१६

.

मासानुबन्धिप्रतेषु. वराहव्रतम्

श्रीभगवान् :—-

1 मासि भाद्रपदे देवं श्रवणे चादिपूरुषम् ।
वराहरूपं सुभगं हिरण्याक्षासुरद्विषम् ॥ 15.1 ॥

यजेत धरया देव्या सार्धं सर्वार्थसिद्धये ।
अन्येषां मूर्तिभेदानामपि तस्मिन् समर्चनम् ॥ 15.2 ॥

आश्वयुजमासव्रतम्

स्वातावाश्वयुजे मासि यजनं स्नपनादिभिः ।

कार्तिकद्वादशीव्रतम्

कार्तिके मासि सम्प्राप्ते द्वादश्यां चासितेतरे ॥ 15.3 ॥

पक्षे प्रबोधयेद्देवमर्चयित्वा यथावसु ।
मन्त्रश्चोदित्यमित्येष उत्तिष्ठेति च बोधने ॥ 15.4 ॥

प्रबोध्य वार्चयेद्देवमुत्थितं विधिवर्त्मना ।
औत्सवं बिम्पमभ्यर्च्य मण्डपे मण्डले स्थितम् ॥ 15.5 ॥

द्वारतोरणकुम्भादियजनं च यथापुरम् ।
ग्रामे महोत्सवः कार्यस्सर्वमङ्गलसंयुतः ॥ 15.6 ॥

सर्वेचाश्रमिणः कुर्यार्व्रतानां च विसर्जनम् ।
दशनिष्कं तदर्धं वा दक्षिणां गुरवे तदा ॥ 15.7 ॥

कृत्तितादीपोत्सवः

कृत्तिकासु कार्तिक्यां पोर्णमास्यां मधुद्विषः ।
कृत्तिकाभिरयोगे वा केवलायां तिथौ भवेत् ॥ 15.8 ॥

2 दीवोत्सवं तथा सर्वं शोभयेन्मम मन्दिरम् ।
अरोप्य सर्वतो दीपान् स्तम्भेघाच्चैर्मधुद्विषः ॥ 15.9 ॥

दिक्षु सर्वासु सर्वत्र तथा चावरणेषु च ।
कूटा काराःकल्पिनीयास्तेषां स्युर्दीपमालिकाः ॥ 15.10 ॥

प्राकारभित्तिषु तथा मण्डपे गोपु रेषु च ।
बह्वीभिर्दीपमालाभिर्भाव्यं सर्वासु दिक्षु च ॥ 15.11 ॥

दीवोत्सवाय पूर्वेद्युर्निशि कल्याणकौतुकम् ।
बध्नीयादौत्सवे बिम्बे सर्वमङ्गलसंयुतम् ॥ 15.12 ॥

अपरेद्युश्च मूलादिबेराणामर्चनं भवेत् ।
नैमित्तिकं प्रदोषे तु कुर्याद्दीपाधिपासनम् ॥ 15.13 ॥

पुरस्तान्मूलबेरस्य पात्रमारोप्य नूतनम् ।
धान्यराशौ ततस्तस्मिंश्चज्यमाढकसम्मितम् ॥ 15.14 ॥

कापिलं तैलमधवा निक्षिप्य परिशोधितम् ।
ऋजुवर्तिं तन्तुभिर्वा पाससा नूतनेन वा ॥ 15.15 ॥

कल्पयित्वा समुद्धृत्य कुण्डाग्निं तेन दीपयेत् ।
वर्तिमाग्नेयमन्त्रेण अग्निमुद्रां प्रदर्शयेत् ॥ 15.16 ॥

अभ्यर्च्य चाग्नि मन्त्रैस्तु मुहूर्ते शोभने गुरुः ।
आदाय पात्रं तत् स्थेन वह्निना वलजादिषु ॥ 15.17 ॥

दीपयेद्दीपिकास्सर्वास्तूर्येषु विदिशो दिशः ।
घोषयत्सु तथा नृत्तगीतादीनां समुद्यमे ॥ 15.18 ॥

अधीयानेषु विप्रेषु मन्त्राननवदैवतान् ।
औत्सवं बिम्बमादाय सर्वलङ्कारशोभितम् ॥ 15.19 ॥

यानमारोप्य रथ्यासु नयेदावरणेषु च ।
दृश्यानि नाटकादीनि कृत्रिमाणीतराणिच ॥ 15.20 ॥

दर्शयेद्देव देवाय 3 भाषाभेदान्यथोदितान् ।
आसाद्य मण्टपे तस्मिन्नि वेद्य च महा हविः ॥ 15.21 ॥

पृथुकान् संस्कृतान् सक्तून् पललानग्नितृप्तये ।
अपूपान् समये तस्मिन्नि वेद्य मधुविद्विषे ॥ 15.22 ॥

अभ्यस्तरं मन्दिरस्य गमयेन्मङ्गलान्वितम् ।
कृत्तिकादीपविधिना समाराधसमीरितम् ॥ 15.23 ॥

विशां च राज्ञो राष्ट्रस्य सम्पत्करमनुत्तमम् ।
विपत्प्रश्रमनं ब्रह्मन् प्रीणनं जातवेदसः ॥ 15.24 ॥

मार्गशीर्षद्वादशीव्रतम्

मार्गशीर्षेसिते पक्षे मासि व्रतमनुत्तमम् ।
द्वादश्यां व्रतपूर्वत्वाद्व्रतमाराधनं हरेः ॥ 15.25 ॥

आराधनं भगवतःकुर्वंस्तादृशमुत्तमम् ।
दशम्यां हरिमाराध्य भोजयित्वाच भूसुरान् ॥ 15.26 ॥

दक्षिणां च यथाशक्ति दत्वा तेभ्यस्समाहितः ।
भगवत्सन्निदौ तेषां विज्ञाप्य द्वादशीव्रतम् ॥ 15.27 ॥

अनुज्ञापूर्वकं पूजां व्रतपूर्वां महाफलाम् ।
सङ्कल्प्य दर्भेष्वासीनः प्राङ्मुखः प्रणिदानवान् ॥ 15.28 ॥

हविष्याशी सकृत्कृत्वा सर्वं कर्माह्निकं तथा ।
रात्रौ च भगवद्योगमास्थाय च यथाविधि ॥ 15.29 ॥

अपरेद्युःक्रियाजातमे कादश्यां यथाविधि ।
पूर्वं त्रिषवणन्नायी नियमं परमास्थितः ॥ 15.30 ॥

अनश्नन् देवमाराध्य होमान्तं मौनमास्थितः ।
भगवद्ध्याननिरतो व्यवहारं च लौकिकम् ॥ 15.31 ॥

असंस्पृशन् मनःकायकर्मभिश्चेङ्गितादिभिः ।
स्थितो मौनी तदा तद्वद्रात्रौ कौतुकमबन्धनम् ॥ 15.32 ॥

बध्वा देवेशमाराध्य दर्भशायूनयेन्नि शाम् ।
ब्राह्मे मुहूर्तेचोत्थाय कृत्वा सन्ध्यां यथाविधि ॥ 15.33 ॥

कर्मदेवान्तिकं गत्वा कुर्यात्पूजां यथापुरम् ।
चतुर्वेदविदो विप्रान् दिक्षु प्राच्यादिषु क्रमात् ॥ 15.34 ॥

दर्भासनेष्वासयित्वा देवस्याभिमुखं यथा ।
कोणेषु च दिशां विप्रानेकायनविद स्तथा ॥ 15.35 ॥

अध्यापयेदध्ययनं यथा स्वच्छन्दसां गुरुः ।
सामगानि तरालाभे केवलां स्तपसि स्थितान् ॥ 15.36 ॥

एकायनविदो वापि हरेस्तत्प्रीणनं परम् ।
4 प्राशयेद्प्राह्मणैस्सार्धं व्रतस्धःकायशुद्धये ॥ 15.37 ॥

कुशोदकं पञ्च गव्यं प्रापणं च यथा क्रमम् ।
दिवा स्वापं परान्नं च पुनर्भोजनकर्म च ॥ 15.38 ॥

स्त्रीसेवां तैलसेवां च कांस्यभोजनमेव च ।
मांसाशनं त्यजेत्तस्मिन् दिवसे कर्म गर्हितम् ॥ 15.39 ॥

भोजयेच्च यथाशक्ति तद्यादन्ते च दक्षिणाम् ।
उपवासाक्षमो नक्तमे कादश्यां समाचरेत् ॥ 15.40 ॥

अज्ञानाच्चेत्त्रयोदश्यां पारणं राक्षसं भवेत् ।
वर्ज्याश्च वारा मन्दस्य भृगोरङ्गारकस्य च ॥ 15.41 ॥

नक्षत्रं यमदैवत्यं व्रतारम्भे चतुर्मुख ।
पारणं चोपवासश्च न दोषाय तिथित्रये ॥ 15.42 ॥

न सम्भाषेत पाषण्डवृत्तिभिर्गर्हितैर्नरैः ।
प्रमादादपिनैवान्यैर्नास्तिकैःप्रतिलोमजैः ॥ 15.43 ॥

नाशौचवद्भिर्द्वादश्यां व्रतस्थो नावलोकयेत् ।
आर्द्रायामपि मासेऽस्मिन् जन्मर्क्षेच गरुत्मतः ॥ 15.44 ॥

तत्प्रीतये समाराध्यो हरिश्शास्त्रोक्तवर्त्मना ।
पायसान्नं गुळान्नं च 5 प्रभाते विनिवेदयेत् ॥ 15.45 ॥

बिम्बं चौत्सवमाकल्प्य वीधिकावरणेषु च ।
6 गरुडेनैव सहितं गमयेन्मङ्गलान्वितम् ॥ 15.46 ॥

उत्तरायणव्रतम्

उत्तरेचायने देवं स्नपनाद्यैस्समर्चयेत् ।
घृतेनाभ्यञ्ङयेद्देवं मज्जयेद्वा घृतादिषु ॥ 15.47 ॥

घृते वा दध्नि पीयूषे यद्वा मधुनि सम्भृते ।
फलेषु वा फलरने पञ्च गव्यरसेषु वा ॥ 15.48 ॥

पायसादिषु चान्नेषु कालपुष्पोच्चयेषु वा ।
दलेषु वा तुलस्यातेर्नवरत्नच येषु वा ॥ 15.49 ॥

सुवर्णकलधौतेषु पुष्पाकारेषु शोभने ।
सुवर्ण 7 गोलकाःकृत्वा 8 कल्पितावयपोज्वलाः ॥ 15.50 ॥

कल्पिताकल्पकल्याणप्रतिमाकारसम्मिताः ।
पीठिकाकारतुलितास्ताभिराच्छाद्य भूषयेत् ॥ 15.51 ॥

पञ्चायुधसमाकारा हस्तादिसतृशाकृतीः ।
कृत्वा वृथग्यथाशोभं गलकाः कञ्चुकाकृतीः ॥ 15.52 ॥

भूषयेत्ताभिरङ्गानि चायुधानि च सर्वशः ।
आपादमस्तकं वान्यैर्व्रीह्यादिभिरधोक्षजम् ॥ 15.53 ॥

छादयेन्मूलमन्त्रेण पूरणं सर्ववस्तुभिः ।
9 तिस्रस्त्रिपादसहिता नपि वा द्विगुणां स्तथा ॥ 15.54 ॥

पूरयेत्कालमातोद्यनृत्तगीतादुमङ्गलम् ।
आचरेत्सर्वमेतस्मिन्यथाविभव विस्तरम् ॥ 15.55 ॥

जुहुयात्सर्पिषा यावत्पूरणं मूलविद्यया ।
देया च दक्षिणा स्वर्णमाचार्यय यथावसु ॥ 15.56 ॥

घृतादिपूरणं चैतत्सर्वकामसमृद्धिदम् ।

पुष्यमासव्रतम्

पुष्ये च मासि नक्षत्रे पौर्णमास्यामथापि वा ॥ 15.57 ॥

आराधनं भगवतस्सर्वपापविनाशनम् ।

माघमासे तिलपद्मव्रतम्

माघमासे सिते पक्षे वञ्चम्यां मधुविद्विषम् ॥ 15.58 ॥

समाराध्य यथाशास्त्रं देवस्याग्रे महीतले ।
गोमयालेपिते द्वाभ्यां हस्ताभ्यामपि सम्मिते ॥ 15.59 ॥

चतुर्भिर्वा समायामविस्तारे च्छादि तेपुनः ।
वाससा नूतनेनैव सदशेन तथोपरि ॥ 15.60 ॥

कृष्णाजिनेन शुद्धेन भेदनच्चेदनादिना ।
10 वर्जितेन समाच्छाद्य वस्त्रं तदुपरि क्षिपेत् ॥ 15.61 ॥

तिलानां भारमेकं वा द्वौ वा कृत्वा च वेदिकाम् ।
त्रिमेखलां तिले तस्मिन् पद्माकारसमाकृतिम् ॥ 15.62 ॥

निष्कत्रयात्मकं स्वर्णं लेखापद्मं तिलेषु वा ।
निक्षिप्य नवरत्नानि दिक्षु चाष्टासु निक्षिपेत् ॥ 15.63 ॥

धान्यपूर्णानिपात्राणि द्वे द्वे प्रतिदिशं क्रमात् ।
प्रस्थतैलं तथा सर्पिर्धधि चापि चतुर्गुणम् ॥ 15.64 ॥

पार्श्वयोःपुरतश्चापि पात्रस्थं न्यस्य भूतले ।
11 तिलाज्याहारःपुरतस्त्रीण्यहानि जितेन्द्रियाः ॥ 15.65 ॥

उपोष्य वा गुरुःपूर्वमेकरात्रं चतुर्मुख ।
अभ्यर्च्य गन्धपुष्नाद्यैस्तिलान्यस्तान्यनन्तरम् ॥ 15.66 ॥

अधीयानेषु विस्त्रेषु तूर्यवादित्रघोषणे ।
मङ्गलेषु तथान्येषु प्रवृत्तेषु यथायथम् ॥ 15.67 ॥

तिलैस्सहस्रकृत्वोग्नौ जुहुयान्मूलविद्यया ।
अचर्यं पञ्च कालज्ञं भगवच्छास्त्रकोविदम् ॥ 15.68 ॥

कल्याणाचारनिरतं सर्वेस्समुदितं गुणैः ।
तस्मे भागवतायेदमर्चयित्वा क्षतादिभिः ॥ 15.69 ॥

तिलपद्मं प्रदातव्यं सन्निदौ वारिपूर्वकम् ।
प्रियतां भगवान् विष्णुरित्याचार्येण मन्त्रवित् ॥ 15.70 ॥

तदन्ते देवमभ्यर्च्य 12 भोजयित्वा महासुरान् ।
दद्याच्च दक्षिणां तेब्यो गुरवे च यथोदिताम् ॥ 15.71 ॥

इत्थं तिलसरोजं यो दद्याद्धान्यादिसंयुतम् ।
पूनाति स पितॄन् 13 सर्वानात्मानं च परावरान् ॥ 15.72 ॥

मासर्क्षे पौर्णमास्यां च यजनं स्नपनादिभिः ।

फाल्गुनमासे श्रीकामव्रतम्

फाल्गुने मासि फल्गुन्यां श्रीकामो हरिमर्चयेत् ॥ 15.73 ॥

उषोष्य पूर्वं नियतो ध्यायन्नित्थं समाहितः ।
विपुले बिल्वविपिने मध्ये पुष्करशोभिते ॥ 15.74 ॥

महातटाके शिज्ञानपक्षिसङ्घसमाकुले ।
14 मण्डपे तत्र माहेन्द्रे 15 रत्न प्राकारवेष्टिते ॥ 15.75 ॥

चतुर्दिक्षु चतुर्द्वारे कल्पकद्रुममण्डिते ।
सौवर्णे बहुकल्याणरत्नस्तम्भसमन्विते ॥ 15.76 ॥

सिंहासने वरे रत्न पद्मेऽष्टदलसंयुते ।
कर्णिकाकेसरोपेते सुखासीनं श्रिया सह ॥ 15.77 ॥

पूर्वादिदिक्षु ध्यातव्या वासुदेवादयो दले ।
आग्नेयादिषु कोणेषु चत्वारो हस्तिनःक्रमात् ॥ 15.78 ॥

गुग्गुलुश्च कुरण्डश्चदमकश्शलल स्तथा ।
शङ्खपद्मनिधी चापि संहविष्टरपार्श्वयोः ॥ 15.79 ॥

अन्योन्याभिमुखौ भूरि वमन्तौ वसु सर्वदा ।
भूम्यादयोऽष्टौ पूर्वादिदिक्षु चामरपाणयः ॥ 15.80 ॥

इन्द्रादयश्च पूर्वादि दिक्ष्वष्टावष्टसु 16 क्रमात् ।

स्थिताश्चतुर्षुद्वारेषु वेत्रहस्तास्सकङ्चु काः ॥ 15.81 ॥

कुब्जवेषास्त्रियो द्वारि पालयन्त्योमनुहराः ।
बलाकिनी भीषि का च तथैव वनमालिनी ॥ 15.82 ॥

शाङ्करी च क्रमादेताःपूर्वादिषु चतुर्मुख ।
द्वाराणि पालिकाभिश्च पूर्णकुम्भैर्ध्वजै स्तथा ॥ 15.83 ॥

तोरणैर्दामभिर्मौक्तैर्दीपैरन्यैश्च मङ्गलैः ।
परिष्कृतानि ध्यात्वैवं देवीं देवं च पूजयेत् ॥ 15.84 ॥

श्रियं वा केवलां पद्मे कर्णिकायामवस्थिताम् ।
मण्डपे तत्र पूर्वेक्ते परिवारसमन्विते ॥ 15.85 ॥

लक्ष्मीप्रसूनकैःपद्मैर्होमो बिल्वादिपल्लवैः ।
समिदाज्यैश्च मन्त्रेण श्रियश्चाष्टाक्षरेण च ॥ 15.86 ॥

श्रीसूक्तानि चतुर्दिक्षु पाठ्यानि पृथिवीसुरैः ।
आराध्याभिष्टुयादन्तेस्तोत्रैर्बहुविधैश्श्रियम् ॥ 15.87 ॥

लक्ष्मीस्तोत्रम्

समामि देवि लोकानां जनयि 17 त्र्यब्धिसम्भवे ।
सर्वलोकेश्वरेशेश वल्लभे 18 दुर्लभेऽधमैः ॥ 15.88 ॥

वासुदेवाङ्गसंस्पर्श सुखैकरसभाजने ।
नमस्ते 19 सुखदे देवि देवानामधिदेवते ॥ 15.89 ॥

यदृच्छयापि ते देवि कटाक्षाः पतितास्सकृत् ।
क्षुद्रेष्वपि प्रगल्भनैते त्रिलोकेश्वराःक्रमात् ॥ 15.90 ॥

न स्पृशन्ति त्रिलोकेशानपि यान्वीक्षणानिते ।
सम्पाद्यन्ते क्षणात्क्षुद्रा नाकपृष्ठादपिच्युताः ॥ 15.91 ॥

लावण्यादिगुणा यत्र काष्ठामश्नु वते पराम् ।
तानि त्वदीयान्यङ्गानि देवि कस्तोतुमर्हति ॥ 15.92 ॥

त्वं माया त्वमविद्यासि त्वं शक्तिः कर्मणामपि ।
चैतन्यशक्तिस्त्वमसि प्रकृतिस्त्रिगुणात्मिका ॥ 15.93 ॥

त्वमेव विद्यात्रैय्यन्ता त्रयी च त्वं परावरा ।
यस्यास्तवायुतांशांशे देव्यो वागादयस्थ्सिताः ॥ 15.94 ॥

सच्चिदानन्दरूपस्य परस्य परमात्मनः ।
आनन्दादिमयी मूर्ति कविभक्ता भवत्यसि ॥ 15.95 ॥

प्रभासि तस्य नित्या त्वं भास्वतः परमात्मनः ।
सन्ध्या त्वमसि विप्राणां वन्दनीया दिने दिने ॥ 15.96 ॥

भूर्भुवस्स्वस्त्वयी च त्वं भूरसि त्वं भुवोसि च ।
स्वरसि व्याहृतिश्चापि ऋग्यगुस्सामकारणम् ॥ 15.97 ॥

त्वमाहुतिस्त्वमिष्टश्च दक्षिणासि त्वमेव च ।
सिद्धिश्च कर्मणां त्वत्तो नान्यास्ति कमलालये ॥ 15.98 ॥

नीतिरान्वीक्षकी वार्ता विद्या चाद्यासि लौकिकी ।
दृष्ट्वा देवि त्वया हीनं मृत प्रायं जगत्त्रयम् ॥ 15.99 ॥

यत्नैरम्भोधिमथनप्रायैराविर्भभूविथ ।
अनुषङ्गिकमुत्पन्नं प्राप्तमप्सरसामपि ॥ 15.100 ॥

तादृगेवामृतादन्यदिन्दिरे हरिमन्दिरे ।
हालाहलं विषं चापि जन्मनश्श्रेयसे तव ॥ 15.101 ॥

प्रत्यूहरूपेणोत्पन्नं क्षीरपारिधिसम्भवे ।
अभ्यर्हिता तपोत्पत्ति रेवं नाम मधुद्विषः ॥ 15.102 ॥

कुर्मादितिर्यग्योनित्वं यत्प्राप्तं परमात्मनः ।
त्वं सर्वलोकजननी जनको जगतां हरिः ॥ 15.103 ॥

त्वया च विष्णुनाचैद्व्याप्तं स्थावरजङ्गुमम् ।
मानःकोशं तथा गोष्ठं मागृहं मा परिच्छदम् ॥ 15.104 ॥

मा शरीरं कलत्रं च त्यजेथा मा च सन्ततिम् ।
श्रुतवान् शीलवान् दक्षो बुद्धिमान् वित्तवानृजुः ॥ 15.105 ॥

वृत्तिवान् बन्धुमान् श्रीमान् पशुमान् धान्यवानपि ।
गुणवान् कीर्तिमान् लोके तथाभिजनवान् प्रभुः ॥ 15.106 ॥

आयुष्मान् विजयी भूमांस्तथैपारोग्यवानपि ।
श्लाघ्यवान् देव पुरुषःकटाक्षविषयात्तव ॥ 15.107 ॥

गुणैर्यथोक्तैरहितस्त्वद्दर्शनविवर्जितः ।
क्रीडाभूमिर्हरेर्यस्य वक्षोभूमिस्सनातनी ॥ 15.108 ॥

आनन्त्यात्तनकल्याणि गुणानां वर्णने क्षमः ।
न वाचस्पतिरप्येष दूरे स्यान्मादृशां स्थितिः ॥ 15.109 ॥

प्रसीद देवि पद्मे त्वं पद्महस्ते शुचिस्तिते ।
पद्मासने पद्मयोनेर्जनयित्रि हरिप्रिये ॥ 15.110 ॥

पद्मप्रिये नमस्तुभ्यं विष्णोर्वक्षस्थ्सलालये ।
स्तुत्यन्तमित्थमाराध्या देव्यस्सर्वा श्श्रियादयः ॥ 15.111 ॥

देवीनामर्चने विशेषः

अर्हणं चोपवीतं च वर्ङयित्वोपचर्यया ।
ध्यात्वा यथोक्तमार्गेण यद्वा धूमध्वजार्चनम् ॥ 15.112 ॥

उत्सवं च श्रिया देव्या सार्धं तस्मिन्मधुद्विषः ।
यावज्जीवं श्रियं देवीमर्चयन् सम्पदं पराम् ॥ 15.113 ॥

इहानुभूय भूयोऽपि 20 परत्र श्रियमश्नुते ।
यद्वा कामयमानेन पुरुषेणार्चनं श्रियः ॥ 15.114 ॥

लभते तत्तदेवेह फलभेदैः किमीरितैः ।

आरोग्य कामव्रतम्

आरोग्य कामस्सावित्रे मण्डले रत्नपङ्कजे ॥ 15.115 ॥

असीनं विष्टरे पीतकौशेयवसनं हरिम् ।
निष्टप्ततपनीयाभं चतुर्भुजमधोक्षजम् ॥ 15.116 ॥

प्रसादसुमुखं सर्वदिव्याभरणभूषितम् ।
देवीसहायं कल्याणं केवलं वा चतुर्मुख ॥ 15.117 ॥

पूर्वाद्यष्टदलासीनशक्त्यष्टसमुपासितम् ।
एवं ध्यात्वार्चयेन्नित्यमारोग्यं परमश्नुते ॥ 15.118 ॥

अनन्यलभ्यमारोग्यं सर्वं 21 लभ्येत्ततःपरम् ।

दिनपञ्चकव्रतम्

दिनानि पञ्च शस्तानि वैष्णवानि चतुर्मुख ॥ 15.119 ॥

तेषु व्रतनुष्ठेयं सर्वाभिप्रेतसाधनम् ।
पक्षद्वये च द्वादश्यौ सिनीवाली कुहुस्तथा ॥ 15.120 ॥

श्रवणर्क्षं दिनानि स्युर्मासेषु द्वादशस्वपि ।

चैत्रादि द्वादशमासाधिव्रतानि

चैत्रादिषु द्वादशसु मासेषु द्वादशाधिपाः ॥ 15.121 ॥

अर्चनीयाःक्रमाद्विष्णुस्तथैव मधुसूदनः ।
त्रिविक्रमो वामनश्च श्रीधर स्तदनन्तरम् ॥ 15.122 ॥

हृषीकेशःपद्मनाभो दामोदरसमाह्वयः ।
केशवो नामधेयेन तथा नारायणःस्मृतः ॥ 15.123 ॥

माधवोऽन्यश्च गोविन्दो द्वादशैते प्रकीर्तिताः ।
मासेचैत्रे 22 समारम्भोमार्गशीर्षेथवा भवेत् ॥ 15.124 ॥

23 अश्नन् हविष्यं पूर्वेद्युरनश्नन्नपरेऽहनि ।
श्रवणे मध्यमे भागे शुचिर्दक्षस्समाहितः ॥ 15.125 ॥

चक्राब्जमण्डले यद्वा बिम्बे कुम्भेऽथ वा हरिम् ।
आराध्य मूर्तिं मासेशमुपचारैर्यथोदितैः ॥ 15.126 ॥

आराधनान्ते वित्तानि दत्वा शक्त्यनुसारतः ।
ब्राह्मणेभ्यस्तथा दत्वा गुरवे दक्षिणादिकम् ॥ 15.127 ॥

अपरेद्युस्तथा देवमर्चयित्वा यथाविधि ।
पारणं ब्राह्मणैस्सार्धं कुर्यान्नि यतमानसः ॥ 15.128 ॥

एवं चतुर्षु चान्येषु दिनेष्वाराधनक्रमः ।
मासि मासि च यष्टव्या मासेशा मूर्तिरब्जज ॥ 15.129 ॥

दिनेषु पञ्चसूक्तेषु सर्वाभिप्रेतसिद्धये ।
त्रिषु संवत्सरेष्वेवं कृत्वा मासेषु च त्रिषु ॥ 15.130 ॥

व्रते समाप्ते स्नपनं कुर्यात्पूर्वोक्त वर्त्मना ।
24 याचयेत व्रतफलं धान्यराशौ स्थितो द्विजः ॥ 15.131 ॥

भोजयित्वा द्विजवरान् दत्वा तेभ्यश्च दक्षिणाम् ।
दक्षिणाभिस्तथाचार्यं तोषयेत्काञ्चनादिभिः ॥ 15.132 ॥

पौर्णमास्यामपि ह्येष क्रमो मासाधिपार्चने ।
विशेषत स्त्रियामायां चन्द्रमस्यु दितेऽर्हणा ॥ 15.133 ॥

कुह्वामपि तिथौ प्राग्वदर्चयेद्व्रतमास्थितः ।
आराधनं दिनेष्वेषु चतुर्वर्ग फलप्रदम् ॥ 15.134 ॥

सर्वस्मिन् मासनक्षत्रे प्रादुर्भाव दिनेषु च ।
अर्चयित्वाङ्कुरान् पूजा कार्यास्नपनपूर्विका ॥ 15.135 ॥

होमावसानिकान्विप्रांस्तर्पयेच्च यथावसु ।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे “व्रतानुष्ठान क्रमो” नाम पञ्चदशोऽध्यायः.


  1. तस्मिन्. ↩︎

  2. दीपोत्सवस्त सर्वं शोधयेद्देनमन्दिरम् । ↩︎

  3. सर्वालङ्कारशोभितम्. ↩︎

  4. पारये. ↩︎

  5. प्रभूतं. ↩︎

  6. उत्तरे गरुडेनैनसहितं. ↩︎

  7. गोलकशब्दस्धाने गोलिकेतिसाधु. ↩︎

  8. लिखिता. ↩︎

  9. तिपादभारसहिता नाडिर्वा द्विगुणास्तथा. ↩︎

  10. लज्जिते च. ↩︎

  11. तिलाज्यभारसहिता. ↩︎

  12. पूजयित्वा. ↩︎

  13. सर्वन्कुल्यानपि. ↩︎

  14. मण्डले. ↩︎

  15. प्रकारपरिवेषणे. ↩︎

  16. स्थिताः. ↩︎

  17. त्र्यब्ज. ↩︎

  18. दुर्लभे क्षमे. ↩︎

  19. शुभदे. ↩︎

  20. परतः. ↩︎

  21. लभ्यमितः परम्. ↩︎

  22. प्रतारम्भो. ↩︎

  23. अन्नं. ↩︎

  24. वाचयेत व्रतफलं धान्यराशौ स्थितं द्विजम्. ↩︎