.
.
विष्णुगायत्रीकल्पः
श्रीभगवान् :—-
गायत्रीं वैष्णवीं ब्रह्मन् चतुर्विंशाक्षरात्मिकाम् ।
शृणु वक्ष्यामि परमं रहस्यं कथ्यतेऽधुना ॥ 26.1 ॥
मातृकाचक्रमभ्यर्च्यछन्दसामादिमुद्धरेत् ।
आदिदेवशिराश्चात्र विघ्नेशं तदनन्तरम् ॥ 26.2 ॥
वह्न्यन्तं गोपनं पश्चाच्छङ्खं विष्णुशिरः 1 स्मृतम् ।
सुमुखं गोपनयुत 2 मन्यच्च मरुदादिमत् ॥ 26.3 ॥
3 मायाश्रितं सुधाधाम वैधरोऽन्वकच्छ मन्दरम् ।
विष्णुशीर्षो भास्करोऽथ माथवाधिष्ठितः क्रमात् ॥ 26.4 ॥
आदिदेवसमाक्रान्तः 4 कुम्भशुक्लोदयावहौ ।
वैधरो देवतान्तश्च पीयूषरुचिराशिराः ? ॥ 26.5 ॥
अनिलः प्रणवाद्यन्तो महामायाशिराः क्रमात् ।
5 धनदोनु ततो दक्षो विष्णुमूर्धाथ भास्करः ॥ 26.6 ॥
मायाशिराश्च वैराजो विष्ण्वन्तो भद्रपाणियुक् ।
ओतदेहः परः कुम्भस्त्रिविक्रमपरस्स्मृतः ॥ 26.7 ॥
क्रोधनं वनमाल्यन्तं तद्वयं भुवनावधि ।
वसर्गः पापहन्ता च वह्निश्चाद्यर्णसंयुतः ॥ 26.8 ॥
चकारश्चोतदेहश्छ 6 द्वौ दृष्टिर्विष्णुमूर्धकः ।
दरश्च गोपनश्चोभौ 7 विजयोर्णस्समुद्धृतः ॥ 26.9 ॥
गायत्र्यक्षरन्यासवर्णदेवतादिः
चन्दश्छ देवी गायत्रमृषिर्ब्रह्माधिदैवतम् ।
विष्णुष्षडङ्गानि तथा क्रुद्धोल्कादीनि पद्मज ॥ 26.10 ॥
मूर्धादिपादपर्यन्तमक्षरन्यसनं मतम् ।
मूर्ध्निफाले नयनयोर्नासिकापुटयोस्तथा ॥ 26.11 ॥
श्रोत्रयोरास्यगलयोर्हृदये बुहुमूलयोः ।
न्यासः कूर्परयोश्चैव तथैव मणिबन्धयोः ॥ 26.12 ॥
हस्तयोः कुक्षिमध्ये च गुह्येचोर्वोश्च जङ्घयोः ।
पादयोश्च क्रमादेवं न्यासःप्रोक्तश्चतुर्मुख ॥ 26.13 ॥
पीतं कक्तं च धूम्राभं श्वेतं कृष्णं च लोहितम् ।
वलर्क्षं पीतकं रक्तं श्यामं शङ्खनिभं तथा ॥ 26.14 ॥
पाटलं स्फटिकाभं च पीतं रजतसन्निभम् ।
चन्द्रदीधितिसङ्काशं पद्मकिञ्जल्कसन्निभम् ॥ 26.15 ॥
ताराभं बन्धुजीवाभं नक्षत्राभं च पाटलम् ।
जपाकुसमसङ्काशं तप्तजाम्बानदप्रभम् ॥ 26.16 ॥
रविप्रभं 8 चाक्षराणां वर्णभेदः प्रदर्शितः ।
सन्ध्यात्रये ध्येयस्वरूपम्
कालमेघनिभं सौम्यं चतुर्बाहुं किरीटिनम् ॥ 26.17 ॥
शङ्खचक्रगदापाणिं गरुडारूढमच्युतम् ।
एवं ध्यात्वाऽर्चयेद्देवं प्रातः काले समाहितः ॥ 26.18 ॥
स्फटिकोपलसङ्काशं गरुडारूढविग्रहम् ।
मध्यन्दिनेऽर्चयित्वा 9 तमाचरेज्जपमात्मवान् ॥ 26.19 ॥
प्रदोषेषु चतुर्हस्तं वैनतेयोपरिस्थितम् ।
श्यामलं पुण्डरीकाक्षं ध्यायन्मन्त्र 10 मुदीरयेत् ॥ 26.20 ॥
सिद्धये जससङ्ख्या
कुर्यात्त्रिषवणस्नानं व्रतस्थस्संयतेन्द्रियः ।
चतुर्विंशति लक्षेण मन्त्रजापेन सिध्यति ॥ 26.21 ॥
मन्त्रवित्साधकोवारितर्पणं होमकर्मच ।
कुर्वन्नाप्नोति सकलां सिद्धिमिष्टां सुदर्लभाम् ॥ 26.22 ॥
गोमूत्रयावकाहारो जपेल्लक्षमतन्द्रितः ।
पातकेभ्यो महद्भ्योपि मुच्यते नात्र संशयः ॥ 26.23 ॥
ब्रह्मकूर्चं पिबन् लक्षत्रयं मन्त्रं जपन्सुधीः ।
तत्समेभ्यः पातकेभ्यो 11 विमुक्तोमन्त्रवित्तमः ॥ 26.24 ॥
अष्ठाक्षरवदनुष्ठानम्
ब्रह्मादि देवतास्सर्वा निनीषुर्वशमात्मनः ।
12 अणिमादिफलं प्रेव्सुस्तथैवाकर्षणोद्यतः ॥ 26.25 ॥
वशीकारे च सर्वेषां पातालगमने तथा ।
गन्धर्वयक्षप्रमुखान् प्रमुखानात्मनस्सदा ॥ 26.26 ॥
चिकीर्षुरष्टाक्षरवदनुतिष्ठेच्छतुर्मुख ।
सकृदुच्चारयन्मन्त्रं विष्णुगायत्रिसञ्ज्ञितम् ॥ 26.27 ॥
13 वेदानामसकृत्सर्व शाखाध्ययनपुण्यभाक् ।
केशकीटादिदुष्टानि हवींषि ध्यानमास्थितः ॥ 26.28 ॥
एतज्जपेन मन्त्रचतुष्टयप्रास्तिः
स्पृष्ट्वा जपेन्मन्त्रमिदं सद्यः शुद्धानि पद्मज ।
चतुर्णां मूलमन्त्राणां फलमेतेन सिध्यति ॥ 26.29 ॥
श्रीकराष्टाक्षरमन्त्रः
श्रीकरं मन्त्रमपरं वक्ष्ये सर्वार्थसाधनम् ।
अष्टाक्षरं चतुर्वक्त्र रहस्यं परमं शृणु ॥ 26.30 ॥
14 वर्णचक्रं लिखित्वादौ समभ्यर्च्य ततः पुनः ।
उद्धरेच्छ्रीकराष्टार्णं मन्त्रं मन्त्रप्रभाववित् ॥ 26.31 ॥
आदौ समुद्धरैत्तारमुदयं तदनन्तरम् ।
द्विरेकनेत्रमायान्तं क्रोधनं कौस्तुभाक्षरम् ॥ 26.32 ॥
विष्णुशीर्षं ततो लक्ष्मीमनलं तदनन्तरम् ।
महामायायुतं पद्ममप्रमेयमनन्तरम् ॥ 26.33 ॥
अग्निमादिं 15 चतुर्वक्त्रठठेति श्रीकराह्वयम् ।
तद्बीजादिनिर्देशः
भीजमस्य प्रवक्ष्यामि यथातत्वमुदीर्यते ॥ 26.34 ॥
दीप्तिमाननलः पञ्च 16 बिन्दुरर्धेन्दुनिष्ठिता ।
बीजमङ्गानि षट्चापि क्रुद्दोल्कादीनि पूर्ववत् ॥ 26.35 ॥
छन्धश्च देवी गायत्रमृषिरस्य प्रजापतिः ।
देवता देवदेवेशः प्रत्यर्णं पूर्ववत् स्मृतम् ॥ 26.36 ॥
ऋषिश्छन्दोदैवतं च
ध्येयदेवतास्वरूपम्
ध्यानं सम्प्रति कथ्यते ।
कल्पकानोकहच्छायामाश्रित्य सुखशीतलाम् ॥ 26.37 ॥
गरुडस्य चतुर्बाहोस्सर्वालङ्कारधारिणः ।
स्कन्धदेशे सुखासीनमष्टबाहुं किरीटिनम् ॥ 26.38 ॥
कुन्देन्दुधवलं सौम्यं सर्वाकल्पपरिष्कृतम् ।
दिव्यगन्धविलिप्ताङ्गं दिव्यमालाविभूषितम् ॥ 26.39 ॥
पीताम्बरधरं नीलकुन्तलैरुपशोभितम् ।
चक्रं च मुसलं भाणमङ्कुशं दधतं भुजैः ॥ 26.40 ॥
चतुर्भिर्दक्षिणैरन्येश्शङ्खं कौमोदकीं तथा ।
शार्ङ्गं पाशञ्च कल्याणैः प्रसन्नेन्दुनिभाननम् ॥ 26.41 ॥
गरुडोपि च हस्ताभ्यामुभाभ्यां पादपङ्कजे ।
देवस्य धारयन् कुम्भं पूर्णं पीयूषवारिणा ॥ 26.42 ॥
इतराभ्यां च हस्ताभ्यां स्पृशन्नास्ये स्थितं तथा ।
श्रियं च वामोरुतले रुक्माभां क्षौमवासिनीम् ॥ 26.43 ॥
दिव्यगन्धविलिप्ताङ्गां सर्वाकल्पपरिष्कृताम् ।
सुभ्राललाटमुकुटां कर्णविश्रान्तलोचनाम् ॥ 26.44 ॥
लावण्यामृततोयेन वर्षन्तीमिव सर्वतः ।
पाशाङ्कुशधरां लक्ष्मीं कन्दर्पशरपीडिताम् ॥ 26.45 ॥
तपोनियमस्तत्फलं च
ध्यात्वैवं पूजयित्वातु व्रतस्थस्संयतेन्द्रियः ।
द्वादशाहं जपेन्मन्त्रं ध्यात्वा पार्श्वे निधिद्वयम् ॥ 26.46 ॥
ऊर्ध्वबाहुर्जलेतिष्ठन्नुरोदघ्ने समाहितः ।
आदित्याभिमुखो मन्त्री जुहुयाच्च समिच्छतम् ॥ 26.47 ॥
बिल्वोद्भवैस्तथालक्ष्मीं कुसुमैः पायसोदनैः ।
शुद्धोदनैर्घृताक्तैश्च अष्टोत्तरसहस्रकम् ॥ 26.48 ॥
एवं कृते विधानेन पुष्टिरुत्पद्यतेऽचला ।
17 पौष्टिकादि च पूर्वोक्तफलं पूर्वोक्तसङ्ख्यया ॥ 26.49 ॥
शान्तिकं पौष्टिकं कर्ममन्त्रेणानेन साधयेत् ।
लक्ष्मीनारायणमन्द्रकल्पः
लक्ष्मीनारायणाह्वानं मन्त्रं परमदुर्लभम् ॥ 26.50 ॥
तस्योद्धारं प्रवक्ष्यामि शृणु वर्णक्रमेण 18 तम् ।
उद्गीथं मनुजेशानं विष्णुं मन्दर 19 मेव तत् ॥ 26.51 ॥
सूक्तीन्दुमुख्यमपरं गदिनं कुम्भमर्पितम् ।
आद्यन्तं विजयं दत्तं माहेन्द्रं चाप्रमेयकम् ॥ 26.52 ॥
गरुडं दक्षमपरं महामायां विनायकम् ।
आदिदेवं ततो वह्निं गोपनं च चतुर्गतिम् ॥ 26.53 ॥
आद्यं प्रचण्डमाकारं शङ्खमादिं ठठेति च ।
उद्दृत्य षोडशार्णं तन्मन्त्रं 20 बीजश्च कथ्यते ॥ 26.54 ॥
द्युमणिं 21 बिन्दुमपरं वामनं बिन्दुमुद्धरेत् ।
अङ्गानि पूर्वमुक्तानि छन्धो गायत्रमुच्यते ॥ 26.55 ॥
22 विद्धि शुक्रो मुनिर्देवो लक्ष्मीनारायणस्स्मृतः ।
जपष्षोडशलक्षं तु तदर्धं वारितर्पणम् ॥ 26.56 ॥
होमस्ततर्धोमन्त्रस्य फलान्याहुर्यथा 23 क्रमम् ।
सङ्कर्षणमन्त्रः
सङ्कर्षणादिमूर्दीनां तिसृणां मनुरुच्यते ॥ 26.57 ॥
आदितः पूर्ववत्सप्त वर्णानाममनुपूर्वशः ।
उद्धारश्शिष्टवर्णानां ब्रह्मन् सम्प्रति कथ्यते ॥ 26.58 ॥
दीप्तिमान् वह्निरौर्वश्छ द्रुवश्शुक्लस्तथादिमान् ।
बिन्दुः प्रजापतिश्चाद्यो वह्निरुग्रो मुखं ततः ॥ 26.59 ॥
24 सुमुखं गोपनयुतं वायुराद्यं ठठान्तितम् ।
द्वादशार्ओणात्मको मन्त्रोबीजमङ्गं च पूर्ववत् ॥ 26.60 ॥
छन्दश्च देवी गायत्रमृषिस्यान्नीललोहितः ।
देवस्सङ्कर्षणो वर्णो देवता तत्त्वनिर्णयः ॥ 26.61 ॥
द्वादशाक्षरवत् ज्ञेयः पुरश्चरणमीरितम् ।
फलानि पूर्वमुक्तानि वाक्सिद्धिर्महती भवेत् ॥ 26.62 ॥
ज्ञानं च महदाप्नोति यच्चान्यदधिकाङ्क्षितम् ।
तत्सर्वमचिरादेव सिध्येन्मन्त्रप्रभावतः ॥ 26.63 ॥
शङ्खगोक्षीरधवलं चतुर्भाहुं किरीटिनम् ।
वसानं वसनं क्षौमं पूर्णचन्द्रनिभावनम् ॥ 26.64 ॥
मुक्तां भूयिष्ठमाकल्पं सौवर्णमतिशोभनम् ।
दधानं मुख्यहस्तेन ज्ञानमुद्रासमन्वितम् ॥ 26.65 ॥
पुस्तकं वामहस्तेन बिभ्राणं भुजयोर्द्वयोः ।
25 ऊर्ध्वयोस्स्फाटिकं शङ्खमक्षमालां यथातथम् ॥ 26.66 ॥
धवलैः कालजैः पुष्पैश्शोभितं वनमालया ।
श्वेतपद्मे सुखासीनमेवं ध्यायीत मन्त्रवित् ॥ 26.67 ॥
ध्यायतो बुद्धिरतुला भवेत् ज्ञानं च पुष्कलम् ।
शान्तिकं पौष्टिकं कर्म कुर्यादेतेन पद्मज ॥ 26.68 ॥
बहुना किं प्रलापेन द्विषट्काक्षरवत्फलम् ।
सर्वमाप्नोति मनुना साधकः कमलासन ॥ 26.69 ॥
प्रद्युम्नमन्त्रः
प्रद्युम्नमन्त्रमधुना सर्वकामफलप्रदम् ।
ब्रवीमि तस्य चोद्धारं कथ्यतेऽक्षरशः क्रमात् ॥ 26.70 ॥
आदित 26 स्सप्तवर्णानामुद्धारः पूर्वमीरितः ।
अस्यासाधारणार्णानां सम्प्रत्युद्धार उच्यते ॥ 26.71 ॥
पाप्मानमनलं विष्णुमन्त्रं वायुमुकारवत् ।
मन्दरं भद्रपाणिं च मधुसूदनमारुतौ ॥ 26.72 ॥
आग्नेयी दश चैकं चाप्यर्णस्संहननं मतम् ।
अनुस्वारपरो विष्णुर्भीज 27 मङ्गं च पूर्ववत् ॥ 26.73 ॥
ऋषिस्सनत्कुमारस्स्याच्छन्दो गायत्रमुच्यते ।
प्रद्युम्नो देवता मन्त्रस्साधनं फलमेव च ॥ 26.74 ॥
पूर्वोक्तम्
अनिरुद्धमन्त्रः
मन्त्रमपरमानिरुद्धमतः परम् ।
शृणु ब्रह्मन् यथापूर्वं सप्तार्णानामनुक्रमात् ॥ 26.75 ॥
उद्धारः परिशिष्टानामार्णानां कथ्यतेऽ 28धुना ।
प्रणवाद्योभद्रहस्तोमाया सप्तार्चिरेव च ॥ 26.76 ॥
उदयौ द्वौ च सुभगो गोपनो वायुरादिमान् ।
बीजमस्याप्रमेयश्च विसर्गश्छावसानतः ॥ 26.77 ॥
ऋषिश्च सनकश्छन्दः पूर्ववद्देवता तथा ।
अनिरुद्धो द्वादशार्णः क्रमेण समुदीरितः ॥ 26.78 ॥
यथापुरं षडङ्गानि 29 साधनं फलमेव च ।
चतुर्विंशतिमूर्तिमन्त्रनिर्देशः
चतुर्विंशतिमूर्तिनां समाख्या 30 द्वादशादिभिः ॥ 26.79 ॥
प्रसिद्धास्ताश्चतुर्थ्यन्तास्सप्ताक्षरपुरस्कृताः ।
मन्त्रब
-
तथा. ↩︎
-
मन्वक्च. ↩︎
-
मायायुतं सुधाधाम विजयो. ↩︎
-
कुम्भं शुक्लोदयावुभौ । वैधरो देवदत्तान्तः पीयूष. ↩︎
-
यादोदोनूतनो. ↩︎
-
द्वौ वृष्टिर्विष्णु मूर्ध्वगः. ↩︎
-
विजयोऽन्तः. ↩︎
-
चनर्णानाम्. ↩︎
-
माचरेत्. ↩︎
-
मुदीरयन्. ↩︎
-
मुच्यते. ↩︎
-
अणिमादिगुणान्. ↩︎
-
उदीरयन् सकृत्. ↩︎
-
चक्रं लिखित्वा भूम्यादौ. ↩︎
-
चतुर्वक्त्रं पठेति. ↩︎
-
बिन्दुर्विन्दुश्च निष्ठितम्. ↩︎
-
पादुकादि च पूर्वोक्तं. ↩︎
-
तु. ↩︎
-
मोतवत् ॥ सूक्ष्मदृङ्मुख्यम परं गदिनं मुख्यमर्पितम् । आद्वर्णं विजयम्. ↩︎
-
बीजं तु. ↩︎
-
नह्नि. ↩︎
-
दैवं शुक्रो. ↩︎
-
पुरम्. ↩︎
-
सुखं च. ↩︎
-
स्फाटिकीं दक्षिणे हस्ते अक्षमालां. ↩︎
-
सर्व. ↩︎
-
मङ्गानि. ↩︎
-
क्रमात्. ↩︎
-
सासनम्. ↩︎
-
द्वादशादितः. ↩︎