.
जीर्णोद्धारविधिः
ब्रह्मा :—
प्रतिमानां तथा धाम्नां जीर्णानां भगवन्नहम् ।
उद्धारं श्रोतुविच्छामि तन्मे ब्रूहि यथातथम् ॥ 17.1 ॥
स्वयंव्यक्तादिष्वङ्गवैकल्ये समाधानम्
श्रीभगवान् :—
स्वायम्भवार्षदिव्येषु मानुषेषु चतुर्ष्वपि ।
अङ्गहानौ रत्नजेषु तत्तज्जाम्बानदैः पुनः ॥ 17.2 ॥
समाधातव्यमेवाङ्गं न त्याज्यं शैलजेष्वपि ।
तद्वदेव समाधानं दारुजादिषु पञ्चसु ॥ 17.3 ॥
हीनाङ्गेषु पुनर्बिम्बसृष्टिः
1 हीनाङ्गेषु तु बिम्बानि हित्वा तानि पुनस्सृजेत् ।
अङ्गमात्रसमाधाने सृष्टौ सर्वात्मनापि च ॥ 17.4 ॥
कुम्भे शक्तिं 2 समुद्वास्य निर्माय च यथापुरम् ।
अधिवासादिकं सर्वं प्रतिष्ठायामिवाचरेत् ॥ 17.5 ॥
समाधियोग्यस्य बिम्बस्य न त्यागः
स्थितवत्स्वेषु 3 बिम्बेषु समाधिर्यदि शक्यते ।
न त्यागो युज्यते तेषां सर्वेषामेव पद्मज ॥ 17.6 ॥
समाध्यभावे बिम्बस्य नवीकरणम्
त्यक्तं च लोहजं बिम्बं द्रावयित्वा पुनस्सृजेत् ।
देवीनामविकालानां प्राचीनानामेव योगः
देवे जीर्णे पुनस्सृष्टौ देव्यःप्रच्यो यथास्थिताः ॥ 17.7 ॥
ताभिरेव पुनर्देवो योज्यो नान्यास्सृजेत्पुनः ।
प्राचीनदेवीयोगे पुनर्नोद्वाहः
नोद्वाहश्च पुनः कार्यस्सन्तते तानु पूजने ॥ 17.8 ॥
शक्तिमुद्वास्य प्रभापद्मासनादीनां समीकरणम्
प्रभापद्मासनादीनां वैकल्ये चलनेऽपि वा ।
आयुधेऽपि च चक्रादौ यष्टव्यो नासमाहिते ॥ 17.9 ॥
उद्वास्य प्रतिमाशक्तिं मूलभेरे घटेऽपि वा ।
चक्रादेश्च समाधानं कार्यं तस्मिन् समाहिते ॥ 17.10 ॥
सम्प्रोक्ष्य पूजयेच्चक्तिमावाह्य प्रतिमासु ताम् ।
बालालयं कल्पयित्वातत्र शैलादिवस्तुषु ॥ 17.11 ॥
बिम्बे तु शक्तिमावाह्य जीर्णेभ्यः पूजनं हरेः ।
त्यक्तस्य बिम्बस्य जले अवटे वा निक्षेपः
त्यक्तं च बिम्बं निखनेत् क्षितौ वाम्भसि निक्षिपेत् ॥ 17.12 ॥
प्रासादनवीकरणे भगवतो बालालये स्थापनम्
प्रासादे चापि शिथिले पूजयेद्बालवेश्मनि ।
उपेतं परिवारैस्स्वैर्देवं मूले यथा तथा ॥ 17.13 ॥
अजीर्णे ध्रुवबेरे अन्यत्र नोद्वासः
अजीर्णे ध्रुवबिम्बे तु जीर्ण्टे धामनि तत् स्थितान् ।
देवान्देवपरीवारान्मूलबेरे निवेशयेत् ॥ 17.14 ॥
अजीर्णधामनिष्ठानां जीर्णेतु ध्रुवकौतुके ।
नोद्वासो न्यत्र कर्तव्यो देवादीनां चतुर्मुख ॥ 17.15 ॥
तथाकरणे दोषः
अजीर्णेनाङ्ग 4 हानौ च धामादौ नैव कल्पयेत् ।
भूयस्तरो 5 पि मर्त्येन व्यामोहाद्यदि कल्पयेत् ॥ 17.16 ॥
आत्महानिर्द्ध्रवा तस्य यजमानस्य 6 सान्वया ।
प्रमादकल्पितस्य प्रासादादेः परिष्कृत्य सृष्टौ दोषाभावः
यदि प्रमाणरहितं प्रमादात्कल्पितं पूरा ॥ 17.17 ॥
प्रासादादि 7 पुनस्सृष्टौ कल्पये ल्लक्षणान्वितम् ।
बहुबेरैकबेरेषु जीर्णोद्धारे यथापूर्वकल्पनम्
बहुबेरैरबेरेषु कल्पनं स्याद्यथापुरम् ॥ 17.18 ॥
बहुबेरेनैकबेरं नैकबेरे तथा परम् ।
देवीविरहितस्य बिम्बस्य पुनस्सृष्टौ देवीयोगो वैकल्पिकः
देवीविरहितं पूर्वं बहुबेरं कृतं यदि ॥ 17.19 ॥
भूयः प्रकल्पने तस्य देवीभ्यां सह वा विना ।
अमानुषबिम्बादीनां पुनःपरिष्कारेपूर्ववदेव न्यासः
अमानुषं च बिम्बादि पूर्वं लक्षणवर्जितम् ॥ 17.20 ॥
जीर्णोद्धारेऽपि कर्तव्यं तथैव न तदन्यथा ।
तादृशेषु शयनभेरेषु पूर्ववदेव विधिः
शयनं वाऽऽसनं स्थानं यानं वा तद्यथापुरम् ॥ 17.21 ॥
बिम्बस्य पुनरुद्धारस्तथैव स्यादमानुषे ।
मानुषे तु विकल्पः
मानुषे तु स्थितादीनां बिम्बानामिच्छया भवेत् ॥ 17.22 ॥
पुनस्सृष्टिर्न दोषाय तथा सति चतुर्मुख ।
* दिव्ये विमानादौ आकारप्रमाणादीवत् उपादान.
द्रव्यमपि सजातीयमेव.*
दिव्यं विमानं यद्वस्तु यन्मानं यादृशं पुरा ॥ 17.23 ॥
तादृगेव पुनस्सृष्टौ नान्यथा तत्प्रकल्पयेत् ।
अन्यथा कल्पने दोषो काज्ञो राष्ट्रस्य च ध्रुवम् ॥ 17.24 ॥
आर्षमानुषयोर्विमानयोः उपादानद्रव्यविकल्पः
मानुषं सदनं चार्षं चैष्टकं वाथ मृण्मयम् ।
जीर्णं पुनस्समुद्धारे शैलेनेष्टकयापि वा ॥ 17.25 ॥
उपपीठादिषु परिवारेषु च कामचारः
उपपीठादिकं क्लृप्तं रक्षार्थं 8 वर्धयेद्बहिः ।
परिवारांश्च तत्रस्थानुपपीठे च वर्धिते ॥ 17.26 ॥
स्थापयेन्मूलबेरस्य रक्षार्थत्वान्न दूषणम् ।
चलितसालगोपुरादीनां पृद्धिह्रासावैच्छि कौ
सालगोपुरपीठादौ चलिते जीर्ण एव वा ॥ 17.27 ॥
दृढं शिलादिभिःकुर्या द्विस्तीर्ण मथ वाऽन्यथा ।
सद्यादिवेगेन नष्टानां प्रासादादीनां स्थलान्तरे कल्पनानुज्ञा
नद्यादिजलवेगेन चलिते नष्ट एव वा ॥ 17.28 ॥
प्रासादादौ पुनस्थ्साने निर्बाधेऽन्यत्र कल्पयेत् ।
प्रथमकल्पनपदेव द्वितीयकल्पनेऽपि मन्त्रः
या मूर्तिर्येन मन्त्रेण यादृशेनाधिकारिणा ॥ 17.29 ॥
प्रथमे कल्पने सैव द्वितीये कल्पने भवेत् ।
मूर्तिस्सैव च मन्त्रं च स एव स्थापकः पुनः ॥ 17.30 ॥
अपूर्वकल्पने जीर्णोद्धारे च तुल्यफलता
अपूर्वकल्पने जीर्णसमुद्धारे द्वयोरपि ।
तुल्यं फलं कल्पनायां धामादेर्नास्तिसंशयः ॥ 17.31 ॥
तन्त्राधिकारिमूर्तीनां व्यत्यासे दोषः
तन्त्राधिकारिमूर्तीनां व्यत्यये कल्पने पुनः ।
नृणां नरपतेश्चापि राष्ट्रस्य च भवेत् क्षयः ॥ 17.32 ॥
बहुबेरे प्रतिष्ठायां जीर्णोद्धारेऽयथापुरम् ।
जीर्णोद्धारे नयनोन्मीलनादिनि षेधः
कर्मार्चां स्थापयेद्वेद्यां शाययेच्चापि मण्टपे ॥ 17.33 ॥
9 नाधिवासं जलेकुर्यान्नयनोन्मीलनं तथा ।
न तत्त्वसंहारोत्पादौ 10 सर्वं पूर्ववदाचरेत् ॥ 17.34 ॥
उद्वासितशक्तेः पुनराधानम्
मूलबिम्बं समासाद्य प्राग्वत्सर्वं समाचरेत् ।
बालकौतुकमभ्यर्च्य यात्रा 11 मन्यत्र तद्गताम् ॥ 17.35 ॥
शक्तिं कुम्भे समावाह्य कुम्भं धान्यस्थितं पुनः ।
अभ्यर्च्य समये प्राप्ते मूलबेरे गुरुस्स्वयम् ॥ 17.36 ॥
शक्तिं निवेशयेच्छास्त्रदृष्टेन विधिना हरौ ।
कुम्भतोयावशेषेण परिवारप्रकल्पनम् ॥ 17.37 ॥
उत्सवं कारयेदन्ते सर्वशान्तिकरो हिसः ।
सम्प्रोक्षण निमित्तानि
ब्रह्मा :—
सम्प्रोक्षणनिमित्तं किं प्रकारो वास्य कीदृशः ॥ 17.38 ॥
कथ्यतां भगवन्मह्यं जिज्ञासा येऽनुवर्तते ।
श्रीभगवान् :—
प्रासादे चाङ्गभङ्गादिसस्थाने नूतने कृते ॥ 17.39 ॥
प्रतिमायां च पीठे च प्रभायां 12 चायुधेपि च ।
आराधने च विच्छिन्ने मासादौ कमलासन ॥ 17.40 ॥
स्पर्शने प्रतिलोमाद्यैर्नित्याशौचविगर्हितैः ।
प्रतिलामानुलोमैश्च सूतैश्च रथकारकैः ॥ 17.41 ॥
वैखानसैश्च संस्पृष्टे भार्गवागमपूजकैः ।
शैवादिभिश्च पाषण्डैर्ब्रह्महत्यादिदूषितैः ॥ 17.42 ॥
क्षय्यपस्मारिकुष्ठ्याद्यैः कृच्छ्रिभिर्मूलरोगिभिः ।
उदक्यादिभिरन्यैश्च शिल्पिभिस्स्पर्शदूषिते ॥ 17.43 ॥
विण्मुत्ररुधिरापेयस्पर्शदोषे च मन्दिरे ।
जनने मरणे चैव श्वसृगाल 13 खराधिभिः ॥ 17.44 ॥
स्पृष्टे च बिम्बे तन्त्राणां सङ्करे समुपस्थिते ।
एवमादिषु चान्येषु सम्प्रोक्षणविधिर्भवेत् ॥ 17.45 ॥
निमित्तेप्यसम्प्रोक्षणे अनिष्टनिर्देशः
धामादिकमसम्प्रोक्ष्य प्रतिमादिकमप्यथ ।
अर्चने राष्ट्रमधिपः प्रजाश्च सदनं हरेः ॥ 17.46 ॥
शून्यं स्यादिरिण प्रायमुपद्रवसमाकुलम् ।
दुर्भिक्षव्याधिकलहमृति प्रायास्स्युरीतयः ॥ 17.47 ॥
तस्मात्सम्प्रोक्षणं कार्यं धामादीनां यथाविधि ।
सम्प्रोक्षणविधिः
विष्णोर्नुकमिति स्वच्छैर्जलैः प्रोक्षण मिष्यते ॥ 17.48 ॥
अब्लिङ्गैरितरैर्मन्त्रैराचार्यो ब्राह्मणैस्सह ।
ध्रुवबेरादिबिम्बानां शोधने क्षालने कृते ॥ 17.49 ॥
इदं विष्णुरितिप्रायैर्मन्त्रैः परमपावनैः ।
स्नपनं च यथाशक्ति कुर्यात् स्नपनपूर्वकम् ॥ 17.50 ॥
14 द्वारतोरणकुम्भादियजनं तदनन्तरम् ।
धान्यपीठे मण्डपस्य मध्यभागे सुशोभिते ॥ 17.51 ॥
स्थापयित्वा महाकुम्भं सूत्रावस्त्रादिवेष्टितम् ।
पूर्वोक्तवर्त्मना तस्मिन् परमात्मानमर्चयेत् ॥ 17.52 ॥
कुण्डे वा स्थण्डिले वापि जुहुयीत्समिदादिभिः ।
प्रत्येकमष्टोत्तरशतं शान्तिहोमो यथापुरम् ॥ 17.53 ॥
बध्नी यात्कौतुकं बिम्बे प्रोक्षयेदपरेऽहनि ।
प्रभातसमये प्राप्ते शोभने देशिकोत्तमः ॥ 17.54 ॥
स्थापितं कुम्भमास्थाय प्रादक्षीण्येन मन्दिरम् ।
नीत्वा देवस्य पुरतो धान्यपीठे 15 निवेश्य च ॥ 17.55 ॥
कूर्चेन तोयमादाय कुम्भस्थं मूलविद्यया ।
पञ्चोपनिषदैर्मन्त्रैरब्लिङ्गैरितिरैस्तथा ॥ 16.56 ॥
शान्तिमन्त्राणि समये पठेयुर्वि प्रसत्तमाः ।
ब्राह्मणान् भोजयेच्चापि यथाशक्ति च दक्षिणा ॥ 16.57 ॥
आचार्यदक्षिणा चापि दशनिष्कावरा तदा ।
सद्यो वा सकलं कुर्यान्निशि वा दिवसेऽपि वा ॥ 16.58 ॥
16 न तिथि र्न च नक्षत्रं कालवेला न विद्यते ।
सद्य एव तु कर्तव्य मिति शास्त्रस्य निश्चयः ॥ 16.59 ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे जीर्णोद्धार सम्प्रोक्षण विधिर्नाम सप्तदशोऽध्यायः.
****** ——