.
अष्टाक्षरकल्पः
ब्रह्मा—
अष्टाक्षरस्य मन्त्रस्य महिमानमनुत्तमम् ।
1 शुस्रूषितमतमथच्छन्दो विशेषं सर्षिदैवतम् ॥ 25.1 ॥
फलं तन्मन्त्र जापस्य रूपं वा कीदृशं मतम् ।
देवता साधनं चापि मदन ग्रहकाम्यया ॥ 25.2 ॥
ब्रूहि सर्वमशेषेण मह्यं शुश्रूषवेऽच्युत ।
श्रीभगवान् :—
अष्टाक्षरस्य मन्त्रस्य फलानि न हि शक्यते ॥ 25.3 ॥
वक्तुं वर्षशतेनापि तेषां दिङ्मात्रमुच्यते ।
धर्मार्थकाममोक्षाणामेकान्तफलदं शुभम् ॥ 25.4 ॥
सिद्धयो बहुधा 2 जप्तुर्मन्त्रं चोदितसज्ञ्यया ।
अचिन्तनीयो महिमा देवस्येव मधुद्विषः ॥ 25.5 ॥
वर्णोद्धारक्रमः
शुचौ विविक्ते विजने सर्वदोषविवर्जिते ।
वर्णचक्रं समालिख्य भूमावर्घ्यादिसाधनैः ॥ 25.6 ॥
अभ्यर्च्यच यथान्यायं ततो वर्णान् समुद्धरेत् ।
उद्गीथमादौ विघ्णेशः प्रयोज्यस्तदनन्तरम् ॥ 25.7 ॥
ब्रह्मासाधनसंयुक्तो मन्दरस्स्यादनन्तरम् ।
आदिदेवो व्रतो भद्रबाहुःपश्पादुदीरितः ॥ 25.8 ॥
वह्निर्गोपनसंवीतश्श्वपनो विष्णुशीर्षकः ।
वनमाली ततो योज्यो मधुसूदनसंयुतः ॥ 25.9 ॥
प्रणवादिशिरो वायुरिति वर्णक्रमोदितः ।
बीजच्छन्दोनिर्देशः
बीजं विष्णुरमस्वारस्सामर्थ्यं कथितं पुनः ॥ 25.10 ॥
अङ्गानि षड्द्विषट्कस्य मन्त्रस्येव विदुर्बुधाः ।
3 छन्दश्च देवी गायत्रमन्तर्यामी मुनस्स्मृतः ॥ 25.11 ॥
देवो नारायणस्साक्षाद्दैवतं क्षेत्रमीरितम् ।
परमव्योम बुद्धिस्स्यात्तत्वं वर्णस्सित स्तथा ॥ 25.12 ॥
प्रत्यक्षरमृषिर्ब्रह्मन् गौतमः प्रथमस्स्मृतः ।
भरद्वाजो विश्वामित्रो जमदग्निरनन्तरम् ॥ 25.13 ॥
वसिष्ठः काश्यपः पश्पा 4 दत्रिस्यात्कुम्भसम्भवः ।
छान्दांसि गायत्र्यादीनि विराडवसितानि च ॥ 25.14 ॥
5 धरोध्रुवश्च सोमश्च आपश्चाग्निर्जलाधिपः ।
प्रत्यूषश्च प्रभातश्च देवाः प्रत्यक्षरं तथा ॥ 25.15 ॥
आकाशं परमं क्षेत्रमक्षरस्यावसानतः ।
सत्यादि लोकास्सप्तस्युः प्रातिलोम्येन भूमयः ॥ 25.16 ॥
अक्षराणां पृथिव्यन्तास्सप्तानां सप्त पद्मज ।
अग्निर्भूर्वायुराकाशं सूर्यो द्यौरथ चन्द्रमाः ॥ 25.17 ॥
नक्षत्राणि तथा राशिरेते तत्त्वान्यनुक्रमात् ।
प्रणवनिरुक्तिः
निरुक्तमस्य मन्त्रस्य कथयामि यथातथम् ॥ 25.18 ॥
6 अविः क्विबन्तो व्याप्त्यर्थःस्मर्यते कर्तृसाधनः ।
ओङ्कारवर्णव्यत्यासस्स्यादकारस्य पद्मज ॥ 25.19 ॥
7 मकारवर्णाव्यत्यासो वकारस्याप्ययन्त्विदम् ।
अन्तर्बहिश्च यत्सर्वं व्याप्नोति तदुदीर्यते ॥ 25.20 ॥
अथवा तन्तुसन्तानं वृत्तेर्वाथ भविष्यति ।
टेश्च लोपो वकारस्य प्रसारणमतःपरम् ॥ 25.21 ॥
पूर्वत्वं चोपसर्गेण स्यादन्तश्चाद्गुणः कृतः ।
यस्मिन्नोतमिदं सर्वं तदेवमभिधीयते ॥ 25.22 ॥
अवते रक्षणार्थत्वा 8 दटि लेपे च वर्तते ।
वकारस्योपधायाश्च द्वयो 9 रूढागमःस्मृतः ॥ 25.23 ॥
गुणे च रूपं यत्सर्वं त्रायते तत्परं परम् ।
अभिधेयमितिप्रोक्ता निरुक्तिः प्रणवस्य सा ॥ 25.24 ॥
नमःपदनिरुक्तिः
सम्यते 10 देव एवैक स्तेषामेकं परायणम् ।
नारायणपदनिर्वचनम्
नरो देवः परस्स्रष्टा सर्गादौ पाथसामथ ॥ 25.25 ॥
तस्मान्ना राणि पाथांसि तान्येवायनमुच्यते ।
देवस्य हेतोश्चामुष्मान्नारायण समाह्वयः ॥ 25.26 ॥
नारावाऽयनमावासः पुरुषस्य मधुद्विषः ।
अण्प्रत्ययः प्रकृत्यर्थे ततो वाससमाह्वयः ॥ 25.27 ॥
एवं मन्त्रमिमं लब्ध्वा सम्यग्गुरुमुखात्ततः ।
साधकनियमाः
गुरुशुश्रूषणपरस्सर्व मन्द्राणि साधयेत् ॥ 25.28 ॥
ब्रह्मचर्ये स्थितो मौनी मेध्याहाराशनो प्रती ।
अशनीयानि मेध्यानि पक्षामि खृणु तान्यपि ॥ 25.29 ॥
पयोयावकशाकाम्बफलमूलानि सक्तवः ।
आद्यं कुशोदकं मेध्यं दधि भिक्षान्नमेव च ॥ 25.30 ॥
मन्त्रजपकालः
साधने मन्द्रजापस्य शृणु कालं 11 यथोदितम् ।
मूर्गशीर्षे शुभे मासि द्वादश्यां चन्द्रवर्धने ॥ 25.31 ॥
अराध्य परया भक्त्या नारायणमनन्यधीः ।
देवताध्यानम्
चाक्राब्जमण्डले देवं द्याये देवं समाहितः ॥ 25.32 ॥
चतुर्भाहुमुदारङ्गं चक्राद्यायुध 12 सेवितम् ।
कालमेघप्रतीकाशं पद्म पत्रायतेक्षणम् ॥ 25.33 ॥
पीताम्बरधरं सौम्यं प्रसन्नेन्दुनिभावनम् ।
चारुहासं सुताम्रोष्ठं रत्नोज्वलितकुण्डलम् ॥ 25.34 ॥
सुभ्रा 13 ललाटं सुमुखं सर्वाभरणभूषितम् ।
ललाटतिलकं सौम्यं दीपवच्छ्वेतमृत्स्नया ॥ 25.35 ॥
14 धृतोर्ध्वपुण्ड्रतिलकं मण्डितं चण्डभानुना ।
स्फुरत्कटककेयूरहारकौस्तुभभूषितम् ॥ 25.36 ॥
स्फुरद्भास्करवर्णाभं शोभितं वनमालया ।
प्रद्योतनसहस्राभभूषणै रपि 15 भूषितम् ॥ 25.37 ॥
दिव्य 16 चन्दनलिप्ताङ्गं दिव्यमाल्यविभूषितम् ।
श्रीभूमिभ्यां सुखासीनं स्वर्णसिंहासने शुभे ॥ 25.38 ॥
ध्यात्वैवं देवदेवेशं मन्त्राजाप परो भवेत् ।
सुखासीनो यथाकालं शुचिर्भूत्वा समाहितः ॥ 25.39 ॥
मन्त्रं जपेज्जगन्नाथं समाराध्य दिने दिने ।
मन्त्रजपहोमादिसङ्ख्या
जपेल्लक्षाष्टकं प्रोक्तं तदर्धं 17 तिलतर्पणम् ॥ 25.40 ॥
तदर्धं जुहुयादग्नौ ततस्सिध्यति मन्त्रराट् ।
सिद्धेमन्द्रे धर्मसाधनप्रकारः
अथ संसाधिते मन्त्रेण स्वप्ने जाहरणे तथा ॥ 25.41 ॥
सिद्धिलिङ्गानि मन्त्रस्य मन्त्री पश्यति सन्ततम् ।
ततस्सिद्धेन मन्त्रेण साधयेद्धर्ममुत्तमम् ॥ 25.42 ॥
अथमन्त्रवराद्धर्मसाधनं योऽभिवाञ्चति ।
18 यः पितृणां च सर्वेषां तर्पणं मन्त्रवित्तमः ॥ 25.43 ॥
ऋणत्रयाद्विनिर्मुक्तिं सर्वस्मादभिवाञ्चति ।
उपोष्य स शुचिर्भूत्वा 19 कुम्भेचक्राब्जमण्डले ॥ 25.44 ॥
आवाह्य देवमाराध्य सम्यगर्घ्यादिसाधनैः ।
गोहिरण्यादिभिर्द्रव्यैस्तितैश्चैव कुशोदकैः ॥ 25.45 ॥
20 दत्तैर्मन्त्रजपैर्युक्तः प्रापयेल्लोकमक्षयम् ।
पतृन् मन्त्रप्रासान नरकस्थानपि क्षणात् ॥ 25.46 ॥
अतोऽन्यल्लुप्त पिण्डानां पतृणां तृप्तिकारणम् ।
कल्याणविधिः
विधिं वक्ष्यामि कल्याणं चतुर्वक्त्र यथातथम् ॥ 25.47 ॥
उपोष्य मन्त्रवित्पूर्वं पूर्वेद्युस्सु समाहितः ।
पञ्चम्यां माघमासस्य 21 मण्डलं चक्रपङ्कजम् ॥ 25.48 ॥
अर्चयित्वा ततस्तस्य मध्ये देवं जगद्गुरुम् ।
यजेत कृसरान्नेन होमं तेनैव कल्पयेत् ॥ 25.49 ॥
समिदाज्यतितानापि मन्त्रेणाष्टोत्तरं शतम् ।
पित्रादि नाम सङ्कीर्त्य तारयेति पदान्वितम् ॥ 25.50 ॥
प्राचीनावितिको भूत्वा होमान्ते दक्षिणामुखः ।
दक्षिणाग्रान् कुशान् भूमापास्तीर्य ध्यानमास्थितः ॥ 25.51 ॥
ध्वात्वा नारायणं देवं तर्पयेच्च तिलोदकैः ।
तदक्षयं जलं दत्तं पितृणां तृप्तिमावहेत् ॥ 25.52 ॥
तर्पयित्वा सदाचारान् ब्राह्मणान् भगवन्मयान् ।
भोजयेत्षड्रसोपेतं भोजनं द्वादशावरान् ॥ 25.53 ॥
दद्यात्तेभ्यस्तिलान्वस्त्रान् गोहिरण्यादिकं ततः ।
ततस्सव्ये भुजे न्यस्य ब्रह्मसूत्रं समाहितः ॥ 25.54 ॥
अग्रे भगवतो दर्भान् दक्षिणाग्रान् धरातले ।
आस्तीर्य साग्रान् 22 सुषमानासीनू दक्षिणामुखः ॥ 25.55 ॥
पात्रस्थमन्नं दधि च तिलांश्चबदरीफलम् ।
कबलीकृत्य तान् पिण्डान् समान्मन्त्रमुदीरयेत् ॥ 25.56 ॥
मधुवातेति तिसृभिरृग्भिर्बर्हिषि निक्षिपेत् ।
गोत्रनाम समुच्छार्य पितृणां सेचनं जलैः ॥ 25.57 ॥
पुण्डान् पितृब्यो मातृभ्यो भ्रातृभ्योगुरवे तथा ।
आचार्यय तथान्येभ्यो बन्धुभ्यो 23 ध्यानमास्थितः ॥ 25.58 ॥
अवसेचनपूर्वं तु मन्त्रेणानेन मन्त्रवित् ।
पिण्डान् दद्यादभिध्यायन् देवं नारायणं हरिम् ॥ 25.59 ॥
आसेचनं प्रकुर्वीत पुनरेव विचक्षणः ।
एवं विधाय विधिवदृणान्मुक्तश्च तत्क्षणात् ॥ 25.60 ॥
विमानं दिव्यमारुह्य याति ब्रह्म सनातनम् ।
फलातिशयप्रतिपादनम्
उपवानान् बहुविधानक्षमः कर्तुमञ्ञसा ॥ 25.61 ॥
देवं चक्राब्जमध्यस्थं यजेदर्घ्याधिसाधनैः ।
सिद्देनानेन 24 मन्त्रेण नैवेद्यैश्च चतुर्विधैः ॥ 25.62 ॥
हुत्वाघृतेन ज्वलने समिधाष्टोत्तरं शतम् ।
तन्मयान्भोजयेद्विप्रान् दद्याच्च विभपोचितम् ॥ 25.63 ॥
इष्ट्वेवं देवदेवेशं व्रस्थो नियतेन्द्रियः ।
चान्द्रायणं पराकं च कृच्छ्रं सान्तपनं तथा ॥ 25.64 ॥
संवत्सरोपवासं च तथैकादुश्यु पोषितम् ।
कृष्णाष्टम्यां श्रावणे च जयन्त्यादि प्रतेष्वपि ॥ 25.65 ॥
25 एकादश्युपवासस्य यदुक्तं फलमुत्तमम् ।
तत्तच्छतगुणं विद्यात्फलं पूजाविधेरपि ॥ 25.66 ॥
यज्ञधर्मफलाकाज्क्षीतत्तत्फलमवाप्नुयात् ।
तर्थाभिगमनस्यापि फलं सप्ताहपूजनात् ॥ 25.67 ॥
पवित्रारोहणे वापि 26 प्रतादिपरिपूरणे ।
स्नवने चोत्सवे पञ्चकालाभिगमने तथा ॥ 25.68 ॥
गोपुरालय 27 सालादिनिर्माणे प्रतिमासु च ।
क्षेत्रारामतटाकादि प्रदाने च मधुद्विषः ॥ 25.69 ॥
घृतदीपप्रदाने च यत्फलं तत्सहस्रधा ।
फलत्याराधनाद्विष्णोर्नात्र कार्य विचारणा ॥ 25.70 ॥
सङ्क्रान्तिपूजाविधिः
सङ्क्रान्तौ मण्डले कुम्भेज्वलने च मधुद्विषम् ।
आवाह्य पूजयेद्देवं परमान्नैश्छतुर्विधैः ॥ 25.71 ॥
जुहुयान्मनुनानेन ज्वलनेऽष्टोत्तरं शतम् ।
तन्मयान्भूजयेच्छक्त्यादद्याच्चैव यथावसु ॥ 25.72 ॥
यस्य यस्य च धर्मस्य फलं यद्यदुदीरितम् ।
तस्य तस्य फलं तत्तन्मन्त्राच्छतगुणं भवेत् ॥ 25.73 ॥
उत्तरायणपूजा
अयने चोत्तरे कुम्भे वह्नौ चक्राब्जमण्डले ।
सोपवासश्शुचिर्भूत्वा समावाह्य जगद्गुरुम् ॥ 25.74 ॥
यजेत 28 पूर्ववत्पश्चाद्धोमं पूर्ववदाचरेत् ।
अर्थसाधनम्
अथार्थासाधनं मन्त्रमभिवाञ्छति चेन्नरः ॥ 25.75 ॥
भद्रकं मण्डलं कृत्वा तस्मिन्ना राध्य मन्त्रवित् ।
तिलैर्भिल्वैस्तथापद्मैर्निम्बपुष्पैश्च तण्डुलैः ॥ 25.76 ॥
चम्पकै र्मल्लिकाभिश्च मालत्या करवीरजैः ।
नन्द्यावर्तैर्यूधिकाभिः प्रत्येकं शतसङ्ख्याया ॥ 25.77 ॥
जुहुयाद्विद्यया विद्वान् सप्ताहं चतुरासन ।
धनमक्षयमाप्नोति मन्त्रस्यास्य प्रभावतः ॥ 25.78 ॥
चन्दनं कुङ्कुमं कोष्ठं रोचना 29 लक्तकं तथा ।
घनसारं मृगमदं पिष्ट्वा तत्क्षोदवारिणा ॥ 25.79 ॥
धनदं विलिखेद्भूमौ सप्त 30 रात्रमनन्यधीः ।
यजेत गन्धप्रमुखैर्निवेद्य च गुळोदनम् ॥ 25.80 ॥
पादेनाक्रम्य हृदयं धनदस्य जपेत्ततः ।
अयुतं नियुतं वापि मन्त्रराजं जितेन्द्रियः ॥ 25.81 ॥
ध्यात्वा नारायणं देवं तदनैमन्त्रवित्तमः ।
साक्षात्करोति धनदं तथैव धनमक्षयम् ॥ 25.82 ॥
प्रयच्छति धनाध्यक्षैरानीतं 31 स्वाश्रयात्क्षणात् ।
माणिभद्रादिभिर्मन्त्रप्रभावेन चतुर्मुख ॥ 25.83 ॥
सप्ताहमथवा यागं कृत्वा भद्रकमण्डले ।
हुत्वा हुतीस्तदन्ते च कुर्याद्ब्रह्मणतर्पणम् ॥ 25.84 ॥
ध्यात्वा नारायणं देवमात्मानं साधकोत्तमः ।
पश्यन् महीतलं शुद्धमग्रहाराद्बहिस्थ्सितः ॥ 25.85 ॥
भवन्ति चास्य निधयः प्रत्यक्षा बहवस्तथा ।
अञ्जनाञ्चितचक्षुर्वा मन्त्रेणानेन मन्त्रवित् ॥ 25.86 ॥
निधीन् पश्यति दुष्प्रापानभीष्टां स्तत् क्षणादसौ ।
भद्रके मण्डले पूर्वमिष्ट्वा देवं जनार्दनम् ॥ 25.87 ॥
यज्ञदारुं वृषस्कन्धे बध्वा तस्मिन् हलं पुनः ।
कर्षयेद्भूतलं शुद्धं सितासु मणिकाञ्चनम् ॥ 25.88 ॥
महदाप्नोत्यभिप्रेतमथवा कमलासन ।
वल्मीकस्य तथाभ्यर्णे कृत्वा भद्रकमण्डलम् ॥ 25.89 ॥
यजेत पूर्ववद्देवमन्त्रे वल्मीकभूमिषु ।
32 नालिकेरजलैस्सार्धं पिष्टं नागबलिं क्षिपेत् ॥ 25.90 ॥
खात्वा वल्मीकधिष्ण्यन्तं तत्र पश्येन्महद्धनम् ।
खनित्रं क्षालयित्वा तु निशायामधिवासयेत् ॥ 25.91 ॥
मण्डले स्वस्तिके देवमिष्ट्वा हुत्वा तथाहुतीः ।
अष्टोत्तरशतं भूयः 33 प्रातर्निक्षिप्य भूतले ॥ 25.92 ॥
शुचौ खनेत्खनित्रेण 34 लभते सुमहद्धनम् ।
साधितं पारदं कृत्वा हस्ते जप्त्वा मनुं पुनः ॥ 25.93 ॥
नियुतं प्रयुतं वापि यथाशक्ति समाहितः ।
तद्रसस्पर्शमात्रेण सर्वं काञ्चनतामियात् ॥ 25.94 ॥
पाषाणमथवा लोष्टमग्नितप्तं न संशयः ।
औषधानि च सर्वाणि रसयुक्तानि पद्मज ॥ 25.95 ॥
लोहसंस्पर्शयुक्तानि सुवते कनकं महत् ।
इत्थं धनवतां कामस्समुत्रान्तः प्रवर्तते ॥ 25.96 ॥
तत्प्राप्तये विधायाब्जमण्डलं तत्र संस्मरेत् ।
मन्त्रेशमर्चयित्वाग्रे यथापूर्वमनन्यधीः ॥ 25.97 ॥
जुहुयाच्च यथोक्तेन मार्गेण दिनसप्तकम् ।
स्त्रीभोगः
पद्मरागरुचं देवं स्मृत्वा मन्त्रं जपेत्सुधीः ॥ 25.98 ॥
पूर्वोक्तसङ्ख्यया स्त्रीणां भोगं 35 चेच्छति दुर्लभम् ।
चिन्तयित्वाफलं होमकर्मण्यवसिते ततः ॥ 25.99 ॥
36 अभीष्टसाधकं सर्वाः प्रार्थयन्तेवरास्त्स्रियः ।
यावज्जीवं न त्यजन्ति कामार्ता मन्त्रवित्तमम् ॥ 25.100 ॥
कन्याकामः फलैः पक्वैः पुष्पैर्लाजैर्दिने दिने ।
सहस्रं जुहुयाद्देवमाराध्य गरुडध्वजम् ॥ 25.101 ॥
लभते कन्य कामिष्टां तदन्तेन विचारणा ।
वशीकारः
यन्त्रं वश्यकरं पक्ष्ये श्रूयतां तद्यथातथम् ॥ 25.102 ॥
भूर्जपत्रे लिखे 37 च्चक्रमष्टारं रोचनादिकैः ।
चन्दनद्वयकाश्मीरशशिकस्तूरिकान्वितैः ॥ 25.103 ॥
हेमसूच्यालिखेदेतैर्गन्धद्रव्यैस्तथापरैः ।
38 नाभिनेमियुतं चक्रमष्टारं ज्वालयान्वितम् ॥ 25.104 ॥
अष्टस्वरेषु विलिखेदक्षराण्यष्ट पद्मज ।
प्रादक्षिण्येन विस्पष्टं ह्रीङ्कारं मध्यमे पदे ॥ 25.105 ॥
साध्यनामापि तत्रैव सोङ्कारं तदनन्तरम् ।
ह्रीङ्कारं नाभिवलये दिक्ष्वष्टासु समर्पयेत् ॥ 25.106 ॥
ह्रीङ्कारं नेमिवलये वशीकरणमक्षरम् ।
तथैवाशानु सर्वासु वशं कुरु पदान्वितम् ॥ 25.107 ॥
तस्मिन्नावाह्य देवेशमिष्ट्वा मन्त्रं 39 जपेद्बुधः ।
अष्टोत्तरसहस्रं तु हुहुया 40 दाहुती स्ततः ॥ 25.108 ॥
गुलिकां बिभ्रतस्तस्य वश्यं सर्वमनन्तरम् ।
अथवा पादयोः पांसून् रक्तचन्दनमिश्रितान् ॥ 25.109 ॥
आदाय पुरुषाकारां स्त्रीरूपां वा यथेप्सिताम् ।
कृत्वा प्रतिकृतिं तस्मिन्नस्यात्मानं 41 स्मरेद्धरिम् ॥ 25.110 ॥
ताडयेन्मूलमनुना रक्तैस्तु 42 हयमारजैः ।
प्रत्यहं मन्त्रजापस्स्यादष्टोत्तरसहस्रकम् ॥ 25.111 ॥
पश्या नारी पुमान् वापि सप्ताहान्ते जपाद्भवेत् ।
यावज्जीवं धनैर्दत्तैरात्मना वा यथेप्सितम् ॥ 25.112 ॥
तिलतण्डुलदूर्वाणामयुताहुतिभिः क्रमात् ।
ब्राह्मणक्षत्रियविशो वश्यमन्त्र प्रभावतः ॥ 25.113 ॥
अपामार्गसमिद्भिर्वा होमाद्वार्णान् वशं नयेत् ।
औदुम्बरसमिद्भिर्वा पलाशसमिधापि वा ॥ 25.114 ॥
होमेन ब्राह्मणा वैश्याः पूर्वोक्ताहुतिसङ्ख्याया ।
त्रिभिर्मधुरसैस्सिक्तैरपामार्गसमिच्छतैः ॥ 25.115 ॥
दशभिर्जुहुयादग्नौराजा वश्यः क्षणाद्भवेत् ।
अश्वत्थैः खादिरै र्वापि वशीकरणमीरितम् ॥ 25.116 ॥
वटवृक्षसमित्सङ्घैर्वैश्यास्सर्वे वशीकृताः ।
शूद्रस्तु प्लक्षसमिधामाहुत्या स्ववशः क्षणात् ॥ 25.117 ॥
गन्धद्रव्यसमायुक्तमृत्स्नया तिलकं दधत् ।
दृष्टमात्रेण जनतां वशं नयति मन्त्रवित् ॥ 25.118 ॥
ध्यात्वा करतले चन्द्रं तन्मध्ये विष्ठितं हरिम् ।
सुखासीनं पुण्डरीककर्णिकायां सितप्रभम् ॥ 25.119 ॥
ध्यायन् करतलस्प र्शैस्सर्वं वश्यं क्षणाद्भवेत् ।
भक्ष्यं भोज्यं तथा पेयं फलं वा पुष्पमेव वा ॥ 25.120 ॥
स्पृष्ट्वा सहस्रजापेन 43 दत्तं सर्वान् वशं नयेत् ।
आकर्षणम्
अकर्षणविधिं वक्ष्येतं ब्रह्मन्नवधारय ॥ 25.121 ॥
भूर्जपत्रे लिखेच्चक्रमष्टारं पूर्ववर्त्मना ।
गन्धद्रव्यैर्लिखेन्मन्त्रं हेमसूच्या विचक्षणः ॥ 25.122 ॥
वेष्टयेदुक्तसूत्रेण तद्यन्त्रमभिमन्त्रितम् ।
44 शिखिचङ्चुपुटे न्यस्तं भावयित्वा जपेत्ततः ॥ 25.123 ॥
तन्नामसंयुतं मन्त्रं क्रुद्ध्यन्नाकर्षयेति च ।
युक्तं सहस्रं सप्ताहं जपेत्प्रतिदिनं सीधीः ॥ 25.124 ॥
आत्मानं गरुडारूढं सायुधाष्टभुजं हरिम् ।
बन्धूकपुष्पसदृशं भावयित्वा जितेन्द्रियः ॥ 25.125 ॥
वामोत्सङ्गे हरेर्देवीं निषण्णां कामविह्वलाम् ।
पाशाङ्कुशधरां लक्ष्मीं ध्यात्वा च तदनन्तरम् ॥ 25.126 ॥
नृपं बध्वा गले पाशैस्ताडयित्वाऽङ्कुशादिभिः ।
आयुधैः वृष्ठतो मन्त्रमाकर्षय पदान्वितम् ॥ 25.127 ॥
जप्त्वाऽयुतं सप्तदिनं योजनानां शते स्थितम् ।
अपि भूपं नयत्याशु साधको मन्त्रतेसजसा ॥ 25.128 ॥
धनेन महता युक्तस्स्वयमेवागतोनृपः ।
वश्यो भवति कृत्वैवं विप्रादीनपि वा ऽऽनयेत् ॥ 25.129 ॥
योषिदाकर्षणे 45 चापि कृत्वैवं कर्म मन्त्रवित् ।
पञ्चभाणेषुभिर्विद्धां सर्वाङ्गेषु स्त्रियं स्मरेत् ॥ 25.130 ॥
पाशबद्धं तथैवान्यैरायुधैप्ताडितां भृशम् ।
क्षिप्रमेवानयेन्नारीं सप्ताहाच्छरवेगवत् ॥ 25.131 ॥
दूरस्थितामपि तथा राज्ञो वा महिषीमपि ।
सा सन्निधत्ते कामार्ता मदविह्वाललोचना ॥ 25.132 ॥
समृद्धार्थात्मना वापि धनैर्वापि यथेप्सितैः ।
साधकं तोषयत्येषा मन्त्रजापाद्यथोदितात् ॥ 25.133 ॥
मृतनारीकपाले वा रोचनाद्येन वस्तुना ।
पूर्ववच्च क्रमलिख्य तन्मध्येऽभीष्टयोषितः ॥ 25.134 ॥
लिखित्वा नामधेयं त 46 त्कपाले ज्वलने पुनः ।
तापयित्वा जपेन्मन्त्रं सप्ताहं जूप्वसङ्ख्यया ॥ 25.135 ॥
ततस्सिध्यति सा नारी दूरस्थापि यथेप्सिता ।
यक्षसाधनम्
यक्षाणामपि यक्षीणां साधनं शृणु कथ्यते ॥ 25.136 ॥
वटवृक्षे कुटिं कृत्वा तत्र चक्रब्जमण्डले ।
आराध्य तेवं जुहुयाद्वटवृक्षसमिच्छतैः ॥ 25.137 ॥
दशभिः प्रत्यहं मन्त्री सप्ताहे परिनिष्ठिते ।
पूर्वमेव वटे यक्षं यक्षीं वा कुङ्कुमादिभिः ॥ 25.138 ॥
लिखित्वा कर्म तत्सर्वं कुर्यादभिमुखे स्वयम् ।
सप्तमेऽह्नि वटे रात्रौ कम्पितेऽभीतवत् स्थितः ॥ 25.139 ॥
गुग्गुलुं घृतमिश्रं च धूपयेन्मन्त्रवित्तमः ।
वटाभिमुखमुत्थाय यक्षीं वा यक्षमेव वा ॥ 25.140 ॥
साक्षात्करोति तां तं वा या चेताभीष्टमुत्तमम् ।
मातृत्वं वा स्वसृत्वं वा भ्रातृत्वं वा यथातथम् ॥ 25.141 ॥
पितृत्वं वाथ भार्यात्वमिप्सितं सर्वमाप्नुयात् ।
प्रयच्छति यथायोगं यक्षी यक्षश्च मन्त्रिणे ॥ 25.142 ॥
माता चेन्मातृवद्रक्षेत्पिताचेत्पितृतत्तथा ।
एवं भ्रात्रादयो प्यन्ये यथास्वत्राणतत्पराः ॥ 25.143 ॥
विद्याधरसाधनम्
विद्याधरवशीकारे विधानमपरं शृणु ।
असोकवृक्ष मूलोर्व्यां कुर्यात्पूजादि पूर्ववत् ॥ 25.144 ॥
विद्याधरणे यच्छक्यं कर्तुमस्यापि तद्भवेत् ।
अन्येषां देवयोनीनामेवं कुर्याद्यथाविधि ॥ 25.145 ॥
ते ते सर्वं प्रयच्छन्तिमन्त्रतुष्टा यथातथम् ।
पातालसाधनम्
पातालसाधनं चापि शृणु गुह्यं यथातथम् ॥ 25.146 ॥
होमावसानं पूजादि कर्म कृत्वा यथोदितम् ।
बिलद्वारसमीपे तु लक्षमष्टाक्षरं जपेत् ॥ 25.147 ॥
क्षीरवृक्षशमीदुर्वातिलाद्यानामनन्यधीः ।
प्रत्येकमयुतं होमं कुर्याद्वै साधकोत्तमः ॥ 25.148 ॥
निर्गच्छति बिलात्तस्मात्कामार्ता कन्यका स्वयम् ।
सहस्रपरिवारेण सार्धमायतलोचना ॥ 25.149 ॥
गृहीत्वा मन्त्रिणं स्वेषु मन्दिरेषु यथासुखम् ।
रमते दिव्यभोगैस्सा विचित्रैरतिमानुषैः ॥ 25.150 ॥
पातालद्वारपार्श्वे तु कारयेद्यागमण्टपम् ।
ध्वजतोरणसंयुक्तं द्वारकुम्भोपशोभितम् ॥ 25.151 ॥
चक्राब्जं वर्तयेत्तत्र ध्यात्वा नारायणं प्रभुम् ।
यजेत पूर्ववद्धोमं कृत्वा पूर्वोक्तसङ्ख्याया ॥ 25.152 ॥
अष्टलक्षं मिताहारो जितेन्द्रिय अनन्यधीः ।
तत्क्षणादेव नागेन्द्रकन्यका मन्त्रिणः पुरः ॥ 25.153 ॥
स्थिता मनोभववशा सहस्रैः परिवारिताः ।
आत्मतुल्याभिरन्याभिः कन्यकाभिर्वशीकृताः ॥ 25.154 ॥
गृहीत्वा मन्त्रिणं ताश्च नागालयपुरोत्तमे ।
प्रविश्य विविधैर्भोगैर्वशीकुर्वन्तिमन्त्रिणम् ॥ 25.155 ॥
पीत्वा रसायनं चापि यावदाभूतसम्प्लवम् ।
रमते भीरुभिस्सार्धं दिवि देवपतिर्यथा ॥ 25.156 ॥
खड्गसाधनम्
खड्गसाधनमाश्चर्यं शृणु वक्ष्यामि तद्यथा ।
देहजं लोहितं मन्त्रीश्मशानाङ्गारमिश्रितम् ॥ 25.157 ॥
पेषयित्वालिखेद्खड्गं चतुस्तालायतं शुभम् ।
श्मशानदेशे तन्मूलं स्पृष्ट्वामन्त्रं जपेत्सुधीः ॥ 25.158 ॥
निशीथे निर्जने तावद्या वज्ज्वालां विमुञ्चति ।
ज्वालाभिरस्य शोभन्ते दिशो दश चतुर्मुख ॥ 25.159 ॥
नानाविधानि भूतानि भवन्ति भयहेतवः ।
अभीतो निश्चतो मन्त्रं जपे देवं समाहितः ॥ 25.160 ॥
स्फुरन्तं पाणिना खड्गं गृहीत्वा दृढमुष्टिना ।
मन्त्रं जपेन्नभो याति यत्र विद्याधरादयः ॥ 25.161 ॥
विद्यामहिम्ना तेषां स राजा भवति मन्त्रवित् ।
यक्षराक्षसदैत्यानां जेता मर्त्येषु किम्पुनः ॥ 25.162 ॥
खड्गहस्तस्यदा मन्त्रं जपन्याति त्रिविष्टपम् ।
तत्रापि भोगमतुलं लभते चाप्सरोगणैः ॥ 25.163 ॥
खड्गं वाऽऽयसमादाय पर्णैः पिप्फलसम्भवैः ।
अन्तर्हितं विधायाशु नियुतं जपमाचरेत् ॥ 25.164 ॥
समिदाज्यैस्तथा बीजैर्जुहुयादयुतावरम् ।
नररक्तं गजमदं पित्तमाक्षं विमिश्रितम् ॥ 25.165 ॥
राजवर्तेन तैः खड्गं विलिप्याराधयेद्धरिम् ।
तस्मिन् पूर्वोक्तमार्गेण खड्गं स्पृष्ट्वा जपःस्मृतः ॥ 25.166 ॥
अष्टोत्तरसहस्रेण पश्चात्तापादिसम्भवः ।
तापे स्यादधमासिद्धिर्मध्यमा धूमजन्मनि ॥ 25.167 ॥
उत्तमा ज्वलने दृष्टे पश्चाद्खड्गधरस्स्वयम् ।
चरेदभीप्सितान् लोकान् भोगांश्चाप्नोति पुष्कलान् ॥ 25.168 ॥
सिद्धकन्यासकाशात्सिद्धवस्तुलाभः
शङ्खकुक्त्यदरे मन्द्रं लिखेद्गोरोचनाम्बुभिः ।
जपेन्मन्त्रवरं स्पृष्ट्वा यावज्ज्वालावलोकनम् ॥ 25.169 ॥
समुत्थिता च तन्मध्ये कन्या सर्ववरप्रदा ।
तिलकं चाक्षमालां च गुलु काञ्जनपादुकाः ॥ 25.170 ॥
दिव्यैषधं रसेन्द्रं च कपालस्थं रसाञ्जनम् ।
ददादि सर्वं सा कन्या मन्त्रिणे मन्त्रवैभवात् ॥ 25.171 ॥
तिलकं भिभ्रत स्तस्य नरनारी मृगादिकम् ।
स्मृतिमात्रेण पूरतो दृष्टं भवति तद्ध्रुवम् ॥ 25.172 ॥
तया क्षमालया जप्तः पुरश्चरणवर्जितः ।
मन्त्रो यथेप्सितान् कामान् तस्मै शीघ्रं प्रयच्छति ॥ 25.173 ॥
निधाय 47 गुलिकामास्ये निर्भयस्सर्वविष्टवे ।
चरत्येष यथाकामं दीर्घमायुश्छ विन्दति ॥ 25.174 ॥
अञ्जनेनाक्तनयनस्स्याददृश्यस्सुरासुरैः ।
पादुकास्पर्शमात्रेण चारयत्यनले जले ॥ 25.175 ॥
दूरं वा गमयेच्छीघ्रं यं यं देशमभीप्सति ।
दिव्यौषधेन भुक्तेन दुर्वाधिर्नश्यति क्षणात् ॥ 25.176 ॥
अचिकित्स्योपि कुष्ठादिर्नात्र कार्या विचारणा ।
पाषाणादि रसेन्द्रिण स्पृष्टमाग्नौ प्रतापितम् ॥ 25.177 ॥
हिरण्यं भवति ब्रह्मन् पीत्वा चापि रसायनम् ।
बलवानपि तेजस्वी वलीपलितवर्जितः ॥ 25.178 ॥
शत्रुमारणम्
कपाले चाश्म निक्षिप्य शत्रुमूर्धनि निक्षिपेत् ।
48 उद्वासितो वा म्रियते सान्ववायस्सुहृङ्जनः ॥ 25.179 ॥
इन्द्रजालम्
दर्शयन्निन्द्रजालं चेन्मायादेवीं लिखेद्भुवि ।
कृष्णां च तुर्भुजां सौम्यां सर्वाभरण भूषिताम् ॥ 25.180 ॥
सर्वाङ्गसुन्दरीं 49 मन्त्री पूजयित्वा जपेत्ततः ।
अयुतं नियुतं वापि 50 मन्त्रमष्टाक्ष 51 रान्वितम् ॥ 25.181 ॥
सिद्धा तदन्ते सा देवी चतुरङ्गबलं महत् ।
भूमौ प्योम्नि बलं स्रवमुद्यतायुधमद्भुतम् ॥ 25.182 ॥
दर्शयत्याशु मन्त्रेण म 52 न्त्रेणे मन्त्रसिद्धदा ।
त्रैलोक्यमपि सर्वं सा प्रदर्शयति तोषिता ॥ 25.183 ॥
गुलिकाविधिः
गुलिका कध्यते ब्रह्मन् 53 निर्माण मधुनोच्यते ।
मनश्शिला तथा कुष्ठं हलितालं च कुङ्कुमम् ॥ 25.184 ॥
गोरोचनां च 54 चक्राङ्गं सर्वं पिष्ट्वा मधुत्रिकैः ।
कृत्वा च गुलिकां चक्रपद्ममध्ये निवेशयेत् ॥ 25.185 ॥
एकादशीनिशायां वा यजेत हरिमव्ययम् ।
द्वादश्यामर्चयित्वा 55 तु जपेन्मन्त्रं यथापुरम् ॥ 25.186 ॥
होममग्नौ प्रकुर्वीत सहस्रं सर्पिषा ततः ।
सिद्धेयं गुलिका 56 सर्वं साधयेत्साधकस्य हि ॥ 25.187 ॥
वेतालसाधनम्
वेतालसाधनं 57 ब्रह्मन् कथयामि यथातथम् ।
ब्राह्मणं क्षत्रियं वापि युवानं निर्व्रणं मृतम् ॥ 25.188 ॥
तत्क्षणादेव सङ्गृह्य शून्यागारे निवेशयेत् ।
क्षालयित्वा मलं सर्वं चक्रपद्मे निवेश्यतम् ॥ 25.189 ॥
हृदयं तस्य चाक्रम्य पादेन ध्यानमास्थितः ।
जपेन्मन्त्रं दिवारात्रं निशीधे कम्पते शवः ॥ 25.190 ॥
निर्भयस्ताडयेद्देहं सिद्धार्धैरभिमन्त्रितैः ।
कम्पमानं शरीरं तदुत्थायाग्रेऽवतिष्ठते ॥ 25.191 ॥
किं करोमिति च ततोमन्त्रिणं सम्पुटाञ्जलिः ।
ब्रुवाणो मन्त्रिणे तस्मै प्रयच्छति यथेप्सितम् ॥ 25.192 ॥
खण्डमुष्टिं तथा दिव्यमौषधं च रसायनम् ।
गुलिकां पादुके 58 सिद्धं रसं वेणुपुटे स्थितम् ॥ 25.193 ॥
पादलेपं चाक्षसूत्रमन्यद्वा दुर्लभं नृभिः ।
पादलेपेन गमनमाकाशादिषु मन्त्रिणः ॥ 25.194 ॥
खड्गेन शत्रुसैन्यानां वधः केसरिणामपि ।
दिव्यौषधानां 59 सर्वेषां फलं पूर्वमुदीरितम् ॥ 25.195 ॥
आमयशान्तिः
आमयानामपस्मारमुखानां शान्तये विधिः ।
भूभागे शल्यरहीते कृत्वा मण्टपमादितः ॥ 25.196 ॥
60 निर्व्रणान् लक्षणोपेतान्कलशान् पञ्चविंशतिम् ।
पूरितान् द्रोणमात्रेण सर्पिराद्येन वस्तुना ॥ 25.197 ॥
ससूत्रान् सकुशांश्चैव सापिधानान् सवस्त्रकान् ।
द्वारकुम्भान् चतुर्दिक्षु तोरणानि च कल्पयेत् ॥ 25.198 ॥
प्रत्येकं कलशान् सर्वान् मन्त्रेणैवाभिमन्त्रयेत् ।
अष्टाक्षरेण प्रत्येकमष्टोत्तरशतावरम् ॥ 25.199 ॥
निशाम्बना चन्दनेन श्वेतदूर्वाङ्कुरेण च ।
भूर्जपत्रोदरे पद्ममष्टपत्रं सकर्णिकम् ॥ 25.200 ॥
नाभिनेमियुतं चक्रमष्टारं कमलाद्बहिः ।
प्रणवं कर्णिकादेशे साध्यनाम च मध्यतः ॥ 25.201 ॥
अष्टाक्षराण्यष्टदले नाभौ स्पर्शाक्षरं लिखेत् ।
61 नाभिक्षेत्रे यकारादीनष्टारेषु स्वरान् पुनः ॥ 25.202 ॥
महामायाग्नि संयुक्तं भास्करं दण्डशेखरम् ।
नेमिभागे क्रमाद्दिक्षु विदिक्षु चतुरासन ॥ 25.203 ॥
कृत्वैवं सितसूत्रेण परिवेष्ट्यनिरन्तरम् ।
गुलिकां तण्डुलद्रोणमध्यस्थे कलशे क्षिपेत् ॥ 25.204 ॥
आवाह्य हृदयात्तस्मि 62 न्मन्त्रेशं चक्रपङ्कजे ।
चन्दनाद्यैस्सितैर्वस्त्रैः पुष्पैरन्येश्च तादृशैः ॥ 25.205 ॥
शाल्योदनेन च हरिं यजेत सुसमाहितः ।
पूर्णेन्दुमण्दलान्तस्थमुद्गिरन्तं सुधारसम् ॥ 25.206 ॥
शशाङ्कशतसङ्काशं ध्यात्वा नारायणं हरिम् ।
शान्तिं प्रयच्छ महतीमित्यन्ते समुदीरयेत् ॥ 25.207 ॥
शशिनो दशि वृत्तेऽथ कुण्डे क्षीराज्यतण्डुलैः ।
63 गुग्गुलुं क्षौद्रबीजां श्चसप्ताहं होममाचरेत् ॥ 25.208 ॥
पूर्वोक्तसङ्ख्यया कुम्भैः 64 स्थापितं चामयाविनम् ।
स्वापयेन्मूलमन्त्रेण ध्यायेच्चैव जनार्दनम् ॥ 25.209 ॥
मूर्णेन्दुशतसङ्काशं स्यन्धमानं सुधारसम् ।
तदीयपादकमलात्सर्वतो व्याधिपीडितम् ॥ 25.210 ॥
प्रविश्य ब्रह्मरन्ध्रेण प्लापयन्तमनन्यधीः ।
ध्यात्वा जपेन्मूलविद्यां मन्त्रविद्व्याधिपीडितम् ॥ 25.211 ॥
उत्थापयति तन्मूर्ध्निन्यस्य तां गुलिकामथ ।
अपस्मारादयस्सर्वे शाम्यन्ति मनुतेजसा ॥ 25.212 ॥
अथादाय च मृत्पात्रं पैत्तलं वाथ काष्ठजम् ।
तस्मिन्निक्षिप्य पीयूषं दधिसर्पिस्समन्वितम् ॥ 25.213 ॥
ओदनं चैत्यवृक्षादिमूले भूतबलिं 65 हरेत् ।
भोजयेद्ब्राह्मणानै दद्यातैभ्यो यथावसु ॥ 25.214 ॥
पुष्टिविधिः
66 पौष्टिं वक्ष्यामि ते कर्म मण्टपादि यथापुरम् ।
भूर्जपत्रे लिखेद्यन्त्रं प्राग्वत्पद्मादिसंयुतम् ॥ 25.215 ॥
श्रीभूमिमन्त्रं च लिखेत्केसरेषु दलेषु च ।
गुलिकां वेष्टितां रक्तासूत्रैर्मधुघटे क्षिपेत् ॥ 25.216 ॥
विद्रुमाभं च मन्द्रेशं समावाह्य च 67 सर्वगम् ।
सौम्याशायां पद्मकुण्डं कलशान् रक्तवाससः ॥ 25.217 ॥
वस्तु सर्वं यथोक्तं तद्युक्तं स्यात्सति सम्भवे ।
बलिकर्मच कर्तव्यं कर्मान्ते कमलासन ॥ 25.218 ॥
महती पुष्टिरेव स्यात्कृते कर्मणि 68 शान्तिके ।
आयुष्कामविधिः
आयुष्कामस्तु दूर्वाभिर्घृताक्ताभि 69 र्यथोदितम् ॥ 25.219 ॥
जुहुयान्मण्टपादीनां विधानं पूर्ववर्त्मना ।
कर्मान्ते कलशैस्स्नानं साध्यस्य कमलासन ॥ 25.220 ॥
एवं कृते यथाशास्त्रमायुर्विन्दति पुष्कलम् ।
आरोग्यकामविधिः
आरोग्यकामस्सावित्रे मण्डले हरिमर्चयेत् ॥ 25.221 ॥
रुक्माभं विद्ययार्घ्यादि साधनैरुक्तवर्त्मना ।
पूर्ववज्जपहोमादि होमो गुग्गुलुवस्तुभिः ॥ 25.222 ॥
जपान्ते प्रणमेन्नित्यमङ्गैरष्टाभिरात्मवान् ।
यावदायुषमारोग्यं लभते मन्त्रवैभवात् ॥ 25.223 ॥
ज्वरितस्य भवेच्छान्तिरमृताचूतपल्लवैः ।
पूर्वोक्तेन विधानेन सर्वमन्यद्यथोदितम् ॥ 25.224 ॥
ज्वरशान्तिर्भवेदन्ते विद्यावीर्यप्रभावतः ।
चन्दनादिद्रुमैर्लोहैर्यद्वा प्रतिकृतिः कृता ॥ 25.225 ॥
पूजिता पूर्ववत्सर्वान् कामानाशु प्रयच्छति ।
होमश्च कर्मानुगुणैर्द्रव्यैस्स्यात्कमलासन ॥ 25.226 ॥
अपमृत्युनिवारणम्
अश्वत्थं मन्दवारेषु स्पृष्ट्वा दक्षिणपाणिना ।
जपतो नापमृत्युस्स्यात्पूर्वमिरितसङ्ख्याया ॥ 25.227 ॥
वाक्सिद्धिः
घृतमिश्रं वचा 70 चूर्णं यद्वा ब्राह्मीं घृताप्लुताम् ।
ज्योतिष्मतीरसं वापि स्पृष्ट्वा लक्षं जपन् पिबेत् ॥ 25.228 ॥
मुहुर्ते भोभने प्राप्ते वाक्सिद्धिस्तस्य निश्चिता ।
औदुम्बरेऽथवा 71 पात्रे कपिलाज्यं चतुष्पलम् ॥ 25.229 ॥
मिश्रं श्वेतवचाचूर्णं यद्वा चन्ध्रे मघायुते ।
72 पुण्ये सारस्वते योगे श्वेतवर्णं चतुर्भुजम् ॥ 25.230 ॥
श्वेतपद्मे सुखासीनं चन्द्रमण्डलमध्यगम् ।
इष्ट्वा देवं गोघृतेन जुहुयाच्च यथाविधि ॥ 25.231 ॥
पिबन् स 73 सुस्रवं पश्चाल्लभते वाचमुत्तमाम् ।
प्रतिवादिवाग्बन्धनम्
अष्टबाहुं चन्द्रनिभमात्मानं शेषविष्टरे ॥ 25.232 ॥
सुखासीनं भावयित्वा 74 कोपिनं प्रतिवादिनम् ।
75 पिधाय जिह्वा हृदयं मुसलेन शिरोऽङ्कुशैः ॥ 25.233 ॥
ताडयेद्गदया पृष्ठं पाशैर्बध्वा कलेभरम् ।
तस्यैव जिह्वामध्ये च माहेन्द्रं दण्ड शेखरम् ॥ 25.234 ॥
विन्यस्य स्तम्भयेद्वाचमेवं ध्यायन् विचक्षणः ।
आत्मनो वादिनश्चैव मध्ये यवनिका भवेत् ॥ 25.235 ॥
मन्त्रं शतगुणं जप्त्वा वादी वाचं समुत्सृजेत् ।
सद्यः परस्यापजयो विजयश्चात्मनो भवेत् ॥ 25.236 ॥
तत्र दोषाभावः
स्तम्भने नै पदोषस्स्या 76 द्बाह्याश्छेत्प्रतिवादिनः ।
ब्रह्मवर्चसकामकल्पः
ब्रह्मवर्चसकामश्छेत्समिथो ब्रह्मवृक्षजाः ॥ 25.237 ॥
श्वेतपङ्कजहोमो वा राज्यकामस्य मन्त्रिणः ।
समिथो रक्त 77 वर्णास्स्युर्बिल्वपुष्पाणि पद्मज ॥ 25.238 ॥
लक्ष्मीसुमनसो वापि यद्वा 78 बोधिसमुद्भवाः ।
चन्द्रमण्डलमध्यस्थं श्वेतपङ्कजविष्टरे ॥ 25.239 ॥
स्थितं 79 द्विहस्तं सुभगं बालभूषणभूषितम् ।
बालावस्थं प्रसन्नेन्दुवर्चसं नीलकुन्तलम् ॥ 25.240 ॥
राजतं पात्रमन्नेन पायसेन प्रपूरितम् ।
बिभ्राणं वामहस्तेन दध्यन्न कबलं पुनः ॥ 25.241 ॥
80 दधानमितरेणापि ध्यात्वा देवं समाहितः ।
अन्नेन जुहुयादग्नौ बह्वान्नत्वमवाप्नुयात् ॥ 25.242 ॥
गोभूराष्ट्रादिकामकल्पः
गोकामो गोमयैः क्षीरैस्तदीयैर्होममाचरेत् ।
लभते धेनुकं सद्यो मन्त्रविन्मन्त्रवैभवात् ॥ 25.243 ॥
भूमिकामो मृदा होमं दुर्लभां लभते भुवम् ।
फलैर्बिल्वसमुद्भूतैर्होमाद्राष्ट्रसमुद्भवः ॥ 25.244 ॥
वस्त्रकामस्सुमनसां कालजानां चतुर्मुख ।
सितासितादिवर्णानां होमान्नियुतसङ्ख्यया ॥ 25.245 ॥
नानाविधानि वस्त्राणि लभते नात्रसंशयः ।
यद्यत्कामयते मन्त्री धान्यजातिमनेकधा ॥ 25.246 ॥
तत्तद्धोमेव तत्सर्वं लभतेमन्द्रवैभवात् ।
मन्त्राभिमन्त्रितं बीजमुप्तं बहुफलं भवेत् ॥ 25.247 ॥
पुत्रकामो हविष्टाशी समाराध्य जगद्गुरुम् ।
चक्राब्जमण्डले कुम्भस्थापनादि विधाय च ॥ 25.248 ॥
यथापूर्वं पायसान्नं होमान्ते स्थापितैर्घटैः ।
अभिषिच्य तदम्भांसि पाययेत् स्त्रियमागताम् ॥ 25.249 ॥
सा पुत्रान् लभते त्विष्टान् बहुन् विद्याविचक्षणान् ।
इष्ट्वा नारायणं देवं चक्राब्जेप्रोक्तवर्त्मना ॥ 25.250 ॥
अनुग्रहे निग्रहे च सर्वेषां शक्तिमान् भवेत् ।
मन्त्रदेवताप्रभावः
कम्पने वसुधादीनां पर्वतानां च भेदने ॥ 25.251 ॥
शोषणे वा समुद्राणां सर्वेषां स्तम्भने पि च ।
81 सर्गस्थितिविनाशानामपि कर्ता यथा हरिः ॥ 25.252 ॥
ध्यानाच्च देवदेवस्य 82 जपान्मन्त्रस्य च क्षणात् ।
नश्यन्ति भूतवेतालप्रमुखानि चतुर्मुख ॥ 25.253 ॥
दुष्टसत्वानि मन्त्रस्य प्रभावान्नात्र संशयः ।
विषापहरणम्
विषदष्टमवस्थाप्य ध्यात्वाच 83 गरुडध्वजम् ॥ 25.254 ॥
देवं विद्यां समुच्चार्य तीक्ष्णतुण्डेन ताडयेत् ।
गरुडस्य तु पक्षाभ्यां विषदष्टस्य मूर्धनि ॥ 25.255 ॥
एवं ध्यात्वा विषं सर्वं व्यपोह्योत्थापयेन्मृतम् ।
84 भुक्तं विषेण संस्पृष्टमन्नं बीजं फलं तथा ॥ 25.256 ॥
जरयेद्विद्यया सद्यस्सर्वदोषं च नाशयेत् ।
धनादिसिद्धयः
अक्षयश्चाभिवृद्धिश्च धनस्य यदि काङ्क्षितः ॥ 25.257 ॥
संस्पृश्य विद्यया सर्वं निक्षिपेद्बहुजप्तया ।
बन्धूक कुसुमप्रख्यमात्मानं भगवन्मयम् ॥ 25.258 ॥
ध्यायन्यायात्सभां तत्र क्रुद्धश्शाम्यति भूमिपः ।
अनुक्तास्सिद्धयः सर्वास्सिध्यन्त्यत्यन्तविस्तृताः ॥ 25.259 ॥
शास्त्रे मन्त्रप्रभावेन देवभूयं प्रपद्यते ।
वृष्टिकामो बहिश्शालां पूर्वोक्तविधिना कृताम् ॥ 25.260 ॥
चक्राब्जमण्ड्लादीनि कृत्वा कर्माणि पूर्ववत् ।
सप्ताहमाज्यसिक्ताभिस्समिद्भिर्जुहुयात्सुधीः ॥ 25.261 ॥
वैतसीभिः प्रतिदिनं नियुतायुतसङ्ख्याया ।
वृष्टिर्भवति तद्राष्ट्रे तद्धेशे वा दिनत्रये ॥ 25.262 ॥
मरीचिक्षुण्णसम्मिश्रैस्सर्षपै राजसर्षपैः ।
पूर्वोक्तसङ्ख्यया होमादतिवृष्टिश्च शाम्यति ॥ 25.263 ॥
देवतादिपदं प्रेप्सुर्विद्यया लोकमीप्सितम् ।
85 स्वर्गाद्यभीष्टरोकस्य महिमानुगुणैर्जपैः ॥ 25.264 ॥
लभते तत्तदाश्चर्यं फलं नैवात्र संशयः ।
चिन्तारत्नं तथैवान् मणिमादि गुणं परम् ॥ 25.265 ॥
लिप्सुर्मन्त्रजपैः कोटिसङ्ख्यैः प्राप्नोति मन्त्रवित् ।
मन्त्रदेवतासाक्षात्कारः
मन्त्राधिदैवतं देवं द्रष्टुकामोजितेन्द्रियः ॥ 25.266 ॥
षष्मासान्मन्त्रमनिशं जपेत्तध्यानमास्थितः ।
आगत्य देवदेवेशः पप्रत्यक्षो भवति क्षणात् ॥ 25.267 ॥
वरांश्च दुर्लभांस्तस्मे प्रददाति यथेप्सितान् ।
मन्त्रिणे मन्त्रमहात्म्यादचिरेण चतुर्मुख ॥ 25.268 ॥
मन्त्रामाहात्म्यम्
मन्त्रान्तराणां यासिद्धिः कल्पे कल्पे समीरिता ।
सापि प्रसिध्येदस्यैव सकला वीर्यपत्तया ॥ 25.269 ॥
षडङ्गानि च वेदाश्च मन्त्राश्चान्ये परश्शताः ।
अन्यच्च वाङ्मयं सर्वं मन्त्रेऽस्मिन् सुसमाहितम् ॥ 25.270 ॥
अपुनर्भवलिप्सूनां गतिरष्टारं मतम् ।
जन्मन्यस्मिन्नतीते वा यतेनस्सञ्छितं महत् ॥ 25.271 ॥
तन्मन्त्रजापमात्रेण प्रलयं याति 86 निश्चयम् ।
म्रियमाणश्शुचिर्भूत्वामन्त्रमेतमुदीरयन् ॥ 25.272 ॥
प्राप्नोति वैष्णवं स्थानं दुष्प्रापम 87 विनाशनम् ।
किं तस्य बहुभिर्मन्त्रैः किं तस्य बहुभिश्श्रुतैः ॥ 25.273 ॥
यस्यैषा वशमापन्ना विद्या सर्वार्थसाधनी ।
ये मन्त्रमाहात्म्यमिदं शृण्वन्ति च पठन्ति च ॥ 25.274 ॥
तेषामपि फलान्याहुः पूर्वोक्तानि मनीषिणः ।
चतुर्मुखैश्च तुर्वक्त्रफलान्यस्य प्रदर्शयन् ॥ 25.275 ॥
नान्तं जगाम विस्तीर्णं सङ्क्षेपोऽयमुदीरितः ।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे श्रीमदष्टाक्षरमन्त्रवैभवो नाम पञ्चविंशोऽध्यायः.
-
शुश्रूषितं मया. ↩︎
-
जप्तुं मन्त्रम्. ↩︎
-
छन्दस्तु. ↩︎
-
दत्रिःकुम्भसमुद्भवः. ↩︎
-
गायत्र्युष्णगनुष्टप्च बृहती पङ्तिरेव च । त्रिष्टुप्च जगतीचेति विराडिति तथैव च ॥ इति श्लोक एकः क्वचित्कोशे अधिकोदृश्यते. ↩︎
-
आपः कविश्च तौ व्याप्ता. ↩︎
-
मकारमस्मिन् व्यत्यासः पकार. ↩︎
-
दवलोपे. ↩︎
-
रूर्ध्वागमः. ↩︎
-
देवतावैक. ↩︎
-
यथोचितम्. ↩︎
-
भूषणम्. ↩︎
-
ललाटमुकुटं. ↩︎
-
इदमर्धं क्वचि न्नास्ति. ↩︎
-
मण्डितम्. ↩︎
-
गन्धानुलिप्ताङ्गम्. ↩︎
-
जलतर्पणम्. ↩︎
-
पितृणामपि. ↩︎
-
कुर्याच्च. ↩︎
-
दत्तैर्मन्त्रैर्जपे युक्तः. ↩︎
-
मण्डपम्. ↩︎
-
सुसमाना. ↩︎
-
बहुभ्यो. धर्ममास्थितः. ↩︎
-
मनुना. ↩︎
-
एकैकस्योप. ↩︎
-
घृतादि. ↩︎
-
शालादि. ↩︎
-
पूजने देनम्. ↩︎
-
लक्षणम्. ↩︎
-
रात्रं जितेन्द्रियः. ↩︎
-
स्वाज्ञया. स्वेच्छया. ↩︎
-
नालिकेरफलै ॥. ↩︎
-
घृतं निक्षिप्य भूतले. ↩︎
-
लभेत. ↩︎
-
चेतसि दुर्लभम्. ↩︎
-
अभीष्टसाधकाः. ↩︎
-
त्पद्मचक्रमष्टाररोचनाः. ↩︎
-
नाभि नेमिं खुभं. ↩︎
-
जपेत्ततः. ↩︎
-
त्तावदाहुतीः. ↩︎
-
न्यसेद्धरिम्. ↩︎
-
यमवारिजैः. ↩︎
-
दत्वासर्वं. ↩︎
-
शिखिपिञ्छ. ↩︎
-
वापि कृत्वैवं मन्त्र मन्त्र. ↩︎
-
त्पानके ज्वलिते पुनः । तर्प. ↩︎
-
शुक्ति. ↩︎
-
उछ्वासितो वा. ↩︎
-
मन्त्रम्. ↩︎
-
मन्त्रमष्टाक्षरद्वयम् ॥ ↩︎
-
राह्वयम्. ↩︎
-
मन्त्रिते मन्त्रसाधिता. ↩︎
-
तन्निर्माणं मयोच्यते. ↩︎
-
सर्वाङ्गम्. ↩︎
-
सः. ↩︎
-
सद्य स्साधयेत्सर्वमीप्सितम् - पूर्वमिरितम्. ↩︎
-
चापि. ↩︎
-
सिद्धिम्. ↩︎
-
पूर्णानाम्. ↩︎
-
निर्वाणान्. ↩︎
-
नेमिक्षेत्रे. ↩︎
-
न्मध्ये चक्रं च. ↩︎
-
कुङ्कुमक्षौद्रनिम्बैश्च. ↩︎
-
स्थापिदैरामयान्वितम् । स्नापये. ↩︎
-
क्षिपेत्. ↩︎
-
पौष्टिकं वक्ष्यते. ↩︎
-
सर्वदा. ↩︎
-
शास्त्रिके. ↩︎
-
र्यथो दितैः. ↩︎
-
पूर्वम्. ↩︎
-
पत्रे. ↩︎
-
पूर्णे. ↩︎
-
संस्रनम्. ↩︎
-
कौपीनम्. ↩︎
-
विधाय. ↩︎
-
द्बाह्यश्चेत्. ↩︎
-
पद्मास्स्यु. ↩︎
-
सन्नेन्दुवर्चसा. ↩︎
-
त्रिहस्तं . ↩︎
-
इतरेण धारयन्तम्. ↩︎
-
सर्वस्थिति. ↩︎
-
जपमन्त्रस्य लक्षणात्. ↩︎
-
गरुडस्थितम् । ↩︎
-
भुक्तं'अक्षयश्च’ इति श्लोकद्वयं `अनुक्ताः—भूयं प्रपद्यते’ इत्यतः परं क्वचित्कोशेदृश्यते. ↩︎ -
स्वर्ग्रादेरिष्ट. ↩︎
-
निन्तुषम्. ↩︎
-
विनश्वरम्. ↩︎