२३

          चर्यापादे--त्रयोविंशोऽध्यः

मन्त्रोद्धारविधिः?

ब्रह्मा :—-

सञ्ज्ञाभेदस्तु वर्णानां मन्त्रोद्धारस्तु कीदृशः ।
प्रयोजनं वा किं तस्य कथ्यतां तदशेषतः ॥ 23.1 ॥

श्रीभगवान् :—-

1 अहं ते कथयिष्यामि शृणु 2 सर्वं यथातथम् ।
ह्रस्वदीर्घविभागेन भिन्नाः पद्मज मन्मुखात् ॥ 23.2 ॥

अकाराद्यास्स्वरा जाताः क्रमादन्येऽर्धमातृकाः ।
ककाराद्याश्च चक्रेते न्यस्य पूज्याः 3 परिष्कृते ॥ 23.3 ॥

प्रशस्ते निर्जने गुप्ते भूभागे 4 शोभने समे ।
हस्तद्वयेन विस्तीर्णं स्थण्डिलं चतुरश्रकम् ॥ 23.4 ॥

दर्पणोदरसङ्काशमुन्नतं चतुरङ्गुलैः ।
मृद्भिः 5 पिधाय सुषिरं गोमयेनोपलिप्य च ॥ 23.5 ॥

प्रोक्ष्य चक्रं विधातव्यं षोडशारपरिष्कृतम् ।
नाभिनमिसमायुक्तं चन्दनक्षोदरेखया ॥ 23.6 ॥

तन्मध्ये छन्दसामादिररभूषु स्वरा स्तथा ।
स्पर्शाक्षरं नाभिमध्ये नेमिमध्ये च यादयः ॥ 23.7 ॥

एवं न्यस्तेषु वर्णेषु द्वादशाक्षरविद्यया ।
अर्घ्याद्यैस्सकलैर्भोगैर्वर्णात्मासं समर्चयेत् ॥ 23.8 ॥

वर्णानां सञ्ज्ञान्तरम्

चक्रसंस्थितवर्णानां नामभेदः प्रदर्श्यते ।
उद्गीथश्छन्दसामादिः प्रणवस्तारक स्तथा ॥ 23.9 ॥

6 ब्रह्म च ब्रह्मकोशश्च व्यापी चोङ्कार इत्यपि ।
नामानि 7 प्रथितान्यष्टावकारो विष्णुरुच्यते ॥ 23.10 ॥

ओङ्कारादिश्चाप्रमेय आकारो मधुसूदनः ।
आदिदेवो गोपनश्च स्यादिकारस्त्स्रिविक्रमः ॥ 23.11 ॥

माया बन्धुश्च रामश्च कथ्यते तदनन्तरम् ।
पञ्चबिन्दुर्महामाया वामनस्स्मर्यते तथा ॥ 23.12 ॥

उकारो भुवनाह्वानश्श्रीधरश्चोदय स्तथा ।
ऊकाराश्चोर्ध्वलोकेशो हृषीकेशो गुहालयः ॥ 23.13 ॥

ऋकार ऋतधामा च पद्मनाभस्तथोच्यते ।
ऋकारः पीठनामा स्याद्योगी दामोदर स्तथा ॥ 23.14 ॥

लृकारः केशवो गोप्ता 8 प्रज्ञाधारो महेश्वरः ।
लृकारो दीर्घ 9 घोणश्च नारायणसमाह्वयः ॥ 23.15 ॥

सम्प्रसारणनामास्यादेकारो माधवाह्वयः ।
देवदत्तो मृगेशस्स्यादैकारो 10 गोधनः स्मृतः ॥ 23.16 ॥

गोविन्धो वीरसेनश्च स्यादोकारश्चतुर्मुख ।
ओतदेहो वासुदेवो ब्रह्मसाधन इत्यपि ॥ 23.17 ॥

औकार औषधाह्वान और्वस्सङ्कर्षणो मनुः ।
अङ्कारः कपिलाक्षश्च प्रद्युम्नो 11 देवता स्मृतः ॥ 23.18 ॥

अःकारश्चानिरुद्धाह्वः कलान्त 12 स्सर्गिसञ्ज्ञिकः ।
ककारः कमलो ब्रह्मा करालश्शङ्खिनःस्मृतः ॥ 23.19 ॥

खकारः 13 खर्वदेहश्च चक्री गरुडवाहनः ।
गदध्वंसी गकारश्च गदी पङ्चात्मकस्सृतः ॥ 23.20 ॥

पद्मपाणिर्शकारस्तु पञ्चात्मा गजवाहनः ।
ङकारश्शार्ङ्गपाणिश्च एकदंष्ट्रः कपिध्वजः ॥ 23.21 ॥

वक्रतुण्डः खड्गधरश्चकारः प्रेतनायकः ।
छकारश्छलविध्वंसी स्वच्छन्दः कुण्डली स्मृतः ॥ 23.22 ॥

मुसली जन्महन्ता च जकारः ककुभः स्मृतः ।
झकारस्सामवेदात्मा 14 झषाशी 15 च गुवर्णभाः ॥ 23.23 ॥

ञकारश्चन्द्रधवलः पाशपाणिर्भृगुःस्मृतः ।
टकारो हृदया 16 ह्लादी खेटकी पर्वतः स्मृतः ॥ 23.24 ॥

ठकारः कौस्तुभो 17 मेघी तोमरो दुस्सहः स्मृतः ।
डकारः पुण्डरीकाक्षो झषो भूमिर्वनालयः ॥ 23.25 ॥

ढकारः पुष्पभद्रा च दृढकर्मा प्रतर्दनः ।
णकारो वनमाली स्यात्प्रचण्डस्सुमुखः स्मृतः ॥ 23.26 ॥

एकनेत्र स्तकारस्याद्वैराजो विजयः स्मृतः ।
थकारस्सर्व 18 रोधश्च रसात्मा सुप्रतिष्ठितः ॥ 23.27 ॥

दकारो वैधरो दृष्टिरत्रि 19 स्स त्रिपुरान्तकः ।
धकारो धनदः पुण्यस्सुभगो मोहनाशनः ॥ 23.28 ॥

नकारो भद्रपाणिस्स्याद्विघ्नेशो मानुषेश्वरः ।
पकारः पापहननः पवित्रः पश्चिमानवः ॥ 23.29 ॥

पकारः पुल्लनयनश्शिखण्डी स्याद्विकर्मणः ।
बकारो जृम्भलो ह्रस्वो मतिमान् कालनेमिजित् ॥ 23.30 ॥

भल्लायुधो भकारश्च सुभद्रस्सूक्ष्मलोचनः ।
मकारो मन्दरो दक्षो माधवी पाटलक्रियः ॥ 23.31 ॥

यकारः पुरुषात्मा स्याद्वायु श्शङ्खश्चतुर्गतिः ।
रेषोऽनलो महाज्वालो विश्वात्मासर्वदाहकः ॥ 23.32 ॥

लकारःपीतवर्णाभो महेन्द्रः पुलहः स्मृतः ।
वकारो वरुणः कुम्भः पीयूषात्मा सुधारसः ॥ 23.33 ॥

शकारश्शुभदो लक्ष्मीः श्रीवत्सो वित्तवर्धनः ।
षकारः क्रोधरूपी स्यादुग्रात्मा शत्रुसूदनः ॥ 23.34 ॥

पूर्णचन्द्रः कलात्मा स्यात् सकारश्शुक्लसञ्ज्ञितः ।
द्वादशात्मा हकारास्स्याद्दीप्तिमान् भास्करः स्मृतः ॥ 23.35 ॥

ळकारोडुण्डभो 20 भर्गो विष्कम्भो विषमध्वनिः ।
क्षकारो गरुडोऽ नन्तः कूटो नरहरिःस्मृतः ॥ 23.36 ॥

अनुस्वारो द्रुवो बिन्दुर्यष्टिश्चन्द्रार्ध उच्यते ।
स्वाहाकारो हुतान्तश्च 21 टठेति परिकीर्तितः ॥ 23.37 ॥

नमस्कारो नतिर्वर्णसञ्ज्ञा इत्यादयः स्मृताः ।

वर्णानां देवतानिर्देशः

चक्रसंस्थितवर्णानां देवता कथ्यते क्रमात् ॥ 23.38 ॥

तत्र अचां देवताः

सर्वेषामपि वर्णानामकारः कारणं यतः ।
सर्वकारणरूपत्वा द्विष्णुस्तस्याधिदेवता ॥ 23.39 ॥

आकारस्य मधुद्वेषी स्यादिकारस्त्रि 22 विक्रमः ।
ईकारो वामनो देवस्तथोकारश्श्रियः पतिः ॥ 23.40 ॥

ऊकारस्य पृषीकेशो वर्णस्य स्यादनन्तरम् ।
पद्मनाभस्त्वृकारस्य देवो दामोदरो भवेत् ॥ 23.41 ॥

23 ॠकारस्य स्थितश्शम्भुः लृकारस्य च देवता ।
नारायणोऽधिदेवस्स्यात् लृकारस्य चतुर्मुख ॥ 23.42 ॥

माधवोऽनन्तरार्णस्य गोविन्दो देवता भवेत् ।
ऐकारस्य तथार्णस्य स्यादोकारस्य देवता ॥ 23.43 ॥

वासुदेवस्तथार्णस्य स्यादौकारस्य देवता ।
सङ्कर्षण स्तथाङ्कारो भवेत्प्रद्युम्न देवता ॥ 23.44 ॥

अःकारस्यानिरुद्धस्स्याद्देवा इत्थं क्रमादचाम् ।
देवताः कथिता ब्रह्मन्

हलां देवताः

हलां सम्प्रति कथ्यते ॥ 23.45 ॥

ककारस्य विधिर्देवः खकारस्य सुदर्शनः ।
गकारस्य घकारस्य 24 वाणी शार्ङ्गश्च देवता ॥ 23.46 ॥

ङकारस्य चकारस्य देवो नन्दक इष्यते ।
छकारस्य यमो देवो जकारस्य च देवता ॥ 23.47 ॥

मुसली स्यात् 25 झकारस्तु भवेदङ्कुशदैवतः ।
ञकारस्य भृगुर्देवः टकारस्य महीधरः ॥ 23.48 ॥

मेरुः कौस्तुभदैवत्यः ठकारो डस्तु पार्थिवः ।
ढकारो मातृदैवत्योणकारो वानमालिकः ॥ 23.49 ॥

तकारस्य तथा दृष्टिः थकारो रसदैवतः ।
अत्रिर्दकारस्य भवेद्धकारस्य धनेश्वरः ॥ 23.50 ॥

लम्भोदरो नकारस्य पकारस्य पवित्रकः ।
शिखण्डवान् फकारस्य बकारस्य तु देवता ॥ 23.51 ॥

26 जृम्बलो भाक्षरस्य स्यात्सुभद्रो देवता तथा ।
दक्षो मकारस्य भवेद्यकारो वायुदैवतः ॥ 23.52 ॥

धूमध्वजस्स्याद्रेफस्य लकारस्य दिवस्पतिः ।
पकारो वरुणेशान श्शकारो माधिदैवतः ॥ 23.53 ॥

क्रोधाकारः षकारस्य सकारश्चन्द्रदैवतः ।
सहस्रांशुर्हकारस्य ळकारो 27 भर्गदैवतः ॥ 23.54 ॥

नरसिंहः क्षकारस्य कथिताः कादिदेवताः ।

मन्त्रावर्णादिज्ञाने फलम्

वर्णानां चक्रनिष्ठानां नामान्यपि च देवताः ॥ 23.55 ॥

यो वेत्ति तस्य फलदा मन्त्रिण श्चतुरानन ।

वर्णानां नक्षत्राणि

यावतो यस्य वर्णस्य यन्नक्षत्रं विदुर्बुधाः ॥ 23.56 ॥

स च 28 तावां स्तत्र वर्णः क्रमादिह निगद्यते ।
आद्यं विना स्वरं वर्णावाद्यावाश्वयुजौ स्मृतौ ॥ 23.57 ॥

इकारस्यापि भरणी कृत्तिकात्रयमुत्तरम् ।
चतुष्टयमृकारादि रोहिण्ये कमथेडका ॥ 23.58 ॥

रौद्रमप्येक 29 मेवस्यात्पुनर्वस्वोर्द्वयं मतम् ।
द्वयमेव तथा पौष्णमाद्यन्तं वा मता न्तरे ॥ 23.59 ॥

कादिषु प्रथमं 30 पुष्यं द्वयं सार्पं द्वयं मघा ।
एकमर्यमणं युग्मं 31 भर्गदैवतमुच्यते ॥ 23.60 ॥

युग्ममेव तु सावित्रं 32 द्वयमिन्द्राधिदैवतम् ।
एकं 33 निष्ट्या विशाखे द्वे त्रयं मैत्रमनन्तरम् ॥ 23.61 ॥

ऐन्द्रमेकं त्रयं मूलं पूर्वमाषाढमेककम् ।
आषाढमुत्तरं चैरमेकमेवाभिजिन्मतम् ॥ 23.62 ॥

द्वयं वैष्णवमेकं तु श्रविष्ठा शततारकम् ।
एकमेव 34 त्रयं शादि वर्णस्स्यादज एकपात् ॥ 23.63 ॥

अहि र्बुध्न्यस्त्रयो वर्णा इति वर्णेषु तारकाः ।

राशयः

आदौ चतुष्टयं मेषो वर्णानामृषभस्त्रिकम् ॥ 23.64 ॥

तथैव मिथुनं युग्मं कुलीरं मृगराट् तथा ।
शिष्टद्वयं शादयस्तु 35 कन्या कुः प्रथमं तुला ॥ 23.65 ॥

चवर्गो वृश्चिकश्चापः टवर्गस्सद्भिरुच्यते ।
तवर्गो मकरः कुम्भः पवर्गोऽ 36 न्त्यस्य यादयः ॥ 23.66 ॥

साधकस्य योगपरीक्षा

नक्षत्रं यत्साधकस्य मन्त्रस्याद्यक्षरस्य यत् ।
नरनार्योरिवतयोर्योगायोगौ परीक्षयेत् ॥ 23.67 ॥

सिद्धारिचक्रन्यासः

चतुष्पदं लिखित्वोर्वां तत्राकारादि निक्षिपेत् ।
यर्स्मिपदे साधकस्य नामाद्यर्णलिपि स्तथा ॥ 23.68 ॥

तत्रैव चेद्भवेस्मन्त्र 37 स्याध्यं वर्णमवस्थितम् ।
तत्सिद्धं स्याद्द्वितीये तु साध्यं विद्यादनन्तरे ॥ 23.69 ॥

पदे सिद्धं तुरीये तु वैपरीत्याय कल्पते ।
सिद्धे सिद्धं जापाद्यैस्तु साध्ये साध्यं सुसिद्धके ॥ 23.70 ॥

अधितमात्रे महते फलाय भवति ध्रुवम् ।
पदे तु वैरिणस्स्याच्छेल्लिपिरध्येतृनाशनम् ॥ 23.71 ॥

आनुगुण्यं परीक्ष्येत निमित्तानि परीक्ष्य च ।
साधकस्साधयेन्मन्त्रं देवस्य कुटिला गतिः ॥ 23.72 ॥

मूलमन्त्रचतुष्टयस्य नानुगुण्यपरीक्षा

चतुर्षुमूलमन्त्रेषु नानुगुण्यं परीक्षयेत् ।

मूलमन्त्रनिरूपणम्

तारमष्टाक्षरं चैव द्वादशाक्षरमेव च ॥ 23.73 ॥

विष्णुगायत्र्यपि तथा चत्वारः प्रथमे मताः ।

मालाभीजमन्त्रलक्षणम्

द्वात्रिंशदक्षराधिक्ये मालामन्त्रादशादिखे ॥ 23.74 ॥

बीजमन्त्रा

मन्त्राणां वयोजात्यादिनर्देशः

स्समस्तेषु पूर्वे वार्धिक्यशोभनाः ।
38 इतरे यौव्वने तद्वत्सर्वे बाल्येपि शोभनाः ॥ 23.75 ॥

स्त्रीवुन्न 39 पुमिति त्रैधं भजन्तेमन्त्रजातयः ।
संस्त्यानमन्त्रास्स्वाहान्ता मनोन्तास्तु नपुंसकाः ॥ 23.76 ॥

शेषाः पुरुषमन्त्रास्स्युरिति त्रिविधमीरितम् ।

मन्त्रजात्यनुरोधेन कर्मनु विनियोगः

उच्चाटने च वश्ये च विद्वेषे क्षुद्रकर्मसु ॥ 23.77 ॥

स्त्रियः प्रशस्ता नब्लिङ्गाः कर्मस्वन्यत्र पूजिताः ।
पुल्लिङ्गेषु तु 40 मन्त्रेषु दिङ्मीत्रं किञ्चिदुच्यते ॥ 23.78 ॥

फडन्ता मरणाद्यर्थे शस्ता भूताद्युपद्रवे ।
41 हुङ्कारान्ताः प्रशस्यन्ते वौषडन्तास्तु ते पुनः ॥ 23.79 ॥

आप्यायने नियुज्यन्ते धर्मकामार्थमूर्तिषु ।
चतुर्थ्यन्ताः प्रशस्यन्ते ओमन्तास्सर्वसिद्धिदाः ॥ 23.80 ॥

अविधिना ग्रहणे दोषः

42 सर्वमन्त्रास्सर्वफला गुरुवक्त्रद्यदि श्रुताः ।
यदृच्छया श्रुतो मन्त्रश्छ 43 न्नेनाथच्छलेन वा ॥ 23.81 ॥

पत्रेक्षितो वा व्यर्थस्स्यात्प्रत्युतानर्थदः स्मृतः ।

सिद्धैकमनस्त्रस्य मन्त्रान्तरसौलभ्यम्

एकस्सुसाधितो मन्त्रोजपहोमादितर्पणैः ॥ 23.82 ॥

स साधकस्य सर्वार्थं प्रसूते नात्र संशयः ।
सम्यक्सिद्धैकमन्त्रस्य नासाध्यमिहा किञ्चन ॥ 23.83 ॥

किम्पुनर्बहपो यस्य का कथा हरिरेव सः ।

मन्त्रजपे दिगादिनियमः

कुशेषु कृष्णत्वचि वा 44 ब्रुस्यामेकान्तभूमिषु ॥ 23.84 ॥

प्रागादिदिङ्मुखो भूत्वा न तु याम्यमुखः क्वचित् ।
उपविष्टो जपेन्मन्त्रं सपवित्रकरश्शुचिः ॥ 23.85 ॥

धृतोर्ध्वपुण्ड्ररचनो नान्यां वा चमुदीरयन् ।
गुरुं प्रणम्य प्रथमं प्रणवप्रमुखं जपेत् ॥ 23.86 ॥

जपयोग्यप्रदेशाः

देवतायतने नद्या शैले सागररोधसि ।
वने वा तीर्थदेशे वान्यग्रोधाश्वत्थयोरधः ॥ 23.87 ॥

45 अन्यत्र वा शुचौ देशे कुटिं कृत्वारभेत सः ।

जापकस्य आहारनियमः

अनश्नन् वायुभक्षो वा यद्वाब्भक्षो जलाप्लुतः ॥ 23.88 ॥

जीर्णपर्णाशनश्शाकभोजनो वा फलानि वा ।
वक्वानि मूलान्यथवा भुञ्जानो लवणं विना ॥ 23.89 ॥

यपोष्टि कालाजदुग्ध भिक्षाहोरो जितेन्द्रियः ।
पूर्वं पूर्वं प्रशस्तं स्यादशनीयं विशोधनम् ॥ 23.90 ॥

सिद्धियोग्य तिथ्यादयः

46 मन्त्रस्य देवता 47 तारतिथिवारेषु साधकैः ।
द्वादश्यां पौर्णमास्यां वा ग्रहणे कर्म शस्यते ॥ 23.91 ॥

विशेषयजनं कुर्वन् चक्राब्जे जपमाचरेत् ।
शिखी वा जटिलो वापि वल्कलाजिनकर्पटः ॥ 23.92 ॥

त्रिसन्ध्यं स्नाननियतस्तैलाभ्यङ्गविवर्जितः ।

युगभेदेन जापावृत्ति भेदः

यावदुक्तं कृतयुगे मन्त्राभ्यसनमिष्यते ॥ 23.93 ॥

त्रेतादिषु त्रिषु प्रोक्तं द्विगुणं त्रिगुणं क्रमात् ।
चतुर्गुणं परं वापि ततो मन्त्रफलेच्छया ॥ 23.94 ॥

48 सर्वसिद्धिकरोमन्त्रस्सिद्धस्सिद्ध्येत्क्रियावशात् ।
क्रियाधिगम्यते शास्त्राच्छास्त्रं देशिकपूरुषात् ॥ 23.95 ॥

मन्त्रशब्ध निर्वचनम्

मननं सर्वसत्वानां त्राणं 49 संसारसागरात् ।
मननत्राणसंयोगान्मन्त्र इत्युच्यते बुधैः ॥ 23.96 ॥

अथवा गोपनीयत्वा 50 द्धातोर्मन्त्रयते 51 रयम् ।
रप्रत्ययान्तः पुल्लिङ्गस्तथायं लोकवेदयोः ॥ 23.97 ॥

52 मन्त्रेण स्थाप्यते देवो मन्त्रेणैव विसृज्यते ।
ज्ञानानां तत्परं ज्ञानं मन्त्रज्ञानं विदुर्बुधाः ॥ 23.98 ॥

ऐहिकामुष्मिकं सर्वं मन्त्रेणैव प्रसिध्यति ।

फलदर्शनादेव मन्त्रद्रष्टृत्वम्

छन्दो 53 मन्त्राक्षरे यत्तद्दर्शनादृषिरुच्यते ॥ 23.99 ॥

दर्शनं च फलस्याहुर्नपुनर्मन्त्रदर्शनात् ।
देवता मन्त्र फलदा मन्त्रेण प्रतिपादिता ॥ 23.100 ॥

ब्रुवन्ति निलयं क्षेत्रं तत्त्वं 54 तत्त्वमिदं विदुः ।

मन्त्राणां श्वेतादिवर्णभेदः

मन्त्राक्षराणां शुक्लादि 55 मन्त्रभेदः प्रकीर्तितः ॥ 23.101 ॥

मूलमन्त्रादिमन्त्राणां साधनं शुणु साम्प्रतम् ।

मन्त्रिणो वर्ज्यावस्तुनिर्देशः

विधाय 56 यागयोग्यानि पुष्पामूलफलानि च ॥ 23.102 ॥

शाकादीनि तु 57 वर्ज्यानि वर्जयेदितराणि तु ।
गृह्णाया द्यानि वर्ज्यानि तानि वक्ष्यामि पद्मज ॥ 23.103 ॥

वज्यानि पुष्पाणि

उग्रगन्धान्यगन्धानि दुर्गन्धानि परित्यजेत् ।
वस्त्रार्कपर्णस्पृष्टानि पुष्पाण्यारधने हरेः ॥ 23.104 ॥

उन्मत्त शाल्मली बीजपूर धुत्तूरिकाजपाः ।
बन्धूकीसितकोरण्डद्रोणकन्यापराजिताः ॥ 23.105 ॥

हृहत्यगस्त्यकूश्माण्डपटोल्यारग्वथैस्समाः ।
मिर्गुण्डी 58 दमयन्ती च 59 रिंशुकं पारिभद्रकम् ॥ 23.106 ॥

कोशातकी प्रायालुश्च तपस्वी गिरिमल्लिका ।
निम्बव्याघ्री करञ्जश्वी षण्ड 60 पाषण्डपट्टिका ॥ 23.107 ॥

61 विभीतकिङ्किण्यङ्कोललाङ्गलीशङ्खपुष्पिणी ।
नारङ्गनन्दिकावर्त 62 वल्लि काक्षीरिकादिषु ॥ 23.108 ॥

मन्त्रिणो वर्ज्यानि शाकादीनि

पुष्पाणि वर्जनीयानि शाकान्यपि तथा शृणु ।
63 शृङ्गाष्टं ग्रञ्जनं शिग्रू नालिका सुनिषण्णकम् ॥ 23.109 ॥

सौभाञ्जनं 64 रक्तभाष्पं ग्रामभाष्पं त्रिकण्टकम् ।
65 द्रोणपत्रं लिलिङ्गा च तण्डुलीयं तपस्विनी ॥ 23.110 ॥

कोशातकी च वर्ज्यानि मूलेषु त्याज्यमुच्यते ।
छत्राकं लशुनं तालफलमूले पटोलिका ॥ 23.111 ॥

66 बिम्बकुम्भाण्डनारङ्गफलानि परिवर्जियेत् ।

वर्ज्यानि भोजनपात्राणि

बिल्वोदुम्बर भोध्यर्क वटपत्रेषु भोजनम् ॥ 23.112 ॥

वर्जयेत्साधको यत्नादालस्यं 67 दीर्घचिन्तनम् ।
विवादनिद्रा निर्वेदनिग्रहानुग्रहंस्त्यजेत् ॥ 23.113 ॥

मन्त्रिणा धारणीयानि चिह्नानि

पद्माक्षमालां ग्रीवायां लम्बयेत्साधकश्शुचिः ।

सुवर्ण चक्रधारणम्

धारयेद्रैमयं चक्रं सर्वविघ्नोपशान्तये ॥ 23.114 ॥

देहे दारणीयलाञ्चनम्

जपकालेऽथवा चक्रं शङ्खाकृति यथातथा ।
शार्ङ्गखड्गदाकारं लाञ्छनं लाञ्छयेत्सुधीः ॥ 23.115 ॥

शरीरावयवे बाह्वोर्वक्षोभुवि चतुर्मुख ।

चक्रादिलाञ्छितस्य माहात्म्यम्

चक्रादिपञ्चाभिज्ञान लक्षिताङ्गपरिष्कृतम् ॥ 23.116 ॥

पुरुषं दूरतो दृष्ट्वा भूताद्या भयविह्वलाः ।
विद्रवन्ति तथा घोराः पापिष्ठाः क्षणमात्रतः ॥ 23.117 ॥

विनश्यन्ति तथा पुण्यपुञ्जानि प्रविशन्तिच ।
प्रणमन्ति तथा देवा देवर्षिप्रवरास्तथा ॥ 23.118 ॥

अकृत्यमपि कुर्वाणो भुज्जानो वा यत स्ततः ।
पापैर्नलिप्यते देही चक्राद्यायुधलाञ्चितः ॥ 23.119 ॥

हव्यं कव्यं च दातव्यं तस्मै 68 तद्दानमक्षयम् ।

सिद्धिप्रतिबन्धकानि वेषचेष्टादीनि

अविधाय शिखाबन्धमकृत्वा तिलकं मृदा ॥ 23.120 ॥

अधारयंस्ततो दर्भान् सूत्रै 69 रनुपवीतयन् ।
कुर्वन् कर्माणि न फलं प्राप्नुयात्पुरुषाधमः ॥ 23.121 ॥

नग्नो मुक्तशिखाबन्धो वाससा वावकुण्ठितः ।
गच्छन् शयानः प्रलपन् न जपात्फलमश्नुते ॥ 23.122 ॥

जपेन्मौनं समास्थाय सहसम्भाषणादिकम् ।
प्रतिलोमादिभिर्नीचैर्नकुर्यान्मन्त्रवित्तमः ॥ 23.123 ॥

व्याहरेदपि कार्यार्थं नित्यं तद्गतमानसः ।

मन्त्रसिद्ध्यर्थ शालानिर्माणादि

द्वादशाक्षर 70 मन्यं वा जपेदक्षरलक्षकम् ॥ 23.124 ॥

तदर्धं जुहुया दग्नौ होमशालां प्रकल्पयेत् ।
धूमनिर्गमनोपेतां चतुरश्रां 71 मनोरमाम् ॥ 23.125 ॥

कुण्डाकृति मानादि

तन्मध्ये कल्पयेत्कुण्डमाहुत्यसुगुणं शुभम् ।
वृत्तं वा चतुरश्रं वा मेखलात्रयसंयुतम् ॥ 23.126 ॥

72 यो निमन्मृत्स्नया ब्रह्मन् मानं कुण्डन्य कथ्यते ।
अयुताहुतिपर्यन्ते होमे हस्तप्रमाणकम् ॥ 23.127 ॥

द्विहस्तं नियुते कुण्डं त्रिहस्तं प्रयुते तथा ।
शङ्कुहोमे चतुर्हस्तं महाशङ्का तु षट्करम् ॥ 23.128 ॥

नृन्दाहुतौ सप्तहस्तं महाबृन्देऽष्टहस्तकम् ।
अर्बुदे नवहस्तं स्यान्निर्बुदे दशहस्तकम् ॥ 23.129 ॥

एकादशकरं खर्वे परार्धे द्वादशायतम् ।
त्रयोदशकरं मध्ये 73 अन्तकेतु चतुर्दश ॥ 23.130 ॥

पद्मे कराः पञ्चदश महापद्मे तु षोडश ।
समुद्रे विंशतिकर 74 मोघे द्वाविंशतिः स्मृतम् ॥ 23.131 ॥

इतोऽधिकाहुतिविधौ चतुर्विंशतिहस्तकम् ।

प्रसङ्गात्सङ्ख्यास्थापनिर्देशः

प्रसङ्गादुच्यते सङ्ख्या तां क्रमेणावधारय ॥ 23.132 ॥

एकं दश शतं सङ्ख्या सहस्रमयुतं तथा ।
नियुतं प्रयुतं शङ्कुर्महाशङ्कुस्ततः परम् ॥ 23.133 ॥

नृन्दं तथा महाबृन्दमर्बुदं न्यर्बुदं तथा ।
खर्वं परार्धं मध्यान्ते पद्मं तन्महदादिकम् ॥ 23.134 ॥

75 पद्मोत्तरं समुद्रं स्यान्महौघं 76 चोत्तमं भवेत् ।
एकमारभ्य गणयेत्प्रयुतान्तं यथाक्रमम् ॥ 23.135 ॥

स्थानात् स्थानं दशगुणं वर्धयेत्प्रयुतावधि ।
लक्षस्य नियुतं 77 सङ्ख्या कोटिः प्रयुतमिष्यते ॥ 23.136 ॥

शङ्कुमारभ्यगणयेन्महौघान्तं क्रमाद्यथा ।
शतं कोटिसहस्राणां शङ्कुसङ्ख्या निगद्यते ॥ 23.137 ॥

तथैव स्यान्महाशङ्कुरेवं बृन्दं प्रकीर्तितम् ।
तद्वदेव महानृन्द मेवमेवार्बुदं स्मृतम् ॥ 23.138 ॥

इत्थं निर्बुदमाख्यातमेवं खर्वमुदाहृतम् ।
एवमेव परार्धं स्यान्मध्यमित्थं चतुर्मुख ॥ 23.139 ॥

78 एवमन्तं तथा पद्मं महापद्मं तथैव च ।
सागरप्रलयावेवं सङ्ख्या नास्ति ततः परम् ॥ 23.140 ॥

अग्ने श्शोत्रादिनिरूपणम्

79 यत्र काष्ठं तु तच्छ्रोत्रं यत्र धूमस्तु नासिका ।
यत्राल्पज्वलनं नेत्रं यत्र भस्मतु तच्छिरः ॥ 23.141 ॥

यत्र सम्यके स्थिता दर्भास्तत्र केशाः प्रकीर्तिताः ।
यत्र प्रज्विलितो वह्निर्जिह्वातत्रैव कीर्तिता ॥ 23.142 ॥

होमस्तानादिफलम्

अग्निकर्णे हुती रोगो नासिकायां मनोव्यथा ।
चक्षुषोर्निधनं कुर्यात्केशे दारिद्र्यं भवेत् ॥ 23.143 ॥

हुतं शिरसि पापं स्यात्तस्माज्जिह्वासु होमयेत् ।
समिद्भिर्याज्ञियैर्बीजैर्घृतैर्गव्यैस्तथा दलैः ॥ 23.144 ॥

सुमनोभिस्समिद्धेग्नौ जुहुयादग्निमाहरेत् ।

कुण्डमध्ये योगासनम्

आरण्यं मणिजं लौहं कुण्डमध्ये परिष्कृते ॥ 23.145 ॥

योगासनं चाग्नि मध्ये कल्पयित्वा हरिं पुनः ।

प्रत्यहं होमः

आवाहयेत्तत्र देवं होमान्तं 80 तत्र सन्निधिम् ॥ 23.146 ॥

प्रार्थयेत समाराध्य होमं कुर्याद्दिने दिसे ।
आहोमकालमर्यादं रक्षेदग्निमतन्द्रितः ॥ 23.147 ॥

न दहेत्परिधीन् दर्भानुपस्तीर्णानुपक्रमे ।

सिद्धेर्निमित्तानि

एवमुक्तेन मार्गेण जपतो मन्त्रमुत्तमम् ॥ 23.148 ॥

साधकस्य 81 पुनस्स्वाप्नास्सम्भवन्त्यविचारिताः ।
मन्त्रसिद्दिमसिद्दिं च सूच 82 यन्तश्शुभाशुभम् ॥ 23.149 ॥

तत्र सुनिमित्तानि

आचार्यं प्रतिमां देवीं पूजोपकरणानि च ।
विप्रं भागवतं भूपं छत्रचामरदन्तिनः ॥ 23.150 ॥

सिंहासनमपां कुम्भं पुर्णं कन्यां मधूजनम् ।
दीपं शङ्खं तथा यानां 83 श्रीवत्सं पादुकां तथा ॥ 23.151 ॥

श्वेतं वस्त्रं च माल्यं च चन्दनं भूषणानि च ।
रत्नानि काहलादीनि पायसं दधि पालिकाः ॥ 23.152 ॥

ताम्बूलं पुस्तकं घण्टां तण्डुलानवगाहनम् ।
समुद्रतरणं शैलारोहणं द्रुमरोहणम् ॥ 23.153 ॥

84 भूमिलाभं मृदां लाभं तटकुपादिदर्शनम् ।
प्राङ्कुखोदुङ्गुखो वापि यात्रां कुर्वन् स्वयं यदि ॥ 23.154 ॥

विमानदर्शनं विष्णोर्दीप्तौ च शशिभास्करौ ।
85 नक्षत्राणि गृहादीनि ज्योत्सां च ध्रुवमण्डलम् ॥ 23.155 ॥

दीप्तमग्निं वेदघोषं सिद्धविद्याधरादिकम् ।
देवता समितिं चैव पश्यन् मूलफलानि च ॥ 23.156 ॥

अपूपादीनि भक्ष्याणि कुशयष्टिं कमण्डलम् ।
यज्ञोपवीतं पात्राणि स्रुक्स्रुवादीनि लोकयन् ॥ 23.157 ॥

अक्षमालामेव माद्यैश्शुभैस्स्वप्नैर्विनिर्दिशेत् ।
मन्त्रसिद्धिं बहु 86 मुखां

दुर्निमित्तानि

दुस्स्वप्नाश्चाप्यशोभनाः ॥ 23.158 ॥

कथ्यन्ते मुण्डितैस्सार्धं सम्भाषा सहवर्तनम् ।
स्वयं मुण्डश्छभिभ्राणो जीर्णं नीलं तथाम्बरम् ॥ 23.159 ॥

कन्थां कर्तां तथा नीलां पुष्पमालां च मूर्धनि ।
गर्दभारोहणं भग्नयानाधिष्ठानमब्जज ॥ 23.160 ॥

छिन्नच्छत्रधरो वापि महिषारोहणं तथा ।
दक्षिणाभिमुखो गच्छन्नुष्ट्रवाहादिरोहणम् ॥ 23.161 ॥

दष्टश्च कपिभिर्देहे सृगालैर्वा वृकै स्तथा ।
कर्णपादशिरश्छेदो दन्तानां पदनं तथा ॥ 23.162 ॥

नववस्त्रधरः पीडा भडैः पाशेन बन्धनम् ।
87 विधवालिङ्गनं नीचैः पाषण्डैः प्रतिलोमजैः ॥ 23.163 ॥

वर्तनं गोपुरादीनां पतनं शाखिनामपि ।
तुरगारोहणं 88 भुक्तिर्बौद्धाद्यालयसेवनम् ॥ 23.164 ॥

मदिरापायिभिः पापरोगिभिःकितवैस्सह ।
वर्तनं दीपनिर्वापं देवानामुत्सवं तथा ॥ 23.165 ॥

ग्रामादिदाहो भक्ष्याणां फलादीनां च भक्षणम् ।
मधूच्छिष्टं प्रतिच्छाया यात्रा युद्धोद्यमं भटैः ॥ 23.166 ॥

अभ्यङ्गं तैललाभं च मरीचं लवणं तथा ।
लोकयन्नेवमादीनि स्वप्ने शान्तिं समाचरेत् ॥ 23.167 ॥

सिद्धिप्रकाराः

जपहोमादिभिर्विद्वान् जाग्रतः प्रत्ययां स्तथा ।
वक्ष्यामि साधकस्याग्रे जातानब्युदयावहान् ॥ 23.168 ॥

प्यूम्नि देवगाणान्नेमि घोषं दुन्दुभिनिस्वनम् ।
स्द्दैस्सम्भाषणं चापि विमानानां च दर्शनम् ॥ 23.169 ॥

भूतप्रेतपिशाचादिदशर्नं भूतले तथा ।
होमकाले च सप्तार्चिस्त्रिशिखः परिदृश्यते ॥ 23.170 ॥

शुद्धस्फटेकसङ्काशो दक्षिणावर्त 89 शोभितः ।
दिव्यगन्धोपलम्भश्च छत्रबिम्बध्वजादिकम् ॥ 23.171 ॥

शङ्खदुन्दुभिवीणादिवेदघोषश्रुतिं पुनः ।
पूर्णाहुतिविधौ सिद्धिलिङ्गान्येतानि लोकयेत् ॥ 23.172 ॥

सिद्धिलिङ्गानां गुरुं विनान्यत्रप्रकाशनिषेधः

90 साधकस्तानि लिङ्गानि कथयेन्न गुरुं विना ।
होमान्ते भोजयेद्विद्वान् वैष्णवान् द्वादशावरान् ॥ 23.173 ॥

यावन्मन्त्रसिद्धि भगवदाराधनम्

यावच्च मन्त्रसिद्धिस्स्यात्तावदाराधयेद्धरिम् ।
कामनानुगुणाकारं दार्वाद्यैः परिकल्पितम् ॥ 23.174 ॥

दिने दिने जपेन्मन्त्रं जुह्वान्नग्नौयथापुरम् ।

प्रणव पुरश्चरणविधिः

प्रणवस्य शृणु ब्रह्मन् 91 पुरश्चरणमुत्तमम् ॥ 23.175 ॥

बीजं साङ्गं समुद्धारं यथावदवधारय ।
अप्रमेयादिमुदयं मध्ये 92 मन्दरपश्चिमम् ॥ 23.176 ॥

समाहृत्य 93 त्र्यवयवं त्रीन् वर्णान् वाचकं हरेः ।
प्लुतोदात्तस्वरं ब्रह्मन् चक्रमध्ये प्रतिष्ठितम् ॥ 23.177 ॥

उद्धरेद्बीजमस्याद्यं 94 प्रतीकं दण्ड शेखरम् ।
वैष्णवं दण्डयेद्वैषा शक्तिस्सर्वत्र कीर्तिता ॥ 23.178 ॥

बीजशक्त्यङ्गहीना ये मन्त्र्यासुसै निरर्थकाः ।
तस्मात्साङ्गं बीजयुक्तं शक्तियुक्तं फलप्रदम् ॥ 23.179 ॥

बीजं शक्तिश्च कथिता श्रूयतामङ्गजातयः ।
ऋषिर्ब्रह्मस्य छन्दस्तु देवी गायत्र मुच्यते ॥ 23.180 ॥

प्रतिपाद्यः परोदेवः परमात्मा स देवता ।
बुद्धिस्तत्वं परं प्यूम क्षेत्रं वर्णस्सितच्छविः ॥ 23.181 ॥

ज्ञानं बलं तथावीर्यमैश्वर्यं तेजसा सह ।
शक्तिरेते चतुर्थ्यन्ता नमस्स्वाहा वषट् तथा ॥ 23.182 ॥

हुं फट् वौषट् क्रमादेत दवसानाश्शुभावहाः ।
अङ्गानि हृदयाद्येषु षट्सु स्थानेषु मन्त्रिणा ॥ 23.183 ॥

प्रयोज्यानि 95 प्रयुक्तेषु मन्त्रस्साङ्गः कृतो भवेत् ।
देहे करतले चैव स्थानेषु द्वादशस्वपि ॥ 23.184 ॥

द्वादशाक्षरवन्न्यासः प्रणवस्स्फटिक प्रभः ।
96 न्याने नमोन्तस्स्वाह्न्तू जपपूजाहुतिष्वपि ॥ 23.185 ॥

वश्ये चाकर्षणविदौ उच्छाटे हुङ्कृतिर्भवेत् ।
मारणे फट्कृतिर्ज्ञेया स्तम्भ 97 विद्वेषमोहने ॥ 23.186 ॥

सतिं विनाङ्गमन्यस्स्याद्धर्मादौ नतिरेव सा ।
शाकयावकभैक्षाशी जपेल्लक्षत्रयं शुचिः ॥ 23.187 ॥

तदर्धं तर्पणे सङ्ख्या तदर्धं होमकर्मणि ।
होमान्ते सिद्धयस्तस्य जायन्ते 98 यावदीप्सिताः ॥ 23.188 ॥

ऐहिकामुष्मिकं सर्वं प्रणवाल्लभ्यतेऽ 99 खिलम् ।
प्रणवान्न परोमन्त्रः कश्चिदस्ति चतुर्मुख ॥ 23.189 ॥

शान्तिपुष्ट्यभिचारेषु किमन्यैस्सिद्धिवर्णनैः ।
अन्त्यकाले च मां ध्यात्वा व्याहरन् प्रणवाक्षरम् ॥ 23.190 ॥

100 योगाभ्या 101 सोक्त विधिना जीवमारोहयेद्धृदि ।
भ्रुवो र्मध्ये ततोजीवं ततो ब्रह्म बिलं ततः ॥ 23.191 ॥

उच्चरन् प्रणवं 102 भित्वा भिलं ब्रह्मणि लीयते ।
यावत्प्राणविनिर्मोकमभ्यस्येत्प्रणवाक्षरम् ॥ 23.192 ॥

सर्वपापविनिरिमुक्तो याति ब्रह्म सनातनम् ।
प्रोक्तः प्रणवकल्पस्ते समासेन चतुर्मुख ॥ 23.193 ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे मातृकाद्यर्थ 103 त्रयवर्णनं नाम त्रयोविंशोऽध्यायः.


  1. हन्तते. ↩︎

  2. गुह्यं. ↩︎

  3. परिष्कृताः. ↩︎

  4. शोधिते. ↩︎

  5. विधाय सुसमम् विहाय सुषिरम्. ↩︎

  6. ब्रह्मा. ↩︎

  7. कथिता. ↩︎

  8. प्रजा. ↩︎

  9. घोषश्च. ↩︎

  10. धनदः. ↩︎

  11. देवरः. ↩︎

  12. स्सर्ग. ↩︎

  13. सर्व. ↩︎

  14. झषांशी. ↩︎

  15. नसुवर्ण. ↩︎

  16. ह्वानः. ↩︎

  17. मेधी. ↩︎

  18. रोगश्च. ↩︎

  19. सर्व. ↩︎

  20. गर्भो विष्कम्भो नृषभध्वनिः-गर्गो. ↩︎

  21. चन्देति परिकीर्तितः. ↩︎

  22. विक्रमी. ↩︎

  23. ॠकारः केशवो देवो. ↩︎

  24. वाणीशार्ङ्गाधिदेवते. ↩︎

  25. झकारस्य भवेदङ्कुशदेवता. ↩︎

  26. जृम्भलन्तु भकारस्य. ↩︎

  27. भगदैवतः. ↩︎

  28. तासाम्. ↩︎

  29. वर्णस्स्यात्. ↩︎

  30. पुष्यद्वयं सार्प. ↩︎

  31. भगदैवत–भगवद्दैव. ↩︎

  32. द्वयं चित्त्रा. ↩︎

  33. तिष्या. ↩︎

  34. त्रियंशादि. ↩︎

  35. कन्यायाः. ↩︎

  36. न्यस्य. ↩︎

  37. स्स्याद्यवर्णमपि. ↩︎

  38. `इतरे’ इत्यर्धं क्वचिन्न. ↩︎

  39. बिति च. ↩︎

  40. सर्वेषु. ↩︎

  41. हुङ्का राद्या. ↩︎

  42. सर्वे. ↩︎

  43. च्छन्दे. ↩︎

  44. तस्यामेकान्त. ↩︎

  45. अन्यत्रापि. ↩︎

  46. मन्त्रेषु. ↩︎

  47. राति तिथि—तारातिथि. ↩︎

  48. सर्वसिद्ध्यकरो. ↩︎

  49. तु भव. ↩︎

  50. त्वाद्धेतोः. ↩︎

  51. परम्. ↩︎

  52. तन्त्रेण. ↩︎

  53. मात्राक्षरे. ↩︎

  54. तत्त्वञ्च भेदयोः. ↩︎

  55. वर्णभेदाः प्रदर्शिताः. ↩︎

  56. योग योग्यानि. ↩︎

  57. वर्णानि. ↩︎

  58. मदयन्तीच. ↩︎

  59. किंशुका पारिभद्रका. ↩︎

  60. पाण्डर. ↩︎

  61. विभीतकिङ्किणीकोल. ↩︎

  62. मल्लिका. ↩︎

  63. शृङ्गाग्रं गृञ्जनम्, शृङ्गाष्टं कुङ्जरम्. ↩︎

  64. पूतिभाष्पम्. ↩︎

  65. द्रोणं पटोली निम्बं च. ↩︎

  66. बीजकुम्भा. ↩︎

  67. दीर्घदर्शनम्. ↩︎

  68. तद्धत्तमक्षयम्. ↩︎

  69. रनुवनीतवान्. ↩︎

  70. तो हीनं. ↩︎

  71. मनोहराम्. ↩︎

  72. योनिकम्. ↩︎

  73. अन्त्यके. ↩︎

  74. महौघे. ↩︎

  75. उपोत्तमम्. ↩︎

  76. चोत्तरम्. ↩︎

  77. सर्वत्र सङ्ख्या इत्यत्र सञ्ज्ञा इतिको शान्तरे. ↩︎

  78. एवमेवं. ↩︎

  79. यत्र इत्यादि - `समिद्भिः’ इत्यन्तं कोशचतुष्टये न दृश्यते. ↩︎

  80. तस्य. ↩︎

  81. पुरा. ↩︎

  82. यन्त्य. ↩︎

  83. श्रीवृक्षम्. ↩︎

  84. भूमिलाभमृतं लाभम्. ↩︎

  85. `नक्षत्राणि’ इत्यर्धं कोशपञ्च के न दृश्यते. ↩︎

  86. मुखात्. ↩︎

  87. विधायालिङ्गनं. ↩︎

  88. भुक्तम्. ↩︎

  89. संयुतः. ↩︎

  90. साधकानि हि लिङ्गानि. ↩︎

  91. पुनः. ↩︎

  92. मन्दिर. ↩︎

  93. त्रिकवचस्त्रीन्वर्णान्. ↩︎

  94. प्रतीतम्. ↩︎

  95. प्रयोगेषु. ↩︎

  96. न्यासो. ↩︎

  97. विज्ञान. ↩︎

  98. यद्यदीप्सिताः. ↩︎

  99. फलम्. ↩︎

  100. योग' इत्यादि--. सर्वपाप’ इत्यन्तं क्वचिन्न. ↩︎

  101. सेन. ↩︎

  102. हित्वाबिम्बं. ↩︎

  103. अर्थवर्णनं नाम. ↩︎