२८

.

श्रीभगवान् :—-

यज्ञमूर्तिमन्त्रः

हेब्रह्मन् यज्ञवपुषमन्त्रस्सम्प्रति कथ्यते ।
महाफलं प्रोच्यमानमिमं त्वमवधारय ॥ 28.1 ॥

आत्मने इति पर्यन्तमष्टाक्षरवदुद्धरेत् ।
कालाद्यनलमध्यं च विग्रहान्तं पदं ततः ॥ 28.2 ॥

चतुर्थ्यन्तो मूर्तिशीर्षं यज्ञादिपदमन्वतः ।
तद्विभक्त्यन्तमपरं ठठान्तं मनुरीरितः ॥ 28.3 ॥

बी मस्या नलं मुख्यमनुस्वारान्तमुद्धरेत् ।
अङ्गानि चानलादीनि षड्भारान्तान्यनुक्रमात् ॥ 28.4 ॥

सानुस्वाराणि योज्यानि क्रतुर्द्रष्टा विरुट्पुनः ।
छन्धश्च यज्ञमूर्त्यात्मा देवता भगवान् हरिः ॥ 28.5 ॥

लक्षत्रयं जपःकार्यो मन्त्रस्यास्य प्रसाधने ।
फलं प्रसूते धर्मादिपुरुषार्थ चतुष्टयम् ॥ 28.6 ॥

अन्नाधिपतिमन्त्रः

अन्नाधिपतिमन्त्रस्य प्रभापोरूपमेव च ।
कथ्यते सम्प्रति ब्रह्मन् न वाच्यं यस्य कस्य चित् ॥ 28.7 ॥

प्रणवादिर्मनुस्सर्वो विशेषस्तूच्यतेऽधुना ।
1 मुख्यमर्णं भद्रपाणिं द्विरुक्तं तदनन्तरम् ॥ 28.8 ॥

आदिदेवं धनपतिं मायामुद्धृत्य पश्चिमम् ।
विष्णुं विजयनामानमाद्यं वायुमनन्तरम् ॥ 28.9 ॥

देवदत्तं च दक्षादिमाद्यं दक्षं पुनस्तथा ।
आदिदेवं मनुष्येशं द्विरुक्तं मुख्यमन्वतः ॥ 28.10 ॥

मन्दरं पापहननमृतधा वैष्णवाक्षरम् ।
शङ्खमादिमचामन्वग्द्विः प्रोक्तं प्रेतनायकम् ॥ 28.11 ॥

प्रणवादिं ठठेत्यन्तमिति मन्त्रं चतुर्मुख ।
बीजमस्य प्रवक्ष्यामि द्वादशात्मानमुद्धरेत् ॥ 28.12 ॥

ज्वलनं वामनं बिन्दुमेतदेवाङ्गमुच्यते ।
आकारादिक्रमाद्दीर्घस्वरभक्तिर्विशेष 2 कृत् ॥ 28.13 ॥

अस्त्रे विशेषो विष्णुश्च विसर्गश्च समिरितः ।
व्यासो द्रष्टास्य मन्त्रस्य छन्दस्तु बृहती तथा ॥ 28.14 ॥

देवतान्नपतिःप्रोक्तो मन्त्रस्यास्य चतुर्मुख ।
अन्यथा शृणु वक्ष्यामि 3 बह्वन्नफलदं शुभम् ॥ 28.15 ॥

नत्यन्तं प्रपणवं पूर्वं वरुणं च त्रिविक्रम् ।
क्रोधरूपं प्रचण्डं च विष्णुं वरुणमन्वतः ॥ 28.16 ॥

माधवं पूर्णचन्द्रं च पीयूषात्मानमेव च ।
आदिं वैश्वानरं मुख्यं पवित्रं प्रणवादि च ॥ 28.17 ॥

एकनेत्रमकारं च श्वसनं माधवं ततः ।
मन्दरं प्रणवाद्यं च दीप्तिमन्त्रं चतुर्मुख ॥ 28.18 ॥

गोपनं जृम्भलं विष्णुं माहेन्द्रं गोपनं ततः ।
वायुवाद्यं ठठान्तं च वर्णोद्धार इतीरितः ॥ 28.19 ॥

बीजमङ्गानि पूर्वोक्तमृषिरस्य पराशरः ।
छन्दश्छ देवी गायत्रं देवतान्नपतिर्भवेत् ॥ 28.20 ॥

पूर्णेन्धुबिम्बमध्यस्थे सितपद्मे विकस्वरे ।
आसीनं धवलाकारं निलकुञ्छितमूर्धजम् ॥ 28.21 ॥

दुकूलक्षौमवसनं बालयोग्य 4 विभूषणम् ।
कलधौतमयं प्रातं वायसान्नेन पूरितम् ॥ 28.22 ॥

बिभ्राणं दक्षिणे हस्ते दध्योदन मथेतरे ।
ध्यायेल्लक्षत्रयं धीमान् जपेत्तद्गतमानसः ॥ 28.23 ॥

अनेन जुहुयाच्चाग्नौ नियतं मन्त्रवित्तमः ।
बह्वन्नत्वमवाप्नोति सर्वमिष्टं लभेति च ॥ 28.24 ॥

शक्तीशमन्त्रः

शक्तीशमन्त्रमधुना कथयामि चतुर्मुख ।
आदितस्सप्तवर्णानामुद्धारः पूर्वमिरितः ॥ 28.25 ॥

क्रोधनं हृदयाह्लादं भुवनं भास्करं ततः ।
गुहालयमनुस्स्वारं रविमग्निं च मारुतम् ॥ 28.26 ॥

सयष्टिं पीतमाद्यर्णं कमलं क्रोधरूपिणम् ।
माधवीं पञ्चबिन्दुं च हननं चाप्रमेयकम् ॥ 28.27 ॥

वै राजमपप्रमेयं च पुरुषात्माच माधवः ।
नारायणं चतुर्थ्यन्तं ठठेति मनुरीरितः ॥ 28.28 ॥

अंशुमान् वीतिहोत्रश्छ वामनो बिन्दुमस्तकः ।
अङ्गं च बीजं पूर्वोक्तमृषिश्चापि पराशरः ॥ 28.29 ॥

छन्दश्च देवी गायत्रं शक्तीशो देवता तथा ।
जपेद्द्वादश लक्षं तु प्राप्नु यात्सर्वमिप्सितम् ॥ 28.30 ॥

कालनेमिमन्त्रः

कालनेमिमनुर्ब्रह्मन् कथ्यते सर्वसाधकः ।
आद्यर्णाः पूर्ववत्सप्तपीयूषात्मा त्रिविक्रमः ॥ 28.31 ॥

उग्रदेहः प्रचण्डश्च विष्णुः कलशमाधवौ ।
कमलं गोपनयुतं महेन्द्रं विष्णुमस्तकम् ॥ 28.32 ॥

विघ्नेशं 5 देवदत्तं च दक्षं मायापरिष्कृतम् ।
6 पतङ्गमृतधामानं वैधरं च चतुर्गतिम् ॥ 28.33 ॥

आद्यं सुधारसं मायामत्रिर्गोपनहव्यवाट् ।
आद्यं सुमुख 7 माद्यं च श्वसनं चाप्रमेयकम् ॥ 28.34 ॥

हुम्फडन्तं ठठपरं मनुरेवं समुद्धृतः ।
बीजं वक्ष्ये दिनकरं भुवनं यष्टिमस्तकम् ॥ 28.35 ॥

क्रुद्धादि पूर्ववच्चाङ्गं नारदो मन्द्रदर्शनः ।
छन्धो विराट् देवता च कालनेमिश्छतुर्मुख ॥ 28.36 ॥

जपसङ्ख्याफलं चापि द्विषट्काक्षरवद्भवेत् ।

त्रैलोक्यमोहनमन्त्रः

त्रैलोक्य मोहनं मन्त्रं कथयामि यथातथम् ॥ 28.37 ॥

उद्गीथं कमलं पीतं वामनं 8 ध्रुवमस्तकम् ।
एकाक्षरो मनुरयं देवताङ्गमनुक्रमात् ॥ 28.38 ॥

षड्भिर्युतमचामाद्वैस्यानुस्वारं प्रजयोजयेत् ।
ऋषिर्वृद्धमनुश्छन्धो देवी गायत्रमिरितम् ॥ 28.39 ॥

त्रैलोक्यमोहनो देवो देवता जपतर्पणम् ।
होमश्च फलमप्यस्य निधिस्थानोपलम्भनम् ॥ 28.40 ॥

जपन् भूयस्तथा सर्वं दुर्लभं फलमश्नुते ।

तस्यैव मन्त्रान्तरम्

षोडशार्णो मनुर्ब्रह्मन् त्रिलोकीमोहनात्मकः ॥ 28.41 ॥

उच्यते पूर्ववत्सप्तवर्णानाद्यान् समुद्धरेत् ।
त्रैलोक्य मोहनपदं चतुर्थ्यन्तं ततः परम् ॥ 28.42 ॥

तद्विभक्तिपदं विष्णुपदं स्वाहान्तमुद्धरेत् ।
मनुरेष स एवाङ्गं बीजं पूर्ववदीरितम् ॥ 28.43 ॥

मुनिः पुनस्त्यश्छन्दश्च देवता पूर्ववत्तथा ।
जपसङ्ख्या फलं चैव मूलमन्त्रवदिष्यते ॥ 28.44 ॥

मन्त्रो नवाक्षरश्चान्यस्त्रिलोकी मोहनात्मकः ।
त्रैलोक्य मोहनपदं चतुर्थ्यन्तं नमस्तथा ॥ 28.45 ॥

बीजमङ्गमयं चैव सर्वकामफलप्रदम् ।
9 निगमादिं चतुर्थ्यन्तं पदं त्रैलोक्य मोहनम् ॥ 28.46 ॥

अंशुमालिनमग्निं च पञ्चबिन्दुं सयष्टिकम् ।
शङ्खिनं पुलहं पञ्च बिन्दुयष्टिसमन्वितम् ॥ 28.47 ॥

तद्बीजं च द्विरभ्यस्य नतिश्च तदनन्तरम् ।
द्वादशार्णात्मकोमन्त्रस्त्रिलोकीमोहनात्मकः ॥ 28.48 ॥

प्रत्यक्षरं लक्षजपो द्वादशाक्षरवत्फलम् ।

कामकामेश्वरीमन्त्रः

कामकामेश्वरी नाम मन्त्रस्सर्वफलप्रदः ॥ 28.49 ॥

उद्गीथं पूर्वमुचार्य भास्करं ज्वलनं ततः ।
महामायां यष्टियुतामित्येकाक्षरमुद्धरेत् ॥ 28.50 ॥

ेतदेवाङ्गमुदितं शौनको मुनिरुच्यते ।
छन्दश्च देवी गायत्रं देवता पुरुषोत्तमः ॥ 28.51 ॥

लक्षमेकं जपेन्मन्त्री सर्वान् कामानवाप्नुयात् ।
शङ्खकुन्देन्दुधवलं चतुर्चाहुं किरीटिनम् ॥ 28.52 ॥

गरुडारूढमारोप्य देवीं वामोरुविष्टरे ।
दाडिमिकुसुमप्रख्यां सर्वाकल्पपरिष्कृताम् ॥ 28.53 ॥

वाशाङ्कुशधरां लक्ष्मीं कामविह्वाललोचनाम् ।
कामकामेश्वरीमेव ध्यायेदेकाग्रमानसः ॥ 28.54 ॥

त्रैलोक्यमोहनमालामन्त्रः

त्रैलोक्यमोहनं नाम मनुस्सम्प्रतिकथृते ।
ब्रह्मकोशमुदीर्यादौ नत्यन्तं तदनन्तरम् ॥ 28.55 ॥

पदानि सम्बुध्यान्तानि क्रमेणोद्धारयेत्सुधीः ।
पुरुषाद्युत्तमपदं रुपमप्रति 10 मेति च ॥ 28.56 ॥

लक्ष्म्यादि च निवासान्तं सकलादिं जगत्पदम् ।
क्षोभणान्तं च सर्वादिपदं स्त्रीहृदयावधि ॥ 28.57 ॥

विदारणशिरश्चापि त्रयादि भुवनावधि ।
उन्मादकरपर्यन्तं सुरासुरपदं ततः ॥ 28.58 ॥

मनुजेति समुच्चार्य सुन्दरीजनमन्वतः ।
मनांसीति समुच्चार्य तापयेति चतुर्मुख ॥ 28.59 ॥

दीपयेति पदं पश्चाच्छोषयेति च मारय ।
स्तम्भय द्रावयाकर्षपर्यन्तं च क्रियापदम् ॥ 28.60 ॥

द्विर्वक्तव्यं 11 ततो ब्रह्मन् परमं सुभगावधि ।
सम्बुध्यन्तं च सौभाग्यं 12 करेति पदमन्वतः ॥ 28.61 ॥

सर्वकामप्रदं प्रोच्य पदं चामुकमित्यतः ।
हनेति द्विस्समुच्चार्य चक्रेण गदयेति च ॥ 28.62 ॥

खड्गेन सर्वबाणैश्च द्विर्भिन्धेति पठेत्ततः ।
पाशेनेति ततो बन्ध बन्धेति च पदद्वयम् ॥ 28.63 ॥

अङ्कुशेनेति सम्प्रोच्य ताडयेति द्विरभ्यसेत् ।
कुर्वन्ति द्विस्समुच्चार्य किं तिष्ठपदमन्वतः ॥ 28.64 ॥

तावद्यावत्पदे प्रोच्य समीहितपदं ततः ।
मे सिद्धिर्भवतूच्चार्य 13 मे हुम्फडिति शीर्षकम् ॥ 28.65 ॥

इत्येष मालामन्त्रस्य समुद्धारः प्रदर्शितः ।
निगमादिरनन्तं च और्वं चन्द्रार्ध शेखरम् ॥ 28.66 ॥

बीजमेवं समुद्धृत्य षडङ्गानि मनुः पुनः ।
षोढा विभज्य कर्तव्या ऋषिस्स्यान्नलकूबरः ॥ 28.67 ॥

छन्दोऽतिच्छन्दनामास्य देवता पुरुषोत्तमः ।
14 ध्यायेत्तमेव पुरुषं साधयेन्मन्त्रवित्तमः ॥ 28.68 ॥

अष्टबाहुं विशालाक्षं गरुडारूढमच्युतम् ।
अकलङ्कशशिप्रख्यं पूर्णेन्दुसदृशासनम् ॥ 28.69 ॥

सुभ्रूललाटमकुटं लावण्यामृतसागरम् ।
पीतकौशेयवसनं 15 कपोलामृष्टकुण्डलम् ॥ 28.70 ॥

चक्रं च मुसलं बाणमङ्कुशं दक्षिणे भुजे ।
शङ्खं कौमोदकीं शार्ङ्गं पाशं वामेषु बिभ्रतम् ॥ 28.71 ॥

सर्वलक्षणसम्पूर्णं सर्वाकल्पपरिष्कृतम् ।
दिव्य चन्दनलिप्ताङ्गं दिव्य 16 स्रग्दामभूषितम् ॥ 28.72 ॥

देव्योऽष्टौ परितस्तस्य वालव्यजनपाणयः ।
वीजयन्ति सदा देवं कामविह्वललोचनाः ॥ 28.73 ॥

एताभ्यो बहिरष्टौ च दिक्षु चक्रादिधारिणः ।
पुरुषा देवदेवेशं प्रणिपत्य बहिस्थिताः ॥ 28.74 ॥

एवं सपरिवारं तं ध्यात्वा देवं समाहितः ।
सप्ताहं मन्त्रजापेन वश्या मनुजयोषितः ॥ 28.75 ॥

दिवसेषु च तावत्सु पुनर्यक्ष्यादियोषितः ।
तिष्ठन्ति सम्मुखास्सर्वा मन्मथाविष्टचेतसः ॥ 28.76 ॥

भजन्तिमन्त्रिणं मन्त्र 17 वैभवान्मोहयन्ति च ।
18 जपी भूयास्तथा कामान् सर्वान्विन्दत्यसंशयः ॥ 28.77 ॥

किं पुनर्बहुनोक्तेन देवः प्रत्यक्षतामियात् ।
शान्तिः पुष्टिश्च 19 धर्मश्च कामार्थौ मोक्ष एव च ॥ 28.78 ॥

पातालाकाशगमनमन्तर्धानमदृश्यताम् ।
निधानं 20 फलसिद्धिं च खननं चौषधं तथा ॥ 28.79 ॥

पादुकां गुलिकां चापि रसायनमनुत्तमम् ।
21 अक्षसूत्रं दरं खड्गं तथा वेतालसाधनम् ॥ 28.80 ॥

फलानि दुर्लभान्येव सिध्यन्ति मनुवैभवात् ।
प्रत्येकं न प्रदर्शन्ते ग्रन्थविस्तरभीरुभिः ॥ 28.81 ॥

फलानां दिगियं प्रोक्ता दुर्लभानां चतुर्मुख ।
त्रैलोक्यमोहनाख्यस्य कामकामेश्वरस्य च ॥ 28.82 ॥

एकाक्षरमुखस्योक्तं फलं मन्त्रस्य पद्मज ।

यज्ञवराहमन्त्रः

मन्त्रं यज्ञवराहस्य वक्ष्यामि कमलासन ॥ 28.83 ॥

गृहीत्वा पूर्ववत्सप्त वर्णानाद्याननुक्रमात् ।
स्पर्सान्तं भास्करं चाद्यं 22 कलशं प्रणपादि च ॥ 28.84 ॥

23 अनलं चादिदेवान्तं भास्करं मधुसूदनम् ।
श्वसनं वर्णमाद्यं च ओषधीशमचां मुखम् ॥ 28.85 ॥

वह्निं प्रचेतसं मुख्यं मारुतं प्रणवादि च ।
मुसलिं चन्द्रधवलमचामादिमनन्तरम् ॥ 28.86 ॥

श्रीवत्समादिमनलं महामायाग्निगोपनम् ।
दरं विष्णुं खड्गधरं 24 विजयं श्रीधरं तथा ॥ 28.87 ॥

पियूषरूपमनलं माधवं वैधरं तथा ।
आदिं पवित्रधृष्टिं च प्रणवादिविभूषितम् ॥ 28.88 ॥

श्वसनं चाप्रमेयं च कलात्मा विष्णुमस्तकः ।
वरुणं दहनाक्रान्तं वैधरं माधवाक्षरम् ॥ 28.89 ॥

वरुणं चादिवर्णं च तथैपोग्रात्म 25 सम्मितम् ।
अनलं 26 माधवोपेतं मन्दरं प्रथमं मरुत् ॥ 28.90 ॥

मधुसूदनविक्रान्तं पवनं श्वेतरोचिषम् ।
वरुणं वीतिहोत्रं च सुभद्रं च गुहालयम् ॥ 28.91 ॥

वै राजमादिदेवान्तं विजयं मन्दरं तथा ।
भद्रपाणिं मृगेशं च वैधरं यष्टिमस्तकम् ॥ 28.92 ॥

उग्रात्मा पर्वतं चादिमृतधामपरिष्कृतम् ।
विघ्नेशं मारुतं चैकनेत्रं शुक्लशिरस्तथा ॥ 28.93 ॥

सुभद्रं चोर्ध्वलोकेशं नाभिपङ्कजसम्भव ।
माधवीमप्रमेयं च वनमाली झष स्तथा ॥ 28.94 ॥

माहेन्द्रं गोपनयुतं मारुतं प्रथमस्वरम् ।
भल्लायुधं हृषीकेशं सुभद्रं भुवनं वसुम् ॥ 28.95 ॥

प्रचेतसं कलात्मान [^27] ममृतं सविसर्गकम् ।
पवित्रमादिं वै राजं मुख्यं पवनमादवौ ॥ 28.96 ॥

[^27] माकारम्.

सुभद्रमौर्वं दक्षं च मुख 27 द्विपदमिरयेत् ।
शशाङ्कं द्विपदं वह्निभुवनं द्विपदं पठेत् ॥ 28.97 ॥

अचां द्वितीयं दृष्टिं च मायां 28 कमलमादिशेत् ।
29 हव्यवाड्गोपनयुतं भास्करं मधुसूदनम् ॥ 28.98 ॥

30प्रभञ्जनमकारं च सूक्ष्मदृग्भुवनं तथा ।
माधवीं रामसहितं पश्चिमाननमादिमत् ॥ 28.99 ॥

एकनेत्रमिकारं च विजयं कलशं तथा ।
मन्दरं देवदत्तं च वैधरं विष्णुमस्तकम् ॥ 28.100 ॥

द्विर्ब्रूयाद्गापना 31 क्रान्तं पश्चिमाननमादिमत् ।
प्रभञ्जनमकारं चठठान्तो मनुरीरितः ॥ 28.101 ॥

सूक्ष्मदृग्भुवनं सर्गं बीजमेतत्समुद्धृतम् ।
मन्त्रं षोढा विभज्याङ्गकल्पनं काश्यपो मुनिः ॥ 28.102 ॥

छन्दो विराट् 32 स्तोमघोणी देवता कमलासन ।
जपो लक्षद्विषट्कं स्यात्फलं सर्वं यथापुरम् ॥ 28.103 ॥

दरोदरनृसिंहमन्त्रः

दरोदरनृसिंहस्य मनुस्सम्प्रति कथ्यते ।
ओङ्कारं पूर्वमुद्धृत्य 33 कमलं शत्रुदाहकम् ॥ 28.104 ॥

गुहालयं सयष्टिं च गोपतिं भुवनं ध्रुवम् ।
पुल्ललोचनमाद्यं च हृदया 34 ह्लादनं तथा ॥ 28.105 ॥

भद्रपाणिं स्वरादिं च ज्वलनं चादिमं तथा ।
ओषधीशमिकारं च यष्टिं भास्करगोपनौ ॥ 28.106 ॥

श्वसनं च नतिर्मन्त्रो नारसिंह उदीरितः ।
अयमेव मनुर्भीजं छन्दो गायत्रमिरितम् ॥ 28.107 ॥

देवता नृहरिर्द्रष्टा कपिलो ध्यानमुच्यते ।
दरोदरे सुखासीनं शतपत्रे विकस्वरे ॥ 28.108 ॥

तप्तजाम्भूनदनिभं चतुर्भाहुमुदायुधम् ।
पर्यङ्कबन्धसुभगं प्रसारितभुजद्वयम् ॥ 28.109 ॥

जानुनोरुपरिष्टाच्च सर्वाकल्पपरिष्कृतम् ।
व्यात्ताननं त्रिनयनं सखदम्भोलिभीषणम् ॥ 28.110 ॥

सिंहस्यार्धं नरस्यार्धं मेघगम्भूरगर्जितम् ।
एवं ध्यात्वा जपेदष्टलक्षं मन्त्री समाहितः ॥ 28.111 ॥

सावित्रे मण्डले देवमासीनं सर्वकामदम् ।
ध्यायेल्लभेत धर्मादि पुरुषार्थचतुष्टयम् ॥ 28.112 ॥

बहुनात्रकिमुक्तेन सर्वान् कामानवावप्नुयात् ।

पुरुषचतुष्टयमन्त्रनिर्देशः

चतुर्णां पुरुषादीनां मनुस्सम्प्रति कथ्यते ॥ 28.113 ॥

प्रणवादीन् सप्तवर्णान् समुद्धृत्य यथा 35 पुरम् ।
स्वं स्वं नाम चतुर्थ्यन्तं मन्त्रानेषां प्रकल्पयेत् ॥ 28.114 ॥

तेषां बीजानि वक्ष्यामि वर्णोद्धारैः क्रमादहम् ।
तिग्माशुर्गोपनयुतस्सदण्डः पुरुषात्मनः ॥ 28.115 ॥

मार्ताण्डः पञ्चबिन्दुश्च 36 सेन्दुस्सत्यस्स कथ्यते ।
वैराजं पापकं पञ्चबिन्दुं नासिक्य 37 मेव च ॥ 28.116 ॥

त्रयूतनुं हृषीकेशं यष्टिं चानन्तनामनि ।
ऋषिश्छन्दो देवता च फलमष्टाक्षरे तथा ॥ 28.117 ॥

हयग्रीवमन्त्रः

हयग्रीवस्य मन्त्रस्य वर्णोद्धारः प्रदर्श्यते ।
सप्तवर्णान् समुद्धृत्य विजयं बहुलं ततः ॥ 28.118 ॥

38 कालात्मा चैक दृग्वह्निं गोपतिं विष्णुमस्तकम् ।
श्वसनं प्रणवादिं च लक्ष्मीं 39 बिन्दुमनन्तरम् ॥ 28.119 ॥

ज्वलनं गोपनयुतं शशाङ्कं माधवं तथा ।
स्वाहान्तमश्वशिरसः कथितष्षोडशाक्षरः ॥ 28.120 ॥

स एव बीजमङ्गानि क्रुद्धोल्कादि यथापुरम् ।
ऋषिर्बृहस्पतिर्ह्यस्य च्छन्दो गायत्रमुच्यते ॥ 28.121 ॥

देवो हयशिरा नाम देवता कमलासन ।
40 दशलक्षं जपेन्मन्त्रं महेत् ज्ञानमवाप्नुयात् ॥ 28.122 ॥

ओङ्कारपूर्वं नत्यन्तं चतुर्थी देवता क्रमात् ।
ठठान्तो मन्त्ररोजोयं दशाक्षरविदर्भितः ॥ 28.123 ॥

बीजानि पूर्ववत्सर्वं 41 कर्तव्यं कमलासन ।

हयग्रीवमालामन्त्रः

अतोऽन्यं वाजिशिरसो मालामन्द्रं ब्रवीमिते ॥ 28.124 ॥

अर्णसप्तकमुद्धृत्य पदं हयशिरास्तथा ।
चतुर्थ्यन्तं सर्वविद्यालयेति पदमन्वतः ॥ 28.125 ॥

सकला 42 मरशब्दादि गुरवे पदमुद्धरेत् ।
समस्तप्रतिशब्दादि 43 हन्तानन्तेत्यनन्तरम् ॥ 28.126 ॥

वीर्यं तेजः पदं पश्चात् ज्ञानैश्वर्यपदं ततः ।
44 शक्तिश्चैव बलं चैव सर्वाद्यावासमन्वतः ॥ 28.127 ॥

तद्विभक्तिं ततः पश्चात्परमात्मपदं ततः ।
चतुर्थ्यन्तं वासुदेवशब्दस्ता दृग्विभक्तिकः ॥ 28.128 ॥

ज्ञानज्ञेयपदं तद्वद्व्यक्ताव्यक्तपराय च ।
सर्वदुष्टासुरं प्रोच्यदुरितं व्रजिनं तथा ॥ 28.129 ॥

प्रमाथि तद्विभक्त्यन्तं तत्सद्रुचिरपूर्वकम् ।
पदं च तुरगायेति ज्ञानमुच्चार्य मूर्तये ॥ 28.130 ॥

इति चोच्चार्य तस्यानु सहस्रं कोटिमन्वतः ।
पदं विद्यादिनिकं मुञ्च गच्छ पदे ततः ॥ 28.131 ॥

स्फोटिर्विजृम्भिर्ल्लोडन्तं द्विर्वक्तव्यं च तिज् पदम् ।
सर्वादितेजोमध्यं च निध्यन्तं च पदत्रयम् ॥ 28.132 ॥

चतुर्थ्यन्तं समुच्चार्य निर्धूत पदमन्वतः ।
45 विकीर्णपदमुचाचार्य प्राक्प्रदीप्तपदं ततः ॥ 28.133 ॥

केसरं च सटाशब्दं कलापपदमन्वतः ।
प्रदीप्तसूर्यमंशुं च प्रतीकाशपदं ततः ॥ 28.134 ॥

भास्कराकारशब्दं च ऊष्ममूर्ध्वजमन्वतः ।
शङ्खमाभमताङ्घ्रिं ? च प्रसरव्रातदीप्तिमान् ॥ 28.135 ॥

द्रवत्कनकमुच्चार्य पिङ्गलायतमाननम् ।
महास्वरसमाकारं विशुद्धदशनं ततः ॥ 28.136 ॥

पङ्त्किं विनिर्गतां 46 चोक्त्वा विराजितपदं तथा ।
लोकत्रयद्रवद्दीप्तपदं चामिकरादिमत् ॥ 28.137 ॥

पिङ्गलायतमुच्छार्य विष्फारितपदं पठेत् ।
लोचनादि महाशब्दं विभीषण पदान्वितम् ॥ 28.138 ॥

नासिकापुटमद्रीन्द्र शिखराकारसंयुतम् ।
रुचिरं पदमुच्चार्य विकुञ्छितपदं तथा ॥ 28.139 ॥

47 महाश्रवणसंयुक्तं श्रेयसेति पठेत्पदम् ।
तच्छब्दं च चतुर्थ्यन्तं दुष्टसत्वाननन्तरम् ॥ 28.140 ॥

बिन्दिश्छिन्दि स्तथा मारि र्मर्दिस्त्रासिश्च दातवः ।
लोडन्ता द्विस्समुच्चार्य स्यौं वौ मितिपदद्वयम् ॥ 28.141 ॥

48 ध्वंसि हन्ति तथाध्मापि हन्ति ग्रहसि ताडय ।
पचि 49 र्मथिश्च ते एते चोडन्ता द्विः कृता स्तथा ॥ 28.142 ॥

परविद्यापदं प्रोच्यच्छिन्धिर्ण्यन्तः प्रयुज्यताम् ।
अमित्युक्त्वा तथा नारी ? लोण्मध्यमशिराः स्मृतः ॥ 28.143 ॥

एह्येहि भगवन् शब्दं 50 वज्रशब्दमनन्तरम् ।
अङ्कुशेनेति तदनुप्रोच्य चाकर्षयेति च ॥ 28.144 ॥

हृदया 51 द्यादिरन्वक्स्याद्भक्ति पूर्वजनेति च ।
जिह्वादिनिलयं प्रोच्य बडबानलमन्वतः ॥ 28.145 ॥

सम्बध्यन्तं विश्वमूर्तिं सौमनस्यमनन्तरम् ।
भगवन्नितिवक्तव्य 52 मोङ्कारं हृदयं ततः ॥ 28.146 ॥

सदा 53 यद्ब्रह्म सदसदात्मेति च पदं पुनः ।
चिद्घनादि च तुर्थ्यन्तं भगवत्पदमिरयेत् ॥ 28.147 ॥

ठठान्तमुद्धरेदेवं हयग्रीवं चतुर्मुख ।
पूर्वोक्तमेवास्य बीजं पूर्ववच्छाङ्गपद्धतिः ॥ 28.148 ॥

व्यासो मुनिर्हयग्रीवो देवता च्छन्द उत्कृतिः ।
ध्यायन् हयशिरोवक्त्रातुद्वान्तं फेनमुल्बणम् ॥ 28.149 ॥

पिबन्निव सुधीर्मन्त्र 54 राजं मन्त्रविदुच्चरेत् ।
अयुतं नियुतं वापि 55 जपेन्मन्त्रस्य सिद्धये ॥ 28.150 ॥

विद्यापारमवाप्नोति वागीशत्वं च पद्मज ।
व्याख्यातृत्वं च कर्तृत्वं शास्त्राणां बहुवर्त्मनाम् ॥ 28.151 ॥

सकृद्ग्रहणमात्रेण विद्यास्सर्वाः प्रतिष्ठिताः ।
56 अविस्मृतिश्च तासु स्यात्पुरुषार्थचतुष्टये ॥ 28.152 ॥

नासाध्यं किञ्सिदस्यास्ति दीर्घमायुश्च विन्दति ।

मुकुन्दादिमन्त्रनिर्देशः

षण्णां मुकुन्दमुख्यानां मनुस्सम्प्रति कथ्यते ॥ 28.153 ॥

सप्तार्णान् पुर्वमुच्चार्य नामधेयानि षट्तथा ।
चतुर्थ्यन्तानि योज्यानि 57 शिष्टार्णानेवमुद्धरेत् ॥ 28.154 ॥

बभ्रुमन्त्रः

58 जीमूतमादिं नासिक्ये वरुणं प्रणवादि च ।
सबिन्दुं भास्करं 59 रेफे पञ्चबिन्दुं सयष्टिकम् ॥ 28.155 ॥

ठठान्तं च मुकुन्धस्य मुनुरेवं समुद्धृतः ।
भास्करं पावकं पञ्च बिन्दुर्यष्टिसमन्वितः ॥ 28.156 ॥

अक्षरं च द्विरभ्यस्येन्मार्ताण्डं च गुहान्वयम् ।
सानुस्वारं द्विरभ्यस्येद्विष्णुशब्दमनन्तरम् ॥ 28.157 ॥

चतुर्थ्यन्तं ठठान्तं च बभ्रोर्मनुरुदीरितः ।

वृषाकपिमन्त्रः

पर्वतं भुवनं भानुमूर्ध्वलोकेशनासिके ॥ 28.158 ॥

भास्करं पावकं पञ्च बिन्दुं नासिक्यमुद्धरेत् ।
फट्कारं च हुतान्तं च मनुश्चैवं वृषाकपेः ॥ 28.159 ॥

खुभदं पावकं चैव पञ्चबि 60 न्दुसदर्थकम् ।
अक्षरं तद्द्विरुच्चार्य 61 ठठान्तो मन्त्र ईरितः ॥ 28.160 ॥

शौरिमन्त्रः

शौरेस्तथापरं वक्ष्ये दशार्हं मनुमब्जज ।
सवितारं बृहद्भानुं सयष्टिं पञ्चबिन्दुकम् ॥ 28.161 ॥

हुतान्तश्च मनुः प्रोक्तो

वैकुण्ठमन्त्रः

वैकुण्ठमनुरुच्यते ।
परमात्मा चतुर्थ्यन्तं वरुणं प्रथमं स्वरम् ॥ 28.162 ॥

नासिक्यं कुम्भमाकारमर्धेन्दुं भास्करं ततः ।
हृषीकेशमनुस्वारं नारायणपदं ततः ॥ 28.163 ॥

चतुर्थ्यन्तं ठठान्तं च वैकुण्ठमनुरीरितः ।

षण्णां ऋष्यादीनि

ऋषिश्छन्दो देवता च बीजमङ्गानि षट्तथा ॥ 28.164 ॥

अष्टाक्षरवदेतेषां फलानि च चतुर्मुख ।

अपराजितमन्त्रः

अथापराजितं मन्त्रं वक्ष्यामि कमलासन ॥ 28.165 ॥

निगमादीन् सप्तवर्णान् गृहीत्वादौ यथापुरम् ।
चतुर्थ्य 62 न्तान न्तपूर्वमन्तश्शब्दं समुद्धरेत् ॥ 28.166 ॥

सहस्रादि च शीर्षान्तं तद्विभक्तिपदं पुनः ।
63 तत्सुगन्धं तथाक्षीरमुदार्णव पदान्वितम् ॥ 28.167 ॥

64 शायिनेति पदं प्रोच्य शेषभोजपदं तथा ।
पर्यङ्केति चतुर्थ्यन्तं तद्विभक्तिश्च वाहनम् ॥ 28.168 ॥

गरुडादि पदं पश्चाद्वासुदेवपदं ततः ।
तद्विभक्तिश्च सत्यन्तं वासःपीतादि तादृशम् ॥ 28.169 ॥

सङ्कर्षणादिमन्त्रनिर्देशः

65 सम्पूर्वं कर्षणपदं सम्बुध्यन्तमनन्तरम् ।
प्रद्युम्नाद्यनिरुद्धं च तद्विभक्तिपदं स्मृतम् ॥ 28.170 ॥

हयादिशीर्षं सम्बुद्धौ वराहं तद्विदिष्यते ।
नृसिंह वामनपदे त्रिविक्रममनन्तरम् ॥ 28.171 ॥

रामशब्दं त्रिरुच्चार्य कृष्णेति पदमुद्दरेत् ।
वरप्रदेति नत्यन्तमस्तीत्यन्वक्क्रियापदम् ॥ 28.172 ॥

तेच शब्दं चतुर्थ्यन्त 66 मसुरेति पदं ततः ।
दैत्ययक्षपदे चोक्त्वा राक्षसेति पदं ततः ॥ 28.173 ॥

भूतं पिशाचं सिद्धं च योगिनी ढाकिनीति च ।
ब्रह्मादि राक्षसपदं विनायक पदं ततः ॥ 28.174 ॥

पूतना रेवतीस्कन्दपुरोगमसमुद्धृतिः ।
गृहीदीति च नक्षत्र गृहीनित्यप्यनुक्रमात् ॥ 28.175 ॥

अन्यांश्चेति महत्पुर्वं गृहानिति पठेत्पदम् ।
67 हनिं दहिं पचिं चैव मथिह्यन्त ? शबन्वितम् ॥ 28.176 ॥

अनिभिर्द्विः ? पतिं चैव पतिभ्यन्तं ? समन्वितम् ।
आख्यातं द्विस्समुच्चार्य गृहाणेति तथैव च ॥ 28.177 ॥

आविश ध्वं सिरपरास्त्रसिद्रुह्यन्तलोट्पराः ।
चत्वारो धातवो मन्त्रे द्विर्वक्तव्याश्चतुर्मुख ॥ 28.178 ॥

चक्रं गदां च वज्रं च तृतीया न्तमुदीरयेत् ।
भस्मीकुर्वित्यनुक्रम्य बाहुं सम्बद्दिशीर्षकम् ॥ 28.179 ॥

68 सहस्रारपदं सर्वं मुख्य प्रहरणायुधम् ।
जयेति विजयेति द्वे पदे द्विः प्रोच्य पद्मज ॥ 28.180 ॥

अनन्तमपरा 69 पूर्वजितं प्रतिहतं तथा ।
नङ्पार्वं नेतृपर्यन्तं सहस्रादिपदं ततः ॥ 28.181 ॥

प्रज्वलिर्ज्वलिरित्येते लोडन्तेद्विस्समु 70 द्धरेत् ।
विश्वरूपं समुद्धृत्य मधुसूदनमन्वतः ॥ 28.182 ॥

महापुरुषवैकुण्ठनारायणपदं ततः ।
पद्मादिनाभिपर्यन्तं हृषीकेशपदं ततः ॥ 28.183 ॥

सर्वमुक्त्वा तथा भूतं 71 वशीकरणमुद्धरेत् ।
शङ्खचक्रगदामुक्त्वा धरेति तदनन्तरम् ॥ 28.184 ॥

उद्धृत्य सर्वभूतं च नमस्कृतपदं तथा ।
सर्वमन्वङ्नागपदं प्रमर्दनपदान्वितम् ॥ 28.185 ॥

सर्वं प्रपठ्यानुपूर्वादसुरोत्साधनं ततः ।
सर्वदेवमनुक्रम्य महाश्वरमुदीरयेत् ॥ 28.186 ॥

सर्वं गृहं समुच्चार्य निवारणपदं तथा ।
72 यन्त्रमन्यं च सर्वादि प्रभञ्जनपदं ततः ॥ 28.187 ॥

सर्वदुःखप्रशमनं सर्वज्वर 73 विनाशनम् ।
सर्वबन्धमनुक्रम्य विमोक्षणपदं तथा ॥ 28.188 ॥

दुस्स्वप्नमध्यं सर्वादिविनाशनमनुद्धरेत् ।
नमस्कृतान्तं सर्वादिभूतमध्यं पदत्रयम् ॥ 28.189 ॥

पदद्वयं पूर्ववत्स्यादपकर्षणमाचरेत् ।
जनार्दनेति सम्बुद्धौ नमश्चास्त्विति ते पदम् ॥ 28.190 ॥

अप्रमेयमनुस्वारसहितं बीजमिरितम् ।
मन्त्रं षोढा विभज्याङ्गमृषिः पद्युन्म उच्यते ॥ 28.191 ॥

छन्धोऽतिच्छन्द एतस्य विश्वरूपश्च देवता ।
साधयेन्मन्त्रविन्मन्त्रमष्टाक्षरसमादिना ॥ 28.192 ॥

अपराजितमन्त्रेण नासाध्यं विद्यते फलम् ।
वश्यमुच्छाटनं चैव तथामारणकर्मच ॥ 28.193 ॥

74 कृत्यादि भूतदोषाणां निवारणमनुत्तमम् ।
फलानि लिप्सुस्सर्वाणि मन्त्रमेनं समाश्रयेत् ॥ 28.194 ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे 75 यज्ञमूर्त्यादिमन्त्रोद्धारो नाम अष्टाविंशोऽध्यायः.


  1. मुखवर्णम्. ↩︎

  2. वित्. ↩︎

  3. बह्मर्ण. ↩︎

  4. विभूषितम्. ↩︎

  5. देवदेवं च. ↩︎

  6. पतङ्गामृत. ↩︎

  7. माकारं. ↩︎

  8. बिन्दु. ↩︎

  9. अत्र–“कामकामेश्वरी” इत्यर्धं क्वचिदधिकमस्ति. ↩︎

  10. मादिच. ↩︎

  11. तदा ब्रह्मन् प्रथमम्. ↩︎

  12. करोति च पदं ततः. ↩︎

  13. हेतु. ↩︎

  14. ध्यात्वा. ↩︎

  15. युवानं. ↩︎

  16. स्रस्वस्त्र. ↩︎

  17. प्रभावात्. ↩︎

  18. जपन् भूयस्तदा. ↩︎

  19. कामार्थौस धर्मौ. ↩︎

  20. बलसिद्धिं. ↩︎

  21. अष्टसूत्रधरम्. ↩︎

  22. कमलम्. केवलम्. ↩︎

  23. बहुलं. ↩︎

  24. श्रीधरं विजयं. ↩︎

  25. सप्तमम्. ↩︎

  26. माययो. ↩︎

  27. द्विः परमिरयेत् । शशाङ्कं भुवनं वह्निं भुवनं द्विरदं पठेत् ॥ ↩︎

  28. कलशमादिशेत्. कमलमादिमम्. ↩︎

  29. विसस्वान्. ↩︎

  30. " प्रभञ्चने" त्यादिसार्धं श्लोकद्वयं - क्वचिन्नास्ति. ↩︎

  31. न्तं च. ↩︎

  32. दीर्घघोणी. सोमऋषिः. ↩︎

  33. कलशम्. ↩︎

  34. मोदनम्. ↩︎

  35. तथा. ↩︎

  36. सेन्द्रम्. ↩︎

  37. मुच्यते. ↩︎

  38. कलात्मा कामात्मा. ↩︎

  39. बन्धु. ↩︎

  40. “दशलक्षम्” इत्यादि " कर्तव्यम्" इत्यन्तं क्वचिन्न. ↩︎

  41. स्मर्तव्यम्. ↩︎

  42. मलशब्दानि. ↩︎

  43. हतनन्दे. ↩︎

  44. शक्तिशब्दश्चतुर्थ्यन्तस्सर्वन्याससमन्वितः. ↩︎

  45. वदीर्णपद. ↩︎

  46. श्रुत्वा. ↩︎

  47. महाशुवर्णसंयुक्त श्रवणेति पदं पठेत् । ↩︎

  48. ध्वंसिर्ण्यन्त स्तथाध्मापिर्हन्तिर्ग्रन्थिस्तथादिभिः । पचिर्मथिश्च . ↩︎

  49. र्मन्दिश्च. ↩︎

  50. भगवच्छब्दं यज्ञ. ↩︎

  51. न्यादिमन्वक्. ↩︎

  52. मोङ्कौरहृदयं ततः । सदादिब्रह्म. ↩︎

  53. सदा सद्ब्राह्म सदासच्चात्मेति ↩︎

  54. बलं. ↩︎

  55. जपो मन्त्रस्य सिद्धदः. ↩︎

  56. अविस्मृतिश्च नास्यस्यात्पुरु. ↩︎

  57. शब्दान्येवं स. ↩︎

  58. “जीमूतमादिं इत्यरभ्य” " नासिक्यमुद्धरेत्" इत्यन्तं क्वचिन्न. ↩︎

  59. रेफम्. ↩︎

  60. न्दुं सदण्दकं. ↩︎

  61. ठान्तोमन्त्र उदीरितः. ↩︎

  62. न्तं मन्त्र. ↩︎

  63. तत्सुबन्दं. ↩︎

  64. शायिन्निन. ↩︎

  65. सम्पूर्णं. ↩︎

  66. मधुरेति. ↩︎

  67. इदमर्धं क्वचिदधिकमस्ति. ↩︎

  68. सहस्रादि. ↩︎

  69. पूर्वं जितं प्रतिजयं. ↩︎

  70. च्चरेत्. ↩︎

  71. वशङ्करम नूद्धरेत्. ↩︎

  72. यञ्चमध्यं च पूर्वादि. ↩︎

  73. निवारणं. ↩︎

  74. कृत्याभिभूति. ↩︎

  75. अन्नाधिपद्यादि. ↩︎