.
श्रीभगवान् :—-
द्वादशाक्षरमन्त्रकल्पः
द्वादशाक्षरमन्त्रस्य शृणु कल्पं चतुर्मुख ।
मातृकाचक्रमभ्यर्च्य द्वादशार्णं समुद्धरेत् ॥ 24.1 ॥
मन्त्रसमुद्धारप्रकारः
प्रणवं परमात्मानं भद्रपाणिमनन्तरम् ।
विष्णुं दक्षं चोतदेहं सुभद्रं गदिनं सुधाम् ॥ 24.2 ॥
विष्णुशीर्षं त्रयं पश्चाद्द्विजयं सम्प्रसारणम् ।
वरुणं चादिदेवान्तं शुक्लं भुवनशीर्षकम् ॥ 24.3 ॥
अत्रिं माधव 1 नामानं पीयूषं मधुसूदनम् ।
वायुं तथाऽप्रमेयान्तमेव 2 मुद्धारणक्रमः ॥ 24.4 ॥
बीजमस्य द्वादशात्मा दण्डशीर्ष उदाहृतः ।
क्रुद्धो महांश्च वीरश्छ द्युस्सहस्रं च तेजसा ॥ 24.5 ॥
उल्कान्ताष्षडिमे शब्दाश्चतुर्थ्यन्ताः 3 स्वधान्तकाः ।
बीजाक्षराणि
अङ्गानि हृदयादौ स्युः स्थाने बीजाक्षराणि वा ॥ 24.6 ॥
बीजन्यासन्थानभेदः
परस्य वासुदेवस्य बीजाङ्गं समुदाहृतम् ।
दीप्तिमानूर्ध्वलोकान्तो बीजं दण्डश्शिरः स्मृतम् ॥ 24.7 ॥
4 दीप्तिमान् कुम्भसंयोगो मधुसूदनमस्तकः ।
स एव वामनशिरा हृषीकेशशिरास्तथा ॥ 24.8 ॥
5 वीरसेनशिराश्चापि कल्क्यन्तोयमनन्तरः ।
षष्ठमौर्वशिरः प्रोक्तमङ्गानि क्रमशः पुनः ॥ 24.9 ॥
सत्यन्तदण्डशिरसस्सर्वे विभवपूर्वके ।
वासुदेवे प्रयोक्तव्या हृदया 6 दिषु षट्स्वपि ॥ 24.10 ॥
ऋषिर्देवता च
व्यूहपूर्वे तु 7 बिम्बस्याद्विष्णुः कुण्डादि पूर्ववत् ।
अङ्गं यद्वा द्वादशार्णः पूर्वे षट् हृदयादयः ॥ 24.11 ॥
षण्णामर्णाष्षडपरे तुन्द गुह्यभुजोरवः ।
जङ्घापादमिति स्थानेष्वेते योज्याः क्रमाद्बुधैः ॥ 24.12 ॥
ऋषिश्च देवता चोभे वासुदेवः स्मृतस्त्रिषु ।
छन्धश्च देवी गायत्री वर्णश्श्वेतश्चतुर्मुख ॥ 24.13 ॥
तत्वं बुद्धिः परं व्योम क्षेत्रं मन्त्रस्य शब्दितम् ।
प्रत्यक्षरमृषिश्छन्दो देवता वर्णविस्तरः ॥ 24.14 ॥
तत्वं क्षेत्रं क्रमात्सर्वमुच्यते द्वादशस्वपि ।
परमेष्ठी सनन्दश्च सनकश्च प्रजापतिः ॥ 24.15 ॥
भृगुस्सनत्कुमारश्च पुलस्त्यः पुलहः क्रतुः ।
मरीचिरत्र्यङ्गिरसौ कथिता ऋषयः क्रमात् ॥ 24.16 ॥
छन्दांसि देवी गायत्री 8 बस्तः क्षेत्रं प्रजापतिः ।
त्रिष्टुप्पङ्त्किश्च बृहती विराट् 9 बस्तस्त्रिवृत्सकः ॥ 24.17 ॥
उष्णिक्च श्रीरिति ब्रह्मन् वर्णेषु द्वादशस्वपि ।
विष्ण्वाद्या मासपा देवास्तत्वानि कथयामिते ॥ 24.18 ॥
तत्त्वानि
चिज्जीवः प्रकृतिर्बुद्धिर्मन 10 स्सत्वादयो गुणाः ।
व्योमाग्निर्मरुतश्चापि वर्णानां तत्त्वमीरितम् ॥ 24.19 ॥
क्षेत्राणि
क्षेत्राणि परमव्योम वायुरग्निर्जलं तथा ।
सत्यं 11 तपो जनश्चैव मह 12 स्स्वर्गं भुव स्तथा ॥ 24.20 ॥
भूमिः पातालमेतानि क्रमेण कथितानि ते ।
13 आम्नादिधामाश्रेयांशं ? गोपनान्तं सदण्डकम् ॥ 24.21 ॥
सत्यन्तं पापहननं विष्ण्वन्तं 14 भानुमान् परम् ।
शङ्खमाद्यक्षर 15 परं कमलं मधुसूदनम् ॥ 24.22 ॥
पुलहं चापरं विघ्नुनायकं पीतसूदनौ ।
एकनेत्रं मन्दरं च विष्ण्वन्तं भत्रहस्तकम् ॥ 24.23 ॥
सम्प्रसारणमूर्धानमुद्धरेन्मन्त्रवित्तमः ।
अग्निप्रकारमन्त्रोयं कथितः कमलासन ॥ 24.24 ॥
दुर्गा गणपतिस्तार्क्ष्य क्षेत्रपालपदानि तु ।
चतुर्थ्यन्तानि नत्यन्त प्रणवादीनि मिन्त्रिणा ॥ 24.25 ॥
कोणदिक्षु प्रयुज्येरन्नारभ्याग्नेर्दिशं क्रमात् ।
द्वादशाक्षरभाष्यम्
भाष्यं च द्वादशार्णस्य प्रवक्ष्यामि यथातथम् ॥ 24.26 ॥
ओमित्युक्तं परं ब्रह्म सुखरूपं ध्रुवं स्थिरम् ।
व्यापित्वात्तस्य वाच्यस्य वाचकं सर्वगं स्मृतम् ॥ 24.27 ॥
पुरुषार्थं परैस्सर्वैस्सुरासुरमहिर्षिभिः ।
नम्यन्ते देव देवैकस्स एवैकः परायणम् ॥ 24.28 ॥
आदौ सृजति भूतानि भूतानुग्रहकाम्यया ।
परिपालनमप्येष करोति बहुमूर्तिभिः ॥ 24.29 ॥
विश्रमार्थं च भूतानां संहरत्यखिलं जगत् ।
गतिर्गतिमतामन्या वासुदेवान्न विद्यते ॥ 24.30 ॥
संहरत्यात्मभूतानि पुनस्सृजति मायाया ।
देवे जाग्रति जागर्ति सुप्ते स्वपिति चाखिलम् ॥ 24.31 ॥
चराचरमिदं 16 कृत्स्नं भूतग्रामं चतुर्विधम् ।
द्वादशाक्षरवाच्यो 17 सौ
द्वादशाक्षरचिन्तकानां माहात्यम्
तस्य माहात्म्यमाश्रितः ॥ 24.32 ॥
ब्रह्मभूयं गतो ब्रह्मा देवभूयं च देवताः ।
ऋषयश्च मरीच्याद्या मुनयस्सनकादयः ॥ 24.33 ॥
मन्त्रमाहत्म्यमाश्रित्य जग्मुः पदमनुत्तमम् ।
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ॥ 24.34 ॥
न कदापि निवर्तन्ते द्वादशाक्षरचिन्तकाः ।
किं तस्य यज्ञैः किन्तीर्थैः किं विश्राणनकर्मभिः ॥ 24.35 ॥
किं व्रतैर्यस्य मन्त्रोऽसौ द्वादशाक्षरलक्षणः ।
सर्व 18 यत्नेन पुरुषस्तन्मन्त्र 19 निरतो भवेत् ॥ 24.36 ॥
संसार भयभीरूणां मोक्षैकफलकामिनाम् ।
मुक्तये परमोपायो मन्त्रोऽयं द्वादशाक्षरः ॥ 24.37 ॥
देवदानवगन्धर्व यक्षविद्याधरादयः ।
प्रणमन्ति महात्मानं द्वादशाक्षरचिन्तकम् ॥ 24.38 ॥
यस्य राष्ट्रे महीपस्यमन्त्री वसतिनिर्भयः ।
20 तद्राष्ट्रे धनधान्यादि समृद्धं वर्धतेऽधिकम् ॥ 24.39 ॥
भूतानि च पलायन्ते ग्रहश्चैव भयङ्काराः ।
राष्ट्राद्राजपुराद्राज्ञस्सकाशाच्च निपीडिताः ॥ 24.40 ॥
न फलं शक्यते वक्तुं कार्त्स्न्ये कमलासन ।
चतुर्मुखमुखैस्सर्वेर्दिर्वैर्वर्षशतैरपि ॥ 24.41 ॥
शरीरशुद्धये पुरश्चरणनियमः
शरीरशुद्धये पूर्वं पुरश्चरणमाचरेत् ।
शरीरं मन्त्रसंस्कारपुरश्चरणमिष्यते ॥ 24.42 ॥
ब्राह्मणां स्तन्मयान् पूर्वमाहुय द्वादशावरान् ।
भोजयित्वा ततश्चक्रमण्डले देवमर्चयेत् ॥ 24.43 ॥
विज्ञाप्य देशिकः पूर्वमनुज्ञातस्सहायवान् ।
आश्रमे यत्र मुनिभिः पूर्वमाचरितं 21 तपः ॥ 24.44 ॥
सिद्धमन्त्रफले तत्र वासुदेवनिकेतने ।
पश्चिमद्वारि वान्यत्र पूर्वोक्तस्थानभूमिषु ॥ 24.45 ॥
स्थानेऽभिरुचिते पुष्पसमित्कुशफलोदकैः ।
समुपेते यथोक्तानां सम्पन्नाभिमताशनः ॥ 24.46 ॥
भिक्षान्नभोक्ता भक्तानां तन्मयानां गृहेषु वा ।
ब्रह्मचारी गृहस्थो वा साधयेद्द्वादशाक्षरम् ॥ 24.47 ॥
वैखानसो वा नियतस्तपस्यभिरतश्सुचिः ।
भिक्षान्नभुग्भ्रह्मचारी शाककन्दफलाशनः ॥ 24.48 ॥
गृहस्थश्चेत्स्वयं 22 पाकं पुत्रैर्वा भार्ययाऽपि वा ।
शिष्येण वा पाचितान्नं निवेद्य हरयेऽग्रतः ॥ 24.49 ॥
वैश्वदेवादिकर्मान्ते भोजयित्वाऽतिथीनपि ।
23 शिष्यं भार्यां तथा 24 पुत्रं तोषयित्वा यथातथम् ॥ 24.50 ॥
स्वयं भुञ्जीत विधिवत्पश्चादन्नमकुत्सयन् ।
पुत्रदारसमायुक्तोजपेद्वैखानसश्शुचिः ॥ 24.51 ॥
वियुक्तः पुत्रदाराद्यैरथवा नियतस्थ्सितः ।
25 अञ्जसैव स्वयं पक्वमन्नमद्यान्मि ताशनः ॥ 24.52 ॥
पुरश्चरणसम्पत्तये शुद्धिः
पुरश्चरणसम्पत्तये शुद्धिः
सर्वेषां कायशुध्यर्थमादौ चान्द्रायणं चरेत् ।
26 पादोदकं पञ्चगव्यं ब्रह्मकूर्चजलं तथा ॥ 24.53 ॥
पीत्वा कायविशुध्यर्थं पुरश्चरण माचरेत् ।
मन्त्रसाधनयोग्यकालः
आरम्भः कर्मणां मासि मार्ग 27 शीर्षेऽथ शोभने ॥ 24.54 ॥
चैत्रे मासि सिते पक्षे ब्रह्मन्ने कादशीतिथौ ।
उपोष्य पूर्वं चक्राब्जे प्रतिमायामथापि वा ॥ 24.55 ॥
कूर्चे वा स्थण्डिले वापि 28 यथाभिरुचिते पदे ।
द्वादश्यां होमपर्यन्तमर्चयित्वा जनार्दनम् ॥ 24.56 ॥
पुष्पैः पत्रैर्ब्रह्मचर्यनिरतो देशकालवित् ।
सङ्कल्प्य कालनियमं व्रतादिनिमयं तथा ॥ 24.57 ॥
साधनकालनियमाः
नित्यं त्रिषवणस्नानमधश्शयनमेव च ।
शयनं वा कुशे पर्णे मृगचर्मणि वाब्जज ॥ 24.58 ॥
सङ्कल्प्य 29 माषं तैलं च क्षारं 30 लवणमेव च ।
कालालं भोजनं कांस्ये दिवा स्वापादि वर्जयेत् ॥ 24.59 ॥
देहशुद्धिं पुरा कृत्वा मन्त्रजापोऽक्षमालया ।
आद्यन्तयोर्बीजयुतं तथैव प्रणवान्वितम् ॥ 24.60 ॥
जपकाले जपेन्मन्त्रं न द्रुतं न विलम्बितम् ।
लक्षीकृत्याच्युतं ध्याये त्तदधीनमनोगतिः ॥ 24.61 ॥
ध्यानप्रकारः
ध्यानं वक्ष्यामि सर्वाघनाशनं कमालासन ।
चतुर्भुजमुदाराङ्गं सर्वलक्षणलक्षितम् ॥ 24.62 ॥
शुद्धस्फटिक 31 वर्णाभययुतेन्दुसमप्रभम् ।
चारुहासं सुताम्रोष्ठं कर्णान्तायतलोचनम् ॥ 24.63 ॥
निर्धूत पद्मरागाभं दन्तच्छविसुशोभितम् ।
महोरस्कं महाबाहुं प्रसन्नेन्दुनिभाननम् ॥ 24.64 ॥
सुभ्रूललाटं सुमुखं घनकुञ्चितमूर्धजम् ।
तटिच्छतसहस्राभं पीतनिर्मलवाससम् ॥ 24.65 ॥
पाणिपादतलाम्भोजं पुण्डरीकायतेक्षणम् ।
श्रीवत्साङ्कं किरीटादिसर्वाभरणभूषितम् ॥ 24.66 ॥
पद्म चक्र गदाशङ्खधारिणं कौस्तुभोरसम् ।
दिव्यगन्धविलिप्ताङ्गं दिव्यमालाविभूषितम् ॥ 24.67 ॥
शेषाहिभोगे विपुले सुखासीनं चतुर्मुख ।
श्रीभूमिसहितं देवं ललाटे श्वेतमृत्स्नया ॥ 24.68 ॥
धृतोर्ध्वपुण्ड्रतिलकं मण्डितं चण्डभानुभिः ।
नियुतैरयुतैश्चन्द्रैर्विद्युत्कालाग्निकोटिभिः ॥ 24.69 ॥
समवेतैरिवैकत्र तेजः पुञ्जैर्विसर्पिभिः ।
भ्राजमानं दुरालोकं देहमण्डलनिर्गतैः ॥ 24.70 ॥
भासयस्तं जगत्सर्वं ध्यायेत्प्रक्षीणकल्मषः ।
आराध्य देवं सन्थ्यायामपरस्यां यथाविधि ॥ 24.71 ॥
मन्त्रजपकालावधिः
विसृज्य पुनरुत्थायधौतपादकरश्शुचिः ।
आचम्य वाग्यतो मन्त्रं जपेत्सम्यक्समाहितः ॥ 24.72 ॥
यावद्ब्राह्ममुहूर्तस्य प्रादुर्भावस्ततः परम् ।
स्नानादि
स्नात्वा यथोक्तं सन्ध्यायामनुष्ठाय 32 यथाविधि ॥ 24.73 ॥
आराध्य देवमार्घ्याद्यैरुपचारै र्यथोदितैः ।
जपेन्मन्त्रं शरीरस्य स्थितिमुक्तैः 33 फलार्थिभिः ॥ 24.74 ॥
जपतर्पण होमसङ्ख्या
द्वादशार्णं 34 जपेदेवं विशुद्धेनान्तरात्मना ।
लक्षं द्वादश तन्यार्धं तर्पणं वारिभिः स्मृतम् ॥ 24.75 ॥
तदर्थं जुहुयादग्नौ साधकस्समिदादिभिः ।
मन्त्रसिद्धिफलम्
चतुर्विंशतिलक्षेण 35 मन्त्रजापेन किङ्कराः ॥ 24.76 ॥
सिद्धविद्याधरास्सर्वे पाताले दिवि वा भुवि ।
यथाभिरुचिते देशे दुष्प्रापे साधकं द्विजम् ॥ 24.77 ॥
नयन्तस्तत्र नियतं देवन्ते परिचारिणः ।
षट्त्रिंशल्लक्षजापेन देवभूयं समश्नुते ॥ 24.78 ॥
अतिलक्षजापेन होमैस्तावन्मितैर्वसेत् ।
महर्लोके सुखं शश्वत्तत्रत्यैरभिपूजितः ॥ 24.79 ॥
कोटिलक्षेण जापेन प्राप्नु यादणिमादिकान् ।
गुणान् जनाह्वये लोके वसेत्तत् स्थैस्सुपूजितः ॥ 24.80 ॥
36 महाबृन्दशतेनैव जपहोमैस्तथा वसेत् ।
तपोलोके महापद्मजपहोमेन तावता ॥ 24.81 ॥
सत्ये वसति देवेशं श्रीभूमिसहितं हरिम् ।
दृष्ट्वा निरामयस्तत्र वसेत्तल्लोरवासिभिः ॥ 24.82 ॥
महोघैश्शतजापेन तावदाहुतिसङ्ख्याया ।
साक्षात्कुर्वन् वुसुदेवं तन्मयो 37 भवति ध्रुवम् ॥ 24.83 ॥
किमेभिर्बहुभिः प्रोक्तैः पदं यद्यदभीप्सितम् ।
तत्तदाप्नोति पुरुषस्समाराधनकर्मभिः ॥ 24.84 ॥
वश्याकर्षणमुख्यानि जपहोमादिकर्मभिः ।
फलानि चित्ररूपाणि दर्शयेत्साधकस्स्वयम् ॥ 24.85 ॥
पाताले दिवि वा भूमौ ये भोगा 38 भुवि दुर्लभाः ।
तानवाप्नोति पुरुषः पुरुषोत्तमपूजया ॥ 24.86 ॥
मोक्षकामस्य मन्त्रिणः सिद्धायतनविशेषे मूर्तिपूजा
कामोपभोगवैमुख्यं मन्त्रिणः कार्यमुच्यते ।
मोक्षैकफलदं धाम दक्षिणद्वारमुत्तमम् ॥ 24.87 ॥
सिद्धायतनमासाद्य तत्र देवं चतुर्विधम् ।
मनुष्यनिर्मितं चार्षं दैवं रूपं मधुद्विषः ॥ 24.88 ॥
स्वयं व्यक्तं समाराध्य मोक्षकामस्समाहितः ।
सालोक्यादिचतुर्भेदां मुक्तिमाप्नोत्यसंशयम् ॥ 24.89 ॥
सालोक्यं मानुषादार्षात्सामीप्यं देवनिर्मितात् ।
सारूप्यं 39 तुल्यमाप्नोति स्वयं व्यक्तादनुक्रमात् ॥ 24.90 ॥
क्षेत्रसीमानिर्णयः
प्रासाद 40 द्वारि चाध्माते शङ्खे तस्य महाध्वनिः ।
शूयते यत्र तं देशं वैष्णवं
सिद्धार्षाद्यालयेषु कामनानुगुणजपसङ्ख्या
मानुषालये ॥ 24.91 ॥
ततो द्विगुणमार्षेतु त्रिगुणं देवनिर्मिते ।
चतुर्गुणं स्वयं व्यक्ते देशे वृद्धिमनुक्रमात् ॥ 24.92 ॥
ब्रह्मचर्यपरो भूत्वा कुशशायी जितेन्द्रियः ।
मुमुक्षमाणस्तन्मन्त्रं लक्षजापेन सिध्यति ॥ 24.93 ॥
योगध्यानम्. तेन देहत्यागप्रकारः
युञ्जीत 41 योगविधिना हृदयाम्भोरुहासने ।
कर्णिकायां सुखासीनं शुद्धस्फटिकवर्चसम् ॥ 24.94 ॥
चतुर्भुजमुदाराङ्गं ज्योतिर्मण्डलमध्यगम् ।
अङ्गुष्ठमात्रं पुरुषं ध्यात्वा भोगैर्यथाक्रमम् ॥ 24.95 ॥
अभ्यर्चयेन्निर्मलेन मनसा सुसमाहितः ।
योगाभ्यासबलेनैव गुणोत्कर्षः प्रजायते ॥ 24.96 ॥
चन्द्रार्काग्निमयं 42 बीजं कविमण्टलसन्निभम् ।
43 ततस्सूक्ष्मतरं बिम्बं राजमुद्गकमप्रभम् ॥ 24.97 ॥
तं सर्वमन्त्रानाक्रम्य स्थितं विद्याद्विचक्षणः ।
ततस्तु राजकाभीजप्रमाणं चिन्तयेत्क्रमात् ॥ 24.98 ॥
अत्पादकमथान्याभिर्यस्यान्ते नाद आश्रितः ।
तं विलीय समुत्पन्नमश्ववालप्रमाणकम् ॥ 24.99 ॥
44 यस्य गच्छति ते प्योम्नि प्योम चागच्छते हृदि ।
ततो विचिन्तयेत्सूक्ष्मा 45 माश्ववालप्रमाणकाम् ॥ 24.100 ॥
ब्रह्मनाडीमनेनाशु पश्यति ध्याननेवनात् ।
ततोऽङ्गरोममात्रं तु बीजवालं समन्ततः ॥ 24.101 ॥
ध्यायेन्नि यममास्थाय ब्रह्मनाडीप्रकाशकम् ।
एवं ध्यायन्निमं पिण्डं परिपक्वं परित्यजेत् ॥ 24.102 ॥
परिज्ञाय पुरा पिण्डं पाकलक्षणमुत्तमम् ।
निरुद्धसन्धिमात्रं च कृत्वा देह समीरणम् ॥ 24.103 ॥
मुक्त्वा तद्ब्रह्मरन्ध्रेण उत्क्रान्तिकरणेन च ।
ध्यात्वा परित्यजे 46 द्धेहं नित्याभ्यासरतो यदि ॥ 24.104 ॥
ब्रह्मप्राप्तिप्रकारः
स ब्रह्म परमाप्नोति वासुदेवाख्यमव्ययम् ।
अपुनरावृत्तिनिदर्शनम्
तैले तैलं घृते सर्पिः क्षीरे क्षीरं जले जलम् ॥ 24.105 ॥
तद्वन्न भेदो गृह्येत जीवात्म परमात्मनोः ।
तप्तलोहो यथा तोयं 47 लीनं नैव प्रजायते ॥ 24.106 ॥
अग्निदग्धानि बीजानि नारोहन्ति यथा पुनः ।
तद्वन्नजायते भूयोजीवात्मा कमलासन ॥ 24.107 ॥
सारूप्यं भगवद्रूपप्राप्तिस्सद्भि 48 रुदाहृता ।
सामीप्यं सन्निदौ सेवा देवस्य परिचर्यया ॥ 24.108 ॥
सालोक्यं च तदाख्यातं लोके वैकुण्ठसञ्ज्ञिते ।
तदीये नित्य 49 वासोऽयं पुनरावृत्तिवर्जिते ॥ 24.109 ॥
ब्रह्मणा देहपातक्रमप्रश्नः
ब्रह्मा :—
श्रोतुमिच्छामि भगवन् देहपातस्य लक्षणम् ।
सङ्क्षेपतस्तु भगवन् वयोर्गतिनिरोधनम् ॥ 24.110 ॥
भगवता तन्निरूपणम्
श्रीभगवान् :—
युक्ताहारविहारस्य क्रियासक्तस्य पद्मज ।
युक्तस्स्वाप्नावभोधस्य योगयुक्तस्य सर्वदा ॥ 24.111 ॥
विवर्तते सदा शब्दो हृद्गतो दुन्धुभिस्वनः ।
स्पर्शं न शीतं नाप्युष्णं 50 विजानाति त्वगिन्द्रियम् ॥ 24.112 ॥
भ्रुवोर्मध्ये यदा ज्योतिर्द्वादशान्ते व्यवस्थितम् ।
प्रत्यस्तमेति वै शीघ्रं न चोदयति वैपुनः ॥ 24.113 ॥
न जानाति समाधिस्थो हार्दमब्जं यदान्तरे ।
परिशुष्यति गात्रस्थं शोणितं श्लेष्मलक्षणम् ॥ 24.114 ॥
न वेत्ति पार्थिवं गन्धं न बाह्याभ्यन्तरे यदा ।
पिण्डस्तदा प्रबोद्धव्यः काले नैव चिरेण तु ॥ 24.115 ॥
पृथिव्यां संस्थितं चैव धारणायां समाहितः ।
न वेत्ति शब्दं प्रागुक्तं पञ्चमात्पञ्चमे क्षणे ॥ 24.116 ॥
51 स्थितस्समेधा भाह्येतु शीतोष्णे न च विन्दति ।
प तेद्दिनचतुष्केण पिण्डस्तत्कलिते क्षणे ॥ 24.117 ॥
रूपध्यानं समासाद्य पूर्वोक्तविधिना यदि ।
न भाति हृदयाकाशे बहिर्वा ज्योतिषां पतिः ॥ 24.118 ॥
पिण्डपातो ह्यवश्यं स्यात् ज्ञात्वारिष्टैः पुरोदितैः ।
तृतीयेऽह्नि चतुर्वक्तसर्वमेतत्तदा क्षणे ॥ 24.119 ॥
समादौ यदि वायव्ये योगी सम्यक्प्रवर्तते ।
न वेत्ति परमह्लादं तृषितः परिकम्पते ॥ 24.120 ॥
दिनद्वयेन पिण्डस्य पातोस्य द्वितयक्षणे ।
स्थितो गगनभागे तु प्रागुक्तविधिना यदि ॥ 24.121 ॥
न वेत्ति विधिना गन्धं तद्बाह्ये तु शुभाशुभम् ।
तत्रैवैकदिने वाथ लक्षणे प्रथमे क्षणे ॥ 24.122 ॥
ध्यात्वैव विधिना सम्यग्योगी ध्यानैकमानसः ।
52 मयि सन्नार्पितमना 53 व्याहरन् द्वादशाक्षरम् ॥ 24.123 ॥
स्वयमुत्क्रमते पिण्डाद्यायाद्यागनिकेतनम् ।
शेषासने सुखासीनं वै कुण्ठे मणिमण्डपे ॥ 24.124 ॥
अष्टबाहुं विशालाक्षमष्टायुधधरं हरिम् ।
श्रीभूमिसहितं देवं सर्वाभरणभूषितम् ॥ 24.125 ॥
चतुर्भुजं वा वुमेन हन्तेनालिङ्ग्य पङ्कजाम् ।
अष्टौ वारस्त्रियस्तस्य वालव्यजनपाणयः ॥ 24.126 ॥
तिष्ठन्ति परितः पश्चाच्छङ्खाद्यायुधधारिणः ।
सेवन्ते पुरुषास्तस्माद्बहि स्तिष्ठन्ति मूर्तयः ॥ 24.127 ॥
54 चतुर्विंशति सङ्ख्याकास्ततो मित्रादिमूर्तयः ।
पक्षीन्द्रविष्वक्सेनाभ्यां कुमुदादिगणैस्तथा ॥ 24.128 ॥
महाभागवतास्तत्र द्वादशाक्षरचिन्तकाः ।
सेवन्ते मण्डपे नित्यं पुनरावृत्ति वर्जिताः ॥ 24.129 ॥
इह यत्कर्म कुर्वाणा विष्णोराराधनात्मकम् ।
मुच्यन्ते योगमास्थाय पुरुषाः परमं पदम् ॥ 24.130 ॥
प्राप्यपि तत्तत्कुर्वाणा सेवन्ते पुरुषोत्तमम् ।
परकायप्रवेशप्रकारः
अथवापिण्डपतनं विज्ञाय प्रागुदीरितैः ॥ 24.131 ॥
निमित्तैरैहिकैर्भोगैस्सृजन्तः पृथिवीक्षितः ।
पिण्डान्तरमुपायेन विशन्ति कमलासन ॥ 24.132 ॥
येन तं कथयाम्यद्य श्रूयतां सादरं वचः ।
वरपिण्डं नवं शुद्धं मध्यमे वयसि स्थितम् ॥ 24.133 ॥
सर्वलक्षणसम्पन्नं पापरोगबहिष्कृतम् ।
ब्राह्मणस्य शरीरं वा बाहुजस्याथवा तनुम् ॥ 24.134 ॥
ऊर्ध्ववक्त्रं दीर्घपादमेकान्ते शाययेच्छवम् ।
तत्पादपार्श्वे शायीत बध्वा योगासनं ततः ॥ 24.135 ॥
अभ्यस्येद्योगमेकाग्रो यथापूर्वं चतुर्मुख ।
स जीवं नाभिचक्रस्थं भ्रमन्तं भास्करप्रभम् ॥ 24.136 ॥
हंसाकारं वलर्क्षाभमिडया पिङ्गलेन वा ।
हंसरूपं समास्थाय निर्गतं नासिकापुटात् ॥ 24.137 ॥
खगवद्याति गगनं सार्धं प्राणसमीरणैः ।
तालं हस्तावधिं दण्डं कोशं योजनमेव च ॥ 24.138 ॥
गत्वा गत्वा निवर्तन्ते योजनानि चतुर्मुख ।
नासिकापुटरन्ध्रेण नाभिचक्रं प्रवेशयेत् ॥ 24.139 ॥
अभ्यस्य नित्यमनिशं योगी योगमतन्द्रितः ।
निर्गमय्य स्वकाद्देहान्नासिकारन्ध्रवर्त्मना ॥ 24.140 ॥
आत्मानं परकीयेन नासिकाबिलवर्त्मना ।
परपिण्डं स्वदेहस्य विनिपाते प्रवेशयेत् ॥ 24.141 ॥
नाभिचक्रं प्रविश्याथ नाडीषु विचरेत्सुखम् ।
सर्वत्र योगी तत्रस्थो युञ्ञानः पूर्ववत्सदा ॥ 24.142 ॥
द्रढिम्ने तत्र वपुषस्तत्र स्थित्वा चिरं सुखम् ।
55 तस्यापि पातमालोच्य पिण्डेऽन्यत्र 56 निवेशयेत् ॥ 24.143 ॥
इत्येतत्कधिकं ब्रह्मन् परपिण्डप्रवेशनम् ।
मन्त्रमाहात्म्यनिगमनम्
57 सिद्धयो मूलमन्त्रस्य समासात्कथितास्तव ॥ 24.144 ॥
मूलमन्त्र इति प्रोक्तस्साक्षाद्देवस्य वाचकः ।
प्रसूयते मन्त्रलतां प्रसूतिमणिमादिकाम् ॥ 24.145 ॥
किं पुनर्धर्म कामार्थी सिद्धिं कमलसम्भव ।
नासाध्यमस्ति मन्त्रेण द्वादशाक्षररूपिणा ॥ 24.146 ॥
सर्वलोकेषु सर्वत्र सत्यमेतद्ब्रवीमिते ।
नास्मात्परतरो मन्त्रो विद्यते सर्वकामदः ॥ 24.147 ॥
रहस्य मेतत्कथितं मन्त्रमाहात्म्यमक्षयम् ।
अस्यैवमन्त्रस्य षोडशाक्षरत्वविधिः
अयमेवाष्टमूर्तिनामधिकश्चतुरक्षरैः ॥ 24.148 ॥
अमुना षोडशार्णेन चतुर्विंशतिमूर्तयः ।
आराधनीया भोगश्चेल्लभ्यते दुर्लभो महान् ॥ 24.149 ॥
मन्त्रतन्त्रं यथापूर्वमुद्दृत्य द्वादशाक्षरम् ।
अक्षराणि च चत्वारि वर्णचक्रात्समुद्धरेत् ॥ 24.150 ॥
तदुद्धारप्रकारः
58 गुहालये परिक्रान्तं भास्करं दण्डशेखम् ।
द्विपट्काक्षरवच्चाङ्गमस्यापि चतुरासन ॥ 24.151 ॥
तदृषिच्छन्दोनिर्देशः
मूर्तिष्वष्टासु यो ध्याता ऋषिर्मन्त्रस्य निश्चितः ।
छन्दश्च देवी गायत्रं वासुदेवोऽधिदैवतम् ॥ 24.152 ॥
अधिकार्णसमष्टेस्स्या द्वर्णस्स्फटिकसन्निभः ।
क्षेत्रं च परमप्यूम तत्त्वं धीः पूर्व मीरिता ॥ 24.153 ॥
शिष्टार्णकानां द्युमणिर्वासुदेवो नृकेसरी ।
मनोभवश्चतुर्णां स्यादधिदैवतकल्पना ॥ 24.154 ॥
नमस्स्वाहादीनां विनियोगः
जपेन्नमोऽन्तं पूजायामुभयोर्होमकर्मणि ।
स्वाहायां विरमेद्वौषडन्तमाप्यायने तथा ॥ 24.155 ॥
मारणे तु फडन्तस्स्यादेवमन्यत्र योजयेत् ।
मन्त्रवर्णन्यासस्थानानि
न्यासो मूर्ध्निललाटे च दृशोश्श्रवसि च क्रमात् ॥ 24.156 ॥
नासिकापुटयो 59 र्वक्त्रे गलकूपे तथा हृदि ।
नाभिदेशे रहस्ये च तथोर्पूर्जङ्घ योरपि ॥ 24.157 ॥
कार्यानुरूपं सपृष्ट्यादिव्यसनं सर्वकर्मनु ।
आराधनक्रमः
आराधनं सर्वसिद्धिकारणं तच्च कथ्यते ॥ 24.158 ॥
तेजसां निधिमष्टारं सुदर्शनमनुत्तमम् ।
चिन्तयित्वा चतुर्ववक्त्रपूर्वस्यां दिशि वेधसम् ॥ 24.159 ॥
सङ्कर्षणं दक्षिणस्यां प्रद्युम्नं दिशि 60 चाप्पतेः ।
अनिरुद्धमुदीचीने कोणदिक्षु श्रियादयः ॥ 24.160 ॥
देव्यश्चतस्रो मध्ये च वासुदेवं जगद्गुरुम् ।
अर्घ्यादिभिस्समाराध्य मन्त्रं षोडशलक्षकम् ॥ 24.161 ॥
जपन् हुत्वाग्निमुदकैस्तर्पयित्वा यथाविधि ।
एवं प्रसाधितो मन्त्रः पुरुषार्थांश्चतुर्विधान् ॥ 24.162 ॥
साधयेत्पुरुषार्थेषु यो येनावाप्तुमिष्यते ।
स 61 सर्पूऽवाप्यते ब्रह्मन् किमन्यैरतिवि स्तरैः ॥ 24.163 ॥
यदि ब्रह्मपदे 62 ब्रह्मन्नभिलाषा प्रवर्तते ।
ब्राह्मीं मूर्तिं यजेत्तासु ध्यात्वाऽनन्यमनूगतिः ॥ 24.164 ॥
ग्रीष्मादिषु जपस्थिति प्रकारः
ग्रीष्मे मासि स्थितो भूम्यां पादङ्गुष्ठेन पद्मज ।
पादमस्यं समुद्धृत्य बाहू चोत्क्षिप्य निश्चलः ॥ 24.165 ॥
वर्षासु पर्णशालायां बहिश्शरदि शैशिरे ।
हेमन्त्रे त्रिषु चैतेषु 63 वसन्तेऽग्निषु पञ्चसु ॥ 24.166 ॥
मध्यस्थो मन्त्रजापस्स्यादित्थं स्यात्प्रतिहायनम् ।
उपांशु प्रवरो व्यक्तान्मनसः प्रवरस्ततः ॥ 24.167 ॥
जापिनः देवादिभिश्छलनम्
विघ्नन्ति देवतास्तस्य तपः कर्म सुदश्चरम् ।
पदहानिं समाशङ्क्य गन्धर्वप्रमुखै 64 स्तदा ॥ 24.168 ॥
अप्सरोभिर्विलोभ्यैनं नृत्तवादित्रगीतिभिः ।
स्थिरमतेर्जापकस्य उत्तमं फलम्
तस्मात् स्थिरमतिर्भूत्वा जपन् सिद्धिमपाप्नुयात् ॥ 24.169 ॥
प्रत्यक्षं याति भगवान् त्रिविष्टपपतिस्स्वयम् ।
ब्रह्मत्वं वा तदन्यद्वा प्रयच्छति फलं महत् ॥ 24.170 ॥
मूर्तीनामितरासां च पदं यद्यभिलष्यते ।
मूर्तिं तां तामभिध्यायन् जपेन्मन्त्रं च पूर्ववत् ॥ 24.171 ॥
लभते तत्प्रसादेव स्वं स्वं पदमनुत्तमम् ।
मन्त्रेणानेन मुख्येन साधकस्साधयेत्फलम् ॥ 24.172 ॥
ऐहिकामुष्मिकं तत्तान्नात्र कार्या विचारणा ।
ब्राह्मणः क्षत्रियो वापि वैश्यो वा जपमाचरेत् ॥ 24.173 ॥
जपेऽधिकारो नान्यस्य 65 मन्त्रराट् स्वयमुत्तमः ।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे द्वादशाक्षरकल्पो नाम चतुर्विंशोऽध्यायः.
-
नामान्तम्. ↩︎
-
मुच्चारणे विधिः. ↩︎
-
ष्ठठान्तकाः. ↩︎
-
दीप्तिमत्कुम्भ. ↩︎
-
देवदत्तशिराश्चापि विष्ण्वन्तोयमनन्तरः. ↩︎
-
दीनि. ↩︎
-
बीजं स्याद्विष्णुस्तुन्दादि. ↩︎
-
बस्तः क्षत्रं. ↩︎
-
भष्ठस्त्रिवृत्सकः. ↩︎
-
स्तत्वादयो. ↩︎
-
तपोऽमृतः. ↩︎
-
त्तत्वं. ↩︎
-
आम्नादि यामाश्रयसो. अत्र अशुद्धमिन. ↩︎
-
नह्निमत्परम्. ↩︎
-
पदम्. ↩︎
-
ब्रह्मन्. ↩︎
-
यम्. ↩︎
-
यज्ञेन. ↩︎
-
नियतो. ↩︎
-
तं दृष्ट्वा. ↩︎
-
तथा. ततः. ↩︎
-
पक्वम्. ↩︎
-
शिष्यान्. ↩︎
-
पुत्रान्. ↩︎
-
अन्धस्स्वैरं. ↩︎
-
`पादो’ इदमर्धं क्वचिन्न. ↩︎
-
शीर्षेह्नि शोभने. ↩︎
-
यथा वा, ↩︎
-
मांस्यतैलं. ↩︎
-
च लवणं तथा. ↩︎
-
सङ्काशम्. ↩︎
-
विधिं क्रमात्. ↩︎
-
फलादिभिः. ↩︎
-
जपेन्मन्त्रम्. ↩︎
-
वर्णजापेन. ↩︎
-
ब्रह्मबृन्दशतेनैव. महाबृन्देन तेनैव. ↩︎
-
वसति. ↩︎
-
दिवि. ↩︎
-
दिव्य. ↩︎
-
द्वारपार्श्वेतु. ↩︎
-
योगं विधिवत्. ↩︎
-
बिम्बम्. ↩︎
-
तत्तत्सूक्ष्मतरम्. ↩︎
-
यस्यागच्छन्ति. ↩︎
-
मश्वमालाप्रमाणकम्. ↩︎
-
द्देहान्नित्या. ↩︎
-
क्षीणे. ↩︎
-
रुदीरिता. ↩︎
-
सारोऽयं. ↩︎
-
न जानाति. ↩︎
-
इदं पद्यं क्वचिन्न. ↩︎
-
मयिसन्तर्पितमना. ↩︎
-
व्याहार्षम्. ↩︎
-
इदमर्धं क्वचिदधिकं दृश्यते. ↩︎
-
तत्रापि. ↩︎
-
सिद्धये. ↩︎
-
सिद्धये. ↩︎
-
एवं क्रमेण विन्यस्य. ↩︎
-
र्मध्ये. ↩︎
-
वाऽपरे. ↩︎
-
स सर्वः प्राप्यते. ↩︎
-
ब्रह्मन्योभिलाष. ↩︎
-
वसन्तेषु च. ↩︎
-
स्तथा. ↩︎
-
मन्त्रराडयमुत्तमः. ↩︎