२१

अधिकारिव्यवस्थाप्रश्न प्रतिवचने

ब्रह्मा :—

विश्वास-प्रस्तुतिः

सिद्धान्तानां श्रुतो भेदश्
चतुर्णां भगवन् मुखात् ।
1 इदानीं शोतुमिच्छामि
व्यवस्थाम् अधिकारिणाम् ॥ 21.1 ॥

मूलम्

सिद्धान्तानां श्रुतो भेदश्
चतुर्णां भगवन् मुखात् ।
1 इदानीं शोतुमिच्छामि
व्यवस्थाम् अधिकारिणाम् ॥ 21.1 ॥

श्रीभगवान् :—-

विश्वास-प्रस्तुतिः - 21.2

अहं ते नियमं तेषां
कथयिष्यामि शास्त्रतः ।
जातेषु 2 सर्वविप्रेषु
मन्-मुखात् कमलासन ॥ 21.2 ॥
नानाचरणगोत्रेषु नानाकर्मपरेषु च ।

मूलम् - 21.2

अहं ते नियमं तेषां कथयिष्यामि शास्त्रतः ।
जातेषु 2 सर्वविप्रेषु मन्मुखात्कमलासन ॥ 21.2 ॥
नानाचरणगोत्रेषु नानाकर्मपरेषु च ।

मन्त्र-सिद्धान्तः

औपगायनादीनां निर्देशः

विश्वास-प्रस्तुतिः - 21.4

तेषां मध्ये महाभागा
ऋषयो ऽष्टसहस्रिणः ॥ 21.3 ॥
औपगायन-पूर्वास् ते
नानागोत्रा मुमुक्षवः ।
अधीयानाः कण्वशाखां
तथा माध्यन्दिनाह्वयाम् ॥ 21.4 ॥

मूलम् - 21.4

तेषां मध्ये महाभागा ऋषयोऽष्टसहस्रिणः ॥ 21.3 ॥
औपगायनपूर्वास्ते नानागोत्रा मुमुक्षवः ।
अधीयानाःकण्वशाखां तथा माध्यन्दिनाह्वयाम् ॥ 21.4 ॥

विश्वास-प्रस्तुतिः - 21.5

तेषां बुद्धिस् समुत्पान्ना
मोक्षैक-फल-दायिनी ।
ते सर्वे सह सङ्गम्य 3
ब्रह्माणं प्रोचुरव्ययम् ॥ 21.5 ॥

मूलम् - 21.5

तेषां बुद्धिस्समुत्पान्ना मोक्षैकफलदायिनी ।
ते सर्वे सह सङ्गम्य 3 ब्रह्माणं प्रोचुरव्ययम् ॥ 21.5 ॥

विश्वास-प्रस्तुतिः - 21.6

मोक्ष्यमाणा वयं ब्रह्मन्
मोक्षोपाय-विवित्सया
शरणं त्वाम् इह प्राप्ता
जन्म-मृत्यु-जिगीषवः ॥ 21.6 ॥

मूलम् - 21.6

मोक्ष्यमाणा वयं ब्रह्मन् मोक्षो पायविवित्सया ।
शरणं त्वामिहप्राप्ता जन्ममृत्युजिगीषवः ॥ 21.6 ॥

औपगायन 4 मुख्यांस्तानुपासन्नां श्चतुर्मुख ।

ब्रह्मणा पाञ्चरात्रदीक्षादानम्

विश्वास-प्रस्तुतिः - 21.8

इति ब्रुवाणानाहूय
तदनुग्रहकाम्यया ॥ 21.7 ॥
पञ्चरात्रोक्त5-मार्गेण
मन्त्रसिद्धान्तवर्त्मना ।
दीक्षयित्वा यथान्यायं
चक्रवारिज मण्डले ॥ 21.8 ॥

मूलम् - 21.8

पञ्चरात्रोक्त 5 मार्गेण मन्त्रसिद्धान्तवर्त्मना ।
दीक्षयित्वा यथान्यायं चक्रवारिज मण्डले ॥ 21.8 ॥

विश्वास-प्रस्तुतिः - 21.9

आहुतान् दीक्षितान् ब्रह्मा
कर्तव्यम् इदम् आदिशत् ।
काण्वीं माध्यन्दिनीं शाखां
शाखास्व् अन्तर्हिते उभे ॥ 21.9 ॥

मूलम् - 21.9

आहुतान् दीक्षितान् ब्रह्माकर्तव्यमिदमादिशत् ।
काण्वीं माध्यन्दिनीं शाखां शाखास्वन्तर्हिते उभे ॥ 21.9 ॥

विश्वास-प्रस्तुतिः - 21.10

अधीध्वं मूलशाखे ते
निषेकादींश्च संस्कृतीः ।
ताभ्यामेव त्वनुष्ठध्वं
सोम-यागादि-कर्म च ॥ 21.10 ॥

मूलम् - 21.10

अधीध्वं मूलशाखे ते निषेकादींश्च संस्कृतीः ।
ताभ्यामेव त्वनुष्ठध्वं सोमयागादिकर्मच ॥ 21.10 ॥

विश्वास-प्रस्तुतिः - 21.11

भगवद्ध्यानसहितं
तत्-समाराधनात्मकम् ।
कर्तव्यत्वेन वेदोक्तम्
इत्येवं फलवर्जितम् ॥ 21.11 ॥

मूलम् - 21.11

भगवद्ध्यानसहितं तत्समाराधनात्मकम् ।
कर्तव्यत्वेन वेदोक्तमित्येवं फलवर्जितम् ॥ 21.11 ॥

विश्वास-प्रस्तुतिः - 21.12

कृणीध्वम् इति कुर्वाणैः
कर्म-निश्रेयसं परम् ।
प्राप्यतेऽनेन युष्माभिर्
मन्त्रसिद्धान्त-वर्त्मना ॥ 21.12 ॥

मूलम् - 21.12

कृणीध्व मिति कुर्वाणैः कर्मनिश्रेयसं परम् ।
प्राप्यतेऽनेन युष्माभिर्मन्त्रसिद्धान्तवर्त्मना ॥ 21.12 ॥

भागवतत्व-निष्पत्तिः

विश्वास-प्रस्तुतिः - 21.13

पञ्चकालं यथाशास्त्रं
गृहे वा मन्दिरेऽपि वा ।
भगवत्-पूजनं कार्यम्
अद्य-प्रभृति नान्यथा ॥ 21.13 ॥

मूलम् - 21.13

पञ्चकालं यथाशास्त्रं गृहे वा मन्दिरेऽपि वा ।
भगवत्पूजनं कार्यमद्यप्रभृति नान्यथा ॥ 21.13 ॥

विश्वास-प्रस्तुतिः - 21.14

यूयं भागवतास् तेन
जाता भगवद्-अर्चनात् ।
भगवद्-भक्ति-करणात् 6
वंश-जाताश् चतुर्-मुख ॥ 21.14 ॥

मूलम् - 21.14

यूयं भागवतास्तेन जाता भगवदर्चनात् ।
भगवद्भक्तिकरणात् 6 वंशजाताश्चतुर्मुख ॥ 21.14 ॥

विश्वास-प्रस्तुतिः - 21.15

नाम्ना भागवतास्सन्तो
दीक्षयित्वा यथाविधि ।
यथोक्तं कर्म कुर्वाणाः
प्राप्नुवन्ति परं पदम् ॥ 21.15 ॥

मूलम् - 21.15

नाम्ना भागवतास्सन्तो दीक्षयित्वा यथाविधि ।
यथोक्तं कर्म कुर्वाणाः प्राप्नुवन्ति परं पदम् ॥ 21.15 ॥

विश्वास-प्रस्तुतिः - 21.16

शाखान्तरेषु ये मन्त्राः
पापनाः?+(=??)+++ परमर्षयः ।
तान् अप्यधीध्वं तैर् मन्त्रैर्
अर्चयध्वम् अधोक्षजम् ॥ 21.16 ॥

मूलम् - 21.16

शाखान्तरेषु ये मन्त्राः पापनाः परमर्षयः ।
तानप्यधीध्वं तैर्मन्त्रै रर्चयध्वमधोक्षजम् ॥ 21.16 ॥

आत्मार्थयजनस्य मुख्यता, परार्थयजनप्रदेशाः

विश्वास-प्रस्तुतिः

आत्मर्थ-यजनं विष्णोः
कल्पते ऽभ्युदयावहम् 7
तथा परार्थयजनं
ग्रामे वा पत्तने पुरे ॥ 21.17 ॥

मूलम्

आत्मर्थयजनं विष्णोः कल्प तेऽभ्युद 7 यावहम् ।
तथा परार्थयजनं ग्रामे वा पत्तने पुरे ॥ 21.17 ॥

विश्वास-प्रस्तुतिः - 21.18

स्वगृहे वा स्वतन्त्रे वा
कार्यं भागवतैर् नरैः ।
आत्मनश्च परेषां च
तन्निश्रेयस-कृद् भवेत् ॥ 21.18 ॥

मूलम् - 21.18

स्वगृहे वा स्वतन्त्रे वा कार्यं भागवतैर्नरैः ।
आत्मनश्च परेषां च तन्नि श्रेयसकृद्भवेत् ॥ 21.18 ॥

अभागवतवंश्यानाम्परार्थयजननिषेधः

विश्वास-प्रस्तुतिः - 21.19

अभागवत-वंश्यैस् तु 8
दीक्षितैरपि मानवैः ।
आत्मार्थमेव यजनं
न परार्थं कदाचन ॥ 21.19 ॥+++(5)+++
परार्थयजनं तेषां
गर्हितं विप्रसत्तमाः ।

मूलम् - 21.19

अभागवतवंश्यैस्तु 8 दीक्षितैरपि मानवैः ।
आत्मार्थमेव यजनं न परार्थं कदाचन ॥ 21.19 ॥
परार्थयजनं तेषां गर्हितं विप्रसत्तमाः ।

दीक्षया कुलीनत्वम्

विश्वास-प्रस्तुतिः

अभागवत-वंश्योपि
दीक्षितश् शास्त्रावर्त्मना ॥ 21.20 ॥
परार्थयजनं कुर्याद्
अपि भागवताज्ञया ।
भगवान् एव गोविन्दस्
साक्षाद् भागवतस् स्म्सृतः ॥ 21.21 ॥

मूलम् - 21.21

अभागवतवंश्योपि दीक्षितश्शास्त्रावर्त्मना ॥ 21.20 ॥ परार्थयजनं कुर्यादपि भागवताज्ञया ।
भगवानेव गोविन्दस्साक्षाद्भागवतस्स्म्सृतः ॥ 21.21 ॥

विश्वास-प्रस्तुतिः - 21.22

तं दृष्ट्वा विद्यया हीनम्
अपि दुष्कृत-कारिणम् ।
निर्गुणं गुणिनं वापि
प्रत्युत्तिष्ठेत् कृताञ्जलिः ॥ 21.22 ॥

मूलम् - 21.22

तं दृष्ट्वा विद्यया हीनमपि दुष्कृतकारिणम् ।
निर्गुणं गुणिनं वापि प्रत्युत्तिष्ठेत्कृताञ्जलिः ॥ 21.22 ॥

विश्वास-प्रस्तुतिः - 21.23

तान् अयाचत विश्वात्मा
महर्षिर् अमितौजसः ।
यष्माभिः क्षितिलोकेषु
कार्यं भगवद्-अर्चनम् ॥ 21.23 ॥

मूलम् - 21.23

तानयाचत विश्वात्मा महर्षिरमितौजसः ।
यष्माभिः क्षितिलोकेषु कार्यं भगवदर्चनम् ॥ 21.23 ॥

विश्वास-प्रस्तुतिः - 21.24

स्वार्थं परार्थम् अथ वा
कर्तव्यं मम शासनात् ।
इति ब्रुवाणिस् तान् ब्रह्मा
तत्रैवान्तर् अधीयत ॥ 21.24 ॥

मूलम् - 21.24

स्वार्थं परार्थमथ वा कर्तव्यं मम शासनात् ।
इति ब्रुवाणिस्तान् ब्रह्मा तत्रैवान्तरधीयत ॥ 21.24 ॥

ध्येयवस्तुनिर्देशः मूर्ति लक्षणं च

विश्वास-प्रस्तुतिः - 21.25

ध्येयं 9 वस्तु प्रवक्ष्यामि
मन्त्र-सिद्धान्तिनां नृणाम् ।
द्विभुजं चेद् वासुदेवं
रेखाभिस् तलयोः करे ॥ 21.25 ॥

मूलम् - 21.25

ध्येयं 9 वस्तुप्रवक्ष्यामि मन्त्रसिद्धान्तिनां नृणाम् ।
द्विभुजं चेद्वासुदेवं रेखाभिस्तलयोः करे ॥ 21.25 ॥

विश्वास-प्रस्तुतिः - 21.26

लाञ्चितं शङ्खचक्राद्यैर्ध्यायेत्तद्द्विगुणैः पुनः ।
द्वाभ्यां कराभ्यां बिभ्राणं शङ्खचक्रे गदाम्बुजे ॥ 21.26 ॥

मूलम् - 21.26

लाञ्चितं शङ्खचक्राद्यैर्ध्यायेत्तद्द्विगुणैः पुनः ।
द्वाभ्यां कराभ्यां बिभ्राणं शङ्खचक्रे गदाम्बुजे ॥ 21.26 ॥

विश्वास-प्रस्तुतिः - 21.27

मुख्याभ्या मथवाभीति दानं कट्यवलम्बनम् ।
इतोऽधिके भुजगमे बह्वायुधधरं हरिम् ॥ 21.27 ॥

मूलम् - 21.27

मुख्याभ्या मथवाभीति दानं कट्यवलम्बनम् ।
इतोऽधिके भुजगमे बह्वायुधधरं हरिम् ॥ 21.27 ॥

विश्वास-प्रस्तुतिः - 21.28

वर्णेन श्यामसुभगमथवा 10 धवलद्युतिम् ।
शैलादिवस्तुभिः क्लृप्तं बेरं चादिपदेस्थितम् ॥ 21.28 ॥

मूलम् - 21.28

वर्णेन श्यामसुभगमथवा 10 धवलद्युतिम् ।
शैलादिवस्तुभिः क्लृप्तं बेरं चादिपदेस्थितम् ॥ 21.28 ॥

विश्वास-प्रस्तुतिः - 21.29

आसीनं वा शयानां वा गरुडारूढमेव वा ।
ध्यायेयुरर्चयेयुश्च त्रयूमन्त्रैस्त्रयीविदः ॥ 21.29 ॥

मूलम् - 21.29

आसीनं वा शयानां वा गरुडारूढमेव वा ।
ध्यायेयुरर्चयेयुश्च त्रयूमन्त्रैस्त्रयीविदः ॥ 21.29 ॥

आगमसिद्धान्तः

ध्यानप्रकारः

विश्वास-प्रस्तुतिः

11ध्यायेद् वागम-सिद्धान्त-
स्थिते लम्ब-भुज-द्वयम् ।
वासुदेवादयस् सर्वे
निराकल्पा निरायुधाः ॥ 21.30 ॥

मूलम्

11ध्यायेत्वागम-सिद्धान्तस्थिते लम्बभुजद्वयम् ।
वासुदेवादयस्सर्वे निराकल्पा निरायुधाः ॥ 21.30 ॥

विश्वास-प्रस्तुतिः - 21.31

सितास् सिताम्बर-धराश्
चत्वारस् सम-दिङ्-मुखाः ।
एक-विष्टर-निष्ठास् ते
शयनासन वर्जिताः ॥ 21.31 ॥

मूलम् - 21.31

सितास्सिताम्बरधराश्च त्वारस्समदिङ्मुखाः ।
एकविष्टरनिष्ठास्ते शयनासन वर्जिताः ॥ 21.31 ॥

विश्वास-प्रस्तुतिः - 21.32

देवीभ्यां परिवारैश्च
हीना योगासनेन च ।
सम-प्रधान-षाड्गुण्य
भाजो मन्त्रैर् बलादिभिः ॥ 21.32 ॥

मूलम् - 21.32

देवीभ्यां परिवारैश्च हीना योगासनेन च ।
समप्रधानषाड्गुण्य भाजो मन्त्रैर्बलादिभिः ॥ 21.32 ॥

बल्यादिदानरहितपूजा

विश्वास-प्रस्तुतिः

12 प्रभवाख्य-क्रमात् पूज्या
नित्यं कमल-सम्भव ।
बलिप्रदानरहिता
नित्योत्सव-विवर्जिताः ॥ 21.33 ॥
13 पवित्रारोपण-स्वाप-
शयनोत्थान वर्जिताः ।

मूलम्

12 प्रभवाख्यक्रमात्पूज्या नित्यं कमलसम्भव ।
बलिप्रदानरहिता नित्योत्सवविवर्जिताः ॥ 21.33 ॥
13 पवित्रारोपणस्वाप शयनोत्थान वर्जिताः ।

कर्मसन्यासिनां स्वरूपम्

विश्वास-प्रस्तुतिः - 21.35

कर्तव्यत्वेन भवने
प्रासादे वा चतुर्मुख ॥ 21.34 ॥
काल्ये मध्यन्दिने ऽच्छिद्र-
पञ्च कालपरायणैः ।
निराशैः कर्म-सन्न्यास-
कारिभिर् देव-पूजनम् ॥ 21.35 ॥

मूलम् - 21.35

कर्तव्यत्वेन भवने प्रासादे वा चतुर्मुख ॥ 21.34 ॥
काल्ये मध्यन्दिनेऽच्छिद्रपञ्च कालपरायणैः ।
निराशैः कर्मसन्यासकारिभिर्देवपूजनम् ॥ 21.35 ॥

विश्वास-प्रस्तुतिः - 21.36

बलादिमन्त्रैर् अच्छिद्र-
पञ्चकाल-परायणैः ।
एकाध्वना निषेकादि 14
संस्कारैश्च बलादिभिः ॥ 21.36 ॥

मूलम् - 21.36

बलादिमन्त्रैरच्छिद्र पञ्चकालपरायणैः ।
एकाध्वना निषेकादि 14 संस्कारैश्च बलादिभिः ॥ 21.36 ॥

विश्वास-प्रस्तुतिः

चतुर्णां ब्राह्मणादीनां
विहितं नयकर्म च ।
15 द्वादशाक्षर-विद्यैव
तेषां विद्या न च त्रयी ॥ 21.37 ॥

मूलम्

चतुर्णां ब्राह्मणादीनां विहितं नयकर्मच ।
15 द्वादशाक्षरविद्यैव तेषां विद्या न च त्रयी ॥ 21.37 ॥

विश्वास-प्रस्तुतिः - 21.38

न सावित्री न मन्त्रो ऽन्यस्
स्वाध्याय-जप16-कर्मणोः ।
बीज-शक्त्य्-अङ्ग-रहितम्
ऋषिच्-छन्दो-विवर्जितम् ॥ 21.38 ॥

मूलम् - 21.38

न सावित्री न मन्त्रोन्यस्स्वाध्यायजप 16 कर्मणोः ।
बीजशक्त्यङ्गरहितमृषिच्छन्दोविवर्जितम् ॥ 21.38 ॥

वर्णचतुष्टयसञ्ज्ञा

विश्वास-प्रस्तुतिः

स्वरूपम् एव मन्त्रस्य
जपस्वाध्याय-कर्मणोः ।
चतुर्णाम् अपि वर्णानां
सञ्ज्ञास् तेषां क्रमोदिताः ॥ 21.39 ॥

मूलम्

स्वरूपमेव मन्त्रस्य जपस्वाध्यायकर्मणोः ।
चतुर्णामपि वर्णानां सञ्ज्ञास्तेषां क्रमोदिताः ॥ 21.39 ॥

विश्वास-प्रस्तुतिः

17 भागो हि द्विजमुख्यस्य
सञ्ज्ञा वा विप्रवन् नृपे ।
वैश्यस्य वर्धिनी सञ्ज्ञा 18
मौद्गली वृषलस्य च ॥ 21.40 ॥

मूलम्

17 भागो हि द्विजमुख्यस्य सञ्ज्ञा वा विप्रवन्नृपे ।
वैश्यस्य वर्धिनी सञ्ज्ञा 18 मौद्गली वृषलस्य च ॥ 21.40 ॥

विश्वास-प्रस्तुतिः - 21.41

सर्वे समानाश् चत्वारो
गोत्र-प्रवर-वर्जिताः ।
उत्कर्षो नापकर्षश्च
जातितस् तेषु सम्मतः ॥ 21.41 ॥

मूलम् - 21.41

सर्वे समानाश्चत्वारो गोत्रप्रवरवर्जिताः ।
उत्कर्षो नापकर्षश्च जातितस्तेषु सम्मतः ॥ 21.41 ॥

विश्वास-टिप्पनी

“सर्वे समानाश् चत्वारो गोत्रप्रवरवर्जिताः।”
इत्य् आगम-सिद्धान्तानुसारिषु वेदबाह्येषु मुमुक्षुष्व् एवोक्तम्,
न साधारण-पाञ्चरात्रिकेषु। वैदिको मन्त्र-सिद्धान्त एव प्रथमः कल्पः।
तद्-अशक्ताव् एव तद्-बाह्येभ्य आगम-सिद्धान्तश् चोदितः।

विश्वास-प्रस्तुतिः - 21.42

फलेषु निस्पृहास् सर्वे
द्वादशाक्षर-चिन्तकाः ।
मोक्षैक-निश्चयाश् 19 शाव-
सूतकाशौच-वर्जिताः ॥ 21.42 ॥

मूलम् - 21.42

फलेषु निस्पृहास्सर्वे द्वादशाक्षरचिन्तकाः ।
मोक्षैकनिश्चया 19 श्शावसूतकाशौ चवर्जिताः ॥ 21.42 ॥

कर्षणादिष्व् अनधिकारः

विश्वास-प्रस्तुतिः - 21.43

नाधिकारो स्ति सर्वत्र
+++(आलय-निर्माणे)+++ कर्षणादिषु कर्मसु ।
मोहात्तानि प्रयुञ्जानाः
पतन्त्य् अकृत-बुद्धयः ॥ 21.43 ॥

मूलम् - 21.43

नाधिकारो स्ति सर्वत्र कर्षणादिषु कर्मसु ।
मोहात्तानि प्रयुञ्जानाः पतन्त्यकृत बुद्धयः ॥ 21.43 ॥

विश्वास-प्रस्तुतिः - 21.44

राज-राष्ट्र-मनुष्याणां
यजमानस्य सद्मनः ।
क्षयो भवति तेनैते
न कुर्युः कर्षणादिकम् ॥ 21.44 ॥

मूलम् - 21.44

राजराष्ट्रमनुष्याणां यजमानस्य सद्मनः ।
क्षयो भवति तेनै ते न कुर्युः कर्षणादिकम् ॥ 21.44 ॥

विश्वास-प्रस्तुतिः - 21.45

याचेत मन्त्रसिद्धान्ते
दीक्षितं विप्रसत्तमम् ।
पूजार्थमात्मनो बिम्बं
प्रतिष्ठा-करणादिषु ॥ 21.45 ॥

मूलम् - 21.45

याचेत मन्त्रसिद्धान्ते दीक्षितं विप्रसत्तमम् ।
पूजार्थमात्मनो बिम्ब प्रतिष्ठाकरणादिषु ॥ 21.45 ॥

विश्वास-प्रस्तुतिः - 21.46

सोपि बीजादिरहितं
द्वादशाक्षरविद्यया ।
कुर्यात् प्रतिष्ठाम् आचार्यः
पूजार्थं मन्त्रवित्तमः ॥ 21.46 ॥

मूलम् - 21.46

सोपि बीजादिरहितं द्वादशा क्षरविद्यया ।
कुर्यात्प्रतिष्ठामाचार्यः पूजार्थं मन्त्रवित्तमः ॥ 21.46 ॥

विश्वास-प्रस्तुतिः

एकायन20-स्तुतां मूर्तिं
प्रतिगृह्य समर्चयेत् ।
21 अर्चनं च चतुस्स्थ्साने
वारि-स्रग्-बिम्ब-वह्निषु ॥ 21.47 ॥

मूलम्

एकायन 20 स्तुतां मूर्तिं प्रतिगृह्य समर्चयेत् ।
21 अर्चनं च चतुस्थ्साने वारिस्रग्बिम्बवह्निषु ॥ 21.47 ॥

मौद्गलाद्येकायनानां दाहनिषेधः

विश्वास-प्रस्तुतिः

नाधिकारो ऽस्ति मन्त्रेषु
बीज-पिण्ड-पदादिषु ।
चतुर्णां मौद्गलादीनां
विदुषां द्वादशाक्षरम् ॥ 21.48 ॥

मूलम्

नाधिकारो स्तिमन्त्रेषु बीजषिण्डपदादिषु ।
चतुर्णां मौद्गलादीनां विदुषां द्वादशाक्षरम् ॥ 21.48 ॥

विश्वास-प्रस्तुतिः - 21.49

प्राणानाम् अपि निर्याणे
न स्पृशेन् न दहेच् छवम् ।
पुत्रपौत्रादि-रहितं
सन्त्यजेत् काष्ठवद् बहिः ॥ 21.49 ॥

मूलम् - 21.49

प्राणानामपि निर्याणे नस्पृशेन्नदहेच्छवम् ।
पुत्रपौत्रादिरहितं सन्त्यजेत्काष्ठवद्बहिः ॥ 21.49 ॥

मूर्त्यन्तरार्चन-निषेधः

विश्वास-प्रस्तुतिः - 21.50

मूर्त्यन्तरार्चनं तेषां
प्रत्यवायाय कल्पते ।
सिद्धान्तान्तर-मार्गेण
स्थापितं बिम्बम् आलये ॥ 21.50 ॥

मूलम् - 21.50

मूर्त्यन्तरार्चनं तेषां प्रत्यवायाय कल्पते ।
सिद्धान्तान्तरमार्गेण स्थापितं बिम्बमालये ॥ 21.50 ॥

अज्ञानादथ वा मोहादेकायनविधानतः ।
22 अर्चयन्नापदं सर्वामाप्नोतीह परत्र च ॥ 21.51 ॥

विश्वास-प्रस्तुतिः - 21.52

प्रदक्षिण-प्रणामादि
राद्धान्ते ऽन्यत्र केवलम् ।
विहितं नार्चनं कार्यं
राजराष्ट्रक्षयावहम् ॥ 21.52 ॥

मूलम् - 21.52

प्रदक्षिणप्रणामादि राद्धान्तेऽन्यत्र केवलम् ।
विहितं नार्चनं कार्यं राजराष्ट्रक्षयावहम् ॥ 21.52 ॥

विश्वास-प्रस्तुतिः - 21.53

न दीक्षा नैव देहस्य
दहनादि-विशोधनम् ।
नाङ्ग-न्यासादि सकलं
नेष्टम् एकायनाध्वनि ॥ 21.53 ॥
एकायने प्रविष्टानां
त्रैविद्यानामयं क्रमः ।

मूलम् - 21.53

न दीक्षा नैव देहस्य दहनादिविशोधनम् ।
नाङ्गन्यासादि सकलं नेष्टमेकायनाध्वनि ॥ 21.53 ॥
एकायने प्रविष्टानां त्रैविद्यानामयं क्रमः ।

तन्त्रसिद्धान्त-मार्गनिरूपणम्

विश्वास-प्रस्तुतिः - 21.55

तन्त्रसिद्धान्तमार्गे तु
सम्प्रत्य् आचार उच्यते ॥ 21.54 ॥ चतुर्णाम् अपि वर्णानाम्
इतरेषां च 23 तद्भुवाम् ।
दीक्षा-समैव सर्वेषाम्
आचारस् तन्त्र-वर्त्मना ॥ 21.55 ॥

मूलम् - 21.55

तन्त्रसिद्धान्तमार्गेतु सम्प्रत्याचार उच्यते ॥ 21.54 ॥ चतुर्णामपि वर्णानामितरेषां च 23 तद्भुवाम् ।
दीक्षासमैव सर्वेषा माचारस्तन्त्रवर्त्मना ॥ 21.55 ॥

विश्वास-प्रस्तुतिः - 21.56

निषेकादिश् च संस्कारस्
तेषां तन्त्रोक्त-वर्त्मना ।
त्यक्त्वा त्रयीं तन्त्रम् एव
प्रपद्य शरणं स्थिताः ॥ 21.56 ॥

मूलम् - 21.56

निषेकादिश्च संस्कारस्तेषां तन्त्रोक्तवर्त्मना ।
त्यक्त्वा त्रयीं तन्त्रमेव प्रपद्य शरणं स्थिताः ॥ 21.56 ॥

विश्वास-प्रस्तुतिः

सान्तरालम् अनुष्ठानं
पञ्चकालोदितं तथा ।
24 यतस् तन्त्रान्तरभुवां
नृणां कमलसम्भव ॥ 21.57 ॥

मूलम्

सान्तरालमनुष्ठानं पञ्चकालोदितं तथा ।
24 यतस्तन्त्रान्तरभुवां नृणां कमलसम्भव ॥ 21.57 ॥

विश्वास-प्रस्तुतिः - 21.58

तत्त्वसंहारजनने
न्यासश्च कर-देहयोः ।
योगविष्टर-क्लृप्तिश्च 25
नव-पद्म-प्रकल्पनम् ॥ 21.58 ॥

मूलम् - 21.58

तत्वसंहारजनने न्यासश्च करदेहयोः ।
योगविष्टरक्लृप्तिश्च 25 नवपद्मप्रकल्पनम् ॥ 21.58 ॥

विश्वास-प्रस्तुतिः

26 मूर्तयो नवपद्मेषु
तास्व् अधिष्ठान-मध्यमे ।
ताम् ईक्षन्ते दिशो वापि
मूर्तयोऽष्टौ यथायथम् ॥ 21.59 ॥

मूलम्

26 मूर्तयो नवपद्मेषु तास्वधिष्ठानमध्यमे ।
तामीक्षन्तेदिशो वापि मूर्तयोऽष्टौ यथायथम् ॥ 21.59 ॥

विश्वास-प्रस्तुतिः

[^27] यां दिशं मध्यमा मूर्तिर्
ईक्षते सैश्वरी मता ।
यां च वा ऽऽलोक्य पुरुषस्
समाराधन-कर्मणि ॥ 21.60 ॥

मूलम्

[^27] यां दिशं मध्यमा मूर्तिरीक्षते सैश्वरीमता ।
यां च वा ऽऽ लोक्य पुरुषस्समाराधनकर्मणि ॥ 21.60 ॥

विश्वास-प्रस्तुतिः - 21.61

आस्तेऽसौ पौरुषी ज्ञेया
प्राजापत्याच वासवी ।
योग-विष्टर-पादानां
धर्मादीनां प्रकल्पने ॥ 21.61 ॥

मूलम् - 21.61

आस्तेऽसौ पौरुषी ज्ञेया प्राजापत्याच वासवी ।
योगविष्टरपादानां धर्मादीनां प्रकल्पने ॥ 21.61 ॥

विश्वास-प्रस्तुतिः

27 अथान्तः परिवाराणां
सुपर्णीतनयस्य च ।
बलिप्रदानपीठस्य
गोपुरस्य चतुर्मुख ॥ 21.62 ॥

मूलम्

27 अथान्तः परिवाराणां सुपर्णीतनयस्य च ।
बलिप्रदानपीठस्य गोपुरस्य चतुर्मुख ॥ 21.62 ॥

विश्वास-प्रस्तुतिः - 21.63

बाह्यनामपि चैतेषां
प्राची स्याद् ऐश्वरी हरित् ।
बाह्यानां परिवाराणाम्
अन्येषां परिकल्पने ॥ 21.63 ॥

मूलम् - 21.63

बाह्यनामपि चै तेषां प्राची स्यादैश्वरी हरित् ।
बाह्यानां परिवाराणामन्येषां परिकल्पने ॥ 21.63 ॥

विश्वास-प्रस्तुतिः - 21.64

प्राजापत्यैव दिक् प्राची
दिक्-समूहे तु पौरुषी ।
प्राच्यादिकां समाश्रित्य
परिवार-प्रकल्पनम् ॥ 21.64 ॥

मूलम् - 21.64

प्राजापत्यैव दिक्प्राची दिक्समूहे तु पौरुषी ।
प्राच्यादिकां समाश्रित्य परिवारप्रकल्पनम् ॥ 21.64 ॥

विश्वास-प्रस्तुतिः - 21.65

द्विषट्काक्षर-पूर्वाणां
बीज-शक्त्य्-अङ्ग-संयुतम् ।
ऋषिच्छन्दो विहीनश्च
मन्त्राणां जप इष्यते ॥ 21.65 ॥

मूलम् - 21.65

द्विषट्काक्षरपूर्वाणां बीजशक्त्यङ्गसंयुतम् ।
ऋषिच्छन्दो विहीनश्च मन्त्राणां जप इष्यते ॥ 21.65 ॥

विश्वास-प्रस्तुतिः - 21.66

वर्णानाम् इतरेषां च
समम् आराधन-क्रमः ।
सवानाम् अपि मूर्तीनां
मूर्त्य्-अन्तर-गणस्य च ॥ 21.66 ॥

मूलम् - 21.66

वर्णानामितरेषां च सममाराधनक्रमः ।
सवानामपि मूर्तीनां मूर्त्यन्तरगणस्य च ॥ 21.66 ॥

विश्वास-प्रस्तुतिः - 21.67

प्रादुर्भाव-गणस्यापि वर्णाऽस्त्री-व्यक्तयो मताः ।
न ध्वजारोहणं नापि
मासाद्य्-उत्सव-सम्भनः?? ॥ 21.67 ॥

मूलम् - 21.67

प्रादुर्भावगणस्यापि वर्णास्त्रीव्यक्तयो मताः ।
न ध्वजारोहणं नापि मासाद्युत्सवसम्भनः ॥ 21.67 ॥

विश्वास-प्रस्तुतिः - 21.68

केवलं शयनोत्थाने
बलिहोमादिवर्जितः ।
प्रादक्षिण्येन गमनं
ग्रामादेः कौतुकोत्सवः ॥ 21.68 ॥

मूलम् - 21.68

केवलं शयनोत्थाने बलिहोमादिवर्जितः ।
प्रादक्षिण्येन गमनं ग्रामादेः कौतुकोत्सवः ॥ 21.68 ॥

विश्वास-प्रस्तुतिः

नैमित्तिकं चतुस्थ्साने स्वातन्त्र्येणार्चनं हरेः ।
चक्राब्जमण्डले कुम्भे प्रतिमायां च पावके ॥ 21.69 ॥

मूलम्

नैमित्तिकं चतुस्थ्साने स्वातन्त्र्येणार्चनं हरेः ।
चक्राब्जमण्डले कुम्भे प्रतिमायां च पावके ॥ 21.69 ॥

तन्त्रान्तरसिद्धान्ताचारव्यवस्था

विश्वास-प्रस्तुतिः - 21.70

तन्त्रान्तरे च सिद्धान्ते
सम्प्रत्य् आचार उच्यते ।
त्रिवक्त्रं वा चतुर्वक्त्रम्
अधिकाननम् एव वा ॥ 21.70 ॥

मूलम् - 21.70

तन्त्रान्तरे च सिद्धान्ते सम्प्रत्याचार उच्यते ।
त्रिवक्त्रं वा चतुर्वक्त्रमधिकाननमेव वा ॥ 21.70 ॥

विश्वास-प्रस्तुतिः - 21.71

योगपीठे स्थितं देवं
परिवारैश्च सेवितम् ।
पिण्डमन्त्रैः कलामन्त्रैर्
भीज-शक्त्य्-अङ्गसंयुतैः ॥ 21.71 ॥

मूलम् - 21.71

योगपीठेस्थितं देवं परिवारैश्च सेवितम् ।
पिण्डमन्त्रैः कलामन्त्रेर्भीजशक्त्यङ्गसंयुतैः ॥ 21.71 ॥

विश्वास-प्रस्तुतिः - 21.72

ऋषिच्छन्दोविहीनश्च
चत्वारो ब्राह्मणादयः ।
समर्चयेयुस् सर्वेषां
निषेकाद्य्-अखिल-क्रियाः ॥ 21.72 ॥
तन्त्रान्तरोक्त-मार्गेण
कार्या 28 त्रैय्य्-आत्मना ऽपि च ।

मूलम् - 21.72

ऋषिच्छन्दोविहीनश्च चत्वारो ब्राह्मणादयः ।
समर्चयेयुस्सर्वेषां निषेकाद्यखिलक्रियाः ॥ 21.72 ॥

सिद्धान्तसाङ्कर्यनिषेधः

विश्वास-प्रस्तुतिः - 21.74

सिद्धान्तनां चतुर्णां तु
साङ्कर्यं व्यवसावहम् ॥ 21.73 ॥ सिद्धान्तेषु चतुर्ष्वेकं
पूवैर् नृभिर् अनुष्ठितम् ।
त्यक्त्वा समाश्रयेद् अन्यं
नरो भवति किल्बिषी ॥ 21.74 ॥

मूलम् - 21.74

सिद्धान्तेषु चतुर्ष्वेकं पूवैन् र्नृभिरनुष्ठितम् ।
त्यक्त्वा समाश्रयेदन्यं नरो भवति किल्बिषी ॥ 21.74 ॥

विश्वास-प्रस्तुतिः - 21.75

तस्माज् जन्म-प्रभृत्य् एक-
राद्धान्तनियतो भवेत् ।
अन्यथा कुलम् आत्मानं
सर्वं नाशयति स्वयम् ॥ 21.75 ॥

मूलम् - 21.75

तस्माज्जन्मप्रभृत्येकराद्धान्तनियतो भवेत् ।
अन्यथा कुलमात्मानं सर्वं नाशयति स्वयम् ॥ 21.75 ॥

विश्वास-प्रस्तुतिः - 21.76

मन्त्रमण्डलकुण्डादि-
क्रिया-मुद्रोपचारकैः ।
योगं नयति यो मोहत्
स्वसिद्धान्तोक्त-वर्त्मना ॥ 21.76 ॥

मूलम् - 21.76

मन्त्रमण्डलकुण्डादि क्रियामुद्रोपचारकैः ।
योगं नयति यो मोहत्स्वसिद्धान्तोक्तवर्त्मना ॥ 21.76 ॥

विश्वास-प्रस्तुतिः

सोपि स्वकुलजान् सर्वान्
परमात्मानम् अञ्जसा ।
नयेन् निरयम् अत्युग्रं
पुरुषान् पुरुषाधमः

मूलम्

सोपि स्वकुलजान् सर्वान् परमात्मानमञ्जसा ।
नयेन्निरयमत्युग्रं पुरुषान् पुरुषाधमः


  1. साम्प्रतम्. ↩︎ ↩︎

  2. विप्रजातेषु सर्वेषु. ↩︎ ↩︎

  3. ब्राह्मणाः. ↩︎ ↩︎

  4. मुख्यानां तापसानाम्. ↩︎

  5. मार्गेषु मन्त्रसिद्धान्तमार्गतः. ↩︎ ↩︎

  6. कारणाद्वंशजाश्च नः. वंशजानां महात्मनाम् । ते च भागवता स्सर्वे दीक्षयित्वा यथाविधि । इति क्वचित्पाठः. ↩︎ ↩︎

  7. याय च-याय हि. ↩︎ ↩︎

  8. दीक्षितैश्शास्त्रवर्त्मना. ↩︎ ↩︎

  9. यत्तत्. ↩︎ ↩︎

  10. सरलद्युतिम्. ↩︎ ↩︎

  11. ध्येयस्त्वागम—द्वयः. ↩︎ ↩︎

  12. प्रभवात्तत्क्रमात्. प्रभवप्रक्रमात्. ↩︎ ↩︎

  13. इतमर्धं क्वचिन्नास्ति. ↩︎ ↩︎

  14. संस्काराश्च. ↩︎ ↩︎

  15. द्वादशाक्षरमेतेषां विज्ञानं च त्रय् न च. ↩︎ ↩︎

  16. कर्मणे. ↩︎ ↩︎

  17. विशेषोद्विजमुख्यस्य सञ्ज्ञा वा विषुसन्नृपः. ↩︎ ↩︎

  18. लाङ्गली. ↩︎ ↩︎

  19. स्सर्वे मूतकाशौच. ↩︎ ↩︎

  20. श्चतुर्मूर्तिं. ↩︎ ↩︎

  21. अभ्यर्चनं. ↩︎ ↩︎

  22. अर्चयन्तं पदं सर्व. ↩︎

  23. तद्भवेत्. ↩︎ ↩︎

  24. मन्त्र. ↩︎ ↩︎

  25. नवकल्प. ↩︎ ↩︎

  26. मूर्तयः । इत्यादि. द्विषत्काक्षर, इत्यन्तं क्वचिन्न. ↩︎ ↩︎

  27. तथान्तः. ↩︎ ↩︎

  28. स्तुल्यात्मना-त्रय्यन्तनर्त्मना. ↩︎