२०

.

उत्सवप्रायश्चित्तविधिः

नित्यनैमित्तिकसम्पाते कर्तव्यक्रमः

नित्यं नैमित्तिकं काम्यं निपतेद्युगपद्यदि ।
श्रीभगवान् :—

कृत्वानैमित्तिकं नित्यमाचार्य स्तदनन्तरम् ॥ 19.1 ॥

गृहार्चास्नपने निमित्तानुसारेण स्थलम्

गृहार्चास्नपने प्राप्ते विस्तारे सति वेश्मनि ।
तत्रैव स्नपनं कार्यं सङ्कटे तु बहिर्भवेत् ॥ 19.2 ॥

अलयबिम्बस्य बहिस्स्नपननिषेधः

पर्वतादौ शुचौ देशे प्रपानिर्माणपूर्वकम् ।
स्नपनं देवदेवस्य कार्यं भागवतेन तत् ॥ 19.3 ॥

आलये 1 स्थापितं बिम्बं न कदाचिच्चतुर्मुख ।
निर्गमय्य बहिस्स्नाप्य मन्तरेण तु सर्वदा ॥ 19.4 ॥

तीर्थावभृथादावनुज्ञा

तीर्थावधृथवेळायां सद्यादीनां तटे भवेत् ।
अन्यथा चेच्छान्तिहोमं कुर्यात्सर्वसमृद्धिदम् ॥ 19.5 ॥

स्नपनाङ्गवैकल्ये प्रायश्चित्तम्

अङ्कुरार्पणहीने च स्नपने 2 कौतुकेऽन्विते ।
अधिवासविहीने च कलशैस्स्नपने सति ॥ 19.6 ॥

शान्तिहोमो विधातव्य स्सर्वदोषापनुत्तये ।
सङ्कल्पितस्नानहानौ द्विगुणं स्नपनं भवेत् ॥ 19.7 ॥

अकृते राजराष्ट्रस्य भवेद्विभवसङ्क्षयः ।
यजमानस्य धाम्नश्च प्रजानां च धनक्षयः ॥ 19.8 ॥

स्नपनकालविपर्यये

अकाले तु कृते स्नाने विषुवादौ यथोदिते ।
शान्तिः कार्ययने चैव दक्षिणे प्रागुपक्रमः ॥ 19.9 ॥

उत्तरे चैव पाश्चात्ये 3 उत्तमं नैव दूषणम् ।
चैत्रे च विषुवे तद्वत्क्रमादाश्वयुजेऽपि च ॥ 19.10 ॥

स्नपनकलशानां विकारे

स्थापितानां च कुम्भानां भेदने 4 पतने तथा ।
कालादिदोषदुष्टे च क्रिमिकेशादिदूषिते ॥ 19.11 ॥

लङ्घितेऽशुचिसंस्पृष्टे 5 वायसाद्यैश्छ दूषिते ।
गर्हिते श्वापदाद्यैश्च स्पृष्टे चाशुचिभिस्तथा ॥ 19.12 ॥

पाषण्डैः प्रतिलोमैश्च तथोदक्यादिदूषिते ।
कलशं तं तमुद्धृत्य स्थापयित्वा परान् पुनः ॥ 19.13 ॥

तद्दैवत्यान् जपेन्मन्त्रा नष्टोत्तरशतावरम् ।
स्नपनं यदि तैःकुर्याच्छान्तिहोमं समाचरेत् ॥ 19.14 ॥

अक्रमकलशाभिषेके

अक्रमेण समुद्धृत्य स्नपने विहिते सति ।
जपःपञ्चोपनिषदां कर्तव्यस्तत्समाचरेत् ॥ 19.15 ॥

देवतामन्त्रादिव्यत्यये

देवतामन्त्रभूभागद्रव्याणां व्यत्यये सति ।
पूर्ववन्मन्त्रजापस्स्यात्प्रतिद्रव्यमनर्चिते ॥ 19.16 ॥

अर्घ्यादिभिर्जपस्तद्वन्महिषाजोष्ट्रसम्भवैः ।
क्षीरादिभिस्तथा द्रव्यै स्स्नपने स्नापयेत्पुनः ॥ 19.17 ॥

समद्भिर्मूलमन्त्रेण जुहुयात्कमलासन ।
अद्भिःपर्युषिताभिश्चेत्स्नपनं स्नापयेत्पुनः ॥ 19.18 ॥

शान्तिहोमो मूलविद्या 6 जपश्चाष्टोत्तरं शतम् ।

आराधनाङ्गवैकल्ये

आराधनाङ्गवैकल्ये नृत्तवाद्यादिभि 7 स्सह ॥ 19.19 ॥

शान्तिहोमो भवेद्वेद्यां स्नपने चलने सति ।
प्रतिमापतने तद्वत्प्रायश्चित्तं चतुर्मुख ॥ 19.20 ॥

8 स्नपने वर्तमाने तु चरने पतनेऽपि वा ।
यथापूर्वमवस्थाप्य स्नापयित्वा यथीविधि ॥ 19.21 ॥

शान्तिहोमश्च कर्तव्यः पीठादीनां च 9 भञ्ङने ।
सहजानां तथा हस्तपादादीनां चतुर्मुख ॥ 19.22 ॥

भङ्गेतु तेषामावाह्य कूर्चादौ तद्गतं हरिम् ।
क्रियां समापयेद्भ 10 ग्नां प्रभापीठादिकं पुनः ॥ 19.23 ॥

समाधाय यथापूर्वं संप्रोक्षणविधिर्भवेत् ।
वस्तुषु स्नपनाङ्गेषु आधिक्यं हानिरेव वा ॥ 19.24 ॥

यदि स्यान्मूलमन्त्रास्य जपश्चाष्टोत्तरावरः ।

फलार्थिभेदेन स्नपनकालभेदः

मोक्षमाणस्सदा कुर्यात्स्नपनं निशि वाऽहनि ॥ 19.25 ॥

रिपुक्षयार्थीदिवसे 11 धर्मार्थी दिनमध्यमे ।
दिनान्ते सर्वभोगार्थी प्राय 12 श्चित्ताय सर्वदा ॥ 19.26 ॥

स्नपनद्वयसम्पाते प्रतिसरादिनिषेधः

बद्धप्रतिसरे बिम्बे स्नपनार्थं तु मन्त्रिणा ।
स्नपनान्तरसं प्राप्तौ न च प्रतिसरान्तरम् ॥ 19.27 ॥

मण्डूकादिभिः कलशदूषणे

मण्डूकमूषिकासर्पचुचुन्दर्यादिजन्तुभिः ।
स्पृष्टे विलङ्घिते नष्टे स्थापिते कलशे तथा ॥ 19.28 ॥

त्यक्त्वान्यं तु तथा कृत्वा मूलमन्त्रं जपेद्गुरुः ।
स्थापितं कलशं तद्वत्पाषण्डैः प्रतिलोमजैः ॥ 19.29 ॥

आशौचिभिः कलशस्पर्शे

आशौचवद्भिरपरैःकलश 13 स्पर्शने सति ।
सद्रव्यं कलशं त्यक्त्वा तथान्यं तत्र निक्षिपेत् ॥ 19.30 ॥

वाचयित्वाथ पुण्याहं शान्तिहोमं समाचरेत् ।

बद्धे प्रतिसरे आशौचाभावः

कर्मणिस्नपनादौ तु प्रवृत्ते देशिकोत्तमः ॥ 19.31 ॥

14 सूतकं मरणाशौचं शृणुयान्नाशुचिर्भवेत् ।

विमानस्थापनाहीनस्थले उत्सवकरणे

उत्सवे तु यथाशात्रचोदिते स्खलने सति ॥ 19.32 ॥

शान्तिस्तथोच्यते 15 ब्रह्मन्निदानीमवधार्यताम् ।
विमानस्थापनाहीने न कुर्यदुत्सवं हरेः ॥ 19.33 ॥

कुर्याद्वा ध्वजमुद्धृत्य 16 उत्सवं च क्रमेण वा ।
वायवीये धामकोणे 17 विधिना शान्तिमाचरेत् ॥ 19.34 ॥

संवत्सरान्तं तत्रैव ध्वजयष्टेः स्थितिर्भवेत् ।

नित्योत्सवरहित स्थलोत्सवकरणे

हीननित्योत्सवे धाम्नि ध्वजारोहणपूर्वकम् ॥ 19.35 ॥

नोत्सवं कारये 18 त्काम्यं कारिते शान्तिमाचरेत् ।

ध्वजदोषसम्पाते

प्रमाणहीने पक्षीन्द्रे ध्वजे स्तम्भादिकेऽपि वा ॥ 19.36 ॥

19 शान्तिःकार्य तथा हीने मूषिकाद्यैश्च दूषिते ।
अशुचिद्रव्यसंस्पर्शे त्यक्त्वा कोप्यध्वजान्तरम् ॥ 19.37 ॥

शान्तिहोमश्च कर्तव्यो ब्राह्मणानां च भोजनम् ।
ध्वजारोहण 20 कर्माङ्गं ध्वजं वा स्तम्भमेव वा ॥ 19.38 ॥

सकृन्नियुक्तं त्यक्तव्यं ध्वजयुष्टिं तु न त्यजेत् ।
सकृन्नियुक्तेस्तम्भादौ भूयोऽपि विनियोजिते ॥ 19.39 ॥

प्रायश्चित्तं तु तत्र स्यात्स्नपनं चोत्तमोत्तमम् ।
शान्तिहोमश्च कर्तव्यो ब्राह्मणानां च भोजनम् ॥ 19.40 ॥

स्थापिते 21 विहगेशानध्वजे वातातपादिभिः ।
वर्णहानौ न दोषस्या त्समाराधनमिष्यते ॥ 19.41 ॥

पतिते वातवेगेन हेतुना येन केन चित् ।
उद्धृत्य बध्वा भूयोपि स्नपनं मध्यमोत्तमम् ॥ 19.42 ॥

वर्णहानौ तथा भिन्ने ध्वजे च्छिन्नेऽपि वा क्वचित् ।
ध्वजान्तरं समुत्पाद्यत्यक्त्वा निपतितं ध्वजम् ॥ 19.43 ॥

यष्टिं वाकल्प्यमेवास्यं न तु कालप्रतीक्षणम् ।
विपरीतं ध्वजपटं प्रमादाद्यदिबन्धयेत् ॥ 19.44 ॥

तन्मोचयित्वा यद्वान्यं बध्वास्नपनमाचरेत् ।
ध्वजस्तम्भे तथा भिन्ने भग्ने वा सुषिरेऽपि वा ॥ 19.45 ॥

स्तम्भान्त 22 रमपस्थाप्य शान्तिस्स्नपनपूर्विका ।
23 पतने भ्रमणे वापि पतिते वा यदृच्छया ॥ 19.46 ॥

शान्तिहोमो भवेत्प्राग्वन्मूलमन्त्रजपस्तथा ।
पक्षीशाधिष्ठिते कुम्भे भिन्ने नष्टेऽथ वा तथा ॥ 19.47 ॥

अस्पृश्यैः प्राणिभिः स्पृष्टे स्थाप्य कुम्भान्तरं पुनः ।
आवाह्य तत्र विहगं कर्मशेषं समापयेत् ॥ 19.48 ॥

ध्वजस्तम्भे च संस्पृष्टे चण्डालाद्यैर्विगर्हितैः ।
स्तम्भान्तरमवस्थाप्य शान्तिहोमं समाचरेत् ॥ 19.49 ॥

सूतकैः प्रेतकैश्चैव प्रतिलोमै सथाविधैः ।
स्पृष्टे प्रोक्ष्य ध्वजस्तम्भं पुण्याहोक्तिपुरस्सरम् ॥ 19.50 ॥

सकृन्नियोजितं त्यक्त्वामृण्मयं पालिकादिकम् ।
अङ्कुरानर्पयेन्नूचेत् शान्तिहोमादिकं 24 चरेत् ॥ 19.51 ॥

अङ्कुरविकारे वल्मीकप्ररोहादै च विधिः

अङ्कुरेष्वपि रक्तेषु श्यामवर्णयुतेषु वा ।
25 अप्ररूढेषु सर्वेषु तथा तिर्यग्गतेषु च ॥ 19.52 ॥

अस्पृश्यस्पर्शने तेषां भिन्नच्छिन्नेषु वा पुनः ।
पालिकादिषु नष्टेषु पतितेषु यथातथा ॥ 19.53 ॥

वल्मीकादिप्ररोहे च मूषिकाद्यैश्च भक्षिते ।
शान्तिहोमश्च कर्तव्यो ब्राह्मणानां च भोजनम् ॥ 19.54 ॥

नित्यमध्येनैमित्तिकान्तरापाते प्रत्येकमङ्कुकार्पणम्

प्रारब्धकर्ममध्ये चेत्कर्मनैमित्तिकं पुनः ।
आपतेदर्पयेद्भूय स्ततर्थां श्चङ्कुर्रा गुरुः ॥ 19.55 ॥

अर्पितेष्वङ्कुरेषु दैवाद्युपघाते शान्तिः

अर्पितेष्वङ्कुरेषु स्याद्दैवाद्वा यदि मानुषात् ।
कर्मलोपस्तदा त्यक्त्वा कल्पितानङ्कुरानपि ॥ 19.56 ॥

शान्त्यर्थं जुहुयादग्नौ मूलमन्त्रजपस्तथा ।

कर्ममध्ये कर्मान्तरापाते पुनः कौतुकबन्धः

बद्धप्रतिसरे बिम्बे कर्मार्थमपरं यति ॥ 19.57 ॥

अन्तरा कर्म निपतेद्बध्नीयात्कौतुकं पुनः ।

अन्तरापतितं स्नानं समाप्य पूर्वरब्धं समापयेत्

अन्तरा पतिते स्नाने समाप्ते स्नपनं पुनः ॥ 19.58 ॥

पूर्वारब्धमनुष्ठेयं यथाशान्त्रं चतुर्मुख ।

शून्यग्रामे बलिदाननिषेधः

ग्रामादिषु स्याच्छून्येषु न बलिर्वीधिकोत्सवः ॥ 19.59 ॥

धामन्येव भवेत्कामं यदि स्याद्वीधिकोत्सवः ।
सहस्रकलशैस्स्नानं प्रयश्चित्तं तदिष्यते ॥ 19.60 ॥

महावाताद्यभिघाते ते पुनरुत्सवः

उत्सवे वर्त 26 माने स्यान्महावातादिना यति ।
ग्रामादौ शिथिले कृत्वा प्रयश्चित्तं पुनर्महः ॥ 19.61 ॥

27 कार्योन लोप्यो लोपे तु कुम्भैरष्टोत्तरै र्हरेः ।
स्नपनं कारयेद्धोमो जपश्चार्थैर्द्विजार्चनम् ॥ 19.62 ॥

मुहोर्तातिक्रमे

मुहूर्तातिक्रमे शान्तिस्सर्वेषां कर्मणामपि ।
कार्याहोमादिभिः पश्चात्कर्मारम्भो यथोदितः ॥ 19.63 ॥

परिजनानामभिघाते अन्यान् कल्पयेत्

कर्मण्यधिकृते पूर्वं देशिको मूर्तिपेषु वा ।
28 दैवाद्वा मानुषाद्वापि विघ्नितेष्वधिकारिषु ॥ 19.64 ॥

प्रारब्धं कर्म कर्तव्यं तादृग्भिरपरैर्द्विजैः ।
उत्सवे विघ्निते दैवान्मानुषाद्वा यथोदिते ॥ 19.65 ॥

बलिमेव क्षिपेद्धाम्नि ग्रामादौ विधिकास्वपि ।

अतिक्रान्तबलिविधानम्

बलिप्रदाने प्यकृते कस्मिंश्चिद्दिवसे पुनः ॥ 19.66 ॥

कुर्वन् बलिमतिक्रान्तं कृत्वैवं बलिमाचरेत् ।

उद्यानमृगयादिक्रियालोपे

उत्सवाङ्गेषु हीनेषु कलितेषु यथापुरम् ॥ 19.67 ॥

उद्यानयानमृगया जलद्रोण्यादि 29 कर्मसु ।
शान्तिःकार्या 30 भोजनं च ब्राह्मणानां जपस्तथा ॥ 19.68 ॥

अपभृथस्नानलोपे पुनरुत्सवः

हीनायां तीर्थयात्रायां पुनरुत्सवमाचरेत् ।
उत्तमोत्तममार्गेण कृत्वा स्नपनमादितः ॥ 19.69 ॥

उक्तमासातिक्रमे अनन्तरमासे अनुज्ञाविधिः

मासे यथोक्तेऽतिक्रान्ते नक्षत्रादौ यथोदिते ।
उत्सवोऽनन्तरे मासि यद्यर्वाग्वत्सराद्भवेत् ॥ 19.70 ॥

ऊर्ध्वं संवत्सरा 31 त्कुर्वन् शान्तिं कृत्वासमाचरेत् ।
सहस्रकलशैस्स्नानं शान्तिहोमं जपादिकम् ॥ 19.71 ॥

पर्वोत्सवलोपे शान्तिः

लुप्ते पर्पोत्सवे शान्ति स्स्नपनं शक्त्यपेक्षया ।
अन्येषु विष्णोर्लुप्तेषु श्रवणाद्युत्सवेषु च ॥ 19.72 ॥

उत्तमोत्तममार्गेण स्नपनं तस्य निष्कृतिः ।

बलिवस्तूनां व्यत्यासे

व्यत्यासे बलिवस्तूनां जुहुयात्सर्विषा शतम् ॥ 19.73 ॥

उत्पातसंस्पर्शे

वाताद्युत्पात 32 संस्पृष्टे बिम्भे स्नपनमुत्तमम् ।
आचरेद्यागशालायां 33 प्रपादिषु महोत्सवे ॥ 19.74 ॥

अग्निदाहे

34 अग्निदग्धेषु तत्सर्वं समाधाय यथापुरम् ।
शान्तिहोमो द्विजेन्द्राणां भोजनं दानमेव च ॥ 19.75 ॥

कुर्यात्सुदर्शनप्लोषे कुम्भैर्नवभिरुप्लवः ।
कार्यो बिम्बादिदाहेऽपि तथा स्नपनमाचरेत् ॥ 19.76 ॥

यागमण्डपस्य सृगालादिप्रवेशे

श्वसृगालादिभिर्यागमण्टपादि प्रवेशने ।
संस्पर्शे पुर्वक्लप्तानि त्यक्त्वान्यानि निधाय च ॥ 19.77 ॥

शान्तिहोमोद्विजेन्ध्राणां भोजनादि यथापुरम् ।
चण्डालादिप्रवेशादौ त्यक्त्वा तद्वस्तु दूषितम् ॥ 19.78 ॥

उत्सवार्थानि वस्तूनि शान्ति होमं समाचरेत् ।

उत्सवाग्नेस्स्वयं शमने

उत्सवाग्नौ स्वयं शान्ते शान्तिं कुर्याद्यथाक्रमम् ॥ 19.79 ॥

विषुवे अयने च रात्रा वपि तीर्थोत्सवानुज्ञा

विषुवे चायने चैव तीर्थयात्रा न दोषकृत् ।
रात्रावपि—

अन्यत्र अह्न्येव तीर्थयात्रा

–ततोऽन्यत्र कर्तव्या 35 ह्न्येव सा भवेत् ॥ 19.80 ॥

प्रमादाद्यदि यात्रास्यात्स्नपनं चोत्तमोत्तमम् ।

होमविश्छेदे शान्तिः

उत्सवे होमविच्छेदे द्विगुणं होममाचरेत् ॥ 19.81 ॥

महोत्सवमध्ये बिम्बनाशे

बिम्बे चोरादिभिर्नष्टे वर्तमाने महोत्सवे ।
कर्मार्चादिषु बिम्बेषु बिम्बं चोत्पाद्य पूर्ववत् ॥ 19.82 ॥

यानादिभ्रंशे

36 आराधयेन्निपतिते बिम्बे यानान्महोत्सवे ।
आरोप्य पूर्ववद्यानं रथ्यासु 37 पतितं नयेत् ॥ 19.83 ॥

एकाधिकाशीतिकुम्भैस्स्नापयेच्छान्तये पुनः ।
अङ्गहानौ कौतुकस्य बिम्ब 38 मन्यं नयेत्तदा ॥ 19.84 ॥

39 हीनाङ्गं चेत्समाधाय सद्यस्सं प्रोक्षणं चरेत् ।
स्नपनं शान्तये कुर्याद्ब्राह्मणानां च तोषणम् ॥ 19.85 ॥

यानभङ्गे नयेद्देवं यानेनाऽन्येन वीधिकाम् ।
शान्तिश्च कार्या पतनभ्रमणादौ च सारथेः ॥ 19.86 ॥

पुण्याहवाचनादीनि कार्याणि कमलासन ।

यानानां अस्पृश्यस्पर्शने

अस्पृश्या यदि यानानि वहेयुर्भिम्बमेव वा ॥ 19.87 ॥

क्षालयित्वा 40 तु यानानि बिम्बं च स्नापयेद्घटैः ।

पुष्प यागाभावे

पुष्पयागो निशि भवेच्छान्तये 41 भुक्तये 42 पि वा ॥ 19.88 ॥

अभावे पुष्पयागस्य स्नपनं चोत्तमोत्तमम् ।

ध्वजावरोहण कालातिक्रमे

आरभ्य तीर्थदिवसादूर्ध्वं पञ्चदिनावधि ॥ 19.89 ॥

ध्वजावरोहणं कार्यं पश्चाच्चेदवरोहणम् ।
दोषस्स्याद्दोषशमनं स्नपनं मध्यमोत्तमम् ॥ 19.90 ॥

अपरोप्य ध्वजपटं स्नपनान न्तरं पुनः ।
उद्वास्य देवतास्सर्वाश्शकटाद्बलिकर्मणा ॥ 19.91 ॥

महोत्सवान्तः पतितं कर्म वैशेषि काह्वयम् ।
कार्यमेव न लोप्यं तल्लोपे स्नपनमाचरेत् ॥ 19.92 ॥

पवित्रारोपण विपर्यासप्रायश्चित्तम्

पवित्रारोपणे प्रायश्चित्तमन्यत्प्र 43 दर्श्यते ।
हीनमाने पवित्रे वा कुण्डे वा 44 मण्डलेऽपि वा ॥ 19.93 ॥

अस्त्रमन्त्रं शतं जप्त्वा पूजये 45 दस्त्रवर्धिनीम् ।
त्यक्त्वा पवित्रं केशादिदूषितं पुनरेव तत् ॥ 19.94 ॥

कृत्वा पूर्ववदारोप्य ततश्शान्तिं समाचरेत् ।
अस्पृश्यस्पर्शने कुम्भे भिन्ने नष्टेऽपि वा पुनः ॥ 19.95 ॥

कुंभान्तरे समावाह्य मूलमन्त्रं जपेत्पुनः ।

अस्थानशूलस्थापने

अस्थाने स्थापितं शूल 46 मन्यत्र प्रतिमादिकम् ॥ 19.96 ॥

स्थापयित्वा यथास्थानं स्नपनादि 47 समाचरेत् ।
माने न्यूनाधिके वापि वेद्यादीनां प्रकल्पिते ॥ 19.97 ॥

शान्तिराज्याहुतिः कार्या पंचोपनिषदा शतम् ।

नयनमोक्षणाकरणे

तेषामभावे च तथा शान्तिर्नयनमोक्षणम् ॥ 19.98 ॥

अकृत्वास्थापने शान्तिं कृत्वा नयनमोक्षणम् ।

तोयाधिवासाकरणे

तोयाधिवासाकरणे प्रतिष्ठायां मधुद्विषः ॥ 19.99 ॥

स्नपनं शान्तिहोमश्च तद्वदेवाङ्गहानिषु ।

अनाचार्यप्रतिष्ठायाम्

अनाचार्यप्रतिष्ठायां पुनस्थ्सापनमाचरेत् ॥ 19.100 ॥

आचार्यपदमारूढो 48 वैधुर्याद्यल्पदोषवान् ।
अधिकार्येव विज्ञानपारं यातो यदि स्वयम् ॥ 19.101 ॥

ज्ञानाधिकेन देवेशे स्थापिते ज्ञान 49 रूपिणि ।
न दोषो ज्ञानदहनस्सर्वदोषान् दहेत्खलु ॥ 19.102 ॥

बालमंदिरस्थिति कालातिक्रमे

यावत्कालं स्थितिर्भालमन्दिरे 50 प्रार्थिता पुरा ।
तावत्यतीते समये स्नपनं मधुविद्विषः ॥ 19.103 ॥

कार्यं पुनश्चतत्रैव स्थितिकालं 51 परीक्षयेत् ।
अन्यत्र वा बालगेहे यद्वा मूलालये भवेत् ॥ 19.104 ॥

कर्मार्थपीठिकायां तत् स्थापयित्वा समर्चयेत् ।

शिथिलीसरघादिसम्पाते

गोपुरे वालये यद्वा प्राकारे मण्टपेऽथवा ॥ 19.105 ॥

शिथिली सरघातुम्बावल्मीकादिसमुद्भवे ।
उद्धृत्यतत्तत्संशोध्य देशं कृत्वा यथापुरम् ॥ 19.106 ॥

स्नपनं देवदेवस्य कुर्यादुत्तममध्यमम् ।
शान्तिहोमो द्विजेन्द्राणां भोजनं दानमेव च ॥ 19.107 ॥

सिद्धान्तसाङ्कर्ये

सिद्धान्तसङ्करे जाते 52 प्रमादात्तत्र सङ्करे ।
कृत्वा संप्रोक्षणं पूर्वं सहस्रकल शाप्लवः ॥ 19.108 ॥

सिद्धान्तस्वरूपप्रश्नः

ब्रह्मा :—

सिद्थान्तं नाम किं को वा भेदस्तस्य जनार्दन ।
श्रोतुमिच्छामि तत्सर्वं न रहस्यमिदं यदि ॥ 19.109 ॥

सिन्धान्तनिर्वचनम्

श्रीभगवान् :—

महोपनिषदं नाम सिद्धान्तपदशब्दितम् ।
मीमांसादिषु शात्रेषु ये सिद्धार्था मनीषिणः ॥ 19.110 ॥

तेषामन्तेऽधिकारोस्मिन्नितिसिद्धान्त 53 शब्दितम् ।

मन्त्रसिद्धान्तादि भेदकथनम्

तच्चतुर्धास्थितं 54 शास्त्रमृगादिवदनेकधा ॥ 19.111 ॥

एकैकं भिद्यते तन्त्रं शाखाभेदेन भूयसा ।
प्रथमंमन्त्रसिद्धास्तं द्वितीयं 55 चागमाह्वयम् ॥ 19.112 ॥

तृतीयं तन्त्रसिद्धान्तं तुर्यं तन्त्रान्तरं भवेत् ।

मन्त्रसिद्धान्तः

एकैव मूर्तिराराध्या प्राधान्येनेतराः पुनः ॥ 19.113 ॥

देव्यश्श्रिय्रादयश्चापि संपूज्याः परिवारवत् ।
आयुधैश्शङ्खचक्राद्यैश्श्रीवत्साद्यैश्चभूषणैः ॥ 19.114 ॥

मूर्तिमद्भिः परिवृता केवला वाम्बुजासन ।
कथ्यते यत्र तत्प्रोक्तं मन्त्रसिद्धान्तमग्रिमम् ॥ 19.115 ॥

आगमसिद्धान्तः

वासुदेवादयो व्यूहाश्चत्वारस्साधकैरपि ।
क्रमागतैस्तुल्यकक्ष्याः पूज्यास्तत्प्रभवाप्यये ॥ 19.116 ॥

कर्मणामपि सन्यासः कथ्यते यत्र चागमे ।
तन्त्रमागमसिद्धान्तं तदुक्तं कमलासन ॥ 19.117 ॥

तन्त्रसिद्धान्तः

नवानामपि मूर्तीनां प्राधान्यं यत्र कथ्यते ।
मूर्तयो द्वादशाङ्गानि तेषामेव तथापरे ॥ 19.118 ॥

प्रादुर्भाव 56 गुणाश्चान्ये मूर्त्यन्तरगुणा अपि ।
प्रादुर्भावान्तरयुतास्स 57 दिग्देवैस्सहायुधैः ॥ 19.119 ॥

मूर्तिमद्भिश्छ देवीभिर्लक्ष्म्यादिभिरपि स्फुटम् ।
58 तत्तन्त्रसिद्धान्ताह्वानं—

तन्त्रान्तरसिद्धान्तः

चतुर्थं परमं पुनः ॥ 19.120 ॥

सौम्यसिंहादिभूयिष्ठं वक्त्रेभैदैश्चतुर्मुख ।
59 द्वित्रादिमुखभेदा वा मूर्तिरेकैव पूज्यते ॥ 19.121 ॥

परिवारैन्संवृता वा विना वा सर्वकामदा ।
यत्र तन्त्रान्तरं तत्स्याच्चतुर्थं कमलासन ॥ 19.122 ॥

आरम्भावसानयोरेक एव सिद्धान्तः

येन सिद्धान्तमार्गेण कर्षणादिक्रिया कृता ।
आदौ तेनैव सकलं नान्यसिद्धान्तवर्त्मना ॥ 19.123 ॥

तन्त्रेणापि तथा येन कर्षणादिक्रिया कृता ।
तेनैव सकलं कार्यं न तन्त्रान्तरवर्त्मना ॥ 19.124 ॥

अनुक्तस्य तन्त्रान्तराद्ग्रहणम्

तन्त्रान्तरेऽपि कथितमनुक्तं ग्राह्यमेव हि ।

तन्त्रसाङ्कर्यनिषेधः

सिद्धान्त60 सङ्करस्तस्मात्तन्त्रसङ्कर एव च ॥ 19.125 ॥

दोषाय कल्पते राजराष्ट्र धामक्षयात्मने ।
सिद्धान्तसङ्करे जाते प्रमादात्तस्य शान्तये ॥ 19.126 ॥

कृत्वा संप्रोक्षणं पूर्वं सहस्रकलशाप्लवः ।
कर्तव्यस्स्नपनं कुर्या 61 त्तन्त्रसङ्करसम्भवे ॥ 19.127 ॥

अन्तेमहोत्सवं कुर्यात् ध्वजारोहणपूर्वकम् ।

पञ्चरात्र प्रतिष्ठितस्य तेनैव निर्वाहः

स्थापिते पञ्चरात्रेण देवे षड्भिरथाध्वभिः ॥ 19.128 ॥

62 पत्रिष्ठाने कृते मोहाद्दोषस्सर्वक्षयात्मकः ।
शान्तिश्च तस्य भूयोऽपि पञ्च रात्रोक्तवर्त्मना ॥ 19.129 ॥

प्रतिष्ठाप्य सहस्रेण कलशैस्स्नपनं हरेः ।
महोत्सवश्च कर्तव्यो ध्वजारोहणपूर्वकः ॥ 19.130 ॥

एकत्र दीक्षितस्य अन्यत्र दीक्षानिषेधः

एकत्र दीक्षितस्तन्ते वा द्विजोत्तमः ।
क्रियां न कुर्यादन्यत्र कर्षणादि 63 चतुर्मुख ॥ 19.131 ॥

64 आचार्यत्वमथार्त्विज्यं पूजायां मधुविद्विषः ।
तन्त्रभेधे च सिद्धान्तभेदे चापि न युज्यते ॥ 19.132 ॥

विषशस्त्रादिहतानां नारायणबलिः

65 ब्रह्महत्यादिपापानां निष्कृतिस्म्सृतिचोदिता ।
मृतानां विषशस्त्राग्नि प्रायैरुग्रैश्च कर्मभिः ॥ 19.133 ॥

नारायणबलिर्नाम समाराधनमुत्तमम् ।
गतिहेतुर्विना तेन गतिरन्यान विद्यते ॥ 19.134 ॥

पुनर्दहनमारभ्य कर्म स्मार्तमशेषतः ।
कृत्वा सपिण्डीकरणपर्यन्तं तदनन्तरम् ॥ 19.135 ॥

देवदेवं समाराध्य वक्ष्यमाणेन वर्त्मना ।
विष्ण्वालये नदीतीरे पर्वते 66 वा वनेऽपि वा ॥ 19.136 ॥

आन्यत्र वा पुण्यदेशे कर्तुर्वा भवने शुभे ।
यष्टव्यं कृष्णपक्षस्य द्वादश्यामयनद्वये ॥ 19.137 ॥

उपोषितस्सन् पूर्वेद्युःकर्तानियतमानसः ।
ब्राह्मणान्भगवद्भक्तान्व्रतस्वाध्यायशालिनः ॥ 19.138 ॥

आमन्त्र्यमन्त्रविद्बध्वा केशवादि यथास्वयम् ।
शोधिते गोमयाम्भोभिर्भूतले कुशविष्टरे ॥ 19.139 ॥

उपवेश्य 67 वृतानेव प्राङ्मुखान् कमलासन ।
अर्घ्यादिभिस्समभ्यर्च्य सामभिः केशवदिभिः ॥ 19.140 ॥

नमोन्त्रैर्नागवल्ल्यादि दत्वा चाभ्यञ्जयेद्द्विजान् ।
स्नातानां सन्निदौ तेषां होमं चौपासनेऽनले ॥ 19.141 ॥

कृत्वाग्नि मुखमग्नेश्च प्राग्भागे चक्रपङ्कजे ।
स्थण्डले कुशकूर्चे वा देवमावाहयेदिति ॥ 19.142 ॥

पुष्पाञ्जलिस्समुत्थाय नृसूक्ताद्या ऋचो जपन् ।
ओं पूर्वाभिर्व्याहृतिभिरावाह्य पुरुषोत्तमम् ॥ 19.143 ॥

मूर्तिभेदान् केशवादीन्नामभिस्तैरनन्तरम् ।
आवाह्यार्घ्यादिभिष्टद्भिरुपचर्य पृथक्पृथक् ॥ 19.144 ॥

तर्पयित्वा तिलाम्भोभिः केशवादीन् स्वनामभिः ।
उपचर्य च दीपान्तं पुरुषं पुरुषात्मना ॥ 19.145 ॥

सूक्तेन केशवादींस्तु नामभिस्तैर्यथाक्रमम् ।
अग्नौ पद्मासनासीनं ध्यात्वा परमपूरुषम् ॥ 19.146 ॥

68 अनूच्य पायसं विष्णोर्नुकमित्यृचमब्जज ।
पश्चात्परोमात्रयेति याज्यया जुहुयाद्धविः ॥ 19.147 ॥

केशवाद्यैर्नामधेयैस्सर्पिषा जुहुयात्ततः ।
चतुर्थ्यन्तैर्द्वादशभि 69 र्नामभिर्ध्यानमास्थितः ॥ 19.148 ॥

क्षीराज्यगुडमिश्रान्नं तेभ्य एव निवेदयेत् ।
देवस्य त्वा सवितुरिति महाविष्णोर्नवेदनम् ॥ 19.149 ॥

सप्तव्याहृतिभिर्भूयो जुहुयात्सर्पिषानले ।
दर्भासनेषु भूदेवानाहुतानुपवेशितान् ॥ 19.150 ॥

वस्त्राङ्गुलीयकच्छत्रकुण्डलोपानहादिभिः ।
यथाशक्ति समभ्यर्च्य मन्त्रेणाष्टाक्षरेण तान् ॥ 19.151 ॥

तिलाज्यमिश्रहस्तेन तदनुज्ञानपूर्वकम् ।
जुहुयादनले हव्यं विद्यया वक्ष्यमाणया ॥ 19.152 ॥

पितृभ्यस्तत्पितृभ्यश्च तत्पितृभ्यः पुनस्तथा ।
70 मातृभ्यः पितृमातृभ्य 71 स्तत्पितृभ्यःपुनस्तथा ॥ 19.153 ॥

मातामहेभ्य 72 स्तेषां ये पितरस्तेभ्य एव च ।
मतामहीभ्यो मातुश्च 73 पितृमातृभ्य एव च ॥ 19.154 ॥

पितुः पितामहीभ्यश्च तथाचार्येभ्य एव च ।
तत्पत्नीभ्यो गुरुभ्यश्च गुरुपत्नीभ्य एव च ॥ 19.155 ॥

सखिभ्यस्तत्पुरन्ध्रीभ्योज्ञातिभ्या याश्चतत् स्त्रियः ।
ताभ्यश्छामात्यतत् स्त्रीभ्यस्सर्वाभ्यस्तत् स्त्रियश्चयाः ॥ 19.156 ॥

ताभ्यश्चेति समुच्चार्य स्वधा नम इति ब्रुवन् ।
नारायणाय स्वाहेति प्रत्येकं 74 पृथगाहुतिः ॥ 19.157 ॥

अग्निबद्दं चतुर्थ्यन्तं कव्यवाहनमित्यथ ।
तदन्तेस्विष्टकृच्छब्धमनुषङ्गश्च पूर्ववत् ॥ 19.158 ॥

हुत्वैवं सर्पिषा पश्चाद्द्वादशाक्षरविद्यया ।
75 प्रत्येकं शतमष्टा च 76 द्वादशाक्षर विद्यया ॥ 19.159 ॥

विष्णुगायत्रिया तद्वद्ब्राह्मणान् षड्रसान्वितम् ।
भोजयेद्दक्षणां तद्यात्तान् प्रणम्य प्रदक्षिणम् ॥ 19.160 ॥

ताननुज्ञाप्य शिष्टान्नं यथेष्टं क्रियातामिति ।
दक्षिणेनानलं दर्भान् प्रागग्रान् शोधिते स्थले ॥ 19.161 ॥

संस्तीर्य तेषु दर्भेषु बलिं दद्यात्समाहितः ।
विश्वेभ्यश्चैव देवेभ्यस्साध्येभ्यस्तदनन्तरम् ॥ 19.162 ॥

सर्वेभ्यश्चैव देवेभ्यो विष्णुर्नारायण स्तथा ।
सहस्रशिरसे चैव यज्ञात्मपदमेव च ॥ 19.163 ॥

पुरुषं यज्ञपूर्वं च सर्वेश्वरपदं तथा ।
चतुर्थ्यन्तं समुच्छार्य नमस्स्वा हेत्यनस्तरम् ॥ 19.164 ॥

सर्वत्रैवानुषङ्गं च स्विष्टकृद्यजनादिकम् ।
आधेनुवरदानान्तं कृत्वा प्रेतं निवेदयेत् ॥ 19.165 ॥

मूर्तिषु द्वादशस्वेनं यज्ञशर्माणमाख्यया ।
निवेदयामि देवाय केशवायेत्यनुक्रमात् ॥ 19.166 ॥

द्वादशभ्योनिवेद्यैवं 77 परमान्नं निवेदयेत् ।
नारायणबलिर्ह्येष द्विजानां 78 समुदीरितः ॥ 19.167 ॥

एवं यस्य कृते दत्तो बलिर्दे वार्चना 79 त्मकः ।
स याति 80 निखिलं पापं निर्धूय ब्रह्म शाश्वतम् ॥ 19.168 ॥

81 पापानामितरेषां च बलिः पुण्यकृतामपि ।
परमात्मपदप्राप्त्यैकल्पते नात्र संशयः ॥ 19.169 ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे 82 उत्सवप्रायश्चित्तनारायणबलिर्नाम एकोनविंशोऽध्यायः.

****** ——

.

पापिनां कर्माधिकारार्थप्रायश्चित्तम्

ब्रह्मा :—

राजानस्तदमात्या वा ये राज्यधुरि निष्ठिताः ।
भगवन् रक्षणव्यग्राः प्रजानां सततोद्यताः ॥ 20.1 ॥

ब्रह्महत्यादिभिः पापैरभिभूता विगर्हितैः ।
कायक्लेशात्मके शास्त्रचोदिते घोरकर्मणि ॥ 20.2 ॥

पापनिर्हरणोपाये प्रवर्तितुमनीश्वराः ।
ते कथं तानि पापानि निर्धूय सकलन्यपि ॥ 20.3 ॥

कर्माधिकारिणो भूयस्सतां संसदि संमताः ।
कल्पनै भगवद्ध्याने तदर्चनविधावपि ॥ 20.4 ॥

योग्याः प्रकारं तं देव ब्रूहि मह्यं यथातथम् ।
श्रीभगवान्—

ब्रह्महत्यादिपापानामपनोदनमुत्तमम् ॥ 20.5 ॥

कायक्लेशात्मके कर्मण्यक्षमाणां महीबृताम् ।
विहितं सुकरं तेषां प्रायश्चित्तं चतुर्मुख ॥ 20.6 ॥

हिरण्यगर्भतुलाभार निर्देशः

हिरण्यगर्भनामैकं कर्म प्रोक्तं 1 यथापरम् ।
तुलाभारसमा 2 ख्यं तद्द्वाभ्यां निर्धूत कल्मषम् ॥ 20.7 ॥

भगवद्ध्यानपूजादिविदौ भूयोऽधिकारिणिः ।
भवन्तिकर्मद्वितयं तदशेषेण कथ्यते ॥ 20.8 ॥

हिरण्यगर्भविधिः

कर्तुं व्यवसितं कर्म वरयेद्गुरुमादितः ।
सर्वशास्त्रार्थतत्वज्ञं मन्त्राणां पारगं परम् ॥ 20.9 ॥

दयालुं सर्वभूतानामक्रोधनमलोलुपम् ।
3 कर्मद्वयविधानज्ञमृजुं भागवतं द्विजम् ॥ 20.10 ॥

परीक्ष्यैवं विधं यत्नादुपसङ्गम्य पार्थिवः ।
अर्थयित्वा यथान्यायमुपचर्य द्विजोत्तमम् ॥ 20.11 ॥

4 कर्मारभेत पुण्येषु देशकालेषु यन्त्रितः ।
षट्सुतैष्यादि मासेषु श्रवणे त्वाष्ट्रा एव वा ॥ 20.12 ॥

मैत्रे चाश्वयुजि ब्रह्मन् रोहिण्यां पासवेऽपि वा ।
पुष्ये वा सौम्यनक्षत्रे चोत्तरत्रितयेऽपि वा ॥ 20.13 ॥

देशेतीरे च सरितां समुद्रतटभूषु वा ।
यद्वा सर्वगुणोपेते देशे भगवदालये ॥ 20.14 ॥

नैमित्तिकं चेत्कर्मैतन्न कालादिपरीक्षणम् ।
मण्डपं प्रथमं कुर्यात्प्रतिष्ठायामिवालये ॥ 20.15 ॥

अन्यत्र वा यथोद्दिष्टे देशे शास्त्रोक्तवर्तना ।
सर्वालङ्कारनंयुक्तमन्तः कल्पितवेदिकम् ॥ 20.16 ॥

अङ्कुरानर्पयेत्पूर्वमुक्तेष्वन्यतमे दिने ।
सम्भारास्तत्र सम्भार्या यथाविधि यथावसु ॥ 20.17 ॥

एकाङ्गुलघने तुल्ये कपाले द्वे हिरण्मये ।
अधरं चोत्तरं 5 चापि कर्ये द्वाभ्यां चतुर्मुख ॥ 20.18 ॥

सङ्गताभ्यां प्रविश्यान्तरास्ते गर्भाशये यथा ।
कर्तासुखं तं निर्याय द्वयमण्डसमाकृति ॥ 20.19 ॥

हिरण्यगर्भ 6 संज्ञं तत् 7 यत्रायं जायते पुनः ।
होमपात्राणि सर्वाणि रैमयान्येव कारयेत् ॥ 20.20 ॥

सम्भारेषु समस्तेषु सम्भृतेषु महीपतिः ।
पूर्वेद्यु 8 र्नियतश्चोप्त रोमश्मश्रुनखश्शुचिः ॥ 20.21 ॥

शुद्धदश्शुद्धवसनश्श्वेतमाल्यानुलेपनः ।
उपोषितो घृतं प्राश्य रात्रिं नियमतत्परः ॥ 20.22 ॥

नीत्वा परेद्युः प्रत्यूषेस्नातो नियतमानसः ।
ऋत्विग्भिः कारयेत्कर्म गरुणा चोदितस्स्वयम् ॥ 20.23 ॥

वेदिमध्ये शालिभारैर्नवभिः कृतविष्टरे ।
प्रागग्रेषु च दर्भेषु स्तीर्णेष्वारोप्य रैमयम् ॥ 20.24 ॥

कपालमधरं द्वारतोरणादिसमर्चने ।
यथापुरं कृते नृत्तगेयवादित्रमङ्गले ॥ 20.25 ॥

हिरण्यगर्भमभितश्चतुर्दिक्षु भृतोदकान् ।
संस्थाप्य चतुरः कुम्भान् धान्यपीठेषु तेष्वथ ॥ 20.26 ॥

कुम्भेषु न्यस्तरत्नेषु वेष्टितेषु नवाम्बरैः ।
चतस्रो देवतास्स्वीयैर्नामधेयैरनुक्रमात् ॥ 20.27 ॥

आवह्यः पुरुषस्सत्यः प्राचीदक्षिणयेस्तथा ।
वारुण्यामथकौबेर्यामच्युतोऽनन्त एव च ॥ 20.28 ॥

समुदीर्यार्घ्यपाद्याद्यै 9 र्धूपदीपावसानकैः ।
अन्नं चतुर्विधं चापि 10 कुम्भे कुम्भे निवेदयेत् ॥ 20.29 ॥

पूर्वादि दिक्षु कुण्डेषु प्रतिष्ठायामिवक्रमात् ।
क्लृप्तेषु 11 हावयेदग्नौ समिधाज्येन चक्रमात् ॥ 20.30 ॥

प्रत्येकं मूलमन्त्रेण शतमष्टोत्तरं गुरुः ।
चतुर्विधेन चान्नेन प्रत्येकं षोडशाहुतीः ॥ 20.31 ॥

कुर्यात्पुरुषनोक्तेन 12 ध्यात्वा यष्टव्यदेवताः ।
प्राप्ते मुहुर्ते भूदेवाननुज्ञाप्य गुरुस्स्वयम् ॥ 20.32 ॥

पाणिना भूमिपं हस्ते गृहीत्वा प्रलयक्रमात् ।
देहं संहृत्य भूपालं 13 देहमात्रावशेषितम् ॥ 20.33 ॥

ध्यात्वा प्रवेशयेद्गर्भं रैमयं कमलासन ।
अधरे रैमये भागे सुखासीनं च भूमिपम् ॥ 20.34 ॥

छादयेदुपरिष्टेन भागेनैतत्प्रवेशनम् ।
घृतमिश्रैस्तिलैस्तत्वसंहाराहुतिमाचरेत् ॥ 20.35 ॥

तत्त्वोत्पादनमार्गेण चिन्तयित्वा गुरुः पुनः ।
स्पष्टं शरीरं भूपस्य सृष्टि होमं यथापुरम् ॥ 20.36 ॥

कुर्यात्कुण्डेषु सर्वत्र चतुर्घु चतुरासन ।
आनीय मन्त्रवज्जातं 14 अण्डात्तस्माद्बहिर्नृपम् ॥ 20.37 ॥

वैयाघ्रचर्मण्यारोप्य कलशैरभिषेचयेत् ।
उत्तमाधममार्गेण 15 वेदवित्तन्त्रवित्तमः ॥ 20.38 ॥

तथैव मन्त्रात्स्नपनं द्रव्यजातं च तादृशम् ।
कर्मणा 16 तेन निर्धूतकल्मषः पुण्यकृत्तमः ॥ 20.39 ॥

जातो गुरुप्रसादेन गुरुमग्रे सभाजयेत् ।
सहस्रनिष्टमानेन तपनीयेन भूमिपः ॥ 20.40 ॥

ऋत्विजां चापि सर्वेषां तावती दक्षिणा मता ।
कर्मोपकरणं सर्वं कुर्यादाचार्यसान्नृपः ॥ 20.41 ॥

हैरण्यमण्डं विद्वद्भ्यो ब्राह्मणेभ्यः प्रदापयेत् ।
एवं कृतवतस्तस्य विष्णोराराधनादिषु ॥ 20.42 ॥

संपद्यतेऽधिकारित्वं 17 द्विरेवं कर्म कुर्वतः ।
फलं च विष्णोस्सारूप्यं सायुज्यं त्रिगुणे भवेत् ॥ 20.43 ॥

तुलाभारविधिः

तुलाभाराह्वयं कर्म द्वितीयं कथ्यतेऽधुना ।
निर्माय मण्टपं प्राग्वत्तस्मध्ये यज्ञदारुजौ ॥ 20.44 ॥

स्तम्भा 18 दृढौ सरवन्तौ हस्तैष्षड्भिस्सम्छृतौ ।
द्विहस्तपरिणाहौ द्वौ सवृत्तौ शिल्पिकल्पितौ ॥ 20.45 ॥

19 द्विहस्तमानान्तरालौ स्थापितौ भूतले दृढम् ।
कृत्वातयोरुपर्येकं दारु सारव 20 दुत्तरम् ॥ 20.46 ॥

विस्तीर्णं हस्तमानेन तावन्मानघसं धृढम् ।
त्रिहस्तमायतं चैव तुलादण्डमयोमयम् ॥ 20.47 ॥

आयसेनैव पाशेन योजयेदुत्तरेण तु ।
विधायेत्थं तुलामन्यत्सम्भारादि यथापुरम् ॥ 20.48 ॥

कल्पयित्वा यथापूर्वं कर्मचोपरि 21 शास्त्रिकम् ।
होमान्तं सकलं कुर्याद्यथा 22 योगमलोपयन् ॥ 20.49 ॥

स्नातो नरपतिः क्षामवसनाभरणान्वितः ।
शुचिर्ध्यायन् वासुदेवं चर्मखड्गधरस्ततः ॥ 20.50 ॥

परिक्रम्य समस्कृत्य देवांस्तान् पुरुषादिकान् ।
तुलामपि तथा कृत्वा भागे तस्याश्च पश्चिमे ॥ 20.51 ॥

स्थित्वा प्रागाननो भूत्वा आरोहेत्पश्चिमं धटम् ।
23 स्वस्तिन इत्यृचं सूक्तमधीयानश्च मङ्गलम् ॥ 20.52 ॥

प्राच्ये धटे नृपसमं 24 निक्षिपेद्धाटकोत्तमम् ।
चतुर्दिक्षु प्रवृत्तेषु नृत्तवादित्रगीतिषु ॥ 20.53 ॥

अधीयानेषु विप्रेषु वेदांश्च चतुरस्तदा ।
शान्तिहोमे च कुण्डेषु प्रवृत्ते पार्थिवस्स्वयम् ॥ 20.54 ॥

कञ्चित्कालं धटभुवि ध्यायन् रुक्ममयं हरिम् ।
आसित्वा गुर्वनुज्ञातः पूर्वं धटभुव स्ततः ॥ 20.55 ॥

अवरोहेत्सुवर्णं च भूषणानि च भूपतिः ।
भूसुरेभ्यो यथायोगं विभज्य वितरेत्ततः ॥ 20.56 ॥

आचार्यय शतं निष्कं मूर्तिपेभ्यश्च तत्समम् ।
सर्वेभ्यो ये च तत्कर्मसहकारे नियोजिताः ॥ 20.57 ॥

तेभ्योऽपि दद्याद्दीक्षित्वा तेषां कर्म यथायथम् ।
तुलाभाराह्वयं कर्म कुर्वन्नित्थं महीपतिः ॥ 20.58 ॥

अन्यो वा धनवान् कश्चित्सर्वपापैः प्रमुच्यते ।
प्रेत्य चाभिमतान् भोगानश्नुते दिवि देववत् ॥ 20.59 ॥

असकृत्कर्म कुर्वाणो ब्रह्मलोके महीयते ।
पापापनोदनं कर्म परलोके सुखावहम् ॥ 20.60 ॥

आयुर्वृद्धिकरं सर्वरोगशान्तिकरं परम् ।
संपत्करं यशोवृद्धिकारणं सर्वकामदम् ॥ 20.61 ॥

चतुरानन कर्मान्यत्स्वर्णगर्भादि 25 संयुतम् ।

पुष्याभिषेकः

पुष्याभिषेचनं नाम शृणु गुह्यं सनातनम् ॥ 20.62 ॥

विहितं पृथिवीशानामिन्त्राद्यैरप्यनुष्ठितम् ।
मासितैष्ये प्रोष्टपदे मासे चाश्व युजे शुभे ॥ 20.63 ॥

श्रवणे चैव नक्षत्रे जन्मर्क्षे कर्तुरेव वा ।
महाभिषेचनं कर्म प्रारभेत गुरु 26 स्ततः ॥ 20.64 ॥

पूर्वोकैष्वेव देषेषु कस्मिंश्चिदभिपूजिते ।
पञ्चदण्डायतां भूमिं कृत्वा वै वर्तुलाकृतिम् ॥ 20.65 ॥

तस्यामन्तस्थ्सलं सम्यक्कृत्वा 27 निष्कसमुच्छृतम् ।
तोरणादि चतुर्दिक्षु स्थापयित्वा चतुर्मुख ॥ 20.66 ॥

अलङ्कृत्य यथापूर्वं वितानध्वजमालया ।
तन्मध्ये कल्पयेन्मेरुं मृदङ्गसदृशाकृतिम् ॥ 20.67 ॥

श्लक्ष्णादि च मृदा कार्यं 28 तस्योच्छ्रायं त्रिहस्तकम् ।
मूले चाग्रे च विष्कम्भो हस्तमानस्तथा भवेत् ॥ 20.68 ॥

चतुर्दिक्षु 29 च चद्वारो भागास्तस्य यथाक्रमम् ।
श्वेतोऽरुणस्तथापीतः कृष्णः कल्प्यश्च सर्वतः ॥ 20.69 ॥

कत्नैः स्वर्णैः 30 पूरणीया ष्षट्तथा कुलपर्वताः ।
पूर्वापरायताः कल्प्या हिमवां स्तदनन्तरम् ॥ 20.70 ॥

हेमकूटश्च विषधो नीलश्श्वेतश्च पर्वतः ।
शतशृङ्गश्च विष्कम्भस्तेषां ग्यात्षोडशाङ्गुलः ॥ 20.71 ॥

श्वेतश्च पिङ्गलो रक्तो नीलश्चन्द्रसमप्रभः ।
हेमवर्णः क्रमाद्वर्णैश्चित्रयेद्धातुपांसुभिः ॥ 20.72 ॥

जम्बाद्वीपं लिभइत्वैवं लवणोदधिवेध्टितम् ।
प्लक्षद्वीपं लिखेद्दिक्षु समुद्रपरि 31 वेष्टितम् ॥ 20.73 ॥

शाल्मल्या लक्षितं द्वीपं परीतं मदिराम्बुभिः ।
कुशं परीतमाघारैः क्रौञ्चं दधिसमुद्रितम् ॥ 20.74 ॥

शाकं दुग्धोदधिक्षिप्तं पुष्करं स्वच्छतोयधिम् ।
क्रमाल्लिखित्वा सर्वेषां लोकालोकमहाचरम् ॥ 20.75 ॥

वप्रवत्कल्पयेत्प्राच्यां तस्यान्तरमरावतीम् ।
पुरीमिन्द्रस्य याम्यायां 32 नाम्ना संयमनीमपि ॥ 20.76 ॥

यमस्य वरुणस्यापि प्रतीच्यां नगरीं तथा ।
विभावरीमुदीच्यां तु पुरीं सोमस्य कल्पयेत् ॥ 20.77 ॥

इन्द्रादिलोकपालानां स्थाने स्थाने प्रकल्पयेत् ।
सैकते स्थण्डिले तत्र तानावाह्य समर्चयेत् ॥ 20.78 ॥

महामोरुं च तन्मूर्ध्नि वाराहिं मूर्तिमर्चयेत् ।
मेरोरुत्तरपार्श्वे तु श्वभ्रं कृत्वा प्रमाणतः ॥ 20.79 ॥

अधः कपालं सौवर्णं न्यस्य तत्र समर्चयेत् ।
पूनरुर्ध्वकपालं च न्यस्य तस्योपरि क्रमात् ॥ 20.80 ॥

पूर्वोक्तेन विधानेन पुरोधा नियतस्स्वयम् ।
कुंभान् षोडश 33 संपूर्णान् षोडश प्रस्थपूरणान् ॥ 20.81 ॥

परितोऽण्‍डकपालस्य सूत्रवस्त्रादिवेष्टितान् ।
स्थापयित्वा धान्यराशौ सापिधानानलङ्कृतान् ॥ 20.82 ॥

दिशमैन्द्रीं समारभ्य प्रादक्षिण्येन पूरयेत् ।
पञ्चगव्यादिभिर्द्रव्यैः प्रणवेन प्रपूरयेत् ॥ 20.83 ॥

पञ्चगव्यं च पीयूषं दधि सर्पि स्तथा मधु ।
हरिचन्दनतोयं च वारि चाक्षतसंयुतम् ॥ 20.84 ॥

34 कुङ्कुमं च तथा तोयं कर्पूरागुरुवारि च ।
कुशोदकं च रत्नाम्भस्सर्व 35 पुष्पोदकं तथा ॥ 20.85 ॥

फलोदकं च धान्याम्भस्सर्वतीर्थोदकं तथा ।
सर्वगन्धोदकं चापि द्रव्याणां 36 क्रम ईरितः ॥ 20.86 ॥

मोरोश्च 37 दक्षिणे भागे कुण्डमग्नेः प्रकल्पयेत् ।
आज्येन जुहुयादग्नौ शतमष्टोत्तरं पृथक् ॥ 20.87 ॥

वराहमूर्ति प्रभृतीरुपक्षिप्त्वा च देवताः ।
अन्याश्च देवताश्शैलान् समुद्रान्विष्टसानि च ॥ 20.88 ॥

भूरादीनि तथा द्वीपभेदांश्चोद्दिश्य नामभिः ।
तेषा 38 माहूय तत्कार्यं गुरुणा सपुरोधसा ॥ 20.89 ॥

भूर्भुवस्स्वरिति ब्रह्मन्ननै च जुहुयाद्घृतैः ।
अग्निं विसृज्य वितरेद्दक्षिणाश्च यथावसु ॥ 20.90 ॥

तदनै यजमानस्तु सर्वालङ्कारसंयुतः ।
शुचिस्समाहितो भूत्वाकृतकौतुकबन्धनः ॥ 20.91 ॥

प्रविश्य तत्र तद्धैममण्डं च प्राङ्मुख स्स्वयम् ।
प्रविश्यासीत देवेशं ध्यायन्नेव 39 सुधाकरम् ॥ 20.92 ॥

यज्ञमूर्तिं धरां देवीं बिभ्राणं 40 निजदंष्ट्रया ।
एवं ध्यायन्तमासीनं नृपं सोपस्क्रियं स्वयम् ॥ 20.93 ॥

आचार्यानुमतः कुम्भैः स्थापि तैरभिषेचयेत् ।
पञ्चगव्यादिभिर्द्रव्यैर्मन्त्रानुच्चार्यमन्त्रवित् ॥ 20.94 ॥

वसोः पवित्रमन्त्रेण पञ्चगव्याभिषेचनम् ।
शं नोदेवीरिति पयस्स्नानं दध्नाऽभिषेचनम् ॥ 20.95 ॥

इषेत्वेति घृतेनाग्न आयाहीति तथा पुनः ।
मधुना चाग्निमीडेति मानस्तोक इति ब्रुवन् ॥ 20.96 ॥

हरिचन्धनतोयेन तथैवाक्षतवारिणा ।
इदं विष्णुरिति प्रोच्य कुङ्कुमक्षोद वारिणा ॥ 20.97 ॥

आहार्षं चेति मन्त्रेण तथा कर्पूरवारिणा ।


  1. स्थापयेत्. ↩︎ ↩︎

  2. कौतुकोज्झिते. ↩︎ ↩︎

  3. उपक्रमण. ↩︎ ↩︎

  4. च्छेदने. ↩︎ ↩︎

  5. व्याघ्राद्यैश्चैन. ↩︎ ↩︎

  6. जपश्चाष्टोत्तरानरः. ↩︎ ↩︎

  7. स्सति. ↩︎ ↩︎

  8. " स्नपने" इति श्लोकद्वयं " भङ्गे तु—पुनः ॥" इतिश्लोकादानन्तरं क्वचित्कोशे दृश्यते. ↩︎ ↩︎

  9. बन्धने. ↩︎ ↩︎

  10. भग्ने. ↩︎ ↩︎

  11. मोक्षार्थी. ↩︎ ↩︎

  12. श्चित्तं तु. ↩︎ ↩︎

  13. स्नपने सति. ↩︎ ↩︎

  14. सूतकाशौचमाशौचम् शृणुयाद्वा. ↩︎ ↩︎

  15. ब्रह्मं स्तदेतदव. ↩︎ ↩︎

  16. गरुडं चाक्रमेन वा. ↩︎ ↩︎

  17. विमाने. ↩︎ ↩︎

  18. त्कर्मकारिते. ↩︎ ↩︎

  19. शान्तिं कुर्यात्तथा नित्यं. ↩︎ ↩︎

  20. कर्माङ्गध्वजम्. ↩︎ ↩︎

  21. विगगेशाने ध्वजे वातादिपातिते. ↩︎ ↩︎

  22. रं स्थापयत्वा. ↩︎ ↩︎

  23. कम्पने. ↩︎ ↩︎

  24. भवेत्. ↩︎ ↩︎

  25. " अप्ररूढेषु" इत्यादिश्लोकार्धं क्वचिन्न. ↩︎ ↩︎

  26. माने तु महा. ↩︎ ↩︎

  27. कार्या यथोक्तविधिना. ↩︎ ↩︎

  28. हेतुर्दैवा न्मानुषाद्वा. ↩︎ ↩︎

  29. कासु च. ↩︎ ↩︎

  30. भोजनं तु. ↩︎ ↩︎

  31. न्नो चेत्. ↩︎ ↩︎

  32. संस्पर्शे. ↩︎ ↩︎

  33. पर्वादिषु. ↩︎ ↩︎

  34. अग्निदग्धे च. ↩︎ ↩︎

  35. सैव सा भवेत्. ↩︎ ↩︎

  36. आराधनेन. ↩︎ ↩︎

  37. परितो नयेत्. ↩︎ ↩︎

  38. मभ्यन्तरे नयेत्. ↩︎ ↩︎

  39. भिन्नाङ्गं. ↩︎ ↩︎

  40. रथादीनि. ↩︎ ↩︎

  41. मुक्तयेपि वा. ↩︎

  42. थ वा. ↩︎

  43. दृश्यते. ↩︎

  44. मण्डलादिके–स्थण्डिलादिके. ↩︎

  45. च्छास्त्र पद्धतिम्. ↩︎

  46. मन्यद्वा स्थापनादिकम्. ↩︎

  47. यथापुरम्. ↩︎

  48. वै मुख्या. ↩︎

  49. देशिके. ↩︎

  50. कल्पिता. ↩︎

  51. प्रकल्पयेत्. ↩︎

  52. तथा साधक सङ्करे । कर्षणादिषु दोषस्स्या द्राजराष्ट्रक्षयासहः ॥ ↩︎

  53. संज्ञितम्. ↩︎

  54. सर्व. ↩︎

  55. त्वागमा. ↩︎

  56. गणाश्चान्ये—गणा अपि. ↩︎

  57. दिग्देवास्सहायुधाः. ↩︎

  58. यत्र तन्त्रान्तरं तत्स्यात्. ↩︎

  59. चित्रादि. ↩︎

  60. सङ्करस्तत्स्यात्. सङ्करस्तस्यतन्त्रसङ्कर एववा. ↩︎

  61. त्तत्र. ↩︎

  62. प्रतिष्ठादौ. ↩︎

  63. कर्षणादिश्च—कर्षणादीन्. ↩︎

  64. आचार्यं क्रमशः पूज्य पूजाद्यं मधुविद्विषः । तन्त्रभेदे च चसिद्धा न्ते तदेवापि न युज्यते. इति क्वचित्पाठः. ↩︎

  65. अत्र अध्यायसमाप्तिः क्वचित्कोशे दृश्यते. ↩︎

  66. विपिनेपि वा. ↩︎

  67. प्रातरेन. ↩︎

  68. आश्रान्य पायसं. ↩︎

  69. नमन्तै. ↩︎

  70. पितृभ्यः. ↩︎

  71. तन्मातृभ्यः पुनः—तत्स्वसृभ्यः—तत् श्वश्रूभ्वः. ↩︎

  72. स्सर्वेभ्यः. ↩︎

  73. मातुर्मातृभ्य. ↩︎

  74. प्रथमाहुतीः. परमाहुतीः. ↩︎

  75. इदमर्धं बहुघन. ↩︎

  76. तथाष्टाक्षरविद्यया. ↩︎

  77. परमात्मन्नि वेदयेत्. ↩︎

  78. समुदाहृतः. ↩︎

  79. दिकम्. ↩︎

  80. निर्णयं वापि. ↩︎

  81. पापिना. ↩︎

  82. उत्सवपदं क्वचिन्नास्ति. ↩︎