२२

मुद्राविधिः

ब्रह्मा—

कीदृशी भगवन्मूद्रा तद्भेदाश्चापि कीदृशाः ।
प्रयोजनं वा किं तस्याः कथ्यतां तदशेषतः ॥ 22.1 ॥

मुद्रानिरुक्तिः

श्रीभगवान्.

अङ्गुलीरचना 1 भेदो मुद्रायस्मात्प्रदर्शितात् ।
2 हिंसकानामशेषाणां मुदं द्रावयति क्षणात् ॥ 22.2 ॥

ततो मुद्रा निरसनं तेषां तस्याः प्रयोजनम् ।
प्रीणनं चापि देवानां कर्मणा सोपिदर्शितः ॥ 22.3 ॥

मुद्रापूर्वविधिः

प्रयोक्तव्यश्च रहिसि न बहिर्जनसंसदि ।
मन्त्रमण्डलमुद्राणां गुप्तिरेषा सनातनी ॥ 22.4 ॥

गन्धलिप्तौ करौ कृत्वा मुद्रादर्शनमाचरेत् ।

हृदयमुद्रा

अनामि कामध्यमयोः प्रवेश्याङ्गुष्ठमायतम् ॥ 22.5 ॥

विधाय मुष्टिं हृदये न्यसेद्धृदयमुद्रिका ।

शीर्षमुद्रा

सैषा मुष्टिमधो बध्वा स्तापयित्वा च मूर्धनि ॥ 22.6 ॥

अङ्गुष्ठाग्रेण हननं तर्जन्या शीर्षमुद्रिका ।

शिखामुद्रा

उर्ध्वाङ्गुष्ठं धृढं मुष्टिं बध्वान्यस्येच्छिखापदे ॥ 22.7 ॥

शिखामुद्रेयमुदिता

वर्ममुद्रातु कथ्यते ।

कवचमुद्रा

प्रवेश्याभ्यन्तरांगुष्टं बध्वा मुष्टिप्रवेशनम् ॥ 22.8 ॥

उन्नम्यकिञ्चिदग्रे च विततान्तेन मुष्टिना ।
3 भावयेद्वर्मणो बन्धं सैषा कवचमुद्रिका ॥ 22.9 ॥

अस्त्रमुद्रा

4 तर्जन्यंगुष्ठसिरसि स्फोटयेच्चक्रवत् 5 स्मरन् ।
दिक्षु सर्वासु शेषाभिर्मुष्टिं बध्वा चतुर्मुख ॥ 22.10 ॥

सैषास्त्रमुद्रा विज्ञाया

नेत्रमुद्रा

शिखामुद्रामधोमुखीम् ।
विन्यनेत्तां भ्रुवोर्मध्ये नेत्रमुद्रेयमीरिता ॥ 22.11 ॥

षडङ्गमुद्रास्वेतानु हस्तस्सर्वत्र दक्षिणः ।

अग्नि प्राकारमुद्रा

कनिष्ठादित्रिभिर्बध्वा मुष्टिं साङ्गुष्ठमुन्न ताम् ॥ 22.12 ॥

विधाय तर्जनीं तेन भ्रामयेदाशु चक्रवत् ।
अग्नि प्राकारमुद्रेयं 6 तयैवात्माभिरक्षणम् ॥ 22.13 ॥

योगमुद्रा

नाभेरधस्ताद्विन्यस्य 7 सव्यं करतलं पुनः ।
उत्तानमितरं तस्य विन्यसेदुपरी 8 दृशी ॥ 22.14 ॥

योगमुद्रा

योगसम्पुटमुद्रा

9 करतलं सव्यं नाभेरधस्ततः ।
अवाङ्मुखं तदुपरि 10 सव्येकरतलं पुनः ॥ 22.15 ॥

समाङ्गुष्ठं विरचयेद्योगसम्पुटमुद्रिका ।

उक्तयोर्मुद्रयोर्विनियोगः

योगाभ्यासे च तत्त्वानां संहारोत्पादनेपि च ॥ 22.16 ॥

मुद्राद्वयमिदं ब्रह्मन्कथितं योगिनां हितम् ।

कुम्भमुद्रा

योगसंपुट 11 मुद्रेयमुच्चिता घटवत्कृता ॥ 22.17 ॥

12 ऊर्ध्वं स्यात्कुम्भमुद्रैषातया स्नानं समाचरेत् ।

संहारमुद्रा

तर्जन्या नामिकाग्रं तु विष्टयित्वा क्रमेण तत् ॥ 22.18 ॥

तथाङ्गुष्ठकनिष्ठौ तु ज्ञेया संहारमुद्रिका ।

एतस्या विनियोगः

तत्वानां सहृतौ चैव देवतोद्वासने तथा ॥ 22.19 ॥

एषा मुद्रा प्रयोक्तव्या सर्वकर्मसु सर्वदा ।

सृष्टिमुद्रा

संहताभि13 श्च तिसृभिरङ्गुलीभिश्चसंगतिः ॥ 22.20 ॥

विमुक्ततर्जनी भूयस्सृष्टि मुद्रेति कीर्तिता ।

एतद्विनियोगः

आवाहने 14 तत्त्वसृष्टौ मुद्रैषा परिकीर्तिता ॥ 22.21 ॥

तत्त्वमुद्रा

अङ्गुष्ठतर्जनीभ्यां तु संयोगस्तत्वमुद्रिका ।
तत्वन्यसनकाले च मुद्रैषा 15 परिकीर्तिता ॥ 22.22 ॥

सैवज्ञानमुद्रा

ज्ञानमुद्रा 16 पि सैवैषा स्यादज्ञानतमोपहा ।

न्यासमुद्रा

ऊर्ध्वयोः करयोर्मध्यं मध्यमाभ्यां तु स्स्पृशेत् ॥ 22.23 ॥

उत्तानितौ करौ कृद्वा न्यास 17 मुद्रा निगद्यते ।
देवात्मदेहयोर्मन्त्रं न्यासमुद्रेयमीरिता ॥ 22.24 ॥

जपमुद्रा

अङ्गुष्ठाभ्यां तु करयोस्तर्जन्योरुभयोरपि ।
मध्यमाभ्यां स्पृशेदन्यां 18 विस्तृतानि यथा तथा ॥ 22.25 ॥

जपमुद्रेति विज्ञेया जपकाले प्रदर्शयेत् ।

ब्रह्ममुद्रा

अङ्गुलीभिस्समस्ताभिर्दक्षिणेतरहस्तयोः ॥ 22.26 ॥

संपुटीकरणं ब्रह्ममुद्रा संशब्दिता बुधैः ।

विष्णुमुद्रा

अङ्गुष्ठे द्वे कनिष्ठे द्वे तथास्यात्तर्जनी द्वयो ॥ 22.27 ॥

19 सहयुक्ताग्रतश्शिष्टा विष्णुमुद्रेति कीर्तिता ।

रुद्रमुद्रा

सा चैव शेषिताङ्गुष्ठासमस्तेन परस्परम् ॥ 22.28 ॥

उभयाङ्गुष्ठमुद्रा सा रुद्रस्य कथिता तव ।

अभिवादनमुद्रा

श्रोत्रे पिधाय पाणिभ्यां दण्डपद्दक्षिणं करम् ॥ 22.29 ॥

प्रसारयेद्गुरूणां तु अभिवादनकर्मणि ।

विष्णु राजमुद्रा

20 सर्वहस्ताङ्गुलीस्सव्यकर्णेन्यस्य तथेतरम् ॥ 22.30 ॥

प्रसरेद्विघ्नराजस्य मुद्रा विघ्नविनाशिनी ।

भागवतमुद्रा

अन्तस्तु तर्जनीयुग्मं संहताङ्गुष्ठकद्वयम् ॥ 22.31 ॥

मुद्रा भागवती सास्यात्

वराहामुद्रा

करयुग्मं तु सम्पुटे ।
21 कृते वराहमुद्रा सासर्वसिद्धिकरी शुभा ॥ 22.32 ॥

गुरुपङ्क्तिक्रमे ब्रह्मन् 22 सैषामुद्रा प्रदर्शिता ।

दहनमुद्रा

अपसव्ये करतले संस्मरेद्रक्तपङ्कजम् ॥ 22.33 ॥

तन्मध्ये चिन्तयेदग्निं त्रिकोणं तेससां निधिम् ।
अवाङ्मुखं करतलं कृत्वा द्रव्योपरि न्यसेत् ॥ 22.34 ॥

ज्ञेया दहनमुद्रैषा द्रव्यशुद्धि 23 प्रदा सदा ।

अप्यायनमुद्रा

सव्ये करतले श्वेतपङ्कजं षोडशच्छदम् ॥ 22.35 ॥

कलाषोडश 24 संयुक्तं शशिनं पङ्कजासन ।
तन्मध्येचिन्तयित्वातु स्रावितं चामृतं स्मरेत् ॥ 22.36 ॥

तेनामृतेन तद्भस्म क्षालितं तूत्थितं स्मरेत् ।
आप्यायनन्य मुद्रैषा कथिता कमलासन ॥ 22.37 ॥

सुरभिमुद्रा

अंगुष्ठे द्वे कनिष्ठे द्वे तथास्यात्तर्जनी 25 द्वयोः ।
शिष्टं प्रसारयेद्ब्रह्मन्नंगुलानि करद्वये ॥ 22.38 ॥

मध्यमां दक्षिणकरेऽनामिकां च तथेतरे ।
संहृत्य प्रसरेच्छेषं करयोरुभयोरपि ॥ 22.39 ॥

ज्ञेया सुरभिमुद्रा 26 सा याग द्रव्यविशोधिनी ।

आवाहनमुद्रा

हस्ताभ्यामञ्जलिं कृत्वा ईषद्विकसितं स्फुटम् ॥ 22.40 ॥

अवाहनस्य मुद्रैषा दर्शनात्स 27न्निधिं भजेत् ।

प्रणाममुद्रा

हृदये शिरसि द्वेपि सम्पुटाञ्जलिरूर्ध्वागा ॥ 22.41 ॥

प्रणाममुद्रासाज्ञेया क्षिप्रं देवप्रसादिनी ।

तस्याविनियोगः

सा ज्ञेया वासुदेवादिमूर्तिनां कमलासन ॥ 22.42 ॥

चतुर्विंशतिमूर्तीनां मीनादीनां तथैव च ।
मुद्रैषा चा न्यमूर्तिनां कथिता कमलासन ॥ 22.43 ॥

पद्ममुद्रा

प्रसार्यकरजान् सर्वान् मणिबन्धौ समेत्य तौ ।
अन्तः प्रविश्य चांगुष्ठौ तयोः पृष्ठमनुस्पृशेत् ॥ 22.44 ॥

प्रसारयेत्पद्ममुद्रा मासने 28 तु प्रदर्शयेत् ।

कमलमुद्रा

श्रियादीनां च सर्वासां देवीनां चतुरासन ॥ 22.45 ॥

प्रोक्ता कमलमुद्रा 29 सा सर्वकामफलप्रदा ।

शङ्खमुद्रा

निबध्य दक्षिणांगुष्ठं वामहस्तस्य मुष्टिगम् ॥ 22.46 ॥

कृत्वा चांगुष्ठतर्जिन्यौ संयुक्ते प्रसृते समे ।
30 त्रिप्रस्तु दक्षिणन्यासा बध्नी युर्मुष्टिमूर्ध्वगाः ॥ 22.47 ॥

शङ्खमुद्रेयमुदिता ज्ञानदा मोक्षदाऽचिरात् ।

चक्रमुद्रा

मणिबन्धसमौ हस्तौ तिर्यक्सं 31 भ्राम्य च क्रमात् ॥ 22.48 ॥

पर्यायेण प्रयोक्तक्या चक्रमुद्रा महोदया ।

गदामुद्रा

मुष्ठिं कृत्वा तु हस्ताभ्यामंगुष्ठौ 32 विनतावुभौ ॥ 22.49 ॥

मध्यमांगुलियुग्मं तु 33 ऋजुमूर्ध्वं प्रसारयेत् ।
शेषाभिरंगुलीभिस्तु बन्धयेयुः परस्परम् ॥ 22.50 ॥

संश्लिष्टौ कूर्परौ द्वौ तु गदामुद्रेयमीरिता ।

चापमुद्रा

तर्जन्यग्रं मध्यमया संस्पृशे 34 च्चापमुद्रिका ॥ 22.51 ॥

मुसलमुद्रा

मुष्टिं कृत्वा वामहस्त मंगुष्ठमृजुमूर्ध्वतः ।
अपसव्यकरेणै तदंगुष्ठं तु बन्धयेत् ॥ 22.52 ॥

प्रसार्य दक्षिणांगुष्ठं ज्ञेया मुसलमुद्रिका ।

खड्गमुद्रा

कनिष्ठांगुलिपूर्वं तु संहृत्यांगुष्ठकेन 35 तु ॥ 22.53 ॥

निबध्य तर्जनीं भूयस्तदग्रं नतमेव च ।
खड्गमुद्रा तुसा ज्ञेया सर्वदुष्टभयङ्करी ॥ 22.54 ॥

वनमूलामुद्रा

हस्ताभ्यां लम्बयेद्ब्रह्मन्नंगुल्यग्रैः परस्परम् ।
बन्धयेद्वन 36 माला स्यादंगुष्ठौ द्वौ तु संहरेत् ॥ 22.55 ॥

अञ्जलिमुद्रा

आखण्डलादिदेवानां मुद्रा चाञ्जलिसंज्ञिता ।

गरुडमुद्रा

उभौ करतले पृष्ठौ संश्लिष्टौ तु कनिष्ठकौ ॥ 22.56 ॥

बन्धयेत्तर्जनीयुग्मं प्रसरेत्तुण्डवत्क्रमात् ।
अंगुष्ठौ द्वौ 37 पादयुग्म मधस्ताल्लम्बयेत्क्रमत् ॥ 22.57 ॥

मध्यमानामिकाभ्यां तु करयोरुभयोरपि ।
पक्षवच्चलनं कुर्याज्ज्ञया गरुडमुद्रिका ॥ 22.58 ॥

विष्टक्सेनमुद्रा

कनिष्ठादित्रयं ब्रह्मन् संहृत्यागुष्ठकेन च ।
निबध्य तर्जनीं भूयो निष्वक्सेनस्य मुद्रिका ॥ 22.59 ॥

अनन्तमुद्रा

प्रसार्य करजान् सर्वान् विरलानूर्ध्वगामिनः ।
कृत्वाहस्तस्य चायामं तदग्रान् कुञ्चयेत्क्रमात् ॥ 22.60 ॥

फणिफणाग्रसदृशाज्ञेयाऽनन्तस्य मुद्रिका ।

बलिमुद्रा

चण्डादीनां भ वेन्मुष्टिमुद्रैषा बलिमुद्रिका ॥ 22.61 ॥

अस्त्रमुद्रा

अङ्गुष्ठानामिकाभ्यांतु 38 तथा स्यादस्त्रमुद्रिका ।

मुष्टिमुद्रा

मुष्टिमुद्रा तु मुष्टिस्स्यादंगुष्ठेन तु वेष्टिता ॥ 22.62 ॥

ज्ञानमुद्रा

ज्ञानमुद्रेति विज्ञेया सैव मुक्तकनिष्ठिका ।

गन्धमुद्रा

गन्धमुद्रेति विज्ञेया विमुक्तानामिका च सा ॥ 22.63 ॥

पुष्पामुद्रा

पुष्पमुद्रेति विज्ञेया विमुक्ता मध्यमा तथा ।

यज्ञोपवीतमुद्रा

मध्यमाङ्गुष्ठशिरसि 39 सङ्गतिर्ह्यग्रपर्वणा ॥ 22.64 ॥

यज्ञोपवीतमुद्रा स्या

आकल्पमुद्रा

दंगुष्ठेन कनिष्ठिका ।
आकल्पमुद्रिका ज्ञेया विष्णोः प्रीतिकरी शुभा ॥ 22.65 ॥

धूपमुद्रा

40 संहृताग्राङ्गुलीनां तु कृत्वा व्यतिकराङ्गुलीः ।
सहैवोर्ध्वीकृतांगुष्ठौ कराभ्यां 41 धूपमुद्रिका ॥ 22.66 ॥

दीपमुद्रा

ऊर्ध्वंतु मध्यमां कृत्वा संहृत्यांगुष्ठमेव च ।
तर्जन्या नामिकाभ्यां तु संहृत्य तु कनिष्ठिकाम् ॥ 22.67 ॥

तेनैव वामहस्तेन दक्षिणेन कृता 42 तु या ।
दीपमुद्रेति सा प्रोक्ता देवदेव प्रयाधिका ॥ 22.68 ॥

अन्येषामुपचाराणां मुद्रा स


  1. भेदा मुद्रा यस्मात्प्रदर्शिताः. ↩︎

  2. साङ्गुलीनामशेषाणां मुद्रा वारयुति क्षणात्. ↩︎

  3. हरयेद्वर्मणो. ↩︎

  4. तर्जन्याङ्गुष्ठशिरसा. ↩︎

  5. क्रमात्. ↩︎

  6. ताभि रात्मा. ↩︎

  7. सर्वं. ↩︎

  8. शम्. ↩︎

  9. करतले सर्वं. ↩︎

  10. सर्वं. ↩︎

  11. मुद्रैवच्छिद्रिता—मुद्रेयं मुद्रिता. ↩︎

  12. ऊर्ध्वाभ्यां स्यात्कुम्भमुष्टेः कुम्भ. ↩︎

  13. श्चतसृभिः. ↩︎

  14. च सृष्टौ च. ↩︎

  15. समुदाहृता. ↩︎

  16. फलैस्सैषा. ↩︎

  17. मुद्रेति कथ्यते. ↩︎

  18. द्विसृताहि र्यथा. ↩︎

  19. सङ्गयुक्ताग्रगाः. ↩︎

  20. सव्यहस्तांगुलीस्सव्य. ↩︎

  21. कृत्वा. ↩︎

  22. मुद्रास्सर्वाः प्रदर्शिताः. सर्वकर्मप्रदर्शितम्. ↩︎

  23. प्रदायिनी. ↩︎

  24. सम्पूर्णम्. ↩︎

  25. द्वयम्. ↩︎

  26. स्यात्. ↩︎

  27. सन्निधिर्भवेत्. ↩︎

  28. सम्प्र. ↩︎

  29. स्यात्सर्व. ↩︎

  30. तिस्रस्तु दक्षिणस्यान्याम्. ↩︎

  31. भाव्य चक्रवत् ↩︎

  32. वितता. ↩︎

  33. दर्वीकृत्य दीर्घाकृत्य. ↩︎

  34. धनु. ↩︎

  35. च. ↩︎

  36. मामाया अङ्गुष्ठौ. ↩︎

  37. पदे युग्मे. ↩︎

  38. तथा स्याद्वक्त्र–द्वस्त्र. ↩︎

  39. सङ्गताभ्यांतु. ↩︎

  40. संशृता. ↩︎

  41. धूम. ↩︎

  42. तथा. ↩︎