. ↩︎
-
धन. ↩︎
-
परिजनान् दुर्गादी. ↩︎
-
करण्डश्च. ↩︎
-
शलबस्तथा । कणवर्णेषु संस्थाप्य मन्त्रस्थं नामपूर्वकम्. ↩︎
-
मन्त्रान्तं मन्त्र. ↩︎
-
मुनयो. ↩︎
-
जृम्भते. ↩︎
-
कथितो. ↩︎
-
मुख्येन्द्र. ↩︎
-
धान्याध्यक्ष. ↩︎
-
सवनम्. ↩︎
-
श्शबला. ↩︎
-
नापि. ↩︎
-
सङ्खातालिकुल. ↩︎
-
शब्दं. ↩︎
-
" भास्करं—द्विरीरयेत्" इत्यन्तं श्लोक द्वयं क्वचिदधिकमस्ति. ↩︎
-
विसर्जितम् ॥ ↩︎
-
प्रोच्यत्वद्भक्तमनलं. ↩︎
-
निगममन्वक्च. ↩︎
-
तल्लन्तं द्विर्विलोचनम् ॥ ↩︎
-
जये. ↩︎
-
वसुधाया मनुर्ब्रह्मन् वक्ष्यामि श्रूयतान्त्वया. ↩︎
-
मारुतं. ↩︎
-
मारुतं देवदत्तम् - मारुतं देवं दत्तम्. ↩︎
-
योजयेच्च नमस्कारपदं शृणु सयाचित ? । तथा सौम्या च सम्बुद्धौ समयेति पदद्वयम् ॥ अभयङ्करि चेत्युक्त्वा महाशब्दमनन्तरम् । टाबन्त स्समयावन्त ? स्सम्बुद्धौ च तथाविधि ॥ ↩︎
-
भगपूर्वन्नतीति च. ↩︎
-
मह्वयेत् । ↩︎
-
चधोमुख. ↩︎
-
स्तनदघ्ने. ↩︎
-
दन्ते. ↩︎
-
सबिन्दुमङ्ग. ↩︎
-
दरगोधने । नत्यन्तमेव सप्तार्णोमनुस्सम्प्रति दर्शितः ॥ ↩︎
-
कमलां. ↩︎
-
सुभगं पुलहान्तं. ↩︎
-
" पानकं-यष्टिसंयुतम्" इत्येकः श्लोकः क्वचिदधिको दृश्यते. ↩︎
-
सुधालयम्. ↩︎
-
इत्युच्चरे त्स्वयं चाङ्गं. ↩︎
-
सकृच्छ्रवण. ↩︎
-
खस्य च ब्रह्मलोकेशं गोधनं चन्द्रशेखरम्. ↩︎
-
यष्टिवर्जंविसर्गान्तं. ↩︎
-
अर्णोद्धारे च पर्वते. ↩︎
-
र्ण. ↩︎
-
जले शानं. ↩︎
-
दरं गोविन्दमग्नियुक् । ↩︎
-
मनुरीरितः ॥ ↩︎
-
गोपनयुतं. ↩︎
-
↩︎ -
हारितो मुनिरीशाना. ↩︎
-
पुलहं. ↩︎
-
चतुर्गतिं माधवं च सत्यन्तः कुर्मामन्त्रराट् ॥ ↩︎
-
शक्तिं. ↩︎
-
ज्वालाविततविग्रहम् । ↩︎
-
सजलाभरणोपेतं ध्यायेदग्नि. ↩︎
-
उद्गीथ मंशु. ↩︎
-
मतिं. ↩︎
-
पृष्ठतो नागवपुषं. ↩︎
-
बोगिवेष्टनविष्टरम्. ↩︎
-
गोपनाह्वानं. ↩︎
-
च नङ्पार्वाणां च. ↩︎
-
स्तस्यैषांस्तन्मनुः पुनः । ↩︎
-
तदध्यासं मन्त्रान्वच्मि. ↩︎
-
त्रयं साकारबिन्दुकम् ॥ अनुरक्तः. ↩︎
-
युतं. ↩︎
-
ब्जमनुः स्मृतः. ↩︎
-
सिक्यं तावदन्य. ↩︎
-
स्त्रयः. ↩︎
-
विनायकञ्च दुर्गां च मन्द्रिणा. ↩︎
-
तैर. ↩︎
-
तृतीया. ↩︎
-
त्वृत साधनम् । ↩︎
-
शान्तिं तादृग्विभक्तिताः. ↩︎
-
तामर्चने. ↩︎
-
मादिदेवं च. ↩︎
-
पवित्रं च. ↩︎
-
स्वाहयानसितं मनुः । ↩︎
-
आग्न्यादिषु च दिक्षु च. ↩︎
-
विघ्नेश. ↩︎
-
" खलुरिकाधरित्रीषु खड्गं कौमो दकीं धनुः" इत्येव क्वचिदस्ति. मध्यगतः “वह्न्यादीनां—मुसलं शङ्खम्” इति श्लोकखण्डः नदृश्यते. ↩︎
-
मध्यान्तर्हारसालस्य. ↩︎
-
वोत्तर. ↩︎
-
कुर्मजा. ↩︎
-
विनायकः क्षेत्र पालः कुश्माण्डः. ↩︎
-
धेनुकान्ता. ↩︎
-
वसन्ति. ↩︎
-
होमै. ↩︎