.
अरिष्टशान्तिकम्
ब्रह्मा :—
भगवन् भाविनां कर्म फलानामशुभात्मनाम् ।
सूचनेषु निमित्तेषु सञ्जातेष्वशुभात्मसु ॥ 16.1 ॥
गृहदोषादिषु नृणामधिपस्य च भूपतेः ।
तेषा मकस्माज्जातानां कर्म यच्छमनं परम् ॥ 16.2 ॥
तन्ममाख्यायतां कीदृक्किं कथं चेति चाच्युत ।
रहस्यमपि तद्वाच्यं दयाया परया मयि ॥ 16.3 ॥
दुर्निमित्तनिरूपणम्
श्रीभगवान् :—-
जन्मर्क्षाद्यशुभस्थानग तेष्वङ्गारकादिषु ।
क्रूरेषु दुर्निमित्तेषु दुस्वप्नेष्वामयेषु च ॥ 16.4 ॥
1 गृहक्षेत्रादिकेष्वेवं वल्मीकजनने तथा ।
रक्तस्त्रीषु च जातासु अग्निदाहे च वेश्मनाम् ॥ 16.5 ॥
वस्त्रादिमूषिकादं शे दग्धेषु शयनादिषु ।
सङ्कटेष्वपि चान्येषु पुत्रादिकलहात्मसु ॥ 16.6 ॥
नृपकोपे तथा चित्तदुःखे निगलबन्धने ।
पीडायामरिपक्षेण पिशाचाद्यैर्भयानकैः ॥ 16.7 ॥
व्रतध्वंसे प्रागभावे 2 पुत्राणामर्थहानिषु ।
अरिष्टसूचने पुत्रजन्मन्युत्पातसम्भवे ॥ 16.8 ॥
अरिष्टशान्तये भगवदाराधनवि शेषः
एवमादिषु जान्येषु दोषेष्वाराधनं मम ।
शान्तये कल्पते ब्रह्मन् प्रकारस्तस्य कथ्यते ॥ 16.9 ॥
3 स्नानपूर्वाणि कर्माणि कृत्वा विधिवदादृतः ।
आचार्यवरण कुम्भस्थापनादि
आचार्यं वरयेत्पश्चान्मदारधनतत्परम् ॥ 16.10 ॥
शमादिगुणसंयुक्तं पञ्चकालपरायणम् ।
शुचौ भूमितले कुम्भं सौवर्णं राजतं तु वा ॥ 16.11 ॥
ताम्रं वापि यथावित्तं वारिपूर्णं सकूर्चकम् ।
तन्तुभिर्वेष्टितं न्यस्त वारिभीजं 4 सपल्लवम् ॥ 16.12 ॥
धान्यराशिषु संस्थाप्य न्यस्तरत्न गुवर्णकम् ।
शान्तिद्रव्यसनाथं च अश्वत्थदलमङ्गलम् ॥ 16.13 ॥
वेष्टितं नववस्त्रेण रक्तेनाक्षतसंयुतम् ।
प्राच्यां दिशि च देवेशं याम्ये सङ्कर्षणं तथा ॥ 16.14 ॥
प्रद्युम्नं पश्चिमे भागे अनिरुद्धं तथोत्तरे ।
एवं क्रमेण व…त्तमावाह्यघटिकासने ॥ 16.15 ॥
कुशकूर्चैः पश्चिमाशासम्मुखेऽष्टाक्षरेण तु ।
यजेतार्घ्यादिना यद्वा 5 रुक्मं न्यस्य तदर्चनम् ॥ 16.16 ॥
कुम्भे चावाह्य यजनं 6 जपेस्मन्त्रमनुत्तमम् ।
मूलमन्त्रेण लक्षं वा तदर्द्धं वा तदर्द्धकम् ॥ 16.17 ॥
ततः पुंसूक्तमन्वाकं नारायणानुवाककौ ।
ततश्श्रीसूक्त भूसूक्ते जपेदाचार्य ऋत्विजाम् ॥ 16.18 ॥
मूलेनाग्निं प्रतिष्ठाप्य जुहुयाद्गव्यसर्पिषा ।
वैष्णवीकरणाष्टाष्टाक्षरहोमादि
अग्नि प्रतिष्ठां क्वत्वाऽथ वैष्णवीकरणं तथा ॥ 16.19 ॥
मन्त्रेणाष्टाक्षरेणैव लक्षवारा नथायुतम् ।
सहस्रमपि वा कुण्डे शतं वाष्टोत्तरं गुरुः ॥ 16.20 ॥
ध्यात्वा हरिं सर्वशान्तिकरं सर्वसमृद्धिदम् ।
गौरवं लाघवं चापि समवेक्ष्य यथोचितम् ॥ 16.21 ॥
दोषाणां यत्नमातिष्ठेदर्चनादिषु सर्वतः ।
स्नपनम्
अन्तेप्रणवमब्लिङ्गैर्यजमानं गुरुस्स्वयम् ॥ 16.22 ॥
मन्त्रैः कुम्भस्थतो येन प्रोक्षयेन्मूलविद्यया ।
सहस्रकृत्वः कूर्चेन स्नापयेच्छेषवारिभिः ॥ 16.23 ॥
आचार्याय यथावित्तं दद्यात्स्वार्णादि दक्षिणाम् ।
ब्राह्मणान् भेजयेत्तेभ्यो दक्षिणामल्पिकामपि ॥ 16.24 ॥
प्रभूणामपि सर्वेषां सर्वोपद्रवशान्तये ।
सर्वाभिप्रेतलाभाय विशेषयजनं हरेः ॥ 16.25 ॥
कुर्यात् स्नपनपूर्वं तदह्नि नित्यार्चने कृते ।
शान्तिकपौष्टिककर्मणोः कालः
तदनैशान्तिकं कर्म अपराह्णे तु पौष्टिकम् ॥ 16.26 ॥
पूर्वाह्णे नित्यकर्मोक्तं वस्तुभिर्द्विगुणैरिह ।
एकबेरे बहुभेरे च अर्चनक्रमः
पूजाद्रव्यैरेकभेरे मूलभेरे समर्चनम् ॥ 16.27 ॥
बहुबेरेतु बिम्बस्यादौत्सवे कमलासन ।
आचार्य एव पूजायां वैशेषिक्यां समर्चयेत् ॥ 16.28 ॥
शान्तिके पौष्टके च कर्मणि कुण्डभेदः
होमकुण्डं भवेत्पद्मतुल्याकारं सुशोभनम् ।
पौष्टिके शान्तिके वृत्तं प्रत्यहं समिधादिभिः ॥ 16.29 ॥
तत्र कर्तव्यहोमादिकम्
प्रत्येकं तिलहोमस्स्यादयुतं वा शतावरम् ।
प्रत्यहं भोजयेद्विप्रान् यथाशक्ति च दक्षिणा ॥ 16.30 ॥
नृत्तं गेयं च वाद्यं च तथाध्ययनमन्वहम् ।
कर्मावसानदिवसं यावदग्नेश्च धारणम् ॥ 16.31 ॥
सप्ताहं द्विगुणं वा स्यात्त्रिगुणं वा चतुर्गुणम् ।
स्नपनं प्रत्यहं कार्यं दानहोमादय स्तथा ॥ 16.32 ॥
शान्तिके पौष्टिके च कर्मणि ध्येयस्य भगवतो रूपभेदः
शान्तिके कर्मणि ध्येयो हरिस्स्फटिक सन्निभः ।
पौष्टिके तु सुवर्णाभश्श्रियाऽसीनस्सहासने ॥ 16.33 ॥
चक्राब्जमण्डलार्चने अनिर्माल्यता
चक्राब्जमण्डले कुम्भे यत्र यत्र समर्चनम् ।
तत्रैवान्येद्युराराध्यो न तु निर्माल्यता तयोः ॥ 16.34 ॥
आचार्यादीनां यथाविभवं दक्षिणा
आचार्यदक्षिणा वापि यथाविभवविस्तरम् ।
कर्मण्यधिकृतानां च कर्मगौरवलाघवम् ॥ 16.35 ॥
अवेक्ष्य तोषणं वित्तैरृत्विजां चोपकुर्वताम् ।
पौष्टिकी क्रिया अनुकूलेषु दिनेषु कार्या
दिनादिष्वनुकूलेषु प्रारभ्या पौष्टिकी क्रिया ॥ 16.36 ॥
शान्तिकी प्रतिकूलेषु कार्या
शान्तिकी प्रतिकूलेषु यजमानस्य पद्मज ।
* भगवतः मन्दिरे परिचर्यापराणां
क्षेत्रादिप्रदानां दत्तापहारिणां च फलप्रश्नः.*
ब्रह्मा :—
भगवन्मार्जनादीनि मन्दिरे कुर्वतां नृणाम् ॥ 16.37 ॥
विष्णोः क्षेत्रादिदातॄणां पूजोपकरणानि च ।
भूषणानि च वस्त्राणि फलमभ्युदयात्मकम् ॥ 16.38 ॥
कीदृक्कीदृश्च तान्येव 7 दत्तान्याहरतामपि ।
अनर्थकरमेतन्मे संशयानस्य कथ्यताम् ॥ 16.39 ॥
भगवतः प्रत्युत्तरम् तत्र मार्जनालेपनफलम्
श्रीभगवान् :—-
मार्जनं मन्दिरे विष्णोः कुर्वन् सम्मार्ष्टि देहजम् ।
मलं पापात्मकं सर्वं परत्रेह च सम्भृतम् ॥ 16.40 ॥
प्रत्यहं मार्जनं कुर्वन् प्रत्यहं हन्ति किल्बिषम् ।
गोचर्ममात्रमालिप्य गोमयेन च भूतलम् ॥ 16.41 ॥
आलये लभते सद्योगोप्रदानफलं नरः ।
मार्जनालेपने कुर्वन् विष्णोरायतने नरः ॥ 16.42 ॥
उषित्वा सुचिरं स्वर्गे कर्मशेषेण भूतले ।
भूयोपि जायते भूपः कुले महति पूजिते ॥ 16.43 ॥
स्रग्दायिनां फलम्
स्रजं बद्वा सुमनसां यः प्रयच्छति विष्णवे ।
स भुक्त्वा विपुलान् भोगान्नाकपृष्ठे विराजते ॥ 16.44 ॥
दीपारोपणफलम्
दीपानारोपयेद्विष्णोर्मन्दिरेऽभ्यन्तरे बहिः ।
दिवि देववदासित्वा जायते परमार्थवित् ॥ 16.45 ॥
नित्यान्नैमित्तिकान्वापि दीपानारोपयेन्नरः ।
बहुदुःखसमाकिर्णं नरकं 8 नैव पश्यति ॥ 16.46 ॥
अहोरात्रमनिर्वाणं दीपमारोपयेन्नरः ।
सर्वपापविशुद्धात्मा विष्णुलोके महीयते ॥ 16.47 ॥
उदकाब्युक्षणफलम्
उदकाभ्युक्षणं विष्णोरालये विदधाति यः ।
लोकं स वारुणं प्राप्य रमते वत्सरान् बहून् ॥ 16.48 ॥
पुष्पविकिरणफलम्
सम्मार्यालिप्य च हरेर्धाम पुष्पाणि भूतले ।
विकिरेन्मनुजस्सर्वकामानाप्नोति पुष्कलान् ॥ 16.49 ॥
भूमिदानफलम्
विष्णुसात्कुरुते भूमिं सर्वसस्य फलप्रदाम् ।
यस्सलोकानवाप्नोति सर्वानेव न संशयः ॥ 16.50 ॥
पुष्पोद्यानप्रदानेन तपोलोके महीयते ।
फलवृक्षसमोपेतां पूगभूमिं जलान्विताम् ॥ 16.51 ॥
यो ददाति महर्लोके सचिरं वसति ध्रुवम् ।
उत्पादयति यः क्षेत्रे वैष्णवे फलिनस्तरून् ॥ 16.52 ॥
नालिकेरादिकान्याति स स्वर्गं प्रेत्य दुर्लभम् ।
तुलसीपुष्पादिदानफलम्
आराधनाय तुलसीमुत्पादयति यत्नवान् ॥ 16.53 ॥
सुरभीणि च पुष्पाणि दिवि देवैस्सपूज्यते ।
वापीकूपादिनिर्माणे फलम्
वापीकुपतटाकानि विष्णोर्मन्धिरभूमिषु ॥ 16.54 ॥
उत्पादयति हस्तस्थास्तस्य सर्वसमृद्धयः ।
न तं बध्नन्ति पापानि बहुजन्मार्जितान्यपि ॥ 16.55 ॥
भगवन्मन्दिरजीर्णोद्धारफलम्
यः कुर्याद्वैष्णवं धाम भक्तिश्रद्धोभ योचितम् ।
खण्डिते स्फुटिते धाम्नि दूषिते च सुधादिभिः ॥ 16.56 ॥
समादध्यात्पुनर्धाम स लोकं याति वैष्णवम् ।
उपकरणद्रव्यदानफलम्
स्नानपानाम्भसां विष्णोः प्रदानात्तत्सलोकभाक् ॥ 16.57 ॥
स्नानीयद्रव्यदानेन नीरोगः प्रेत्य मोदते ।
क्षौमादिदानादाप्नोति परलोके महत्सुखम् ॥ 16.58 ॥
आलेपनद्रव्यदानत्कामानाप्नोति शाश्वतान् ।
एलाकर्पूरताम्बालीतैलादिस्वर्शनात्सुखी ॥ 16.59 ॥
परत्रेह च लोके न्याद्धीर्घकालमसंशयः ।
चामरव्यजनच्छत्रदानात् स्वाराज्यमश्नुते ॥ 16.60 ॥
आदर्शनप्रदानेन दृश्यस्सर्वैर्भविष्यति ।
धूपद्रव्यप्रदानेन स्वस्थानं स्वर्गिणां भवेत् ॥ 16.61 ॥
उपानहौ पादुके च वाहनं यानमेव च ।
ददाति यो मण्डयित्वा मणिकाञ्चन चित्रिम् ॥ 16.62 ॥
स विमानं सुदुष्प्रावं प्राप्नोत्येव न संशयः ।
अलङ्कृतं भद्रपीठं प्रयच्छन् सर्वकामभाक् ॥ 16.63 ॥
विनतानन्दनस्थानं ध्वजमुत्पाद्य दर्शयन् ।
सामीप्यं सहसा विष्णोर्याति सद्यश्चतुर्मुख ॥ 16.64 ॥
ध्वजं च वाद्यमुत्पाद्य विष्णुसात्कुरुते तु यः ।
स दिव्यदुन्दुभिप्रायं स्थानं प्राप्य विराजते ॥ 16.65 ॥
दासीदानं तथात्मीयमात्मानं च प्रयच्चति ।
वासुदेवाय दास्येन मुक्तिःकरतले स्थिता ॥ 16.66 ॥
नृत्तभेदैर्गीतभेदै स्तथा वाद्यैरनेकधा ।
श्रोतव्यैरपि दृश्यैश्च एवं देवेशसन्निधौ ॥ 16.67 ॥
आसीन मुपचारौस्तैर्ये समाराधयन्तिते ।
प्रेत्य दिव्येषु लोकेषु पूज्यन्ते तैर्न संशयः ॥ 16.68 ॥
प्रदक्षिण नमस्काराद्युपचाराणां फलम्
प्रदक्षिणनमस्कारस्तुतिप्रायोपचर्यया ।
आराधयन्तिये देवं देवानामधिदैवतम् ॥ 16.69 ॥
ते देवैरुपचर्यन्ते परत्र भगवान् यथा ।
स्थितं शयानमासीनं देवं सर्वेश्वरेश्वरम् ॥ 16.70 ॥
यदृच्छयापि पश्यस्तः प्राप्नुवन्ति परं पदम् ।
किं पुनर्भक्तिपूर्वं ये पश्यन्ति क्षणम 9 च्युतम् ॥ 16.71 ॥
निर्धूय दुष्कृतं सर्वं यान्ति लोकान्यथेप्सितान् ।
अष्टाङ्गप्रणिपातेन ये नमस्यन्ति मानवाः ॥ 16.72 ॥
तपस्स्वाध्यायशीलानां फलमश्नुवतेऽचिरात् ।
इयदेतदिति स्मर्तुं फलं वक्तुं च कः क्षमः ॥ 16.73 ॥
सकृत्प्रणमतां देवं फलं यन्मधुविद्विषम् ।
शिरसा श्रवणाभ्यां वा मनसा वा करेण वा ॥ 16.74 ॥
बहुभ्यां वाथ पद्भ्यां वा दृग्भ्यां वा पक्षसापि वा ।
एकैकेनाङ्गजातेन प्रणमन्मधुविद्विषम् ॥ 16.75 ॥
कामानाप्नोति विपुलाननन्तानन्यदुर्लभान् ।
किं पुनर्येऽष्टभिस्सर्वैरङ्गैः प्रणिपतन्ति च ॥ 16.76 ॥
वासुदेवा श्रयकथा व्याचक्षाणा दिने दिने ।
पासुदेवालये यान्ति वाचस्पत्यमसंशयम् ॥ 16.77 ॥
गवां च कपिलादीनां प्रदानादश्नु ते जनः ।
ब्रह्मलोकादिलोकेषु वासं विन्दन्ति शाश्वतम् ॥ 16.78 ॥
हविषां पायसादीनां हरये च निवेदनात् ।
सुखैकरसपूर्णात्मा राजते विष्णुसन्निदौ ॥ 16.79 ॥
भक्ष्यपानीयभोज्यानामन्येषामपि दानतः ।
श्वेतद्वीपे तत्समीपे वसन्ति सुखनस्सदा ॥ 16.80 ॥
बहुनात्र किमुक्तेन वासुदेवार्थमादरात् ।
ददाति वस्तुजातं यः स्थानं प्राप्नोति चेप्सितम् ॥ 16.81 ॥
कर्मणां मार्जनादीनां फलभोगादनन्तरम् ।
कर्मशेषैः पुनर्जन्म कर्मानुगुणयोनिषु ॥ 16.82 ॥
उत्कृष्टास्वेव भोक्तारो लभन्ते सुखिनस्सदा ।
दत्तापहारादीनां फलम्
प्रासादमण्डपादीनां 10 भोक्तारःकैटभद्विषः ॥ 16.83 ॥
ये मूढमतयः प्रेत्य निरयेषु निरत्ययाः ।
वसन्ति भूयो नीचासु जायन्ते योनिषु द्रुवम् ॥ 16.84 ॥
भूषणच्छत्रवस्त्रादि यो पर्ता दुर्मति र्नरः ।
गले निगलितः पाशैः कृष्यते निरयेषु सः ॥ 16.85 ॥
वाहनानि च यानानि वैष्णवानि हरन्तिये ।
मोहद्वासन्ति ते दीर्घमङ्गार 11 नरकोदरे ॥ 16.86 ॥
प्रेत्य भूयोऽपि जायन्ते गर्दभोष्ट्रादियोनिषु ।
चन्दनादीनि वस्तूनि पुष्पाणि सुरभीण्यपि ॥ 16.87 ॥
हरन्तिस्वानि विष्णोस्ते व्रजन्ते याम्ययातनाम् ।
अनुभूय पुनर्ब्रह्मन् जायन्ते गन्धमूषिकाः ॥ 16.88 ॥
उपानत्पादुकापीठव्यजनानि हरन्तिये ।
उषित्वा निरयेष्वेते जायन्ते फणिनां कुले ॥ 17.89 ॥
गोभूहिरण्यपस्त्रादिधनं विष्णोः परिग्रहम् ।
आहृत्य ये तु भुञ्जन्ते नरकेषु निरत्ययाः ॥ 17.90 ॥
उषित्वा प्रेत्य भूयोपि जायन्ते श्वादियोनिषु ।
12 सर्वेषु नरकेष्वेवं देवब्रह्मस्वहारिणः ॥ 17.91 ॥
वसन्ति मूढमतयो याम्यदुःखानि भूयसा ।
व्यायामोद्वर्तनाभ्यङ्गस्नानपानाशनादिकम् ॥ 17.92 ॥
कुर्वन्ति मन्तिरे विष्णोर्ये ते निरयगामिसः ।
पच्यन्ते तत्र भूयोपि जायन्ते नीचयोनिषु ॥ 17.93 ॥
वासुदेवप्रतिकृतेर्भेदनच्छेदनादिषु ।
13 विक्रीतादीनि चान्येषु यतन्ते पापचेतसः ॥ 17.94 ॥
ये ते यान्ति क्रमात्सर्वान्नरकान् भृशदारुणान् ।
अन्येष्वप्यपचारेषु स्थूलसूक्ष्मेषु मानवाः ॥ 17.95 ॥
कृतिनः प्रेत्य नरके पच्यव्ते दुःखबागिनः ।
इतिश्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे सम्मार्जनादिफलदेवस्वापहरदोषकीर्तनं नाम षोडशोऽध्यायः.
-
गृहक्षेत्रादिषु स्वेषु वल्मीकाक्रन्दनेषु च. ↩︎
-
पुराणा मर्थ. ↩︎
-
स्नानपूर्वाणि इत्यादि सार्धं श्लोकद्वयं केशान्तरे न दृश्यते. ↩︎
-
समल्लकम्. ↩︎
-
रुक्मस्य च. कुक्मं न्यस्य तदर्धकम्. ↩︎
-
जपेत् इत्यादि मन्त्रेणाष्टाक्षरेण इत्यन्तं क्वचिन्न. ↩︎
-
दत्तानां हरताम्. ↩︎
-
स न पश्यति. ↩︎
-
मप्यमुम्, मप्यमी. ↩︎
-
भेत्तारः. ↩︎
-
निरयेनराः. ↩︎
-
सर्वेष्वित्यादिश्लोकत्रयं क्वचिन्न. ↩︎
-
विकृतादीनि. ↩︎