२७

.

श्रीभगवान् :—

मत्स्यादिमूर्तिदशकमन्त्रनिर्देशः

मत्स्यादिदशमूर्तीनामवतारक्रमान्मसुः ।
उच्यते पूर्ववच्चक्रमक्षराणां समालिखेत् ॥ 27.1 ॥

साधारणान् गृहीत्वार्णान् यथापूर्वं चतुर्मुख ।
असाधारणरूपं तत्संप्रत्युध्रियते क्रमात् ॥ 27.2 ॥

मत्स्यमूर्तिमन्त्रः

स्पर्शान्तमाद्यं विजयं चन्द्रमन्वक्चतुर्गतिम् ।
आदिमग्निं हृषीकेशं पवित्रं मधुसूदनम् ॥ 27.3 ॥

1 श्वसनं चाप्रमेयं च द्वादशार्णास्समीरिताः ।
2 माधवं पुरुषात्मानं हृषीकेशं च 3 बिन्दुमत् ॥ 27.4 ॥

बीजमङ्गेषु यद्रूपमसाधारणमुच्यते ।
सर्वान्तमादिं सर्वत्र षट्सु चाद्यश्च बिन्दुमान् ॥ 27.5 ॥

आदिदेवं महामायां हृषीकेशं च गोपनम् ।
विष्णुमौर्वीं षडङ्गेषु मध्यमार्णं क्रमोदितम् ॥ 27.6 ॥

उद्धृत्यैवं प्रयोक्तव्यमृषिरस्य मनुस्स्मृतः ।
छन्दश्च देवी गायत्रं मत्स्यरूपः परः पूमान् ॥ 27.7 ॥

देवता रूपरहितः पञ्चार्णो वा मनुस्स्मृतः ।
भीजं तदङ्गानि तथा साधनं च यथापुरम् ॥ 27.8 ॥

कूर्ममूर्तिमन्त्रः

मूर्तेरनन्तरायास्तु मन्वर्णोद्धारणं शृणु ।
असाधारणरूपस्य 4 स्पर्शनादि गुहालयम् ॥ 27.9 ॥

अनलं मन्दरं 5 विष्णुं पूर्ववद्द्वादशाक्षरम् ।
बीजोद्धारः 6 क्रोडरूपी भूधरश्च गुहालयः ॥ 27.10 ॥

सानुस्वारो बीजमेतत्षडङ्गानि चतुर्मुख ।
ऋषिरेतस्य दुर्वासा श्छन्दः पूर्ववदिष्यते ॥ 27.11 ॥

देवता कमठाकारो देवस्संप्रत्यनन्तरम् ।

वराहस्य मन्त्रः

वराहवपुषो मन्त्रं वर्णचक्रात्समुद्धरेत् ॥ 27.12 ॥

वरुणो विष्णुरनलश्चादिदेवश्च भास्करः ।
गोपनः पुरुषात्मा च विष्णुरेते समुद्धृताः ॥ 27.13 ॥

अस्याऽसाधारणा वर्णाःप्रोक्तास्साधारणाः 7 पुरा ।
एकादशाक्षरात्मायं बीजं संप्रति कथ्यते ॥ 27.14 ॥

सूक्ष्मदृग्बिन्दुपर्यन्तष्षट्चाचामङ्गपद्धतिः ।
बीजमेव मुनिश्शङ्खश्छन्तो गायत्रमिरितम् ॥ 27.15 ॥

नारायणो देवतास्य नत्यन्तश्च षडक्षरः ।

तस्यैव मन्त्रान्तरम्

यद्वा पूर्ववदेवाङ्गं बीजं च कमलासन ॥ 27.16 ॥

त्रयोदशार्णानुद्धृत्य पूर्वोक्तान् व्याहृतित्रयम् ।
उद्धरेत्पतिशब्दं च चतुर्थ्यन्तमनन्तरम् ॥ 27.17 ॥

भूमेः पतित्वमाशास्यं मे देहि तदनन्तरम् ।
दाहयेति ठठान्तस्स्याद्द्वात्रिंशद्वर्णसन्ततिः ॥ 27.18 ॥

छन्दोऽनुष्टुबृषिः पूर्वो देवता सा चतुर्मुख ।
बीजमुक्तं तदङ्गानि भङ्त्क्वा मन्त्रं प्रकल्पयेत् ॥ 27.19 ॥

वर्णान् करनसङ्काशान् न्यसे 8 दङ्गेषु पूर्ववत् ।
ध्यात्वा षोड शलक्षाणि जपेन्मन्त्रमतन्ध्रितः ॥ 27.20 ॥

उर्वरायाः पतिस्सद्यो भवेन्मन्त्रप्रभावतः ।
पातालगमनादीनि फलान्यस्यापि पद्मज ॥ 27.21 ॥

वराहमालामन्त्रप्रकारः

चतुष्षष्ट्यर्णसङ्घातो मालामन्त्रः प्रदर्श्यते ।
त्रयोदशार्णाः प्रथममेकदंष्ट्रपदं ततः ॥ 27.22 ॥

चतुर्थ्यन्तं तथा 9 मेघपदं द्विः प्रोच्य च क्रमात् ।
उल्कावर्ण पदद्वन्द्वं चतुर्थ्यन्तं ततः परम् ॥ 27.23 ॥

छन्दोम 10 यप्रत्ययान्तं सम्बध्यन्तमुदीरयेत् ।
द्विर्लोडन्तो दहिर्वाच्यो हन्तिश्च मथिरेव च ॥ 27.24 ॥

पचिं चमहदाद्यन्तं 11 भौमेति पदयोर्युगम् ।
हुं द्विरुच्चार्यारिशिरस्स्वं तथैव खनिं पुनः ॥ 27.25 ॥

लोडन्तमाय 12 मग्नेयीमिति मन्द्रपदस्थितिः ।
बीजमुक्तं 13 तथाङ्गानि भङ्त्क्वामन्त्रं प्रयोजयेत् ॥ 27.26 ॥

जामदग्न्य ऋषिःप्रोक्तश्छन्दोऽतिच्छ्द ईरितः ।
देवता देवदेवेशः स्थूलघोणवपुस्स्मृतः ॥ 27.27 ॥

लक्षं जपेदिमं मन्त्रं 14 भूमिप्सुश्च चतुर्मुख ।
मृत्स्नया जुहुयात्तावद्द्यावदाप्नोति मेदिनीम् ॥ 27.28 ॥

अष्टाक्षरमनोस्तुल्यफलोयं मनुरीरितः ।

नृसिंहस्य मन्त्रः

15 उल्कावर्णं चतुर्थ्यन्तमक्षरस्यावसानतः ॥ 27.29 ॥

चतुष्षष्टि प्रभेदस्य मन्त्रस्य नृहरेर्मया ।
न विस्तारः कथयितुं शक्यते बोद्धुमेव वा ॥ 27.30 ॥

तस्मात्त्रिचतुरो भेदाः कथ्यन्ते कमलासन ।
वर्णचक्रातथोद्धारस्सं प्रत्येकाक्षरात्मनः ॥ 27.31 ॥

मन्द्रस्य कथ्यते ब्रह्मन् ब्रह्मकोशपुरस्कृतः ।
नृसिंहः कर्षणोबिन्दुरित्येकाक्षरमिरितम् ॥ 27.32 ॥

एतदेव भवे 16 दङ्गं छन्दो गायत्रमुच्यते ।
देवो मुनिश्च दुर्वासा नृसिंहो देवता मता ॥ 27.33 ॥

वर्णश्च पाटलो लक्षत्रयं जप्यं विपश्छिता ।
जिगीषुणा चतुर्वर्गफलमन्यच्च काङ्क्षितम् ॥ 27.34 ॥

त्रियक्षरं च नत्यन्तमेत देवाङ्गमप्यतः ।
अष्टाक्षरात्मनोऽस्यैव मन्त्रोस्योद्धारणं क्रमात् ॥ 27.35 ॥

प्रणवो नतिरन्वक्च विघ्नेशो मधुसूदनः ।
अनलश्चादिरिन्दुश्च रामोऽनुस्वार एव च ॥ 27.36 ॥

गोपतिर्गोपनश्शङ्खो विष्णुरष्टाक्षर 17 स्स्मृतः ।
बीजमुक्तं तथाङ्गानि मुनिर्व्यासोऽन्यदीरितम् ॥ 27.37 ॥

जपसङ्ख्या फलान्यस्य तथैव कमलासन ।
सप्ताक्षरं च नत्यन्तमन्यत्प्रणववर्जितम् ॥ 27.38 ॥

बीजादि पूर्ववत्सर्वं पङ्चाङ्गो जप एव च ।
साधारणास्सप्तवर्णाः पञ्चाऽसाधारणा स्तथा ॥ 27.39 ॥

पूर्वोक्तद्वादशार्णात्मा शङ्खोदरसमाह्वयः ।
यथापूर्वं षडङ्गानि बीजं चैव यथापुरम् ॥ 27.40 ॥

प्रत्यक्षरं लक्षजपो होमस्तर्पणमेव च ।
पुरुषार्थस्य सर्वस्य साधकस्साध्वनुष्ठितः ॥ 27.41 ॥

मन्त्रोनृसिंहवपुषो द्वात्रिंशार्णात्मकोऽपरः ।
वक्ष्यते 18 तस्य वर्णानामुद्धारस्सं प्रदर्श्यते ॥ 27.42 ॥

छन्दसामादिरुदयो गदी वह्निरचां मुखम् ।
यष्टिःकुम्भो महामाया ज्वलनो वैष्णव स्तथा ॥ 27.43 ॥

स्पर्शान्तं द्विरचामादि द्वादशात्माच गोपनः ।
पर्जन्तो 19 बिन्दुरुग्रात्मा प्रचण्डश्चोदय स्तथा ॥ 27.44 ॥

मन्दरो जन्महन्ता च पीयूषात्मा 20 सवैष्णवः ।
महेन्द्रो वाङ्मुखं 21 पद्म पाणिर्विजयसंज्ञितः ॥ 27.45 ॥

अर्थचन्द्राकृतिश्शुक्लः प्रणवादिर्विभावसुः ।
वरुणश्चाप्रमेयश्च वै राजो ब्रह्मसाधनः ॥ 27.46 ॥

स्पर्शान्तमुदय 22 स्स्पर्शद्वितीयं विष्णुदैवतम् ।
माधवं भद्रपाणिं च पद्मनाभः कलात्मकः ॥ 27.47 ॥

त्रिविक्रमो ध्रुवः पुषा स्वरादिर्मन्दरस्स्मृतः ।
भल्लायुधो महामाया क्रोधरूपी च वैष्णवः ॥ 27.48 ॥

वनमाली स्वरादिश्च 23 माधवस्सूक्ष्मलोचनः ।
अप्रमेयो 24 वैधरश्च ज्वलनोङ्कारसंयुतः ॥ 27.49 ॥

द्विर्मन्दरः पद्मनाभो विजयश्च 25 चतुर्गतिः ।
उदयो मन्दरशिराः पदमेतदनन्तरम् ॥ 27.50 ॥

वर्णानि सुसमीकृत्य 26 नमाम्यहमुदीरयेत् ।
विराडृषिरनुष्टुप्च छन्दो नरहरिस्स्मृतः ॥ 27.51 ॥

देवता बीजमस्योक्तं मन्त्रं भङ्त्क्वाङ्गकल्पना ।
न्यासश्छाङ्गेषु पूर्वोक्तक्रमेण कमलासन ॥ 27.52 ॥

27 ध्यायेत्स्फटिकवर्णाभं जपसङ्ख्या च पूर्ववत् ।
मन्त्रोऽयं नारसिंहस्य सकलापन्निवारणः ॥ 27.53 ॥

समस्तसम्पज्जननो वाच्योनैव च कस्य चित् ।

अस्य मालामन्त्रः

उच्यते नरसिंहस्य मालामन्त्रः श्चतुर्मुख ॥ 27.54 ॥

अधिकं सप्तदशभिर्वर्णैरर्णशत 28 त्रयम् ।
प्रथमं छन्द सामादिर्नतिश्च तदनन्तरम् ॥ 27.55 ॥

चतुर्थ्यन्तं पदं वाच्यं नरसिंहेति मन्त्रिणा ।
तदेव च महत्पूर्वं 29 देवदानवपूर्वकम् ॥ 27.56 ॥

शोणितेति पदं पश्चाद्दिग्धपूर्वं सखोत्तरम् ।
पदमेकं चतुर्थ्यन्तं नमोऽन्तं समुदीरयेत् ॥ 27.57 ॥

पच 30 ग्रनेति च पदं शुषिर्ण्यन्त 31 स्समुद्धृतः ।
ग्रन्थिर्णिजन्तो हन्तिश्च 32 सन्ति ? र्लोण्‌मध्यमोदयः ॥ 27.58 ॥

हुं फट्तदन्तरं प्रोच्य 33 तथा कलिपदं ततः ।
चरेति च लुपेत्युक्त्वाक्षरेति तदनन्तरम् ॥ 27.59 ॥

हां होंखर चिरं चैव 34 दूं ह्यों ज्वलनमेव च ।
ज्वलिश्शुचिर्द्रविस्स्फोटिर्ण्यन्तो लोण्मध्यमोदयः ॥ 27.60 ॥

35 भिदिश्छिदिः तं विकरो ? लोण्मध्यमशिरास्ततः ।
36 हिसिमृङ्भ्यांणिजन्ताभ्यां लोण्मध्यममुदीरयेत् ॥ 27.61 ॥

आंपूर्वो नयतिर्लोटि हुंफडन्तमुदीरितम् ।
द्रवद्रवेति च ततो विपूर्वं तद्वयं पुनः ॥ 27.62 ॥

पातालान्तं सर्वशब्दं वासिनामिति पश्चिमम् ।
37 हृदयादीनि कथये त्कृषिर्ण्यन्तश्च मध्यमे ॥ 27.63 ॥

38 अज् पूर्वोविद्विषिर्ण्वन्तो लोटि सम्बुद्धिशीर्षकम् ।
भगवत्पदमुच्चार्य नारायणपदं ततः ॥ 27.64 ॥

वासुदेवहृषीकेशपदद्वितयमिरयेत् ।
दानवादिर्लडन्तश्च जहि राक्षसपूर्वकम् ॥ 27.65 ॥

अन्तकेति पदं पश्चादुक्त्वा कामोदकी 39 धनुः ।
धरेति गरुडादिं च ध्वजान्तं पदमब्जज ॥ 27.66 ॥

त्रिपूर्वधामन्नित्येतन्नतिरस्त्विति ते पदम् ।
त्वां प्रपन्नोऽस्मिति 40 पठेदेवमुच्चार्य ते मनुः ॥ 27.67 ॥

बीजमुक्तं षडङ्गानि प्रोच्यते पदशोऽधुना ।
प्रणवादिश्च सत्यन्तश्चतुर्थ्यन्तश्च विग्रहः ॥ 27.68 ॥

पुरुषादिमुखादिश्च नरसिंहपदं तथा ।
वज्रशब्दं द्विरुच्चार्य क्रमाच्च नखविग्रहौ ॥ 27.69 ॥

वज्रेति नखदंष्ट्रेति चोक्त्वायुधपदं ततः ।
महानरपदं सिंहपर्यन्तं षष्ठमिरितम् ॥ 27.70 ॥

अनिरुद्धो मुनिश्छन्दस्त्वतिपूर्वं च देवता ।
नृसिंहारूपी भगवानिति 41 सर्वमुदीरयन् ॥ 27.71 ॥

बिलद्वारि जपेन्मन्म्रीषोडश प्रयतस्थ्सितः ।
लक्षाणि सद्यः पातालवासिनः कुरुते वशे ॥ 27.72 ॥

लोकान्तरगतानां च वशीकारक्षमो भवेत् ।
एतावन्तिफलान्यस्येत्यभिधातुं न शक्यते ॥ 27.73 ॥

अतोऽन्यं नारसिंहस्य मन्त्रं सर्वार्थ साधकम् ।
चतुश्शताक्षरं तस्य समुद्धारः प्रदर्श्यते ॥ 27.74 ॥

आदावुद्दीथमुद्धृत्य नत्यन्तं ब्रह्मसाधनम् ।
भल्लायुधं 42 गदध्वंसं वारुणं विजयं तथा ॥ 27.75 ॥

माधवं भद्रहस्तं च 43 पावकं श्वेतदीधितम् ।
विक्रमं सध्रुवं ब्रह्मन् भास्करं मधुविद्विषम् ॥ 27.76 ॥

श्वसनं वुरुणं जन्महन्तारमृतधारकम् ।
द्विरदं सर्व 44 दाहं स्याद्वैधरं तदनन्तरम् ॥ 27.77 ॥

अचामादिं सध्रुवं च क्रोधरूपमधोक्षजम् ।
सपर्वतं हुतवह 45 माव्रतं मधुविद्विषम् ॥ 27.78 ॥

मारुतं माधवं ब्रह्मन् धनदं मधुसूदनम् ।
दरं 46 सचन्ध्रं पुल्लं च माधवं 47 नगवारिणम् ? ॥ 27.79 ॥

सविक्रमञ्च कमलं पर्वतं पाशपाणिनम् ।
सबन्धुं कमलं पञ्च बिन्दुमस्तक 48 भूषितम् ॥ 27.80 ॥

सुमुखं चाग्नि शिरसं करालं मृगवल्लभम् ।
क्षपाकरं तथायान्तं यामनीनाथमब्जज ॥ 27.81 ॥

हृदयाह्लोद माकारं चतुर्गतिमनन्तरम् ।
नृहरिं भुवनं सूक्ष्मलोचनं रामर्शीकम् ॥ 27.82 ॥

विजयं पाटलं भानुं सूदनं सुमुखं तथा ।
49 यान्तं तच्छिरसं पश्चा द्वारुणं गजवाहनम् ॥ 27.83 ॥

वासुदेवं तथाक्रोध रूपमाकारमारुतौ ।
वैधरं सूदनं भद्र हस्तं वारुणमैन्दवम् ॥ 27.84 ॥

50 वत्सोतदेहं सुमुखं विक्रमं 51 विजयाभिधम् ।
दृष्टिविक्रम 52 पाशान्तसुभागार्पितविघ्नराट् ॥ 27.85 ॥

53 तद्द्वितीयमचामादिद्वितयं श्वसनं तथा ।
माधवं सद्ध्रुवं भानुमान्तं माधवभास्करौ ॥ 27.86 ॥

रामं भल्लायुधं पञ्च अन्तकं स्यात्सुधारसम् ।
भद्रहस्तमचामादि भान्त 54 माधरासूदनौ ॥ 27.87 ॥

भद्रं वसुं श्वेतरुचिं विक्रमं सद्ध्रुवं तथा ।
मार्ताण्डं माधवं भानुं गोपनं नान्तमाधरौ ॥ 27.88 ॥

यान्तं सश्रीधरं चोग्रं वसुं 55 वारुणगोधनौ ।
कुशेशयं माधवं च सुमुखं कौस्तुभं तथा ॥ 27.89 ॥

विघ्नेशं गोपनं ब्रह्मन् रोहिताश्वं सगोपनम् ।
56 वसनं सुमुखं पश्चाद्वारुणं मधुविद्विषम् ॥ 27.90 ॥

दाक्षायणीशमुदयं वैधरं 57 माधवं ततः ।
अमृतं 58 वैधरमचां द्वितीयं भान्तमज्जज ॥ 27.91 ॥

ओतदेहं तथा दृष्टिं 59 यान्तमाकारमक्षरम् ।
वक्रतुण्डं गन्धवहं 60 विष्टरं विजयं तथा ॥ 27.92 ॥

अमृतं विक्रमपरं श्रीवत्सं वरुणार्पितम् ।
यान्तं 61 गुहालयं नान्तं षान्तं च मधुसूदनम् ॥ 27.93 ॥

62 सद्ध्रुवं द्रुहिणं क्रोधं पावकं सुमुखं पुनः ।
सपश्चिमं पद्मनाभं वैधरं च चतुर्मुख ॥ 27.94 ॥

पवमानं सभुवनं 63 भान्तं कुङ्जरगोपनौ ।
भद्रहस्तं सरामं च यान्तं स्याच्छ्रीधरं तथा ॥ 27.95 ॥

भद्रं च धनदं पापहननं जयमन्तरौ ।
विघ्नेशं सूदनं भल्लं भास्करं स्याच्च तुर्गतिम् ॥ 27.96 ॥

शुभदं वामनपरमुग्रं वसुशिर स्तथा ।
प्रद्योतनं तथा यान्तमृतधा मोग्रवामनौ ॥ 27.97 ॥

कमलं माधवपरं सनसीरुहसम्भव ।
वान्तं च शुभदं दण्डं खर्वं घड्गधरं पुनः ॥ 27.98 ॥

सरोजमृतधामानं कतृतीयं च वैधरम् ।
अचां द्वितीयं धनदं बहुलं 64 सौरमाधरौ ॥ 27.99 ॥

नासिक्यं च समुच्चार्य हुंफट् शीर्षाणि योजयेत् ।
त्रयोदशानि बीजानि हुंफडन्तानि योजयेत् ॥ 27.100 ॥

65 बीजाक्षरेषु प्रत्येकं हुंफट्कारमुदीरयेत् ।
द्वादशाङ्गविदां प्रोच्यं भास्करं सगुहालयम् ॥ 27.101 ॥

नासिक्यं नृहरिं चौर्वं चन्द्रार्धं यान्तमौषधम् ।
सद्ध्रुवं मारुतं चोर्वीं सदण्डं च 66 क्षपाकरम् ॥ 27.102 ॥

67 समरं सद्ध्रुवं भानुमौर्वं नासिक्यमब्जज ।
प्रद्योतनं सभुवनमर्धेन्दुं सान्तमेव च ॥ 27.103 ॥

साग्निं सवामनं सार्धं चन्द्रं चैव सरोरुहम् ।
वासवं वामनवरं सद्ध्रुवं 68 कतृतीयकम् ॥ 27.104 ॥

महेन्द्रमौर्वं नासिक्यं 69 माधवं द्विरदाननम् ।
70 सुभद्रं श्रीधरं भद्रहस्तं गारुडमेव च ॥ 27.105 ॥

चित्रभानुं शशधरं पीयूषं वसुशीर्षकम् ।
मारुतं भद्रहस्तं च विजयं वसुसूदनौ ॥ 27.106 ॥

प्रचण्डं 71 बन्धुसहितं व्रकतुण्डं गुहालयम् ।
72 सुमुखार्णंच सप्तार्चिर्दरं चन्द्रमचां मुखम् ॥ 27.107 ॥

अपामधिपतिं चाग्निं जृम्भलं द्विरदाननम् ।
धनदं वरुणं मायां भान्तं स्याद्ब्रह्मसाधनम् ॥ 27.108 ॥

पन्नगं सुमुखं पापहननं 73 यान्तमब्जज ।
अमृतं विक्रमयुतं वैधरं धूलिकेतनम् ॥ 27.109 ॥

गोपनं सद्ध्रुवं 74 चन्द्रं सार्धेन्दुं भास्करं वसुम् ।
नपश्चिमं हुतवहं मतिमद्वासनं ततः ॥ 27.110 ॥

पाटलं सर्वरोधं स्यात्कुञ्जरं मन्दरद्वयम् ।
लक्ष्मीं 75 सविजयं चाग्निं हृषीकेशं चतुर्मुख ॥ 27.111 ॥

भद्रहस्तं मानुषेखं सूधनं हरिमन्दिरम् ।
शङ्खं कलानिधिमपां नाथं वसुमधुद्विषौ ॥ 27.112 ॥

पश्चिमं विजयं चाग्निं सुभद्रं पुरुषात्मकम् ।
कलानिध्योश्च युगलं वारुणं वसुशीर्षकम् ॥ 27.113 ॥

वैधरं 76 मधुविध्वेषं माधवीं मधुविद्विषम् ।
आर्धचन्द्रं हुतवहमनन्तं च द्विरुद्धरेत् ॥ 27.114 ॥

सान्तं सविक्रमं 77 सेन्द्रं बिन्दुमस्तकभूषितम् ।
दश पञ्छ च बीजानि हुंफदन्तानि पूर्ववत् ॥ 27.115 ॥

मन्दरं विक्रम 78 वशमैन्द्रं त्रैविक्रमं तथा ।
खड्गहस्तं सरामं च वासवं सहविक्रमम् ॥ 27.116 ॥

वैधरं चोर्ध्वलोकेशं श्रीभीजं चानु 79 नासिकम् ।
ओतदेहं सयष्टिं च अचामादिं सयष्टिकम् ॥ 27.117 ॥

अचां द्वितीयमर्धेन्दुं कपिलं सङ्गिणं तथा ।
80 माठरं गोपनं दण्डं माठरं पञ्चबिन्दुकम् ॥ 27.118 ॥

नासिक्यं भास्करं वीरसेनं यष्टिं च भास्करम् ।
ओतदेहं सयष्टिं च 81 पतनं चौर्वनासिकौ ॥ 27.119 ॥

रोहिताश्वं च कलशं विक्रमं कमलासन ।
वासुदेवं 82 सहृदयाह्लोदनं बन्दुमस्तकम् ॥ 27.120 ॥

शुक्लं सहस्रकिरणमैन्दवं चाग्निमस्तकम् ।
वैरिंचं बन्धुसहितं पावकं सुमुखं तथा ॥ 27.121 ॥

पश्चिमं त्वृतधामानं ककुभा 83 ह्वमनन्तरम् ।
सवारुणं 84 सुरपतिं सबन्धुं विजयं तथा ॥ 27.122 ॥

लक्ष्मीं मधुद्विषमथो एकदंष्ट्रगतिं पुनः ।
अग्निशीर्षं द्वितीयं च झषं पञ्चान्तकं मतम् ॥ 27.123 ॥

द्रुहिणं 85 चोदयं ब्रह्मन् वासवं वामनं 86 ततः ।
शुभदं पश्चिममचां द्वितीयं कमलासन ॥ 27.124 ॥

द्वितीयं सद्ध्रुवं चाब्ज 87 योनिं श्रीधरपङ्कजे ।
श्रीवत्समब्जं विजयं काममस्तक 88 मन्दरम् ॥ 27.125 ॥

उदयं 89 शुक्रशत्रुं च विजयं ब्रह्मसाधनम् ।
मन्दरं यान्तधनदं यान्तं चन्द्रघटं वसुं ॥ 27.126 ॥

भल्लायुधं हृषीकेशमेक 90 नेत्रं घनं पुनः ।
सबन्धुं मन्दरं दृष्टियुगलं चाग्निशीर्षकम् ॥ 27.127 ॥

भद्रं चतुर्गतिमथो फणीन्द्रं यान्तसूदनौ ।
नृहरिं कलानिधिमचा मादिं 91 यान्तं मधुद्विषम् ॥ 27.128 ॥

कतृतीयं गदध्वंसं विघ्नेशं नरवाहनम् ।
अमृतं वसुनामानं धरित्रीं मधुसूदनम् ॥ 27.129 ॥

कमलं विक्रमपरं यान्तं वामनहस्तकम् ।
नास्तं 92 गुणालयं चैव णान्तं ढान्तं मधुद्विषम् ॥ 27.130 ॥

पश्चिमं चैन्दवमथो भान्तार्पितस 93 गोपनम् ।
धनदं चोतवपुषं भद्रं दक्षं च सूदनम् ॥ 27.131 ॥

वैधरं 94 चैन्दिरमचां द्वितीयं कमलासन ।
त्रिविक्रमं भद्रकरं महामायाङ्कितं वसुम् ॥ 27.132 ॥

मृगेशं वरुणं चैव वैराजं पञ्चबिन्दुकम् ।
क्षपारकरं कञ्जभवं ततस्स्याद्विघ्ननायकम् ॥ 27.133 ॥

सदृष्टिं वैधरं देवदत्तं कुम्भं चतुर्मुख ।
गतं सृतधामाह्वं मार्ताण्डं 95 पाशहस्तकम् ॥ 27.134 ॥

समाधवं स्याद्द्विजयं गोपनं विषमध्वनिम् ।
सरसीरुहं सोर्ध्वलोकं सरसीरुहसम्भन ॥ 27.135 ॥

पद्मा स 96 मन्दराकारौ प्रचण्डझषसंमितौ ।
97 वैधरं वरुणं रामं भूधरं वह्निमस्तकम् ॥ 27.136 ॥

जृम्भलं त्वृतधामा च स्यातां भास्करमन्दरौ ।
98 आद्यन्तं यान्तमाकारं गारुडं हिमदीधितिम् ॥ 27.137 ॥

ओङ्कारादिं शशधरं 99 स विष्णुं वरुणं वसुम् ।
100 सुधारसं प्रचण्डाग्निं भवे 101 दृतमनन्तरम् ॥ 27.138 ॥

क्रोधरूपं सरामं च 102 गदं च ऋतधामकम् ।
गोपतिं वारुणपतिं विक्रमं यादसां पतिम् ॥ 27.139 ॥

मधुद्विषं हुतवहं प्रचण्डं यामिनीपतिम् ।
सुधारसं 103 वसुयुतं जन्मध्वंसमपां पतिम् ॥ 27.140 ॥

यान्तं सुधारसं बन्धुं 104 द्विद्विराकारमिन्दिराम् ।
द्विरदं पापहननं मधुसूदनमब्जज ॥ 27.141 ॥

विजयाकार 105 गर्भाश्च आकारविधुमादराः ।
पावकं पीतवर्णाभं ब्रह्मसाधनमब्जज ॥ 27.142 ॥

106 भद्रविक्रमतोयेशमाकारेन्दुसविक्रमाः ।
107 इभाकारं ततो द्युम्नभास्करा 108 भूतवैधराः ॥ 27.143 ॥

मारुताकार भद्राश्च मान्ताकारमहोत्पलाः ।
उग्रात्मवसुवायव्यसूदना विधिरब्जज ॥ 27.144 ॥

उग्रशीर्षकमारुत्यौ पश्चिम 109 द्युतिमैन्दवम् ।
वामनं वैधरं सूक्ष्मलोचनं 110 कतृतीयकम् ॥ 27.145 ॥

कुम्भं भद्रकरं चापि माधवीं भास्करं मधु ।
सादनं त्रिदशाहारं विक्रमं चोग्ररूपकम् ॥ 27.146 ॥

प्रचण्डमोतदेहं च शुभदं 111 वित्तवर्धनम् ।
पापकं सुमुखं भद्रहस्तं वै रुहमक्षरम् ॥ 27.147 ॥

कुम्भं 112 सुदर्शनं चैव कपिलाक्षं चतुर्मुख ।
द्विः 113 प्रपन्नोस्मीतिपदं समुच्चार्य पितामह ॥ 27.148 ॥

ब्रह्मकोशं पुरस्कृत्य नृहरिं चानलं तथा ।
ब्रह्मसाधननासिक्यौ भीजं प्रोक्तमतः परम् ॥ 27.149 ॥

निगमादिं सुभद्रं च पाटलं सद्ध्रुवं तथा ।
मन्त्रस्य शक्तिमुद्धृत्य च्छन्दसामादिमुद्धरेत् ॥ 27.150 ॥

गारुडं मधुहन्तारं नासिक्यं विजयं वसुं ।
सपद्मनाभं मायां च सूक्ष्मदृङ्माधवं घटम् ॥ 27.151 ॥

भद्रहस्तं वैधरं च श्रीधरं चाग्निविक्रमौ ।
वैराजं भास्करं यान्तं मधु 114 शत्रु समिरणौ ॥ 27.152 ॥

मन्दरं 115 माठरमचां द्वितीयं विघ्णु पावकौ ।
कलानिधिं सबन्धुं च सार्धचन्द्रं 116 त्विषां पतिम् ॥ 27.153 ॥

सूदनं शङ्खमपरं कतृतीयं चतुर्मुख ।
117 सान्तं वसुयुतं चैव द्विरुच्चार्य चतुर्मुख ॥ 27.154 ॥

हुंफडन्तं च नत्यन्तं हृन्मन्त्रं परिकीर्तितम् ।
118 वेदादिं वन्नगं पञ्चबिन्दुभूषितमन्तकम् ॥ 27.155 ॥

वासिक्यं भद्रहस्चं च मधुद्वेषिं वसुं तथा ।
ऐन्दवं विक्रमपरं नासिक्यं भास्करं घटम् ॥ 27.156 ॥

सबन्धुं कमलं पद्मनाभं वामन 119 हस्तकम् ।
पुण्डरीकं सबन्धुं च वै राजं वैधरं ततः ॥ 27.157 ॥

गोधनं विजयं मान्तं वैधरं मधुसूदनम् ।
मानुषं चामृतं भद्रकरं गोपनपद्मजौ ॥ 27.158 ॥

सगोपनदरं चैव माधरं कतृतीयकम् ।
ऋतं च सैन्धवं बन्धुं सध्रुवं 120 माठरं त्वचाम् ॥ 27.159 ॥

द्वितीयं पुरुषं ब्रह्मन् माधवीं माधरं पुनः ।
121 भृगुखड्गरं चैव द्विरुच्चार्यमतः परम् ॥ 27.160 ॥

हुंफडन्तं शिरोमन्त्रं ठठ इत्यवसानकम् ।
122 वेदादिमुरगं षष्ठमचामर्धेन्दुमैन्दवम् ॥ 27.161 ॥

पुल्लनेत्रं सभुवनं गर्हितं 123 भूधरात्मकम् ।
कुम्भं सविक्रमं पद्मं 124 खेटकी कलशं त्वचाम् ॥ 27.162 ॥

तृतीयं 125 कमलं पञ्चबिन्दुं सुमुखमब्जज ।
यान्तं 126 च शिरसामब्जयोनिमेणेशमैन्दवम् ॥ 27.163 ॥

स्वाहाधरं शशधरं मुखं भूधरसूदनौ ।
चतुर्गतिं शतानन्दं वासुदेवं नपश्चिमम् ॥ 27.164 ॥

कलानिधिं सरामं च यष्टिं भास्रगोपनौ ।
चतुर्गतिं 127 खर्वदेहं सूदनं भानुविक्रमौ ॥ 27.165 ॥

128 द्विरभ्यसेद्धुंफडन्तं 129 शिरोमन्त्रमुदीरितम् ।
देवानां दासवचनमन्ते संयोज्य मन्त्रवित् ॥ 27.166 ॥

ओङ्कारं नृहरिं वीनसेनं नासिक्यमैन्दवम् ।
माठरं यामिनीनाथमृतधामसदर्भितम् ॥ 27.167 ॥

आखण्डलेशं सर्पेशमाकारं कतृतीयकम् ।
द्विरदं विक्रमपरं बहुलं 130 घटविक्रमौ ॥ 27.168 ॥

अम्भोरुहं चोतदेहं हृदयाह्लोदविक्रमौ ।
कलानिधिं सुभद्रान्तं सुमुखान्तं समाधवम् ॥ 27.169 ॥

छान्तं शशधरं देवदत्तं चान्तं सकुम्भकम् ।
ऐन्द्रं च कुञ्जरमुखं पीयूषद्युतिविक्रमौ ॥ 27.170 ॥

सयष्टिं द्युमणिं चादि 131 देवं यान्तं हिमालयम् ।
नदण्डं गरुडं बन्धुं पश्चिमं च द्विरुद्धरेत् ॥ 27.171 ॥

हुंपढन्तं च कवचं हुंफट्शीर्षं प्रकीर्तितम् ।
आगमादिं नरहरिं चौर्वं नासिक्य 132 मब्जज ॥ 27.172 ॥

वैधरं 133 गोधनं णान्तं मारुत्यं 134 वैधरं मधु ।
सूदनं भद्रहस्तं च पीयूषं सरसीरुहम् ॥ 27.173 ॥

गोपनं पुलहं चैव सूदनं मुरुतं वसुम् ।
कूटं 135 पुल्लायुधमचां षष्ठं वै राजमेव च ॥ 27.174 ॥

कतृतीयं पद्मनाभं भास्करं मधुविद्विषम् ।
दृष्टिं सवामनं भद्रहस्तं साग्निं समुद्धरेत् ॥ 27.175 ॥

भास्करं भद्रहस्तं च तद्द्विरुच्चार्यमन्त्रवित् ।
पश्चिमं वक्रतुण्डं च मन्दरं सुप्रतिष्ठितम् ॥ 27.176 ॥

तानुदीर्याथमन्त्रज्ञस्सुभद्रं चैन्दवं पुनः ।
सदक्षं वामनशिरा अम्भोरुहनिकेतन ॥ 27.177 ॥

अम्भोरुहं सभुवनं पावकं भुवनं तथा ।
नृहरिं पापहननं विक्रमं विजयं पुनः ॥ 27.178 ॥

वैरिञ्चं 136 वामनं दक्षमौग्रं दक्षं चतुर्मुख ।
गुहालयं सविजयमग्निशीर्षं च मारुतम् ॥ 27.179 ॥

ऐणेशं मन्दरं भानुं सूदनं विघ्ननायकम् ।
यान्तं ताराधिपं मायां सद्ध्रुवं माठरं तथा ॥ 27.180 ॥

मधुद्विषं 137 मारुतं च हुंफ 138 डस्त्रं प्रकीर्तितम् ।
अस्त्रशब्दं चतुर्थ्यन्तं फडन्तं च समुद्धरेत् ॥ 27.181 ॥

उद्गीथं नृहरिं 139 सर्गमन्धरं माठरं त्वचाम् ।
द्वितीयं पश्चिमं पद्मनाभं चादिसमन्वितम् ॥ 27.182 ॥

खड्गहस्तं च सुमुखं मेदिन्याः 140 पदमम्बुजम् ।
सगोपनं सुरपतिं गोपनं खद्वितीयकम् ॥ 27.183 ॥

भद्रहस्तं 141 सरामं च वासवं ब्रह्मसाधनम् ।
खड्गहस्तं गजमुखं सूदनं च चतुर्गतिम् ॥ 27.184 ॥

आचामादिं गजमुखमौषधं ना न्तमब्जज ।
माधवीं मुरुतं यान्तं माधरं पश्चिमं तथा ॥ 27.185 ॥

सबन्धुं सप्रचण्डं चाप्येणेशं पाटलप्रियम् ।
मार्ताण्डं मधुविद्वेषिं भद्रं स्यादृतधामकम् ॥ 27.186 ॥

दाक्षायणीशं रामं स्यादनुस्वारं चतुर्मुख ।
दिवाकरं चादिदेवं 142 दरं वैधरगोपनौ ॥ 27.187 ॥

पावकं पुरुषात्मानं 143 द्विरुक्तं कमलासन ।
हुंफडन्तं च नेत्राभ्यां वौषट्कारं प्रयुज्य च ॥ 27.188 ॥

एवं न्यस्य विधानज्ञो विष्कम्भान्तं सदण्डकम् ।
दिवाकरसहस्राभं 144 हृदयार्णं षडुद्धरेत् ॥ 27.189 ॥

उत्पलं कुमुदं रक्त जपाबन्धूकरिंशुकम् ।
पाटलं हृदयादीनां वर्णष्षण्णां क्रमाद्भवेत् ॥ 27.190 ॥

रक्षामन्त्रः

रक्षामन्त्रं प्रवक्ष्यामि छन्दसामादिमुद्धरेत् ।
विघ्नेशं पद्मनाभं स्याद्द्विजराजं सविक्रमम् ॥ 27.191 ॥

सदण्डं च समार्ताण्डं बहुलं सगुहालयम् ।
पश्चिमं वामनपरं प्रचण्डं हरिणं भवेत् ॥ 27.192 ॥

भल्लायुधं गदध्वंसं लान्तं भद्रकरं तथा ।
आचामादिं दिनमणिं माधवं सौरमक्षरम् ॥ 27.193 ॥

एणेशं धनदं दक्षं वसुशीर्षं च सूदनम् ।
धनाध्यक्षं तथा दक्षं पावकं मस्तकस्थितम् ॥ 27.194 ॥

145 धान्तं सविक्रमं खान्तं हान्तं स्यात्कपिलं पुनः ।
146 द्विरदास्यं बन्दुपरं माधवीं यान्तशीर्षकम् ॥ 27.195 ॥

वासुदेवं खड्गधरं चतुर्गतिमनन्तरम् ।
147 मुखं सवैधरं ब्रह्मन्माठरं तद्ध्विरुद्धरेत् ॥ 27.196 ॥

पवित्रमप्रमेयं स्यात्तुण्डं चादिसमन्दरम् ।
सर्वरोधं द्विरुच्छार्य कमलं सविरोचनम् ॥ 27.197 ॥

यथापुरं सदण्डं च सूदनं यान्तमारुतौ ।
द्विर्वक्तव्यं सुभद्रं च विक्रमं विघ्नवैधरौ ॥ 27.198 ॥

148 तद्विरुद्धश्छलध्विंसी बन्दुविघ्नं सवैधरम् ।
149 ऐन्दिरं चोतदेहं च उग्रं मान्तं चतुर्मुख ॥ 27.199 ॥

अत्रिं चाग्निं मधुद्वेषममृतं धूलिकेतनम् ।
तार्क्ष्यं सर्ङ्कणं दण्डं तद्विरुच्चार्य पद्मज ॥ 27.200 ॥

मार्ताण्डमूर्ध्वनासिक्यं तदुदीर्यमतः परम् ।
150 पावकं चौर्वशिरसं सदण्डं गोपनं तथा ॥ 27.201 ॥

गदध्वंसं छलध्वंसं तदुदीर्य जयं तथा ।
वैराजं यान्तशिरसं शुक्लं वै राजपावकौ ॥ 27.202 ॥

जृम्भलं 151 समता ब्रह्मन् माठरं दक्षसंज्ञितम् ।
प्रचण्डं माधवं चैव कलशं बन्धुशीर्षकम् ॥ 27.203 ॥

152 कमलां वारुणं यान्तं हृषीकेशं च पश्चिमम् ।
माया 153 जितं प्रचण्डं च माधवं च ठठान्तिमम् ॥ 27.204 ॥

बीजमङ्गानि चोक्तानि दुर्वासा ऋषिरुच्यते ।
छन्दो बस्तं देवता च महानरहरिर्हरिः ॥ 27.205 ॥

मालामन्त्रे त्रिवर्णास्स्युश्शुक्ल पीत 154 सितासिताः ।
तत्वं च परमाप्योम सकलीकरणं तथा ॥ 27.206 ॥

विकलीकरणं चैव मन्त्र 155 स्याप्यायनं भवेत् ।
मोचनं चैव 156 इत्येते कथिताः कमलासन ॥ 27.207 ॥

चतुष्षष्टिविधे मन्त्रे नारसिंहे महानयम् ।
नृसिंहो व्योमचक्राख्यः पातालाख्यश्च सूरिभिः ॥ 27.208 ॥

ध्यायेन्मृत्युभये कृत्याप्रवेशे युधि विद्विषाम् ।
उच्चाटने संहनने भूतानामपनोदने ॥ 27.209 ॥

आख्यायते ध्यानमस्य स्मृतं स वितृमण्डले ।
मध्ये विकस्वरे शुभ्रे पङ्कजे विष्टरोदरे ॥ 27.210 ॥

आसीनं षोडशमुखं भुजै स्तद्विगुणै र्युतम् ।
आयुधैश्शज्ञचक्राद्यैर्दुर्दर्शैरश्मिमालिभिः ॥ 27.211 ॥

परचक्रप्रतिक्षेपे दुष्करेष्वन्यकर्मसु ।

बीजशक्त्यादिद्वादशाङ्गप्रश्नः

ब्रह्मा—

द्वादशाङ्गानि येवेत्तिमन्त्रं सोर्हति वेदितुम् ॥ 27.212 ॥

इत्युक्तं भगवन् भूयो जिज्ञासा तेषु वर्तते ।

तन्निरूपणम्

श्रीभगवान् :—

बीजं शक्तिस्तथैवाङ्गं हृदयादि च षड्विधम् ॥ 27.213 ॥

ऋषिश्छन्दो देवता च वर्णोद्दीपनमेव च ।
अप्यायनं मोचनं च सकलीकरणं तथा ॥ 27.214 ॥

विकलीकरणं चैव द्वादशैतानि पद्मज ।
तेषां स्वरूपं वक्ष्यामि क्रमात्तदवधार्यताम् ॥ 27.215 ॥

मन्त्रस्य प्रकृतिर्बीजमक्षरं तत्समुद्धृतम् ।
आत्मामन्त्रस्य सा शक्तिर्यथा मन्त्र 157 फलप्रदः ॥ 27.216 ॥

हृदयादीनि मन्त्रस्य षडङ्गानि पितामह ।
देवस्येव मुखादीनि एषु मन्त्रः प्रतिष्ठितः ॥ 27.217 ॥

ऋषिः फलस्य द्रष्टा प्याच्छन्दस्तदभिधीयते ।
अक्षराणामियत्ता या देवता वाच्यमुच्यते ॥ 27.218 ॥

रूपभेदश्च शुक्लादिवर्णः कमलसम्भव ।
संपुटीकरणं रेफलकाराभ्यां तु दीपनम् ॥ 27.219 ॥

यथोदिताक्षरैस्सर्वैस्संस्कारश्शोषणादिभिः ।
मन्त्रस्य देहवत्प्रोक्तं यत्तदाप्यायनं बुधैः ॥ 27.220 ॥

मन्त्रस्य मोचनं नाम प्रयोगस्तम्भनादिषु ।
मन्त्राक्षराणां प्रत्येकं संपुटीकरणं स्मृतम् ॥ 27.221 ॥

सकलीकरणं विद्धि प्रणवेन चतुर्मुख ।
वौषट्कारवषट्कारहुं कारैः पृथगीरितैः ॥ 27.222 ॥

देवतानामभीष्टानां सन्निधिर्यः पुटादिषु ।
प्रार्थ्येते 158 स चतुर्वक्त्र विकलीकरणाह्वयः ॥ 27.223 ॥

एतान्येन प्रयुञ्जीत विद्ययोराद्ययोरपि ।

वामनमन्त्रः

एकादशाक्षरो मन्त्रो वामनस्य प्रदर्श्यते ॥ 27.224 ॥

पूर्वोदितास्सप्तवर्णाः विशेस्समुदीर्यते ।
पीयूषमादिदेवं च मन्धरं चादिमुद्धरेत् ॥ 27.225 ॥

विघ्नेशं गोपनं वायुमाद्यं चेति चतुर्मुख ।
बीजं 159 शिरस्यूर्द्वलोको यष्टिश्चेति 160 चतुर्गतिम् ॥ 27.226 ॥

अङ्गानि षट्फलादीनि स्वरान्तान्यानुपूर्वशः ।
सानुस्वाराणि योज्यानि काश्यफो मुनिरिष्यते ॥ 27.227 ॥

छन्दश्च दैवं गायत्रं वामनो देवता पुनः ।
लक्षाण्येकादश जपे होमे च जलतर्पणे ॥ 27.228 ॥

ततस्सिध्यति मन्त्रोयं पुरुषार्थचतुष्टयम् ।
फलमन्यच्च यच्चेष्ट मष्टाक्षरवदीरितम् ॥ 27.229 ॥

त्रिविक्रममन्त्रः

ओमादिनतिपूर्वाणि चत्वार्याद्यानि पूर्ववत् ।
सप्ताक्षरस्यमन्त्रस्य साधनं च यथापुरम् ॥ 27.230 ॥

सप्तलक्षजापादुक्तं फलमाप्नोति मन्त्रवित् ।
गृहीत्वार्णान् सप्त पूर्वन्वैराजो 161 ग्निस्त्रिविक्रमः ॥ 27.231 ॥

यदाधिपश्च माया च स्पर्शादिरनलोन्मुखम् ।
स्पर्शान्तश्चादिदेवश्च शङ्खो विष्णुरितीरितः ॥ 27.232 ॥

द्वादशार्णात्मको मन्त्रस्तदेव कमलासन ।
त्रिविक्रमस्य बीजं च भास्करो विष्णुरेव च ॥ 27.233 ॥

अर्धचन्द्राकृति 162 श्चेति तदेवाङ्गं च षड्विधम् ।
ऋषिश्च देवता छन्दः पूर्वोक्तान्येव साधनम् ॥ 27.234 ॥

पूर्ववत्फलमस्यापि राज्यादिप्राप्तिरिष्यते ।
163 न त्वेकं शक्यते वक्तुमानन्त्यात्फलसम्पदाम् ॥ 27.235 ॥

जामदग्न्यराममन्त्रः

रामस्य जामदग्न्यस्य मन्त्रोद्धारश्चतुर्मुख ।
गृहीत्वा पूर्ववत्सप्तवर्णान् साधारणां स्ततः ॥ 27.236 ॥

असाधारणवर्णानां क्रमादुद्धारणं शृणु ।
जन्महन्ता गोपनश्च माधवी विष्णुर 164 स्वतः ॥ 27.237 ॥

दृष्टिश्छादिर्गदी भद्रपाणिर्वायुश्च गोपनः ।
चतुर्गतिस्स्वरादिश्च वह्निराकार एव च ॥ 27.238 ॥

मन्धराश्छादिदेवश्चश्वसनो विष्णुरब्जज ।
हुंपडन्त इति प्रोक्तामन्त्रस्सप्तदशाक्षरः ॥ 27.239 ॥

अनलः प्रणवादिश्च सयष्टिर्बीजमिरितम् ।
एतदेवाङ्गमावृत्तं षट्कृत्वो गार्ग्यदर्शनः ॥ 27.240 ॥

छन्दश्च दैवं गायत्रं जामदग्न्योस्य देवता ।
जपेद्द्विंशतिलक्षाणि ततस्सर्वार्थसाधनः ॥ 27.241 ॥

दशाक्षरोऽथवा मन्त्रोजामदग्न्यपदं विना ।
भीजादि सर्वं पुर्वोक्तं मन्त्रश्शत्रुक्षयावहः ॥ 27.242 ॥

दाशरथिराममन्द्रः

मन्त्रो रामावतारस्य ब्रह्मन् दाशरथेर्वरः ।
कथ्यते भरतादीनां तद्देवीनां मनुः क्रमात् ॥ 27.243 ॥

द्वादशाक्षरमारभ्य मन्त्रं तदनु पद्मज ।
चतुर्मूर्तिमयायेति पदमुच्चार्यमन्त्रवित् ॥ 27.244 ॥

अभिरामशरीरेति चतुर्थ्यन्तमुदीरयेत् ।
रामेति तद्विभक्त्यन्तं 165 ठठेति तदनन्तरम् ॥ 27.245 ॥

द्वात्रिंशदक्षरात्मायं मनुरुक्तश्छतुर्मुख ।
भीजमस्यानलो विष्णुस्सानुस्वारः क्रमात् स्मृतः ॥ 27.246 ॥

अङ्गानि षट्च तद्बीजमकारादि क्रमाद्भवेत् ।
अपरं राममन्त्रं ते कथयामि चतुर्मुख ॥ 27.247 ॥

प्रथणं प्रणवं प्रोच्य पञ्चबिन्दुं सयष्टिकम् ।
चतुर्थ्यन्तं चतुर्मूर्तिपदमुक्त्वाततः परम् ॥ 27.248 ॥

166 चतुर्गतिमयायेति शरशार्ङ्गभृदन्वतः ।
चतुर्थ्यन्तं 167 शरत्पूर्वमिन्दीवरपदं ततः ॥ 27.249 ॥

त्विषेति च पदं पश्चात्प्रयोज्यं भगवत्पदम् ।
चतुर्ध्यन्तं समुच्चार्य मभिरामपदं ततः ॥ 27.250 ॥

शरीरायेति च प्रोच्य रामायेति पदं तथा ।
सत्यन्तमिति मन्त्रस्य पदोद्धारः प्रदर्शितः ॥ 27.251 ॥

बीजं तदङ्गषट्कं च तदृषिश्शरभः स्मृतः ।
छन्दश्च पूर्ववद्देवो रामात्मा भगवान् 168 हरिः ॥ 27.252 ॥

जपेदक्षरलक्षं तु ततस्सिध्यति मन्त्रराट् ।
फलं चाभीष्टमचिराल्लभते दुर्लभं महत् ॥ 27.253 ॥

मातृका च क्रविन्यस्तानर्णषण्डान् समन्त्रितान् ।
अभ्यर्च्य कुसुमैस्तस्मिन्नुद्धरेद्भगवन्मयः ॥ 27.254 ॥

मालामन्त्रान्तरम्

अतो 169 न्यं मन्त्रसङ्घातं मालामन्त्रं यथातथम् ।
वक्ष्यामि संप्रति ब्रह्मन् यधा 170 वदवधार्यताम् ॥ 27.255 ॥

आदौ नादं सप्तवर्णं वसुं मधुनिघादनम् ।
स्पर्शान्तं गोपनं शङ्खं मुखं विष्णुं जयं तथा ॥ 27.256 ॥

अचां पञ्चममाहेन्द्रा नादादिं घटविक्रमान् ।
171 शङ्खिनं शिखिनं दक्षं करालं वसुनिष्ठितम् ॥ 27.257 ॥

172 हस्तं मधुद्विषं ब्रह्मन् धूलिकेतनमदिमम् ।
नान्तयान्तौ सदक्षाह्वा पश्चिमोदयमक्षरम् ॥ 27.258 ॥

173 अत्रिं रमाधरं क्रोधरूपिणं चानलाह्वयम् ।
अचां द्वितीयं पवनं कलशं बन्धुमस्तकम् ॥ 27.259 ॥

उग्रात्मसुमुखौ स्यातां यादोनाथमृगाधिपौ ।
दिनेशमादिं नासिक्यं शशाङ्कं मधुविद्विषम् ॥ 27.260 ॥

वैराजं माधवीं भद्रकरं माधवमब्जज ।
वक्रतुण्डमचामादिं विजयोदयसंज्ञितम् ॥ 27.261 ॥

पञ्चान्तकं 174 तथा यान्तकं मन्तकस्थं जयं पुनः ।
राममन्दरशङ्खास्स्युर्गोपनं पवनं मुखम् ॥ 27.262 ॥

आदिभल्लायुदौ रामवसुगोपनपाटलौ ।
175 श्रीवत्समादिमनलं वामनाग्नि मधुद्विषम् ॥ 27.263 ॥

चितुर्गतिं खड्गधर 176 मेकदृद्वैधरं तथा ।
177 दक्षं चाग्निं हृषीकेश विजयद्वयमन्वतः ॥ 27.264 ॥

यान्तं तच्चिरसं पश्चात्पवनं मृगवल्लभम् ।
ऋक्षेशमेकनयनदरगोपनविघ्नराट् ॥ 27.265 ॥

बन्धुयान्तौ च भुवनं वैधरौ पुण्यभास्करौ ।
श्वसनं दक्षभुवनौ चक्रविघ्नेशसप्तमम् ॥ 27.266 ॥

178 अचां कारणमेणेशकलात्मवसुविक्रमाः ।
करालगोपनौ पापहननौ विक्रमं तथा ॥ 27.267 ॥

महेन्द्रकुम्भावनलो मधुसूदन भास्करौ ।
179 यान्तगोपनसप्तार्चिर्मधुसूदनमारुताः ॥ 27.268 ॥

प्रचण्डगोपनौ खड्गधर श्रीधरवैजयाः ।
पीयूषगोपनौ पद्मश्रीधरौ वनमालिनौ ॥ 27.269 ॥

मेघपञ्चात्मद्विरदकमलामधुविद्विषः ।
पितो मृगेशपवनगोपनाश्शुक्ल श्रीधराः ॥ 27.270 ॥

पावकस्थान्तगोविन्दवै राजदरवैधराः ।
मधुसूदनविघ्नेशसुधारस समाह्वायाः ॥ 27.271 ॥

ब्रह्मसाधनसप्तार्चिर्गतिभास्करसप्तमाः ।
अचा 180 मादिं धरो वेधाः ब्रह्मसाधनखेटकी ॥ 27.272 ॥

अग्निश्च कपिलं ब्रह्मन् भल्लायुधसविक्रमम् ।
विघ्नेशं वैधरं प्रेतनायकं रामश्रीर्षकम् ॥ 27.273 ॥

भद्रपाणिं तथा दृक्छ सरसीरुहसम्भव ।
दक्षादि देवहुतभुक्चतुर्गतिमनन्तरम् ॥ 27.274 ॥

श्रीवत्सवासु देवौ द्वौ क्रोधरूपसमिरणौ ।
181 करालं च ऋतं भद्रपाणिं वै राजमारुतौ ॥ 27.275 ॥

पश्चिमं वसु कूर्मं च विक्रमं दृष्टिगोपनौ ।
विघ्नेशच्छलविध्वंसमाधवा वैधरात्मकम् ॥ 27.276 ॥

जलजं पापहन्तारं हुतभुक्कमलं घटम् ।
वक्रतुण्डं तथा द्युम्नं द्विरदाननविक्रमम् ॥ 27.277 ॥

भान्तमग्निं चोतदेहं वक्रतुण्डं चतुर्गतिम् ।
पश्चिमाननयान्तौ च ओतदेहसमन्वितौ ॥ 27.278 ॥

वै राजद्वितयं दक्षं गोपनं नासिकोद्भवम् ।
गदध्वंसं च कपिलमत्रिं मधुनिघादनम् ॥ 27.279 ॥

यान्तं चतुर्गतिं शुक्लं वारुणाग्नि समिरणाः ।
एकदन्तं चैकदृष्टिं बहुलं मधुविद्विषम् ॥ 27.280 ॥

प्रचण्डं विक्रमं वक्रतुण्डं च सगुहालयम् ।
सुमुखं हुतभुक्छङ्खमनलं मधुविद्विषम् ॥ 27.281 ॥

यष्टिं दक्षं तथाकारं नासिक्यं धूलिकेतनम् ।
ध्रुवं माहेन्द्रमाकार 182 मर्धांशुं कुम्भगोपनौ ॥ 27.282 ॥

सद्ध्रुवं जन्महन्तारं वारुणं पुलहं तथा ।
मुसली कुम्भमाकारं पीतवायुधनप्रदाः ॥ 27.283 ॥

श्रीधरं भद्रहस्तं च 183 हरिं स्वाहामयावहम् ।
हुंफडन्तं नवैतानि बीजानि कमलोद्भव ॥ 27.284 ॥

पद्मपाणिं पद्मनाभं वनमालां त्रिविक्रमम् ।
श्रीवत्सं शङ्खिभुवनं भद्रहस्तास्सविक्रमाः ॥ 27.285 ॥

अग्निं मृगेशं वरुणं वैराजं बन्धुमस्तकम् ।
दरं तार्क्ष्यं तथाचादिदेवं शुक्लं श्रियः पतिम् ॥ 27.286 ॥

वसुगोपनशीतांशुभुवनानलवारुणाः ।
मृगेशविजयाकार विष्कम्भाश्शुक्ल विक्रमौ ॥ 27.287 ॥

दृक्पुण्यमादिपदेवं च 184 भास्करं ऋतधामकम् ।
सूक्ष्मदृक्छङ्खदक्षौच वैधरोऽग्निश्छतुर्गतिः ॥ 27.288 ॥

पश्चिमं 185 त्रितदक्षादि अग्निवायुसरोरुहाः ।
ऋतधामा जया गोपा पश्चिमा ? शुक्लमब्जज ॥ 27.289 ॥

186 भानुगोपनसप्तार्चि र्भल्लायुधगुहालयाः ।
नै राजककुभौ कुम्भहव्यवाट्कपिलाह्वयाः ॥ 27.290 ॥

वैधरं भास्करं पापहननं वक्रतुण्डकम् ।
गदिनं ऋतधामानं भास्करं सुमुखं तथा ॥ 27.291 ॥

कुम्भविक्रमजन्माह्वपद्मनाभास्सदेवराट् ।
सुभद्रसङ्खदक्षाह्वमोतदेहोऽथ भास्करः ॥ 27.292 ॥

पवनं पापहननं गोपनौ विजयो दरः ।
उदयं पीतकमलं मधुसूदनविघ्नराट् ॥ 27.293 ॥

माहेन्द्रश्शुभदो वह्निगोधनौ कुम्भविक्रमौ ।
अग्निरत्रिः 187 कुम्भधरौ लक्ष्मीखर्वाश्चतुर्मुख ॥ 27.294 ॥

188 शुक्लोदयं तथा दृष्टिश्श्रीवत्सं वसुशीर्षकम् ।
विघ्नेश शुभदौ स्यातां सरसीरुहसम्भव ॥ 27.295 ॥

मधुसूदश्शार्ङ्गपाणिः पञ्छान्तकविधी पुनः ।
189 और्वदक्षौतदेहश्च दृष्टिं सरसिजं तथा ॥ 27.296 ॥

वामनो धनदो यान्तस्सुभगाग्नि 190 वनस्रजः ।
रामपुण्याग्नि गरुडविक्रमौ जयविक्रमौ ॥ 27.297 ॥

सुभगोऽग्नि रादिदेवः कुञ्जरेण मुखाक्षरः ।
करालं कपिलं पापहननं पवनात्मजम् ॥ 27.298 ॥

श्रीधरं दृष्टिधनदं पञ्चबिन्दुं सविघ्नराट् ।
शुभोत देहावुग्रात्मा चतुर्गतिमचां मुखम् ॥ 27.299 ॥

शैलद्वयं द्वादशात्मा गोपनश्शुक्ल पश्चिमौ ।
श्रीधरस्सुमुखो भूमिरनलः पञ्च 191 बिन्दुकः ॥ 27.300 ॥

करालाग्निं महामाया सुभगो बन्धुरन्वतः ।
वैराजं विक्रमं पुपहननं बन्धुमस्तकम् ॥ 27.301 ॥

प्रचण्डं पुण्डरीकाक्षं वासुदेवं जयं वसुम् ।
सूक्ष्मदृक्कुम्भवरुणपश्चिमाननमाधराः ॥ 27.302 ॥

उग्रात्ममृगदक्षाह्व गोपना धनदः कुटः ।
दक्षः पुण्योदयश्शुक्ल 192 श्शुभदृष्टिर्विनायकः ॥ 27.303 ॥

वैधरो मधुहन्ताच मन्दरं ब्रह्मसाधनम् ।
अत्रिरग्निपवित्राह्वा 193 वैधरस्पर्शपश्चिमाः ॥ 27.304 ॥

भद्रादिदेवभल्लाह्वमुग्रभूमिं मधुद्विषम् ।
एकदृग्दक्षविघ्नेशमाधवा मृगवल्लभाः ॥ 27.305 ॥

भास्करं देवदत्तं च भानुं बन्धुं सुभद्रकम् ।
194 गदध्वंसं तथा कुम्भं द्विरदं पश्चिमाननम् ॥ 27.306 ॥

और्वाग्नि भुवनावुग्रयष्टिर्वेधाश्श्रियः पतिः ।
अग्निं रमाधरं द्विश्च अग्निकूट 195 विगर्हितम् ॥ 27.307 ॥

तथा भद्रमधुद्वेषिदृष्टिगोपनमस्तकान् ।
वैराजदक्षकमलगोपनाविन्दुपक्षिराट् ॥ 27.308 ॥

मनुं ध्रुवाग्नि माकारं बिन्दुश्छन्द्रमदुद्विषः ।
नासिक्य 196 मादिरत्रिश्च बन्धुमन्दरविष्टपाः ॥ 27.309 ॥

वै राजरेफशङ्खाह्वमाधवावादिविघ्नराट् ।
मृगेशकमलौ दक्षं गुहमम्भोरुहासन ॥ 27.310 ॥

जयोऽग्निर्वायुरैणेशमुखो गरुडवाहनः ।
बन्धुपीतपवित्राह्वमधुसूदनवैजयाः ॥ 27.311 ॥

गोपनो भार्गवाकारशुक्लोदयहुताशनाः ।
पीतोतदेहकमलविघ्न विक्रममाधवाः ॥ 27.312 ॥

गोपनं 197 सोमबन्धुश्च करिगोपनयष्टयः ।
दिनेशमृतधामाह्व दृष्टिशङ्खमधुद्विषः ॥ 27.313 ॥

विघ्नवायू तथा गोपकमलौ सत्रुदाहकः ।
198 धान्तसङ्खा मधोर्हन्ता पद्मक्रोधाग्नि मारुताः ॥ 27.314 ॥

आदिश्चक्री सुबन्धुश्च पीतस्सर्वपुरान्तकः ।
199 उदयो यान्तरामौ च वैराजतपवनाग्नयः ॥ 27.315 ॥

आदिः खर्वतनुर्बन्धु पीतपद्ममधुद्विषः ।
पाटलं पश्चिमं पद्मनाभं वैधरमाधवौ ॥ 27.316 ॥

भल्लायुधं गदी कुम्भ वैराजमृगवल्लभाः ।
श्रीवत्समग्निमिकारं कुम्भं पीतद्वयं तथा ॥ 27.317 ॥

सुभद्रगोपनौ शङ्खमन्तरौ दिनकृत्तथा ।
अचां चतुर्दशं जन्मशशाङ्कमृगवल्लभाः ॥ 27.318 ॥

हुताशगोपदक्षाह्वमाधव्यश्च गुहालयः ।
वै राजयुगसप्तार्चिर्दर देवहुतान्तिमाः ॥ 27.319 ॥

असलो यष्टिसहितो बीजमस्य समिरितम् ।
शरभङ्गऋषिस्तस्य वरिवं छन्द ईरितः ॥ 27.320 ॥

जपो लक्षत्रयस्तस्मिन् चतुश्शतमिताक्षरे ।
पुंसो रामावतारस्य परस्य परमात्मनः ॥ 27.321 ॥

चतुश्शतार्णरूपोऽयं मालामन्त्रस्समुद्धृतः ।
यथापुरं पुरश्चर्या सिद्धश्चैव यथापुरम् ॥ 27.322 ॥

भरतादीनां मन्त्रनिर्देशः

अन्वेषां भरतादीनामितरप्यूहनामभिः ।
आत्मशीर्षैश्छतुर्थ्यन्तैर्नामानि सहितानि च ॥ 27.323 ॥

चतुर्थ्यन्तानि वाच्यानि मन्त्ररूपाणि पद्मज ।
200 बीजान्याद्यक्ष राण्येव सानुस्वाराणि योजयेत् ॥ 27.324 ॥

सीतादीनां च देवीनां चतुर्थ्यन्तास्समाह्वयाः ।
201 मन्त्रष्ठठेतिपर्यन्तो बीजान्याद्यक्षराणि च ॥ 27.325 ॥

श्रीमन्त्रवत्पुरश्चर्या तद्वच्च फलसम्भवः ।

बलराममन्त्रः

रामस्य बलभद्रस्य मनुस्संप्रति कथ्यते ॥ 27.326 ॥

सप्तार्णं पदमुच्चार्य ततः पश्चादुदीरियेत् ।
रामायेति चतुर्थ्यन्तं बलभद्रपदं तथा ॥ 27.327 ॥

बीजमस्योच्यते ब्रह्मन् जृम्भलं पुलहं तथा ।
सानुस्वारो हृषीकेशः पैङ्गलस्यादृषिः स्मृतः ॥ 27.328 ॥

छन्दः पूर्ववदेवस्याद्देवता मुसलायुधः ।
रामः कमलपत्राक्षो बीजमेवाङ्गपद्धतिः ॥ 27.329 ॥

लक्षाण्यक्षरसङ्ख्यानि 202 भवेन्मन्त्रस्य सिद्धये ।
फलमिष्टमवाप्नोति पातालगमनादिकम् ॥ 27.330 ॥

चतुर्वर्गफलावाप्तेः फलमस्य करेस्थितम् ।

कृष्णस्य मन्त्रः

यादवस्याथ कृष्णस्य मन्त्रस्संप्रति कथ्यते ॥ 27.331 ॥

उद्गीथमुच्छार्यमुखे स्पर्शादि तदनन्तरम् ।
ऋतधामा ततः पश्चात्क्रोधरूपमनन्तरम् ॥ 27.332 ॥

वनमालिनमाकारं श्वसनं विष्णुमस्तकम् ।
सत्यन्तमिति षड्वर्णा मन्त्रस्य कथिता मया ॥ 27.333 ॥

बीजं कमलमाद्यं स्यात्सप्तार्चिस्तदनन्तरम् ।
और्वः पश्चात्सयष्टिस्स्यादेतेनैवाङ्गकल्पना ॥ 27.334 ॥

सनकोऽस्य भवेद्द्रष्टा छन्दो गायत्रमुच्यते ।
देवता भगवान् कृष्णः पुरश्छर्या च पूर्ववत् ॥ 27.335 ॥

फलानि पूर्वमुक्तानि नानन्त्यादुच्यते पुनः ।

गोवर्धनमन्त्रः

गोवर्धनाख्यमन्त्रन्य वर्णोद्धारः प्रदर्श्यते ॥ 27.336 ॥

वेदादिं पूर्वमुच्चार्य प्रथमे स्पर्शपञ्चके ।
तृतीयं यादिषु तथा स्वरेषु च 203 चतुर्मुख ॥ 27.337 ॥

सद्ध्रुवं गदिनं ब्रह्मसाधनं च सुधारसम् ।
आदिं सप्तार्चिषं पुण्यं 204 मकरं तदनन्तरम् ॥ 27.338 ॥

भद्रबाहुं द्वितीयं च श्वसनं मुखमन्वतः ।
सत्यस्तमेवमुद्धारः कथितो सववर्णकः ॥ 27.339 ॥

मन्त्रस्तदेव बीजादि साधनं फलमीरितम् ।

गोपालमन्त्रः

गोपालमन्त्रस्योद्धारः कथ्यते कमलासन ॥ 27.340 ॥

छन्दसामादिमुच्चार्य तृतीयं स्पर्शसंज्ञितम् ।
ओतदेहं पवित्रं च वामनं ककुभं ततः ॥ 27.341 ॥

अनिरुद्धं विघ्णु राजमकारं यादसांपतिम् ।
आद्यं पुलहमावृत्तं स्पर्शोपान्तं च गोपनम् ॥ 27.342 ॥

प्रभञ्जनं स्वरेष्वादिं ठठान्तो मनुरीरितः ।
बीजं तृतीयं स्पर्शानं पीतं तुर्यमचामतः ॥ 27.343 ॥

नासिक्यमङ्गानि पुनर्गोपनं खड्गसंज्ञितम् ।
मुख्यं स्पर्शादिमनलं गोपनं 205 स्पर्शनं तथा ॥ 27.344 ॥

आद्यं ठठान्तं प्रथमं तदेवाङ्गमनन्तरम् ।
विपूर्वमधिकं पश्चादङ्गं त्रैलोक्यपूर्वकम् ॥ 27.345 ॥

रक्षणेति चतुर्थ्यन्तं तद्विभक्त्यन्तमन्वतः ।
असुराद्यन्तकपरं पदं सर्वाद्यनन्तरम् ॥ 27.346 ॥

ग्रहं निवारणायेति हुंफडन्तमितीरितम् ।
मन्त्रस्य नारदो द्रष्टा विराट्छन्दश्च देवता ॥ 27.347 ॥

कष्णावतारो भगवान् जपस्थानं पुरोदितम् ।
206 सहस्रशः प्रतिस्थानं जपः प्रोक्तश्चतुर्मुख ॥ 27.348 ॥

जपात्सिध्यति मन्त्रोऽयं साधयत्यखिलं फलम् ।

मन्त्रान्तरम्

अश्चर्यमपरं मन्त्रं वक्ष्यामि कमलासन ॥ 27.349 ॥

उच्चार्य प्रणवं पूर्वं 207 माधरं तदनन्तरं ।
चतुर्थ्यन्तमुदीर्याथ तद्विभक्त्यन्तमद्भुतम् ॥ 27.350 ॥

भोगेश्वरपदं तद्वत्तद्व 208 च्च क्रिपदं ततः ।
सुपर्णादिध्वजान्तं च पदं तादृग्विभक्तिकम् ॥ 27.351 ॥

पीतादिवासश्शब्दान्तं वासुदेवपदं ततः ।
तद्विभक्तिशरो योज्यं नत्यन्तो मनुरुद्धृतः ॥ 27.352 ॥

209 पूर्वमङ्गानि योज्यानि पूर्ववन्नातिरिच्यते ।
ऋषिश्छन्दो देवता च पूर्वत्फलमेव च ॥ 27.353 ॥

धर्मार्थकाममोक्षादि नेहभूयः प्रतन्यते ।

मालामन्त्रः

मालामन्त्रं तावदर्णं देवस्य मधुविद्विषः ॥ 27.354 ॥

कृष्णावताररूपस्य चतुर्वर्गफलप्रदम् ।
उद्धरामि यथा 210 तत्त्वं यथा तदवधार्यताम् ॥ 27.355 ॥

211 निगमादि द्विषट्कार्णं सरोजमृतधामकम् ।
क्रोधं प्रचण्डं मधुभिच्छङ्खकुम्भृतान्विताः ॥ 27.356 ॥

212 क्रोधश्चण्डक्रमः कुम्भशङ्काग्नि मधुसूदनाः ।
दरश्रीवत्स एणेश क्रोधस्सूक्ष्म मतः परम् ॥ 27.357 ॥

वासुदेवो गदी पापहननं च चतुर्गतिम् ।
अग्निबिन्धु र्विरिञ्च्यादि देवाश्शङ्ख मचां मुखम् ॥ 27.358 ॥

पवित्रमग्निमधुभि द्भद्रपाणिद्वयं पुनः ।
वैधरं पश्चिमवसुं दक्षेन्दु भुवनात्मकम् ॥ 27.359 ॥

सूक्ष्मचक्षु गर्तिस्सोमः कुम्भाग्नि सगुहालयौ ।
पवित्रगोपनौ वायुं पश्चिमाग्निं मधुद्विषः ॥ 27.360 ॥

वैराज माधवीविघ्नस्सारङ्गासिधराः परः ।
बन्धुवै राजहुत 213 भुक्पङ्छात्मद्विरदा 214 सनाः ॥ 27.361 ॥

गोपनश्शङ्खदिनकृदृत वैधरमारुताः ।
अब्जोतदेहावद्रिश्च 215 यान्तभद्रत्रिविक्रमाः ॥ 27.362 ॥

महेन्द्रशङ्ख मधउभिन्मारुताः ककुभाह्वयाः ।
भ्रुगुगोवनविघ्नेशजन्म 216 हन्त्रेणसंहिताः ॥ 27.363 ॥

मारुतो गोपनो वायुरिन्दु भास्रमैन्दवम् ।
ऋतं लक्ष्मीं महामायां क्रोधाग्नि वरुणाह्वयाः ॥ 27.364 ॥

अत्रिर्विघ्नद्वयं शङ्खो द्विरदस्सूक्ष्मलोचनः ।
श्रियः पतिं तथाजन्महन्तारं वक्रतुण्डकम् ॥ 27.365 ॥

हुताशचण्डमधुभिद्दरशुक्लदिनेश्वराः ।
कालात्मा प्रतिमाकारजयपावकभद्रकाः ॥ 27.366 ॥

उदैकश्चक्षुरमृतविक्रमा विधिपावकौ ।
दक्षो विधिश्चर्तधामा दक्षगोपनमब्जज ॥ 27.367 ॥

शङ्खमादिं गदध्वंसं माहेन्द्रं पञ्चबिन्दुकम् ।
सध्रुवं चेन्दिराबीजं पुष्टिबीजं ततः परम् ॥ 27.368 ॥

कामबीजं पाशबीजं श्रीवत्सं बिन्दुमस्तकम् ।
चक्रखड्गधरो ब्रह्मा पद्मनाभोऽथ पश्चिमः ॥ 27.369 ॥

217 वै राज दक्षकमल श्रीधराः पीतवामनाः ।
इन्दिरापापहनना गोपना वित्तवर्धनाः ॥ 27.370 ॥

मधुसूदन नासिक्यकुशेशयरमाधराः ।
श्रीवत्सद्वन्द्वबहुलवित्तेशमधुविद्विषः ॥ 27.371 ॥

कपिध्वजो गदी यान्तदक्ष श्रीधर 218 चन्द्रमाः ।
पीतादिदेवश्शीतांशुर्माया कमलमब्जज ॥ 27.372 ॥

मनुर्दक्षौतदेहौ च दृष्टिश्शङ्खघटाह्वयः ।
माया करालामिकार चण्डार्णवसुमस्तकम् ॥ 27.373 ॥

नादादिं पश्चिं पद्मनाभं वै राजविक्रमौ ।
पावकं छोर्ध्वलोकेशं पश्चिमं चा प्रमेयकम् ॥ 27.374 ॥

खर्वविक्रममाहेन्द्रभल्लायुधसुधारसाः ।
विघ्नमन्दरविघ्नेशमाधवीसुप्रतिष्ठिताः ॥ 27.375 ॥

कुम्भोदरामशुभद पीयूषाग्नि गुहालयाः ।
पश्चिमानविघ्नेश मायामन्धर युग्मकाः ॥ 27.376 ॥

वसुमूर्धा महेन्द्रादि देवाः 219 कपिलसंयुताः ।
जृम्भलो यान्तसुभग हुताशधनदाः परः ॥ 27.377 ॥

गोविन्द विघ्भुवन विधिः पश्चिमसंक्षिताः ।
सप्तार्चिः पीतवर्णाभं देवरो मतिमां स्तथा ॥ 27.378 ॥

शङ्खगोपनवैराज श्रीधरो धनदाभिधः ।
मधुद्विट्कुञ्जर मुखचतुर्गतिसपन्नगाः ॥ 27.379 ॥

भद्रहस्तो मधुद्वेषी गदध्वंसी द्वयान्वितः ।
भद्रपाणिस्तथापुण्यं सनसीरुहसम्भव ॥ 27.380 ॥

सुधारसो वसुर्भूमिर्गोपनाख्यमतः परम् ।
करालबिन्दुविघ्नेशौ पञ्च बिन्धु 220 शुभाह्वयाः ॥ 27.381 ॥

मधुहन्ता तथा ब्रह्मा माया विघ्नाश्च वामनाः ।
यान्तमाधवपीयूषवै राजाः पञ्चबिन्दुकम् ॥ 27.382 ॥

शशाङ्ककमलौ भद्रपाणि 221 दृग्वैधरान्विताः ।
एणेशकुम्भदृक्सश्री श्रीधराश्चान्तयादिकाः ॥ 27.383 ॥

गदी च ऋतधामा च दिनकृद्वरुणोमृगः ।
वैराजं मधुहन्तारं 222 विष्ण्वाभं ब्रह्मसाधनम् ॥ 27.384 ॥

मानुषेशं तथा दक्षं मधुसूदनवैधरौ ।
ऋक्षेशभुवनौ यान्तं मधुशत्रु 223 हिमालयाः ॥ 27.385 ॥

उदयोऽग्नि पवित्राश्च बन्धुश्रीमधुविद्विषः ।
वक्रतुण्ड विरिञ्चौ द्वौ हृषीकेश शुभाभिधौ ॥ 27.386 ॥

224 भान्तादि देवसुमुखौ पुण्डरीक विदर्बितौ ।
पुर्णचन्द्रं 225 सरामं च वैधरं मोहनाशनम् ॥ 27.387 ॥

पीयूषरामदृक् शङ्ख मधुशत्रु धनाधिपाः ।
स्वाहाधरं वैधरं च गोविन्दं विजयाभिधम् ॥ 27.388 ॥

श्वसनो दृष्टि मदुभिद्धेरम्बमकरालयाः ।
कुकेशयमदुद्वेषि पीतमाधवमारुताः ॥ 27.389 ॥

अचां द्वितीयं नृहरिं वसुमस्तकमब्जज ।
226 सूक्ष्मदृक् सोर्ध्वलोकेश वै राजमधुविद्विषः ॥ 27.390 ॥

पापहन्ता तथा सोमदक्षाकरविदर्भितौ ।
अचां द्वितीयमनलं कमलामृतवैजयाः ॥ 27.391 ॥

द्वयं बन्धुं तथा दक्षं स्कन्धनाग्नि त्रिविक्रमम् ।
स्वयम्भूर्जन्महन्ता च पियूषाग्निमदुद्विषः ॥ 27.392 ॥

दृष्टिविक्रम 227 यान्तौ च कुम्भबन्धुं चतुर्मुख ।
अत्रिमारुतमाकार भद्रहस्तास्सविक्रमाः ॥ 27.393 ॥

वक्रतुण्डानिलौ विघ्नदृग्दिनेशद्वयं तथा ।
कुञ्जरास्यं पश्चिमास्यं वक्रतुण्डं तथाक्षरम् ॥ 27.394 ॥

मन्दरस्सर्वरो 228 धश्छ गदी च ऋतधा रविः ।
प्रचण्डपि 229 ण्डमाकार मधुभिद्वरुणाभिधम् ॥ 27.395 ॥

अचामेकादशं लक्ष्मी मुद्धृत्य कमलासन ।
समिर 230 कलशौ बन्धुसुभगौ मकरालयम् ॥ 27.396 ॥

231 सकविं पुण्डररुचिं मारुतामृतविक्रमाः ।
232 एकादश्यान्तमदुभिच्छुक्लशङ्खेन्दवस्तथा ॥ 27.397 ॥

पुल्ललोचन 233 मोकारखेटकी मारुताभिधः ।
सुभद्रवसुविघ्नेशवैधराः प्रेतनायकाः ॥ 27.398 ॥

234 सरामविघ्नदृग्दक्ष मधुसूदनमन्वतः ।
यान्तवायुधनाध्यक्षरमाधरगणाधिपाः ॥ 27.399 ॥

भुजङ्गहुतभुक्पुण्य दक्षद्विवसुगोपनाः ।
सुभगोमन्दरद्वन्द्व मग्नि भद्रक राह्वयम् ॥ 27.400 ॥

235 बन्धुमस्तकपञ्चान्ता विष्कम्भद्विरदाननाः ।
विक्रमो दक्षहुतभुग्भ्रह्मसाधनमब्जज ॥ 27.401 ॥

वक्रतुण्डधरौ शुक्ल कुम्भाग्निद्विरदासनाः ।
मधुसूदनपञ्चान्त पश्छिमा ऋतमन्दराः ॥ 27.402 ॥

वैधरोग्नि शिराश्शङ्ख शुक्लकुम्भवपुश्शिराः ।
सूक्ष्मदृक्चोर्ध्वविजय वरुणा वित्तवर्धनाः ॥ 27.403 ॥

यष्टिं सरोरुहं यान्तं पश्चिमाग्निस्समन्दराः ।
द्युमणिस्सध्रुवं शुक्लं वरुणो 236 दरमन्वतः ॥ 27.404 ॥

ओतदेहं तथा दक्षं वक्रतुण्डं करालकम् ।
अग्निरेणेश श्रीवत्स कुम्भाग्नि सहपश्चिमौ ॥ 27.405 ॥

ऋतं भल्लायुधं गोपपाशपाणिजनार्दनाः ।
237 अत्रिं श्रीवत्समनलं वायुं शुक्लं जलाशयम् ॥ 27.406 ॥

वसुं मधुद्विषं चन्द्रं श्रीधरोग्निश्चतुर्मुख ।
238 संप्रसारणवैराजवसुशुक्लमदुद्विषः ॥ 27.407 ॥

वैधरो भद्रचण्डांशु श्वसनौ दक्षश्रीधरौ ।
चक्री समन्दरमचां पञ्चमं कमलोद्भव ॥ 27.408 ॥

उदयं विघ्ननयनावादिखड्गधरा रमा ।
वै राजपद्माहुतभुक्पञ्च बिन्दुधनाधिपाः ॥ 27.409 ॥

239 अग्निरुग्रात्ममधुबिद्धृदया ह्लादमक्षरम् ।
गदध्वंसं श्रियः कान्तं वनस्रक्ससमिरणम् ॥ 27.410 ॥

कुम्भविक्रम पञ्चान्त ऋतभास्करवैजयाः ।
भुवनोऽमृतवै राज वसुभल्लकरालकाः ॥ 27.411 ॥

वै राज जन्महन्तारं द्विरदः कुम्भवैजयाः ।
स्वशिरोग्निं तथा शुक्लपीतकुम्भास्सयामिनी ॥ 27.412 ॥

नाधं रमाधरं विघ्नुमायां चैव सरोरुहम् ।
हुता शकपिलाक्षौ द्वौ पश्चिम व्रतधानिलौ ॥ 27.413 ॥

छलध्वंसी पवित्राह्व हृषीकेशहुताशनम् ।
240 कान्तादिपीतफणबृद्दक्षवामनमस्तकान् ॥ 27.414 ॥

हौरम्भोऽग्नि र्मधुद्वेषी शुभदोदरमैन्दवम् ।
पाटलद्वन्द्वमोङ्कारचण्डांशुकपिलाक्षरम् ॥ 27.415 ॥

241 कमलोग्निस्सभुवन दक्षगोपनयष्टिकाः ।
हुताशतार्क्ष्यमधुभि न्नासिक्यं चतुरासन ॥ 27.416 ॥

श्रीबीजंच गदध्वंसं पीतौर्वंध्रुवमादिमत् ।
पाटलोबन्दुविजय वै राजमृगवल्लभाः ॥ 27.417 ॥

242 ककुभो माधवपरं ठठान्तो मनुरीरितः ।
नारदोऽस्य मुनिर्द्रष्टा वरिवं छन्ध ईरितः ॥ 27.418 ॥

देवता देवदेवेशः कृष्णः कमलसम्भव ।
अङ्गानि पूर्ववच्छास्य पुरश्चर्या च पूर्ववत् ॥ 27.419 ॥

जातिपुष्पौर्बिल्व 243 फलैस्समिद्भिर्होममाचरेत् ।
छायायां बिल्ववृक्षस्य जपहोमादिकं भवेत् ॥ 27.420 ॥

आणिमादिकमैश्वर्यं पुरुषार्थ चतुष्टयम् ।
फलं ददाति मन्त्रोऽयं मन्त्रविद्भस्सुसाधितः ॥ 27.421 ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे मत्स्यादिमूर्तिमन्द्रकथनं नाम सप्तविंशोऽध्यायः.


  1. श्वसनादयः बिन्दुमदन्ताश्शब्दाः पुल्लिङ्गप्रथमान्ताः क्वचिद्दृश्यन्ते. ↩︎

  2. माधवी. ↩︎

  3. बिन्दुमान्. ↩︎

  4. स्वर्शादिं च. ↩︎

  5. शिष्टम्. ↩︎

  6. पूर्वरूपम्, क्रोधरूपी. ↩︎

  7. पुनः. ↩︎

  8. दङ्गानि. ↩︎

  9. मेयपदम्. ↩︎

  10. योंप्रत्ययान्तं. ↩︎

  11. भौमे नृपद. ↩︎

  12. मग्नायी मन्वग्गति. ↩︎

  13. तदङ्गानि. ↩︎

  14. भूतिकामः. ↩︎

  15. इदमर्धं क्वचि दधिकं दृश्यते. ↩︎

  16. च्छन्दो देवी गायत्र. ↩︎

  17. स्ततः. ↩︎

  18. सर्व. ↩︎

  19. बन्धुरुग्रांशुः. ↩︎

  20. च. ↩︎

  21. भद्रपाणि. ↩︎

  22. स्स्वर्गम्. ↩︎

  23. मायावी. ↩︎

  24. वैष्णवश्च. ↩︎

  25. चतुर्भुजः. ↩︎

  26. जपेल्लक्षत्रयं बुधः. ↩︎

  27. ध्येयस्स्फटिकवणान् भः. ↩︎

  28. द्वयम्. ↩︎

  29. दैत्य. ↩︎

  30. ग्रहे. ↩︎

  31. स्समध्यमः. ↩︎

  32. अशुद्धमिन. सन्ति ? सक्तिरिति क्वचित्. ↩︎

  33. तथा बल. ↩︎

  34. द्रूं लोम्. ↩︎

  35. बिदिश्छिदन्तं विकरो–भिदिर्णन्तं विकारो. ↩︎

  36. भीति. ↩︎

  37. हृदि कथयेद्ब्रह्मन्. ↩︎

  38. आर्ज पूर्वो. ? मुर्खपूर्वो विदुष्यन्तो. ↩︎

  39. तथा – मनुः. ↩︎

  40. तथा देनमुद्धार्यते. ↩︎

  41. सर्वमुदीरितम्. ↩︎

  42. गदध्वंसी. ↩︎

  43. वामनम्. ↩︎

  44. देहम्. ↩︎

  45. माविषं मधुसूदनम्. ↩︎

  46. सचक्रम्. ↩︎

  47. नागवारुणम्. ↩︎

  48. भूषणम्. ↩︎

  49. मायान्तं शिरसः पश्च द्द्वारुणं खगवाहनम्. ↩︎

  50. वस्वोतदेहं. ↩︎

  51. विजयाहितम्. ↩︎

  52. पञ्चान्तसुभ गापति. ↩︎

  53. द्वितृतीय–अद्वितीय. ↩︎

  54. मान्तर—माधन. ↩︎

  55. वरुणगोपनौ. ↩︎

  56. श्वसनं. ↩︎

  57. मासपम्. ↩︎

  58. वैधरं पश्चात्. ↩︎

  59. वान्त—मक्षयम्. स्वान्त—यम्. ↩︎

  60. विष्टपम्. ↩︎

  61. गुणालयं भान्तम्. ↩︎

  62. सवर्णं. ↩︎

  63. हान्तम्. ↩︎

  64. सोममान्तरौ. सौरमान्तरौ. ↩︎

  65. बीजाक्षराणि. ↩︎

  66. क्षमापरम्. ↩︎

  67. समनुम्. ↩︎

  68. सतृतीयकम्. ↩︎

  69. माधरम्. ↩︎

  70. सुभगं. ↩︎

  71. बन्धुरहितम्. ↩︎

  72. सुमुखान्तं. ↩︎

  73. नान्त. ↩︎

  74. चान्द्रम्. ↩︎

  75. स विजयाम्. ↩︎

  76. मधुविद्वेषी. ↩︎

  77. बन्धुं, सिंधु. ↩︎

  78. परम्. ↩︎

  79. नायकम्. ↩︎

  80. माधरम्. ↩︎

  81. तापनं चौर्वनासिकौ । लोहिताक्षं च कमलम्. ↩︎

  82. सहृदयं चोदनम्. ↩︎

  83. ककुभाहवमन्तरम्. ↩︎

  84. वसुपतिम्. ↩︎

  85. चोदनम्. ↩︎

  86. तथा. ↩︎

  87. योनिस्स्याच्छशिपङ्किजे. ↩︎

  88. मन्दरौ. ↩︎

  89. चैव शक्रं च, चैव तच्चक्रम्. ↩︎

  90. नेत्रघटं. ↩︎

  91. धान्तं - धाता. ↩︎

  92. गुहालयम्. ↩︎

  93. गोपतिम्. ↩︎

  94. चैन्दव. ↩︎

  95. वामहस्तकम्. ↩︎

  96. समन्दमा. ↩︎

  97. वैराजम्. ↩︎

  98. अमृतम्. ↩︎

  99. विष्णुं वरुणमस्तकम्. ↩︎

  100. सुधासमम्. सुधारसं प्रवर्णाङ्कम्. ↩︎

  101. ध्रुत. ↩︎

  102. गतिम्. ↩︎

  103. बन्धुयुतम्. ↩︎

  104. विघ्नु. ↩︎

  105. भर्गाश्चा चकारविधमो. ↩︎

  106. सुखदं विक्रमं तोयेश मकारेन्दु. ↩︎

  107. गुहकारम्.—उभाभ्रतस्ततो. ↩︎

  108. वृतवै. ↩︎

  109. वृत. ↩︎

  110. कत्तृ. ↩︎

  111. चित्तवर्धनम्. वित्तदर्शनम्. ↩︎

  112. च सूदनं. ↩︎

  113. प्रसन्नोस्तीति. ↩︎

  114. शक्रा. ↩︎

  115. माधवमचां. ↩︎

  116. द्विषां. ↩︎

  117. चान्तं वायुसुतं. ↩︎

  118. वेदादि पञ्चगम्. ↩︎

  119. मस्तकम्. ↩︎

  120. माधरं त्वचाम्. ↩︎

  121. भृगुं खड्गधरं. ↩︎

  122. ततः परम्. ↩︎

  123. भूसुरात्मकम्. ↩︎

  124. खेटकीं ↩︎

  125. कलशं पंच. ↩︎

  126. तच्छइर समब्ज. ↩︎

  127. खड्गदेहम्. ↩︎

  128. द्विर्विन्यस्येत्. ↩︎

  129. शिखा. ↩︎

  130. घटविक्रमम्. ↩︎

  131. देवमान्तं. ↩︎

  132. मेव च . ↩︎

  133. गोपवर्णान्तं - गोपनंणान्तम्. ↩︎

  134. माधरम्. ↩︎

  135. भल्लायुध. ↩︎

  136. वायसम्. ↩︎

  137. माधवं च. ↩︎

  138. फडन्तम्. ↩︎

  139. साग्निं मन्दरं माधरम्. ↩︎

  140. पतिमम्बुजम् ॥ ↩︎

  141. सनामं च. ↩︎

  142. मन्थवैधरगोपनौ. ↩︎

  143. द्विरुक्त्वा. ↩︎

  144. हृदयादीन् समुद्धरेत्. ↩︎

  145. यान्तं. ↩︎

  146. द्विरासनं बन्धुपरं माधवं. ↩︎

  147. सुखं. ↩︎

  148. तद्विरुक्त्वा. ↩︎

  149. ऐणएशं. ↩︎

  150. सहितं. ↩︎

  151. माधरं. ↩︎

  152. पमलाभरणं यान्तं. ↩︎

  153. ङ्कितम्. ↩︎

  154. सितारुणाः. ↩︎

  155. मन्त्रस्यैवा. ↩︎

  156. इत्येतत्कथितम्. ↩︎

  157. फलप्रदा. ↩︎

  158. च. ↩︎

  159. शिखण्ड्यूर्ध्व शिखामूर्द्व. ↩︎

  160. तु दर्शम् ॥ ↩︎

  161. अत्रि. ↩︎

  162. श्चैते देवताङ्गं च. ↩︎

  163. नैकैकं. ↩︎

  164. न्ततः. ↩︎

  165. पठेति च ॥ ↩︎

  166. चतुर्वेद. ↩︎

  167. शिरः पूर्वम्. ↩︎

  168. ऋषिः. ↩︎

  169. मर्णसङ्घातं. ↩︎

  170. तदव. ↩︎

  171. शङ्खिनां शङ्खिनं. ↩︎

  172. भान्तं. ↩︎

  173. अग्निं. ↩︎

  174. पञ्चात्मकम्. पञ्चकं तम्. ↩︎

  175. श्रीवत्सपञ्चायुधादिमनलं वामनोद्विषः. ↩︎

  176. मेकदृक् श्रीधरौ. ↩︎

  177. मन्दरं च. हृषीकेश. ↩︎

  178. ककारचारुमेणशकलशा रूप, अचां विकारमैणेश. ↩︎

  179. वारि. ↩︎

  180. मत्र धरो. ↩︎

  181. कारणं च. ↩︎

  182. मर्धंशु भुजगापनाः । ↩︎

  183. नृहरिं स्वाहया धनम् ॥ ↩︎

  184. प्रभाकर सविक्रमौ । ↩︎

  185. धृतदक्षात्रिरग्नि वायुसरोरुहाः ॥ ऋतणान्तधरा गोपपश्चिमा. ↩︎

  186. भान्त हान्त. ↩︎

  187. पुण्यधनौ श्रीश्चदृष्टि । ↩︎

  188. शुक्लोदया तथा वृष्टि. ↩︎

  189. ओतदक्षोत. ↩︎

  190. र्वसुप्रजाः. ↩︎

  191. विंशकः. ↩︎

  192. गुहदृष्टिः. ↩︎

  193. वैराजप्पर्शपञ्चमः । ↩︎

  194. पदध्वंसस्तथा. ↩︎

  195. विदम्भितम्. ↩︎

  196. नासिक्यं बन्धुरत्रिं च. ↩︎

  197. साम. ↩︎

  198. यान्त. ↩︎

  199. उदयो रन्तरामौ वैराजतेपवनाग्नयः । ↩︎

  200. बीजा द्यान्य. ↩︎

  201. मन्त्रषष्ठेति - पर्यन्तो. ↩︎

  202. जपेन्मन्त्रस्य. ↩︎

  203. चतुर्दश. ↩︎

  204. माकारं. ↩︎

  205. श्वसनं. ↩︎

  206. सहस्रांश. ↩︎

  207. माधारम्. ↩︎

  208. च्चत्रिपदम्. ↩︎

  209. बीज. ↩︎

  210. तथ्यं. ↩︎

  211. नियमादि. ↩︎

  212. क्रोधा चण्ड. ↩︎

  213. भुक्पन्नगद्विरदाननाः. ↩︎

  214. त्मनः. ↩︎

  215. यान्त्रभद्रस्त्रिविक्रमाः. ↩︎

  216. हृद्वेणु संज्ञिताः । ↩︎

  217. वैधरं दक्षकमलश्रीधराःपीतवामनौ. ↩︎

  218. पश्चिमाः. ↩︎

  219. कमलसंभव–पमल संयुतः. ↩︎

  220. गुहाह्वयाः. ↩︎

  221. स्रग्वै. ↩︎

  222. विष्कम्भं. ↩︎

  223. गुहलयाः. ↩︎

  224. हान्तादि. ↩︎

  225. समारं च-माधरं च. ↩︎

  226. सूक्ष्मदृक्'- इत्यादि मधुद्विषः’ इत्यन्तं सार्धश्लोकत्रयं क्वचिन्नास्ति. ↩︎

  227. यान्तश्च. ↩︎

  228. धाह्वोगदी चक्री तथा. ↩︎

  229. ण्डिका. ↩︎

  230. कमलौ. ↩︎

  231. सध्रुवं. ↩︎

  232. एकदृक् धान्त. ↩︎

  233. मोङ्कार. ↩︎

  234. समार. ↩︎

  235. मधुमस्तकपञ्चाङ्ग. ↩︎

  236. दय. ↩︎

  237. अग्निं. ↩︎

  238. ब्रह्म. ↩︎

  239. अनिरुद्धात्म. ↩︎

  240. मान्तादि. ↩︎

  241. कमलोभुवनं दक्षं गोपनायन यष्टिकाः. ↩︎

  242. ककुबेन्द्रायवपरं. ↩︎

  243. पुष्पौः. ↩︎