.
नित्यनैमित्तिकादिकर्मवैकल्यप्रायश्छित्तविधिः
तत्र प्रायश्चित्तनिर्वचनम्
ब्रह्मा :—
नैमित्तिकानां नित्यानां कर्मणां भगवन् हरे ।
आराधनानां वैकल्यं लोपो वा प्रायसञ्ज्ञितम् ॥ 18.1 ॥
तस्य चित्तं समाधानमिति निर्वचनक्रिया ।
तत्प्रकारप्रश्नः
कस्य किं वा समाधानं कः प्रकारोऽस्य कथ्यताम् ॥ 18.2 ॥
भगवता तन्निरूपणम्
श्रीभगवान् :—
अस्नातातिलकानुपवीतार्चने प्रायश्चित्तम्
अस्नातोनु 1 पवीतो वा अधृत्वातिलकं तथा ।
अर्चयेद्देवदेवेशं प्रयश्चित्तीयते नरः ॥ 18.3 ॥
समाधानं मूलमन्त्रशतं जप्त्वा तदर्चनम् ।
अकृत्वा पादयोश्शौचमनाचम्यापि वार्चने ॥ 18.4 ॥
पञ्चोपनिषदां जापः प्रयश्चित्तं तदर्चनम् ।
नग्नो वा मुक्तकेशो वास्विन्नाङ्गो वा हसन् श्वसन् ॥ 18.5 ॥
कुप्यन्वा प्रलपन्वापि पूजायां तु शतं जपेत् ।
शतकृतोऽस्त्रमन्तस्य समाराधनमन्वतः ॥ 18.6 ॥
आस्थिलोमादिस्पर्शे
केशास्थिलोमलोष्टादिस्पर्शने नैव निष्क्रिया ।
नीलवस्त्रादिधारणे
वसानो नीलमलिनक्लिष्टवासोऽपवित्रकः ॥ 18.7 ॥
अर्चयेन्मूलमन्त्रस्य जपस्तस्य प्रतिक्रिया ।
स्त्रीसेविनोऽनाप्लुतस्य स्पर्शे
गत्वास्त्रियमानाप्लुत्य पूजने स्नापयेद्धरिम् ॥ 18.8 ॥
पञ्चगव्यैस्ततःपञ्चमहोपनिषदां जपः ।
विण्मूत्रादिस्पर्शे
विण्मूत्ररेतोरुधिरबालादिस्पर्शने सति ॥ 18.9 ॥
अस्नानपूजने देवं स्नापयेत्कुशवारिभिः ।
मूलमन्त्रजपश्चोक्तोनिष्क्रिया तस्य कर्मणः ॥ 18.10 ॥
रजस्वलावस्त्रस्पृष्टस्पर्शने
वस्त्रं रजस्वलायाश्च स्पृष्ट्वा देवार्चने कृते ।
पञ्चगर्वैस्स्नापयित्वा पञ्चोपनिषदां जपः ॥ 18.11 ॥
चण्डालचितिचैत्यस्पृष्टस्पर्शे
श्वानं रजस्वलां यूपं चण्डालं वेदविक्रयम् ।
चितिं च 2 चैत्यभूमिष्ठं वृक्षं स्पृष्ट्वा तदर्चने ॥ 18.12 ॥
पञ्चवारुणमन्त्रैश्च स्नापयेत्कुशवारिणा ।
काकखरपाषण्डादिसम्पर्के
काकपाषण्डपतितप्रतिलोमखरादिकान् ॥ 18.13 ॥
अस्पृश्यमन्यदप्येवं स्पृष्ट्वा प्राग्वत्प्रतिक्रिया ।
केशादिदूषितपुष्पार्चने
3 केशादिदोषदुष्टेन पुष्पेणाराधने कृते ॥ 18.14 ॥
क्षीरेण स्नपनं कृत्वा शान्तिहोमः प्रतिक्रिया ।
पुरीषादिस्पृष्टजनार्चने
पुरीषादिकमाक्रम्य यद्यनाप्लोत्य पूजयेत् ॥ 18.15 ॥
स्नपनं कुशपाथोभिर्जवः प्राग्वत्प्रतिक्रिया ।
स्त्य्रनुपनीतबिम्बस्पर्शे
स्त्रियो वा नुपनीतो वा स्पृशेद्बिम्बं प्रतिक्रिया ॥ 18.16 ॥
उक्षणं कुशतोयेन मन्त्रेण परिमेष्ठिना ।
पूजामध्येनिष्ठीवनसम्भवे
आराधने सम्प्रवृत्ते निष्ठीवादिकमन्तरा ॥ 18.17 ॥
यद्यापतेदाचमनं स्पृशेद्वा दक्षिणं श्रवः ।
अकृतमन्त्रन्यासार्चने
प्रलयादिक्रमाद्देहमसंशोध्य समाधिना ॥ 18.18 ॥
मन्त्रन्यासमकृत्वा च पूजने पूर्ववज्जपः ।
अर्चनं च पुनस्सर्वं कृत्वादेवस्य निष्कृतिः ॥ 18.19 ॥
चण्डालादिसम्पृक्तहविर्निवेदने
चण्डालाद्यैरसंस्पृश्यैर्हविस्स्पृष्टं निवेदयेत् ।
यदि प्रमादात्स्नपनं कोघृतेन प्रतिक्रिया ॥ 18.20 ॥
शान्ति होमश्च कर्तव्य स्तदन्ते कमलासन ।
सृगालादिदूषितवस्तुप्रापणे
दृष्टं च स्पृष्टवत्तद्वत्सृगालाद्यैश्च दूषितम् ॥ 18.21 ॥
आचाररहितैरन्यैस्तथै वाशुचिवस्तुभिः ।
अयाज्ञिकधान्यहविस्समर्पणे
अयाज्ञियैःकोद्रवाद्यैर्हविर्भिश्च निवेदने ॥ 18.22 ॥
पूर्ववच्च समाधानं मूलमन्त्रायुतं जपेत् ।
शाकमूलफलैर्लेह्यपेयाद्यैश्च विवर्जितैः ॥ 18.23 ॥
स्नपनं शान्तिहोमश्च मूलविद्यजप स्तथा ।
अत्युष्णातिशीतहविर्निवेदने
अत्युष्णस्यातिशीतस्य हविषश्च निवेदने ॥ 18.24 ॥
निवृत्तिमन्त्रजापश्च विश्वमन्त्रजपः क्रमात् ।
शवादिदूषितगेहश्रपितहविःप्रापणे
4 शवादिदूषिते गेहे पक्वस्य हविषस्तथा ॥ 18.25 ॥
निवेदनं चेत्स्नपनं शान्ति होमस्तथैव च ।
क्रिमिकेशादिदुष्टस्य हविषश्च निवेदने ॥ 18.26 ॥
पौरुषेणैव सूक्तेन कुर्याच्छुद्धाभिषेचनम् ।
मुखवायुहतादिवस्तुनिवेदने
मुखवायुहताघ्रातं रजस्तुषकणान्वितम् ॥ 18.27 ॥
मृत्पाषाणशकृत्प्राय 5 दूषितस्य निदेदने ।
मूलमन्त्रायुतजपस्तद्वत्पर्युषितं यदि ॥ 18.28 ॥
निवेदितपूर्वनिवेदने
निवेदितस्य हविषो भूयो यदि निवेदनम् ।
6 स्नानपूर्वर्चसं मूलमन्त्रस्य जप इष्यते ॥ 18.29 ॥
निर्माल्योच्छिष्टसमर्पणे
निवेदयेच्च निर्माल्यमुच्छिष्टं वा प्रतिक्रिया ।
कुम्भैर्द्वादशभिस्स्नानं शान्तिहोयोजन स्तथा ॥ 18.30 ॥
गुर्वाद्यन्यवन्दनावसरहस्तधृतकु सुमहविराद्युपयोजने
गुर्वादीन्मनसा वाचा कर्मणा समतःकरे ।
स्थितानि हविरादीनि पुष्पादीनि चतुर्मुख ॥ 18.31 ॥
7 पूजावस्तून्ययोग्यानि समाराधनकर्मणि ।
तैरर्चने पञ्चकुम्भैस्स्नपनं पूर्ववज्जपः ॥ 18.32 ॥
भगवत्स्रणआमकाले हस्तधृतानाम्पुष्पाणां विष्वक्सेने विनियोगः
वासुदेवं प्रणमतः पूजावस्तूनि हस्तयोः ।
स्थितानि नार्चनार्हणि सेनान्ये तानि निक्षिपेत् ॥ 18.33 ॥
तादृशपुष्पैरर्चने
तैरर्चनं चेत्स्नपनं कलशैस्सप्तभिर्भवेत् ।
शान्तिहोमश्च कर्तव्यो मूलमन्त्रजपस्तथा ॥ 18.34 ॥
मण्डूकमूषकाद्युपहतनिवेदने
मण्डूकमूषिकासर्पबिडालाद्यैश्च जन्तुभिः ।
क्रिमिकीटपतङ्गाद्यैःपक्षिभिर्वायसादिभिः ॥ 18.35 ॥
स्पृष्टं दष्टं हविर्नैप देवार्हं तन्नि वेदने ।
स्नपनं कलशैरेव त्रिभिर्होमान्तमर्चयेत् ॥ 18.36 ॥
मक्षिकाद्युपघाते विशेषः
मक्षिकाद्यैश्च संस्पृष्टं प्रोक्ष्य देवाय कल्पयेत् ।
भुक्तशेषनिवेदने
भुक्तशेषैःप्रमादाद्वालोभाद्वा देवमर्चयेत् ॥ 18.37 ॥
मूलमन्त्रायुतजपश्शान्तये तस्य कल्पते ।
दत्तशेषप्रदानेन तद्वदेव च निष्कृतिः ॥ 18.38 ॥
पर्युषिताम्बूपहारे
स्नाने पर्युषिताम्बोभिः पुनरेपमथाम्बुभिः ।
अब्लिङ्गैः पावनै र्मन्त्रैः प्रायश्चित्तं तदुच्यते ॥ 18.39 ॥
अपर्युषित तीर्थसलिलानि
पुण्यतीर्थसरित्तोये न पर्युषितदूषणम् ।
समुद्रतो यस्यापर्युषितत्वावधिः
समुद्रतोयं दशमात्परं पर्युषितं दिनात् ॥ 18.40 ॥
तिर्यग्योन्यादिलङ्घितपारिणो निषेधः
तिर्यग्योनिभिरस्पृश्यैर्मनुष्यैरपि लङ्घितम् ।
स्पृष्टं च वारि न स्नानयोग्यं स्नाने च वारुणैः ॥ 18.41 ॥
स्नानं पुनर्विधातव्यं शान्त्यर्थं तस्य कर्मणः ।
अजाश्वादिमुखसंस्पर्शस्य कामचारः
अजाश्व मुखसंस्चर्शोन दोषाय कदाचन ॥ 18.42 ॥
अशुचिद्रव्यसम्पृक्तजलस्य निषेधः
गोमुखेनैव संस्पृष्टं वर्जनीयं समर्चने ।
प्रायश्चित्तं पुनस्स्नानं मूलमन्त्रजपस्तथा ॥ 18.43 ॥
विण्मूत्ररुधिरापेययुक्तैस्तोयादिवस्तुभिः ।
नार्चयेदर्चने स्नानं कलशै रधमाधमौः ॥ 18.44 ॥
शिवनिर्माल्यसम्पर्के प्रायश्छित्तम्
शिवनिर्माल्यदुष्टेन तोयप्रभृतिवस्तुना ।
पूजने कलशैस्स्नानमधमैर्मध्यमैर्भवेत् ॥ 18.45 ॥
शवादिदूषितकूपादिजलाशयसंस्कारः
शिवादिदूषिते कूपे जलमुद्धृत्य पूर्वकम् ।
सर्वं तदन्ते पुण्याहं वाचयेज्ज्ञलशुद्धये ॥ 18.46 ॥
पश्वादिमरणे कूपे चण्डालस्नानपानयोः ।
तथा रजस्वलाद्यैश्च प्रतिलोमैर्विगर्हिते ॥ 18.47 ॥
कूपस्थं तज्जलं सर्वमुद्धरेत्कमलासन ।
चुचुन्दर्यादिमरणे जलस्यार्धं समुद्धरेत् ॥ 18.48 ॥
उक्तसंस्कारस्य दिवारात्रभेदेन भेदः
दिवा समुद्धरेत्तोयं रात्रौ चेदग्नि सन्निदौ ।
उद्धरेदन्यथा तोयैरुपयोगेऽथ वारुणैः ॥ 18.49 ॥
पञ्चभिर्जुहुयादग्नौ ब्राह्मणानपि भोजयेत् ।
पूजाकाले दीपनिर्वाणे प्रायश्चित्तम्
पूजाकाले तु दीपस्य निर्वाणेद्विगुणार्चनम् ॥ 18.50 ॥
दीपमुद्दीप्य जप्तप्यो विश्वमन्त्रश्शतावरः ।
आकस्मिकनिर्वाणे दोषाभावः
अकस्मादेव निर्वाणे शान्तिर्नैव त्वहेतुके ॥ 18.51 ॥
अनिर्वाणदीपनिर्वाणे प्रायश्चित्तम्
अनिर्वाणस्य निर्वाणे दीपस्य स्नपनं हरेः ।
क्षीरेण मूलमन्त्रस्य जपश्चाष्टोत्तरं शतम् ॥ 18.52 ॥
दीपयोग्यतैलम्
सर्पिषा तिलतैलेन दीपारोपणमाचरेत् ।
निषिद्धतैलनिरूपणम्
नान्यैरेरण्डतैलाद्यैर्नाजाविमहिषादिजैः ॥ 18.53 ॥
स्नेहैरारोपणं कार्यं न च प्राण्यङ्गमम्भवैः ।
प्रमादात्फलजैस्तैलैस्स्न पने दीपने हविः 8 ॥ 18.54 ॥
निवेदने च होमे च स्नेहौरन्यैश्च निन्दितैः ।
तादृशतैलयोगे प्रायश्छित्तम्
अनुष्ठाने कृते कुम्भै स्स्नापयेन्मध्यमोत्तमैः ॥ 18.55 ॥
शान्तिहोमस्तथा दानं द्विजेभ्यो भोजनं तथा ।
निषइद्धदधिक्षीरादि
9 अजप्रभृतिदध्याद्यैस्स्नानादौ विहिते सति ॥ 18.56 ॥
प्रायश्चित्तं यथापूर्वमाचरेत्कसुलासन ।
क्लृप्तोपकरणन्यूनीभावे विधिः
पूर्वोपचारक्लृप्तौ तु न्यूनायां क्लृप्तवस्तुभिः ॥ 18.57 ॥
वस्तुभिर्द्विगुणैर्भूयस्पमाराध्य मधुद्विषम् ।
सर्पिषाष्टोत्तरशतं जुहुयान्मूलविद्यया ॥ 18.58 ॥
मन्त्रक्रियादिहानौ विधिः
मन्त्रहानौ क्रियाहानौ मुद्राहानौ तथैव च ।
जपहानौ ध्यानहानौ हीनेष्वन्येषु केषु चित् ॥ 18.59 ॥
मूलमस्त्रजपस्तस्य यथाशक्ति 10 प्रतिक्रिया ।
गेयवादित्रनृत्तेषु पूर्वक्लृप्तेषु पूजने ॥ 18.60 ॥
हीनेकस्मिंश्चिदाराध्यो हरिस्स्नपनवर्त्मना ।
वाद्यनृत्तादिहानौ शान्तिः
वाद्यहानौ तु पयसा नृत्तहानौ घृतेन तु ॥ 18.61 ॥
गेयहानौ तु मधुना जुहुयात्पूर्वसङ्ख्यया ।
पूर्वक्लृप्तोपदं शादिहानौ द्विगुणवस्तुभिः ॥ 18.62 ॥
निवेदयेत्स्नानपूर्वं कालाति 11 क्रमणेपि च ।
भोगद्रव्यैर्द्विगुणितै राराध्य क्षम्यतामिति ॥ 18.63 ॥
सन्ध्याकालातिक्रमे
उच्चारयेत्तथा सन्थ्यातिक्रान्तौ द्वाद शेष्वपि ।
अधिककालपूजाहानौ
कालेषु क्लृप्तङ्ख्येषु हानौ कालस्य कस्य चित् ॥ 18.64 ॥
द्विगुणैर्वस्तुभिः पूज्यः कालेषु च यथोत्तरम् ।
कालं प्रथममारभ्य द्विगुणैस्त्रिगुणै स्तथा ॥ 18.65 ॥
चतुर्गुणैः पञ्चगुणैरेवमाद्यैस्तु वस्तुभिः ।
पूजयेज्जप 12 होमाद्यैस्तद्वदेव यथायथम् ॥ 18.66 ॥
अतिक्रान्ते दिनविदौ विधिरेषप्रकीर्तितः ।
द्विदिनादौ तु पक्षान्ते पूजाहिने घटैस्तथा ॥ 18.67 ॥
अधमोत्तममार्गेण स्नापयेत्तस्य शान्तये ।
मासे च पूजाविकले मध्यमोत्तमवर्त्मना ॥ 18.68 ॥
तिलाज्यचरुभिश्चैव जुहुयान्मूलविद्यया ।
वर्षाधिककालपूजालोपे पुनःप्रतिष्ठा
संवत्सरत्रयादर्वाङ्मासादूर्ध्वमनर्चिते ॥ 18.69 ॥
सम्प्रोक्षणं भवेदूर्ध्वं प्रतिष्ठाविधिरुच्यते ।
भूगुप्तगृहर्चाविधिः
भूगुप्तामपि चैकाहमुद्धृत्य प्रतिमां पुनः ॥ 18.70 ॥
सम्प्रोक्षयेद्गृहार्चायामाराधनविरोपने ।
स्नपनं पञ्चगव्येन सूक्तेन पुरुषात्मना ॥ 18.71 ॥
शान्तये जुहुयादग्नौ ब्राह्मणानपि तर्पयेत् ।
मासादूर्ध्वं तु षण्मासं पूजाहीने चतुर्मुख ॥ 18.72 ॥
कुम्भैष्षोडशभिस्स्नानं सूक्तेन पुरुषात्मना ।
भोजयेद्ब्राह्मणानग्नौ जुहुयाच्छान्तये पुनः ॥ 18.73 ॥
ऊर्ध्वं सम्प्रक्षणं कार्यं यावत्संवत्सरावधि ।
प्रतिष्ठाविधिरूर्ध्वं तु वत्सरादुक्तवर्त्मना ॥ 18.74 ॥
देवस्थापि तेषु पूजालोपे विधिः
त्रिदशादिप्रतिष्ठायां पूजालोपे न दूषणम् ।
प्रयश्चित्तं तु मर्त्यानां प्रतिष्ठायामुदीरितम् ॥ 18.75 ॥
सालिग्रावपूजालोपे शान्त्यभावः
सालिग्रावशिलादीनां पूजालोपो न दूषणम् ।
तथैपाशुछिसंस्पर्शे क्षालयित्वार्चयेत्पुनः ॥ 18.76 ॥
सर्वधा लोपने शान्तिर्नोक्तकालाश्रयो ? भवेत् ।
अज्ञानादधवा ज्ञानाद्वह्नितर्पण 13 वर्जिते ॥ 18.77 ॥
अनेककालपूजालोपे विधिः
पञ्चोपनिषदैर्मन्त्रेस्सर्पिषा जुहुयाच्छतम् ।
एकादिकालातिक्रान्तौ द्विगुणादि यथापुरम् ॥ 18.78 ॥
बहुभिःकलशैर्देवं स्नापयेद्दिवसात्परम् ।
मासावधि तदूर्ध्वं तु कलशैर्वत्सरावधि ॥ 18.79 ॥
अष्टोत्तरशतैःकुर्यात्स्नपनं जुहुयात्पुनः ।
अष्टोत्तरसहस्रेण तिलाज्यचरुभिः 14 क्रमात् ॥ 18.80 ॥
द्वादशाक्षरमन्त्रेण शान्तिहोमस्तदा भवेत् ।
वत्सरादुपरिष्टात्तु स्नपनं मध्यमोत्तमम् ॥ 18.81 ॥
कुण्डे चाग्निं स्थापयित्वातिलव्रीहियवैरपि ।
लाजैश्च कालपुष्पैश्च समिच्चरुघृतैरपि ॥ 18.82 ॥
अष्टोत्तरसहस्रेण जुहुयान्मूलविद्यया ।
शान्तिहोमस्तथा दानं विप्राणां चापि भोजनम् ॥ 18.83 ॥
सत्यग्नावप्यहोमे तु प्रायश्चित्तमितीरितम् ।
अग्नौशान्तेमथित्वाग्निं शान्तिहोमं समाचरेत् ॥ 18.84 ॥
पञ्चोपनिषदैर्मन्त्रेर्व्याहृतिप्रमुखै रपि ।
गुपरिस्तीर्य च कुशैर्होमःप्रणवविद्यया ॥ 18.85 ॥
अष्टोत्तरशतेनाज्यैर्मूलमन्त्रजपस्तथा ।
अयथोक्तक्रमे तद्वत्प्रायश्चित्तं विधीयते ॥ 18.86 ॥
काम्ये परिधमो 15 नेषा नित्ये कर्मणि वान वा ।
अलाभे समिधामज्यैश्चरुभिर्वाहुतिर्भवेत् ॥ 18.87 ॥
तयोरलाभे [^16] बीजैर्वा समिद्भिर्वा यथोदितैः ।
अग्निकुण्डस्याशुचिसम्पर्केशान्तिः
अग्नौ केशादिभि 16 स्स्पृष्टे अस्पृश्यस्पर्शने तथा ॥ 18.88 ॥
होमो व्याहृतिभिः कार्यो वारानष्टोत्तरं शतम् ।
आयुतं पुष्पवत्यादिस्पर्शे मथनजेऽनले ॥ 18.89 ॥
पाकस्थानाशुचित्वशान्तिः
पाकस्थाने चुल्लिस्पर्शे नरैः पुर्वोदितैस्तथा ।
श्वादिभिस्स्थानमालिप्य गोमयेन महानसम् ॥ 18.90 ॥
आनीयाग्न्यन्तरं चुल्यां पुण्याहं वाचयेद्ध्विजैः ।
विण्मूत्राद्यैस्तथास्पर्शे पूर्ववच्छुद्धिरिष्यते ॥ 18.91 ॥
17 पक्वेन चुल्यां दुष्टायां हविषां च निवेदने ।
स्नापयेन्नवभिःकुम्भैर्देवं वाथ घटैस्त्रिभिः ॥ 18.92 ॥
परिवारार्चनलोपे
परिवारार्चने च्छिन्ने तत्तन्नामान्युदीरयन् ।
सर्पिषा जुहुयादग्नौ प्रत्येकं त्वष्टसङ्ख्यया ॥ 18.93 ॥
बल्यर्थहविषो दोषे
द्विगुणाद्यैर्द्विकालादौ बल्यर्थं च हविर्यदि ।
दूषितं केशकीटाद्यैरस्पृश्यैर्मनुजैस्तथा ॥ 18.94 ॥
काकादिभिश्च तत्त्यक्त्वाहविषान्येन कर्मतत् ।
यदि दुष्टेन हविषा बलिं दद्यात्प्रमादतः ॥ 18.95 ॥
शान्तिहोमस्तदा कार्यश्शास्त्रदृष्टेन वर्तना ।
तण्डुलादिदूषणे बलिद्रव्यादिपाते
तण्डुले चोदने पुष्पे बल्यर्थे पात्रसम्भृते ॥ 18.96 ॥
18 देवे चावाहिते तस्मिन् पूर्ववद्दूषणं यदि ।
पतिते वा बलिद्रव्ये 19 मूलभेरेऽथवात्मनि ॥ 18.97 ॥
उद्वास्य देवमानीय द्रव्यान्तरमदूषितम् ।
तस्मिन्नावाह्य देवेशं यथापूर्वं पुनर्नयेत् ॥ 18.98 ॥
तद्दोषशान्तये पश्चाद्दध्ना क्षीरेण वा हरिम् ।
स्नापयेज्जुहुयाच्छान्तिं मूलमन्त्रजपस्तथा ॥ 18.99 ॥
बलिबेरस्य पतने
बलि 20 बेरे निपतिते यनादावुत्सवे बहिः ।
स्थापयित्वा यथापूर्वं 21 बलिशेषं नयेत्पुनः ॥ 18.100 ॥
शास्तये नवभिः कुम्भैस्स्नापयेत्पतिते भुवि ।
अधमाधममार्गेण शान्तिहोमो जपस्तथा ॥ 18.101 ॥
रज्वसलादिदूषितभूसंस्कारः
नृत्तगेयरता नार्यो 22 गणिकाश्चाथवेतराः ।
देवदास्यो दूषयेयू रजोभिः पृथिवीतलम् ॥ 18.102 ॥
रजस्वलारजोदुष्टं भूतलं जानुमात्रकम् ।
खात्वा च मृद्भिरन्याभिः पूरयित्वा महीतलम् ॥ 18.103 ॥
आलिप्य गोमयाम्बोभिः पुण्याहं वाचयेत्ततः ।
प्रोक्षणं पञ्चभिर्गव्यैस्सन्निकृष्टं च कौतुकम् ॥ 18.104 ॥
अधमोत्तममार्गेण कलशैस्स्नापयेद्गुरुः ।
तिलाज्यचरुभिर्होमः प्रत्येकं मूलविद्यया ॥ 18.105 ॥
सहन्रकृत्वस्तदनु शान्तिहोमो जपस्तथा ।
कवाटदोषे शुद्धिः
कवाटादिकमप्यन्यत्स्पृष्टं प्रक्षाल्यमम्भसा ॥ 18.106 ॥
तासां च मार्गास्संशोध्या गोमयाम्भोबिरुक्षणैः ।
चोरभूतैर्ब्राह्मणाद्यैः स्पष्टे बेरेऽप्यचोदितैः ॥ 18.107 ॥
चोरस्पर्शे
चोरस्पर्शनिमित्तं तु स्नपनं कलशैर्हरेः ।
वर्णानामानुपूर्व्येण त्वथमाधमपद्धतिम् ॥ 18.108 ॥
आरभ्य गणितैः कुर्यात्सङ्करैरपि तद्भवेत् ।
बीजप्रयुक्तकलशैस्स्नपनं शान्तये भवेत् ॥ 18.109 ॥
शान्तिहोमो ब्राह्मणानां भोजनं दानमेव च ।
अज्ञातजातिजनस्पर्शे
अज्ञातजातिसंस्पर्शे स्नापयेदुत्तमोत्तमैः ॥ 18.110 ॥
शान्तिहोमो द्विजेन्द्राणां 23 भोजनं दानमेव च ।
त्रिवस्तुकं मृण्मयं च लेपबिम्बं च भित्तिजम् ॥ 18.111 ॥
चित्रं नीचैर्यदि स्पृष्टं चण्डालाद्यै 24 र्विगर्हितैः ।
नवीकरणमास्थेयं सम्प्रोक्षणविधि 25 स्तथा ॥ 18.112 ॥
प्रतिष्ठा वा यथावित्तं दोषभूयस्तयाथ वा ।
पटस्पर्शे क्षालयित्वा यथापूर्वं पुसस्सृजेत् ॥ 18.113 ॥
अन्यशास्त्रदीक्षितस्पर्शे
दीक्षितैरन्यशास्त्रेषु स्पृष्टे स्नपनमाचरेत् ।
दीक्षितैरितरैश्चापि शूद्रैस्तद्वत्समाचरेत् ॥ 18.114 ॥
महापातक्यादिस्पर्शे
महापातकिसंस्पर्शे स्नपनं चोत्तमोत्तमम् ।
उपपादकि संस्पृष्टे स्नपनं चाधमोत्तमम् ॥ 18.115 ॥
परस्त्रीगमनासक्तैस्तथाऽनियतवृत्तिभिः ।
स्पर्शे च नवभिःकुम्भैस्स्नपनं कौतुके भवेत् ॥ 18.116 ॥
अस्पृश्यैरितरैर्वापि कुण्डादिस्सर्शने सति ।
स्नपनं पूर्ववत्कार्यं स्त्रीभिर्दुष्टाभिरेव च ॥ 18.117 ॥
अनुलोमास्त्रियश्शूद्रा व्रजेयुर्गर्भमन्दिरम् ।
भूतलं पञ्चगव्येन सिञ्चेद्वा गोमयाम्बभिः ॥ 18.118 ॥
चण्डालैःपुल्कसैर्वापि तपितैर्मद्यपै स्तथा ।
श्वपचैर्मन्दिराभ्यन्तः प्रवेशे मृण्मयांस्त्यजेत् ॥ 18.119 ॥
तत्रस्थान् क्षालयित्वान्तः कवाटादिमहीतलम् ।
आलिप्य गोमयोम्भोभिः 26 पुण्याहमपि वाचयेत् ॥ 18.120 ॥
प्रतिमाश्चापि तत्रस्था स्स्नापयेत्कलशैर्गुरुः ।
शान्तिहोमो जपश्चैव द्विजानां दानभोजने ॥ 18.121 ॥
अशौचवत्प्रवेशे च पूर्ववद्विधिरिष्यते ।
चण्डालश्श्वपचो वापि तादृशाःपुल्कसादयः ॥ 18.122 ॥
अज्ञानाद्गर्भगेहेतु कर्मस्वधिकृता यदि ।
वसेयुश्चैव तैस्सार्धं भोज्यं वा वस्तु तादृशम् ॥ 18.123 ॥
स्पृष्टमाराधनाङ्गं चेत्स्पृष्टं वा कौतुकं यदि ।
क्रियासमभिहारेण प्रायश्चित्तमिहोच्यते ॥ 18.124 ॥
शोधयेन्मन्दिरं पूर्वं गोमयालेपनादिभिः ।
पुण्याहं वाचयित्वाथ ब्राह्मणांस्तत्र भोजयेत् ॥ 18.125 ॥
स्वाध्यायं परिकुर्वीरन् ब्राह्मणा वेदपारगाः ।
इतिहासपुराणानि पठेयुश्च दिवानिशम् ॥ 18.126 ॥
कपिलाश्च प्रदेशेषु तत्र तत्राधिपासयेत् ।
एवं मासादिकालेषु दोषगौरवराघवम् ॥ 18.127 ॥
अवेक्ष्य शोधिते धाम्नि ब्राह्मणांस्तोषयेद्धनैः ।
प्रतिमानां यथायोगमुद्धारो वा नवीकृते ॥ 18.128 ॥
कुर्यात्ततो यथापूर्वं 27 निमित्ते वा नवीकृते ।
प्रतिष्ठाप्य यथाशास्त्रं स्नापयेत्कलशैरधि ॥ 18.129 ॥
सहस्रेण पूरावृत्तदोषाणामपनुत्तये ।
अन्तेमहोत्सवःकार्योन चेद्राष्ट्रानृपक्षयः ॥ 18.130 ॥
शिलाबिम्बस्य चालननिषेधः
बिम्बं न चालयेच्छैलं न नवीकरणं तथा ।
तथैव दिव्यमार्षं च स्वयं व्यक्तं च कौतुकम् ॥ 18.131 ॥
मागधश्वापदादिस्पर्शे शान्तिः
तथान्यैर्मागधाद्यैश्च प्रतिलोमैश्च गर्हितैः ।
सहस्रकलशैर्देवं स्नापयेत्तस्य शान्तये ॥ 18.132 ॥
श्वापदैश्च सृगालाद्यैश्छण्डालाद्यैश्च गर्हितैः ।
प्रथमादि प्रविष्टं चेद्धामावरणभूतलम् ॥ 18.133 ॥
प्रोक्षयेत्पञ्च गव्येन पुण्याहमपि वा चयेत् ।
धामस्पर्शे तथान्यस्य बलिपीठादि 28 कस्य च ॥ 18.134 ॥
स्पर्शेकृत्वा यथापूर्वं शान्तिहोमं समाचरेत् ।
आगन्तुकैः कुक्कुटाद्यैस्स्पृष्टं चेद्धाम सर्वतः ॥ 18.135 ॥
प्रोक्षयेन्म्रपूतेन वारिणा शान्तिमाचरेत् ।
देवान् संस्नापये 29 च्चैव प्रथमावरणादिगान् ॥ 18.136 ॥
खद्योतसम्पर्के
सर्पिश्चरुतिलैर्होमो मूलेनाष्टोत्तरं शतम् ।
खद्योतस्पर्शने देवं स्नापयेन्नवभिर्घटैः ॥ 18.137 ॥
पूजाकाले कवाटबन्धने
पूजाकाले कवाटस्य बन्धनं चेदसङ्कुले ।
अष्टोत्तरशतं मूलमन्त्रस्य जप इष्यते ॥ 18.138 ॥
तत्रापवादः
सङ्कुले 30 बन्धनं नैव दोषाय भवति क्वचित् ।
बिम्बवदेव प्रभापीठादिषु दोषः
प्रभापीठास्त्रसंस्पर्शे बिम्बस्पर्शवदिष्यते ॥ 18.139 ॥
आचार्याःपूजकाश्चान्ये तथैव परिचारकाः ।
आसनेष्वासिकां भुक्तिं शयनं च यथातथम् ॥ 18.140 ॥
कुर्युः कर्मण्यधिकृता दोषा नैव तदा भवेत् ।
अनधिकारिप्रसङ्गे शान्ति
अन्ये चेत्कुर्युरवनिं प्रोक्षयेद्गोमयाम्बुभिः ॥ 18.141 ॥
प्राकारादीनामग्नि दाहे
प्राकारे मण्टपे धाम्नि गोपुरे पाकवेश्मनि ।
दग्धेऽग्निना समाधाय पूर्ववन्मण्टपादिकम् ॥ 18.142 ॥
प्रतिष्ठाप्य यथापूर्वं ततः शान्तिं समाचरेत् ।
अधमोत्तममार्गेण स्नपनं शान्तिदं भवेत् ॥ 18.143 ॥
शान्तिहोमस्तु कर्तव्योद्विजानां दानभोजने ।
प्रतिमादहने चापि समाधाय यथापुरम् ॥ 18.144 ॥
स्नासं सहस्रकलशैः प्रतिष्ठाप्य यथाविधि ।
वस्त्रादिदहने तस्याः प्रभादिदहने तथा ॥ 18.145 ॥
नवभिःकलशैस्स्नानं होमादि तदनन्तरम् ।
सुदर्शनादीनामग्निदाहे
सुदर्शनेऽग्निना दग्धे स्नानं नवघटैर्भवेत् ॥ 18.146 ॥
ध्वजे विताने छत्रे च दग्धेचास्तरणादिके ।
पुनरुत्पाद्य तत्सर्वं शान्तिहोमादिकं भवेत् ॥ 18.147 ॥
प्राकारादीनां वृद्धिस्थानादिनिर्देशः
प्रासादाद्यवकाशानां वृद्धिश्चेत्सर्वतो भवेत् ।
यद्वा प्राच्यामुदीच्यां वा वृद्धिर्नान्यत्र शोभना ॥ 18.148 ॥
निषिद्धदिशि वृद्धौ शान्तिः
दक्षिणापरवृद्धिश्चेत्स्नपनं चोत्तमोत्तमम् ।
शान्तिहोमो द्विजेन्द्राणां तर्पणं भोजनादिभिः ॥ 18.149 ॥
उपपीठस्य कामचारः
शोभना सर्वतो वृद्धि 31 रुपपीठस्य चेष्यते ।
प्रथमावरणं यावत् दोषस्स्याद्देवनिर्मिते ॥ 18.150 ॥
नवीकरणे पूर्ववदेव चिह्नानि
वर्धितं यदि पूर्वोक्तंस्नपनं शान्तिदं भवेत् ।
नह्रासयेत्पुराक्लृप्तं धामादि न च चालयेत् ॥ 18.151 ॥
पौराणिकं शिरः पीठं धामचिह्नं च वैष्णवम् ।
नोद्धृत्य 32 पूरयित्वावा न वृद्धिर्गोपुरादिषु ॥ 18.152 ॥
अल्पीयः प्राग्विमानादि दिव्यवर्गं धनैः पुनः ।
वर्धयेच्छ्रद्धया मुख्यैर्द्रव्यैरर्चान्नयेद्गुरुः ॥ 18.153 ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे नित्याराधनप्रायश्चित्तविधिर्नाम अष्टादशोऽध्यायः.
-
नुपनीतो वा. ↩︎
-
नीचचैत्यस्थं. ↩︎
-
मूत्रादि. ↩︎
-
सत्वादि. ↩︎
-
दूषितं च निवेदयेत्. ↩︎
-
स्नपनं पूर्वनन्मूल. ↩︎
-
पूजानस्तूनि योग्यानि नैवाराधनकर्मणि. ↩︎
-
बविर्निवेदने. इतिवक्तव्ये–विग्रहः छान्दसः. ↩︎
-
अजप्रभृतिपश्वाद्यैः—हविः प्रभृतिदध्याद्यै. ↩︎
-
जपक्रिया. ↩︎
-
क्रमणेन च. ↩︎
-
होमान्तम्. ↩︎
-
नर्जिने. ↩︎
-
पृथक्. ↩︎
-
ष्टानि नित्यकर्माणि. नित्यं कर्माणि. ↩︎
-
र्जुष्टे. ↩︎
-
पक्वस्य. ↩︎
-
देवतावाह्यते तस्मिन्. ↩︎
-
बलिबेरेऽथवर्त्मनि. ↩︎
-
बिम्बे. ↩︎
-
बिम्बं शेषं. ↩︎
-
गाणिक्यमथ. ↩︎
-
तोषणम्. ↩︎
-
स्तथा परैः. ↩︎
-
र्भवेत्. ↩︎
-
पुण्याहं वाचयेज्जलैः. ↩︎
-
उद्धारो वा. ↩︎
-
कर्मच. ↩︎
-
देवं प्रथमानरणादिषु. ↩︎
-
बन्धने. ↩︎
-
मुपनीतस्य. ↩︎
-
पूजयित्वा. ↩︎