.
कालविभागनिबन्धनभगवदाराधननिरूपणम्
ब्रह्मा :—
मासि मासि प्रशस्तानि नक्षत्राणि जनार्दन ।
भगवन् कानि येषु स्यादर्चनं परमं स्मृतम् ॥ 14.1 ॥
कानि चांशावताराणां जन्मर्क्षाणि युगे युगे ।
उच्यतां तानि देवेश श्रोतुमिच्छामि तत्त्वतः ॥ 14.2 ॥
श्रीरामजयन्ती
श्रीभगवान् :—
चैत्रे मासि पुनर्वस्वोर्जन्म रामस्य मङ्गलम् ।
तिथौ नवम्यां लग्ने च कुलीरे कमलासन ॥ 14.3 ॥
राघवस्याप्रमेयस्य नक्षत्रे तत्र राघवम् ।
देव्याच सीतया सर्धमर्चयित्वा यथाविधि ॥ 14.4 ॥
उत्सवश्च भवेत्तस्मिन् सर्वमङ्गलसंयुतः ।
भरतादीनां जन्मकालपूजा
पुष्ये च मीनलग्ने च भरतस्समजायत ॥ 14.5 ॥
तत्र स्यादर्चनं देव्या माण्डव्या सह पूर्ववत् ।
उत्सवश्च तथा सर्पे नक्षत्रे लक्ष्मणोऽपि च ॥ 14.6 ॥
शत्रुघ्नश्च कुलीरे च लग्ने जातस्तदर्चनम् ।
उभयोस्तत्र दिवसे देव्या चोर्मिलया सह ॥ 14.7 ॥
लक्ष्मणस्येतरस्यापि श्रुतकीर्त्या महोत्सवः ।
रामजन्मनक्षत्रे वा भरतादीनां पुजा
रामस्य जन्मनक्षत्रे सर्वे वा भरतादयः ॥ 14.8 ॥
अर्चनीया हनुमता सर्धं सर्वैर्महोत्सवः ।
नृसिंहजयन्ती
तत्रैव श्रवणे चैव सायाह्ने नरकेसरी ॥ 14.9 ॥
अर्चनीयस्स हि तदा हिरण्यमवधीद्रिपुम् ।
तस्मिन्नेव सिते पक्षे त्रयोदश्यां समर्चयेत् ॥ 14.10 ॥
विष्णुं यद्वा पुनर्वस्वोः पौर्णमास्यामथापि वा ।
वसन्तकालपूजा
वसन्तकालतृप्त्यर्थं तत्समृद्धिभिराहृतैः ॥ 14.11 ॥
पुष्पैर्नानाविधैर्देवमर्चयेद्दक्षिणामुखम् ।
आसीनं मण्डपे क्लृप्ते वेदीमध्ये मनोरमे ॥ 14.12 ॥
उद्याने मन्दिरे वापि कृत्रिमोद्यानशोभिते ।
नद्यादौ वा यथायोगं फलपुष्पोदकान्विते ॥ 14.13 ॥
दमनकोत्सवः
पौर्णमास्यां तथौ तस्मिन् मासे दमनिकादलैः ।
पुष्पान्वितैःप्रपां कृत्वा मण्डपे पूजयेद्धरिम् ॥ 14.14 ॥
पुष्पोर्दमनिकाभिश्च सर्वालङ्कारमाचरेत् ।
उत्सवश्च भवेत्तस्मिन् होमो दमनिकादलैः ॥ 14.15 ॥
वसन्तोत्सवस्य मासविकल्पः
वैशाखे मासि वा कुर्याद्वसन्तोत्सवमब्जज ।
दमनीदलकल्याणमपि वा पूर्वमीरितम् ॥ 14.16 ॥
कह्लोरकुसुमोत्सवः
वैशाखे मासि वा चैत्रे सितपक्षे शुभे दिने ।
दमनीदलवत्कुर्यात्कल्हारकुसुमोत्सवम् ॥ 14.17 ॥
स्थानेषु पूजयेद्देवं कुम्भादिषु चतुर्ष्वपि ।
महाहविर्निवेद्याथ होमं कृत्वा समापयेत् ॥ 14.18 ॥
ज्येष्ठे श्रावणे वा मासे भगवते फलसर्मणम्
फलान्यपि समाहृत्य वन्यजानपदान्यपि ।
ज्येष्ठे वा श्रावणे वापि देवाय विनिवेदयेत् ॥ 14.19 ॥
सर्वालङ्कारसंयुक्तं विदध्याच्च महोत्सवम् ।
एवं यः कारयेत्पूजां श्रद्धापूतेन चेतसा ॥ 14.20 ॥
सर्वान् कामानिहावास्य विष्णोलोकं स गच्छति ।
त्रिविक्रमजन्मकालः
श्रावणे जन्म पूर्वह्णे वामनस्य त्रिविक्रमम् 1 ॥ 14.21 ॥
मध्यं दिने च तत्कालद्वये पूजा मधुद्विषः ।
पूर्वोक्तस्य अनुकल्पकालः
पौर्णमास्यां च वैशाख्यां हरे 2 रर्चनमिष्यते ॥ 14.22 ॥
हनुमज्जन्मकालः
अनुराधे हनुमतो जम््म
राघवेण सहैव हनुमतःपूजनम्
तस्मिन् सभाजयेत् ।
तं राघवेण सहितं सीतया 3 लक्ष्मणेन च ॥ 14.23 ॥
आञ्जनेयं तदत्यन्तप्रीणनं राघवात्मनः ।
अनूराधे पौर्णमास्यां कलशैस्स्नपनं हरेः ॥ 14.24 ॥
भगवतश्शयनोत्सवकालः
आषाढे शुक्लपक्षे च द्वादश्यां कमलासन ।
चक्राब्जमण्डले देवमर्चयित्वा यथाविधि ॥ 14.25 ॥
कल्पिते शयनागारे मन्धिरे वा यथावसु ।
पर्यङ्के कल्पिते तत्र शाययित्वाथ कौतुकम् ॥ 14.26 ॥
देवीभ्यां सह कूर्चं वा त्रितयं तदभावतः ।
तत्र नित्यार्चनं मासांश्चतुरो मङ्गलान्वितम् ॥ 14.27 ॥
नयेच्चशयने नैव शाययोदन्यकौतुकम् ।
प्रतोपवासनियमान् कल्पयित्वा 4 तदादिकान् ॥ 14.28 ॥
चातुर्मास्यव्रतकालः
तदनुष्ठायिनस्तत्र चातुराश्रम्य माश्रिताः ।
आसीरंस्तत्र नियता 5 स्तरेयुर्नतरङ्गिणीम् ॥ 14.29 ॥
देवस्य यावदुत्थानां भोगिपर्यङ्कशायिनः ।
श्रीकृष्णजयन्ती
श्रावणे मासि कृष्णे च पक्षेऽष्टम्यां तथौ हरेः ॥ 14.30 ॥
रोहिण्यां जन्म कृष्णस्य लोकानां मङ्गलावहम् ।
जयन्ती नाम सा 6 प्रोक्ता जयत्यशुभमित्यसौ ॥ 14.31 ॥
मध्यरात्रे ततस्तस्मिन् कल्याणं सर्वमाचरेत् ।
तिथ्ययोगेऽपि नक्षत्रे केवलेऽर्चनमिष्यते ॥ 14.32 ॥
देवस्य देवकीसूनोरपरेद्युर्महोत्सवः ।
पवित्रोत्सवः
नित्यं नैमित्तिकं काम्यं कर्मयच्छ्रुतिचोदितम् ॥ 14.33 ॥
तत्कुर्वतामाश्रमेषु स्थितानामानुपूर्वशः ।
वर्णानां मन्त्रलोपादिशान्त्यर्थं प्रत्यहं हरेः ॥ 14.34 ॥
आराधं भगवतः पूर्णहुत्या स्वयं मतम् ।
तस्य न्यूनातिरेकाभ्यां दुष्कृतं सकलं भवेत् ॥ 14.35 ॥
कर्मजातं ततःपूर्णमाराधनमभीप्सितम् ।
प्रतिसंवत्सरं मासि श्रावणे तन्तुनिर्मितम् ॥ 14.36 ॥
पवित्रभूषणं विष्णोरारोप्यं बहुमाल्यवत् ।
पवित्रशब्दनिर्वचनम्
आराध्य विधिवद्भाद्रपदे वाश्वयुजेऽपि वा ॥ 14.37 ॥
मन्त्रलोपादिना कर्म पतितं विहितं पुनः ।
प्रायश्छितैन यत्सर्म कर्तारं त्रायते 7 पुनः ॥ 14.38 ॥
तत्पवित्रं फलैर्भूयो रोहत्येव समाहितः ।
इति निर्वचनात्तत् ज्ञेःपवित्रारोहणं मतम् ॥ 14.39 ॥
पवित्रारोपणकालभेदाः
पूर्वोदितेषु मासेषु द्वादश्यां प्रतिपद्यपि ।
दशम्यां पौर्णमास्यां वा पङ्च म्यामधवा तिथौ ॥ 14.40 ॥
एकादश्यां त्रयोदश्यां द्वितीयायामथापि वा ।
सितपक्षे शुभे वारे लग्ने शुभ 8 तरेऽथ वा ॥ 14.41 ॥
श्रवणे पुष्यरोहिण्यां रेवत्यां भरणीषु च ।
स्वातौ हस्तपुनर्वस्वोरश्विन्यां मित्रदैवते ॥ 14.42 ॥
ऋक्षेष्वन्यतम् कार्यं पवित्रारोपणं हरे ।
पवित्रतन्तुर्माणम्
तन्तून् ब्राह्मणकन्याभिर्निर्मितान् दोषवर्जितान् ॥ 14.43 ॥
कार्पासान्वाथ कौ शेयान् 9 क्रीतान्वा शउद्धवारिभिः ।
क्षालितान्मि श्रितांश्चूर्णै र्मौद्गिकैश्शोषयेद्भहिः ॥ 14.44 ॥
आतपेषु ततश्शुथ्धान् शोषितां स्त्रिगुणीकृतान् ।
पुनस्तां स्त्रिगुणीकृत्य तावन्तोपि चतुर्गुणान् ॥ 14.45 ॥
यद्वा त्रिगुणतां नीत्वा चतुर्गुण्यं चतुर्मुख ।
त्रिगुणांस्त्रिगुणीकृत्य यद्वा तानेकतां नयेत् ॥ 14.46 ॥
तन्तुसंस्कारः
गोमियालेपिते भूमितले मानानुसारतः ।
शङ्क्वोस्थ्सापितयोर्यज्ञद्रुमसम्भूतयो स्ततः ॥ 14.47 ॥
आरोप्य भगवद्भक्ताः प्राङ्मुखा वाप्यु दङ्मुखाः ।
आसीना गुरुरन्यो वा तत्प्रयुक्तास्समाहिताः ॥ 14.48 ॥
स्नाता निर्माणनिपुणा मनुष्या भगवन्मयाः ।
10 कुर्याःपवित्र कल्याणं यथा स्याद्भूषणोत्तमम् ॥ 14.49 ॥
अधिवासाद्युपयोगिपवित्रमानम्
पवित्रमधिवासार्थमाद्यं 11 नाभ्यवधिस्मृतम् ।
अष्टोत्तरशतैस्सूत्रैर्द्वात्रिंशद्ग्रन्थिभिर्युतम् ॥ 14.50 ॥
मूलबेरादिबेराणां 12 पवित्रमिदमिष्यते ।
पूर्वापरदिनभेदेन पवित्रमानम्
पवित्रं मण्टले पद्मतुल्यमानं घटेऽपि च ॥ 14.51 ॥
कुण्डे च मेखलामानं पुर्वेद्युर्मानमीरितम् ।
अपरेद्युःपवित्रेषु मानं सम्प्रति कथ्यते ॥ 14.52 ॥
पद्मनाभ्यरनेमीनां चक्राब्जे मण्डले सताम् ।
तन्मानानि पवित्राणि बाह्यमानं बहिस्समम् ॥ 14.53 ॥
पवित्राणां तन्तुग्रन्थितारतम्यम्
ग्रन्थयस्तन्तवश्चैषां कथ्यनैच यथाक्रमम् ।
चतुश्सतानि सूत्राणि ग्रन्थयस्सप्तविंशतिः ॥ 14.54 ॥
शतत्रयं तन्तुसङ्ख्या ग्रन्धयो द्विगुणा मताः ।
द्वेश ते 13 द्विगुणा ग्रन्थिशतमेक मनन्तरम् ॥ 14.55 ॥
चतुर्गुणा ग्रन्थिसङ्ख्या बाह्यसूत्रं चतुश्शतम् ।
ग्रन्थयःपञ्च गुणिताः कुम्भे चाष्टोत्तरं शतम् ॥ 14.56 ॥
तन्तवो ग्रन्थिसङ्ख्या च सप्तविंशतिरिष्यते ।
एकाधिकाशीतिसङ्ख्यास्त न्तवः करके मताः ॥ 14.57 ॥
सप्तविंशति सङ्ख्याश्छ ग्रन्थयःपरिकीर्तिताः ।
पवित्रभेददशकनामानि
पवित्रसङ्ख्या भेराणां दश तानि पदामिते ॥ 14.58 ॥
प्रामाण्यं 14 गन्धसञ्ज्ञं चाप्यलङ्काराह्वयं तथा ।
उत्तमाधममध्याख्यं किरीटाह्वमनन्तरम् ॥ 14.59 ॥
श्रीवत्सकौस्तुभाह्वानं वनमालाह्वयं तथा ।
15 मानानि तेषां सूत्राणि ग्रन्थयश्च यथाक्रमम् ॥ 14.60 ॥
मानानुगुणग्रन्थितन्तुसङ्ख्या
कर्थ्यनैनाभिमर्यादा सूत्राण्यष्टोत्तरं शतम् ।
द्वात्रिंशद्ग्रन्थयस्तस्य हृदयान्तमन न्तरम् ॥ 14.61 ॥
सूत्राण्यशीति 16 तस्योक्ता क्रन्थयः पङ्च विंशतिः ।
जङ्घामध्यान्तमायामं निर्मितं शततन्तुभिः ॥ 14.62 ॥
अष्टोत्तरैर्ग्रन्थिभिश्च द्वात्रिंशद्गुणतैर्युतम् ।
उत्तमाख्यस्य सूत्राणां भवेत्सङ्ख्या चतुश्शतम् ॥ 14.63 ॥
शतमष्टौत्तरं सङ्ख्या ग्रन्थीनां जानुसीम तत् ।
शतानि त्रीणि तन्तूनां ग्रन्थयोऽशीतिरिष्यते ॥ 14.64 ॥
आयतं चोरुमध्यान्तं द्वेशते तन्तवः पुनः ।
नाभ्यन्तं ग्रन्थयष्षष्टि 17 तन्तवोऽथ चतुश्शतम् ॥ 14.65 ॥
किरीटमानं द्वात्रिंशद्ग्रन्थय स्तदन न्तरम् ।
शतानि त्रीणि तन्तूनां हाराकारप्रकल्पितम् ॥ 14.66 ॥
ग्रन्थिभिस्सप्तविंशत्या द्वे शते 18 त न्तवः पुनः ।
द्वात्रिंशत् न्तसमर्यादं सहस्रं चाष्टभिर्युतम् ॥ 14.67 ॥
तन्तवश्चरणा () याममनेकग्रन्थिभिर्युतम् ।
विष्टरस्य सहोत्थस्य पवित्रं तत्समं मदम् ॥ 14.68 ॥
तन्तवोऽष्टोत्तरशतं ग्रन्थयःपञ्चविंशतिः ।
प्रभावित्रं तत्तुल्यं ग्रन्थयो बहनःस्मृताः ॥ 14.69 ॥
सर्वेषां च स्वतन्त्राणां बिम्बानामिदमीरितम् ।
परतन्त्रबिम्बपवित्रविधिः
परतन्त्रेषु बिम्बेषु त्रितयं तू त्तमादिकम् ॥ 14.70 ॥
श्रियादिदेवीनां पवित्राणि
देवीनां च श्रियादीनां पवित्रं तद्वदिष्यते ।
अग्निकुण्डादीनां पवित्राणि
अष्टोत्तरशतैस्सूत्रैर्ग्रन्थिभिर्बहुभिर्युतम् ॥ 14.71 ॥
अग्निकुण्डे मेखलासु पवित्रं प्रतिमेखलम् ।
तन्तुभिस्सप्तविंशत्या तावद्भिर्ग्रन्थिभिर्युतम् ॥ 14.72 ॥
अग्नेःपवित्रं हस्तेन समायामं प्रकीर्तितम् ।
मध्यमं पञ्चविंशत्या 19 द्वाविंशत्याधमे मतम् ॥ 14.73 ॥
सूत्राणां पञ्चविंशत्या पवित्रं स्रुक्स्रुवादिषु ।
तदायामसमायामं ग्रन्थिभिर्बहुभिर्युतम् ॥ 14.74 ॥
अर्घ्यपात्रे तथा धूपदीपपात्रे चतुर्मुख ।
घण्टायामक्षमालायां सर्वत्राष्टोत्तरैश्शतैः ॥ 14.75 ॥
सूत्रैर्यथेप्सिताग्रन्थिर्द्वादशाङ्गुलमायतम् ।
विष्वक्सेनतार्क्ष्यादीनां पवित्राणि
विष्वक्सेनस्य तार्क्ष्यस्य तथा दुश्च्यवनादिषु ॥ 14.76 ॥
दिग्देवतासु द्रुहिणे दुर्गायां विघ्नुनायके ।
रुद्रे च परिवारेषु पवित्रं तस्तुभिःकृतम् ॥ 14.77 ॥
शतेनाष्टोत्तरेण स्याद्द्वात्रिंशद्ग्रन्थिभिर्युतम् ।
हस्तमानायतं कार्यं चण्डादिषु च सर्वतः ॥ 14.78 ॥
कुम्भतोरणादीनां पवित्राणि
सप्तविंशतिसूत्रेण ग्रन्थिभिन्नेन निर्मितम् ।
हस्तमानं भवेत्कुम्भतोरणादिषु तादृशम् ॥ 14.79 ॥
बलिपीठपवित्रं तु कर्णिकाया 20 मसम्मितम् ।
आचार्ययतियुत्विगादीनां पवित्राणि
आचार्याणां यतीनां च पवित्रं तन्तुभिःकृतम् ॥ 14.80 ॥
अष्टोत्तरशतै 21 स्सूत्रैर्ग्रन्थिभिःपर्वभिर्युतम् ।
ऋत्विजां पूजकानां च ब्राह्मणानां तथैव च ॥ 14.81 ॥
एकाशीत्या कृतं सूत्रैर्नाभ्यन्तपरिलम्बितम् ।
राज्ञःपवित्रं सूत्रेण शतेनाष्टोत्तरेण तु ॥ 14.82 ॥
यथेष्टग्रन्थिनिचयैस्तूलगर्भैश्चनिर्मितम् ।
22 नाभ्यन्तमानमेतत्स्यात्तथा तदनुजीविनाम् ॥ 14.83 ॥
एताशीत्या कृतं सूत्रैर्वैश्यादीनां च तन्तुभिः ।
चतुर्विंशतिभिस्तेषां पवित्रमुपवीतवत् ॥ 14.84 ॥
विभवानुरोधेन पवित्रमानम्
पवित्रेषु समस्तेषु विस्तारो विभवे सति ।
पादोनमर्धं पादो वा सङ्ख्या स्याद्विभवक्षये ॥ 14.85 ॥
मणिमुक्ताप्रवालादिभिरपि पवित्रग्रन्थियोगः
ग्रन्थींस्ततःपवित्राणां द्रव्यैः कस्तूरि कादिभिः ।
मणिमुक्ताप्रवालाद्यै रत्नैश्चापि यथावसु ॥ 14.86 ॥
लोहैश्च कलधौताद्यैस्तूलैर्वा तदसन्निधौ ।
पूरयित्वा दृढं बध्वा ग्रन्थींस्तां स्तन्तुरज्जुभिः ॥ 14.87 ॥
पवित्रग्रन्थीनामाकारः
ग्रन्थयश्शङ्खसंस्थानसमानाकृतयोऽथ वा ।
धात्रीफल समाकारा यद्वा मुक्तादि सन्निभाः ॥ 14.88 ॥
पवित्रवर्णगन्धरचना
कुङ्कुमैरोचनाभिश्च तथा मलयजैरपि ।
लोहितैरप्यवश्यायैस्सम्पिष्टैःकर्दमीकृतैः ॥ 14.89 ॥
ग्रन्थीनामन्तरालानि लिम्पेच्छोभा यथा भवेत् ।
ग्रन्थीनां पूरणं यद्वा मल्लिकाद्यैस्सुगन्धिभिः ॥ 14.90 ॥
पुष्पौस्तदन्तरालानि निशाचर्चाभिरेव वा ।
रञ्जयेत्तन्तवश्चापि ग्रन्थयश्च यथेच्छया ॥ 14.91 ॥
यथाविभवविस्तारं कल्पनियाश्चतुर्मुख ।
विभवे सति सङ्कोचो नैव कार्यस्तथाऽसति ॥ 14.92 ॥
विस्तारो नैव कार्यस्यात्तदेव प्रीणनं हरेः ।
पवित्राधिवासकालविकल्पः
सद्योऽधि 23 वास्य वा तस्मिन्नुपोष्याराधयेद्धरिम् ॥ 14.93 ॥
श्रद्धाया आवश्यकता
गृहार्चने कौतुके वा मण्डले वा घटेऽपि वा ।
अर्चनं श्रद्धया कार्यं श्रद्धापूतमिदं जगत् ॥ 14.94 ॥
सिद्धे पवित्रे भगवदर्चनम्
विहितेषु पवित्रेषु यथोक्तेनैव वर्त्मना ।
आरभेतार्चनं विष्णोर्दशम्यां च निवेदनम् ॥ 14.95 ॥
निशामुखे गुरुस्सार्धं मूर्तिपैस्सु समाहितः ।
भगवति विज्ञापनीयगाधा
यजमानेन सहितःप्रविशेद्विष्णुमन्दिरम् ॥ 14.96 ॥
प्रविश्य पूजयित्वातं गुरुस्तैस्सहितस्स्वयम् ।
विज्ञापयेदिमां गधा 24 मीरयन् प्राञ्जलिस्थितः ॥ 14.97 ॥
न्यूवातिरेकशान्त्यर्थं पवित्रारोहणं परम् ।
अर्चनं भगवन् सर्वदुरुतोत्सारणक्षमम् ॥ 14.98 ॥
सम्पदां चापि सर्वासामुत्पादनमनु तमम् ।
क्रियते तदविघ्नेन यथा स्यात्कर्म चोदितम् ॥ 14.99 ॥
तथानुज्ञापयामि त्वा मनुजानीहि कर्मतत् ।
इति विज्ञाप्य निर्गत्य मन्दिरात्
गुरोरुपवासः
मण्डपे पुनः ॥ 14.100 ॥
संस्तीर्य दर्भान् प्रागग्रान् तेषु प्रागाननो गुरुः ।
उपविश्योपवासं च कल्पयित्वा समाहितः ॥ 14.101 ॥
नयेत्तत्रेव तां रात्रिं जपध्यानपरस्सदा ।
अपरेद्युरधिपासकालः
अपरेद्यु 25 र्निशीधिन्यामधिपासनकर्मतत् ॥ 14.102 ॥
आरभेत्तेकभेरेषु बध्वा तत्रेव कौतुकम् ।
बहुबेरैकबेरस्थले कौतुकबन्धविधानम्
बहुबेरुषु कल्याणमिम्बे 26 कौतुकमङ्गलम् ॥ 14.103 ॥
अधिवासविधिः
ततो निर्गत्य विपुले मण्टपे तोरणादिकम् ।
अर्चयित्वा यथापूर्वं दिक्षु चैव विदिक्षु च ॥ 14.104 ॥
चतुर्वेदवितो विप्रानेकायनविदस्तथा ।
अधीयानान् स्थापयित्वा तुर्याघोषेषु सत्सु च ॥ 14.105 ॥
मङ्गुलेष्वपि चान्येषु कल्पितेषु यथातथम् ।
पवित्रपात्राण्यादाय प्रागुदग्भुवि मण्डपे ॥ 14.106 ॥
धान्यराशिषु संस्थाप्य पुण्याहं वाचयेत्ततः ।
दहनाप्यायनध्यानैः पात्रस्थानि विशोधयेत् ॥ 14.107 ॥
धूपयेद्गन्धवद्द्रव्यैर्लिम्पेत्कस्तूरि कादिभिः ।
पुष्पाणि विकिरेत्तेषु गन्धवन्ति बहुनि च ॥ 14.108 ॥
तानि भूषणपात्राणि वेष्टयेन्नववाससा ।
चक्रमुद्राप्रदर्शनम्
दर्शयेच्चक्रमुद्रां च 27 पूजयेदस्त्रविद्यया ॥ 14.109 ॥
मण्डपसूत्रबन्धक्रमः
ऐशानीं दिशमारभ्य सूत्रेस्संवेष्ट्य मण्टपम् ।
मण्टपस्योपरि ध्यात्वा चक्रं भूमितले पुनः ॥ 14.110 ॥
पद्मं गदां च द्वारेषु शङ्खमष्टनु दिक्षु च ।
भूतेभ्यो माषान्नबलिदानम्
प्रत्यूहकारिणां तस्य छिद्रमन्विष्य धावताम् ॥ 14.111 ॥
भूतानां राक्षसादीनां माषान्नेन 28 बलिं क्षिपेत् ।
कल्याणबेरस्य उपवीतान्तमर्चनम्
बहुबेरेषु कल्याणबिम्बं स्नानासने बहिः ॥ 14.112 ॥
स्थापयित्वोपवीता 29 न्तमुपचर्य यथातथम् ।
चक्राब्जमण्डपे महाहविर्निवेदनम्
चक्राब्जमण्डले भूयस्समानीय चतुर्मुख ॥ 14.113 ॥
हविर्निवेदनान्तेतु समाराधन कर्मणि ।
निष्ठिते करके कुम्भे देवमावाह्य पूजयेत् ॥ 14.114 ॥
हविर्निवेदयित्वान्ते हुत्वाचाग्निं यथापुरम् ।
एकबेरे कल्याणाराधननिषेधःम्
एकबेरे चु कल्याण कौतुकाराधनं विना ॥ 14.115 ॥
अन्यत्सर्वमनुष्ठेयं यथा पूर्वोदित 30 क्रमात् ।
सम्भवे कौतुके तस्मिन् पवित्रं भूषणं पुनः ॥ 14.116 ॥
निक्षिपेत्कुम्भकरके दहने तदनन्तरम् ।
चक्राब्जमण्डले मन्त्रमिदं विष्णुरिति ब्रुवन् ॥ 14.117 ॥
प्रविश्य मन्दिरं सर्वैर्मङ्गुलैस्सह देशिकः ।
मूलबेरं 31 समासाद्य पवित्रन्यसनं ततः ॥ 14.118 ॥
पवित्रतन्तूनां पञ्चवर्णत्वम्
पूर्वोदितेन मन्त्रेण 32 सर्वार्चासु यथाक्रमम् ।
पवित्रभूषणन्यासः पञ्च 33 रागैश्च तन्तुभिः ॥ 14.119 ॥
प्रासादं वेष्टयेद्रात्रौ सर्वमाम्नायघोषणैः ।
पाद्यैर्गेयैश्च नृत्तैश्च स्तोत्रैर्जागरिता जनाः ॥ 14.120 ॥
अपरेद्युरुपचारः
नयेयुरपरेद्युश्च कौतुकं मण्डलेस्थितम् ।
स्नानवेद्यां समानीय स्नापयित्वा यथाविधि ॥ 14.121 ॥
अलङ्कृत्य च देवेशं मण्डले मार्जनादिभिः ।
शोधिते वर्तयित्वा च चक्राब्जं 34 पञ्चवर्णकैः ॥ 14.122 ॥
द्वारादियजनं प्राग्वत्कृत्वावस्थाप्य मण्डले ।
देवमाराध्य 35 दीपान्तं कुम्भादीनपि पूजयेत् ॥ 14.123 ॥
देवे कुम्भे च चतुर्विधान्न निवेदनम्
अन्नं चतुर्विधं चापि 36 कुम्भे देवे निवेद्य च ।
अग्नौ च जुहुयादन्नं पायसादि चतुर्विधम् ॥ 14.124 ॥
पौरुषेणै व सूक्तेन यवैश्च व्रीहि वेणुभिः ।
तिलैर्लाजैस्तथा पुष्पैस्तथा चागरुबिर्घृतैः ॥ 14.125 ॥
समिद्भिर्मूलमन्त्रेण पृथगष्टोत्तरं शतम् ।
शुभमुहूर्ते पवित्रेश्च क्राब्जमण्डलमण्डनम्
मुहूर्ते शोभने प्राप्ते दैवज्ञपरिशोधिते ॥ 14.126 ॥
पवित्राणि समादाय चक्राब्जं भूषयेत्पुनः ।
सर्वत्र मात्रैक्यम्. मूलबेरादिक्रमेण पवित्रारोपणम्
पद्मादीनि तदङ्गानि यथा स्वमिदमित्यृचा ॥ 14.127 ॥
ततःकुम्भे चकरके देवे च तदनन्तरम् ।
स एव मन्त्रःकुण्डेऽपि हव्यवाहेऽपि तोरणे ॥ 14.128 ॥
द्वारकुम्भेषु तत् स्थेषु पवित्राणि यथा 37 तथा ।
ततः प्रदक्षिणीकृत्य मण्डलस्थं जगद्गुरुम् ॥ 14.129 ॥
प्रविश्य मन्दिरं सर्वैर्मङ्गुलैस्सह देशिकः ।
स्नपनादि विधायादौ समाराधन 38 मच्युते ॥ 14.130 ॥
हविर्निवेदनान्तं तत्कृत्वा तत्रत्यदेवताः ।
मूलबेरं समारभ्य पवित्रै र्भूषयेत्स्वकैः ॥ 14.131 ॥
स्वतन्त्रपरतन्त्रबेरार्चनम्
परपन्त्रास्स्वतन्त्राश्च सर्वाःपूर्वोक्त 39 विद्यया ।
अभ्यर्च्यगन्धपुष्पाद्यैःपवित्राणि पृथक्पृथक् ॥ 14.132 ॥
देयानि
परिपारैस्स्वस्वगीतपाद्यादिकाला प्रदर्शनम्
दानवेलायां वाद्यवादनकोविदाः ।
40 नर्तका गायकाश्चैव तथा स्वाध्यायकोविदाः ॥ 14.133 ॥
सर्वे यथास्वनृत्तादि दर्शयेयुस्तदन्तिके ।
अनुक्तपरिवारादिदेवतापवित्रारोपणमन्त्रः
चण्डादिपरानाराणामन्येषां 41 प्राङ्कणासिनाम् ॥ 14.134 ॥
पवित्राणि प्रदेयानि बलिपीठावसानकम् ।
ब्रह्मादि देवतानां च तार्क्ष्यसेनेशयोरपि ॥ 14.135 ॥
42 सर्वेषामप्यनुक्तानां पवित्राणि यथायथम् ।
मन्त्रश्च विष्णुगायत्री यद्वेदं विष्णुरित्ययम् ॥ 14.136 ॥
यद्वाचाष्टाक्षरेणैव मन्त्रेण द्वादशात्मना ।
देशिको मूर्तिपैस्सार्धं यजमानेन संयुतः ॥ 14.137 ॥
पुष्पाञ्जलिः
प्रविश्य मन्दिरं विष्णो रत्नपूर्णाञ्जलिस्स्वयम् ।
हेमपुष्पाञ्जलिर्वापि यद्वा पुष्पभृताञ्जलिः ॥ 14.138 ॥
स्तोत्रेस्तुवानो बहुभिर्विकिरेत्तानि पादयोः ।
कत्नानि हेमपुष्पाणि पुष्पाणि सुरभीण्यपि ॥ 14.139 ॥
सर्वपवित्राणां देवपादयोर्न्यासः
कल्पितानि मनुष्याणां पवित्राणि यथायथम् ।
न्यस्य देवेशपदयोः पुष्पवत्सुसमाहितः ॥ 14.140 ॥
पवित्रविभजनम्
क्षौमा 43 दीनि पवित्राणि देवं विज्ञाप्य देशिकः ।
स्वयं गृहीत्वा क्षौमादिपवित्रं चात्मनः कृतम् ॥ 14.141 ॥
दद्यात्पूजकमुख्यानामृत्विजां सहकारिणाम् ।
एकायनीयनिष्ठानामन्येषां विदुषामपि ॥ 14.142 ॥
यथाधिकारं क्रमशो देवस्यालोक्य चाननम् ।
भगवति क्षमाभ्यर्थना
स्पृष्ट्वा देवपदान्भोज 44 माचार्योथ जनान्तिके ॥ 14.143 ॥
न्यूनातिरेकशान्त्यर्थं गाधामेनामुदीरयेत् ।
45 भगवन् देवदेवेश शङ्खचक्रगदाधर ॥ 14.144 ॥
संवत्सरोपचाराणां पूरणार्थं कृतं मया ।
आराधनं गृहाणत्वं भक्तानां हितकाम्यया ॥ 14.145 ॥
नाहं स्वतन्त्रःकिञ्चिच्च करोमि विहितं हितम् ।
किन्तु त्वत्त्प्रेरितस्सर्वं करोमि तव यत्स्वयम् ॥ 14.146 ॥
तत्क्षन्तव्यमशेषेण क्रियालोपाद्यनुष्ठितम् ।
ब्राह्मणसन्तर्पणम्
समये यजमानस्तु गां भुवं काञ्चनं तथा ॥ 14.147 ॥
वस्त्रादिकं तथा धान्यं भोजयित्वा महीसुरान् ।
दत्वा यथेप्ति तानर्थानाचार्याय च दक्षिणाम् ॥ 14.148 ॥
शतनिष्कावरां गोभूवस्त्रधान्यादि काव्यपि ।
मूर्तिपेभ्यस्तथान्येभ्यस्तत्तत्क र्मानुसारतः ॥ 14.149 ॥
यथातुष्टिकरं देयं यागे तत्रोपकुर्वताम् ।
बहिर्ग्रामोत्सवकालः
अपराह्णे बहिर्ग्रामे कुर्यादेवं महोत्सवम् ॥ 14.150 ॥
पवित्रावरोपणावधिः
प्रोक्ष्य प्रत्यहमेतानि पूजाकालेषु पूजकैः ।
स्यसनीयानि दिवसां श्चतुर्दश चतुर्मुख ॥ 14.151 ॥
46 यद्वैकविंशतिं सप्त यदि वा दिवसानपि ।
त्रिरात्रमेकरात्रं वा पश्चात्तान्यपरोहयेत् ॥ 14.152 ॥
पवित्रारोपणमन्त्राः
उच्चरन् पौरुषं सूक्तं साम यद्वा रथन्तरम् ।
त्रिसुवर्णं तथा मन्त्रं मूलमस्त्रमथापि वा ॥ 14.153 ॥
गुरुवे पवित्राप्रदाने दोषः
अवरोप्य पवित्राणि देयानि गुरवे ततः ।
कुरवे तानि दत्तानि प्रीणनाय मधुद्विपः ॥ 14.154 ॥
अन्यथा कर्मनैष्फल्यं क्षयस्स्याद्ध्राजराष्ट्रयोः ।
आवाहित देवताविसर्जनम्
मण्डलस्धं च कुम्भस्थमग्निस्थं च विसर्जयेत् ॥ 14.155 ॥
पवित्रावरोपणे कालोत्कर्षानवश्यकता
पवित्रारोहणदिने कालोत्कर्षोन युज्यते ।
पवित्रावरोपणानन्तरं भगवतस्स्नपनम्
कृत्वा वरोहणं तेषां स्नपनं तदन न्तरम् ॥ 14.156 ॥
कार्यं यथोक्तविधिना प्रविशेन्मन्दिरं ततः ।
पवित्रोत्सवफलं
इत्येष कथितो ब्रह्मन् पवित्रारोहणेविधिः ॥ 14.157 ॥
अनेन विधिना विष्णोःपवित्रारोहणं हरेः ।
कुर्वन् फलान्यनन्तानि प्राप्नु यान्नैव संशयः ॥ 14.158 ॥
सुखं जीवति निर्व्याधि र्यावदायुस्समृद्धिमान् ।
आयुश्च विन्दति प्राप्तं धर्माथान् धर्ममाप्नुयात् ॥ 14.159 ॥
कामानवाप्नुयात्कामी अर्थार्थीचार्थमाप्नुयात् ।
मोक्षार्थी मोक्षमाप्नोति प्रजार्थी लभते प्रजाः ॥ 14.160 ॥
47 बान्धवैर्लभतेचापि प्रवासिभिस्समागमम् ।
कीर्तिञ्चाप्नोति परमां कीर्तिकामो न संशयः ॥ 14.161 ॥
ज्ञानार्थी ज्ञानमाप्नोति शान्त्यर्थी शान्तिमाप्नुयात् ।
शत्रवस्तु प्रणश्यन्ति ग्रहभूताद्युपद्रवाः ॥ 14.162 ॥
आरोग्यकामी चारोग्यं श्रीकामश्स्रियामाप्नुयात् ।
बहुनात्र किमुक्तेन फलं यद्यदभीप्सितम् ॥ 14.163 ॥
तत्सर्वं तस्यहस्तथं नात्र कार्या विचारणा ।
भुक्त्वा भोङ्गांश्च विपुलान् ध्यात्वा चान्ते मधुद्विषम् ॥ 14.164 ॥
तल्लोकं समवाप्नोति न चेहोजायते पुनः ।
धारयन्ति पवित्राणि येभक्ताश्श्रद्धयान्विताः ॥ 14.165 ॥
तेपि निर्धूय पापानि मोदन्तेदिव देववत् ।
आचार्यो मूर्तिपास्सर्वे ये चान्ये परिचारकाः ॥ 14.166 ॥
ये श्यण्वन्ति च पश्यन्ति कीर्तयन्ति च कर्म तत् ॥
ते सर्वेपि समृद्धार्थालभन्ते सर्वसम्पदः ॥ 14.167 ॥
आग्रयणपूजायोग्य मासतिथिनक्षत्रादि
48 आग्रयणं श्रावणे मासि मासि प्रोष्ठपदेऽपि वा ।
मासे चाश्वयुजे ब्रह्मन् कार्तिके मासिवा भवेत् ॥ 14.168 ॥
वर्षास्वेवं ततोन्यत्र तैषे माघेऽपि वा भवेत् ।
फाल्गुने मासि चैत्रे वा वैशाखे वा तदाचरेत् ॥ 14.169 ॥
हस्ते च श्रवणे पौष्णे नैरृते च प्रजापतेः ।
नक्षत्रे वारुणे पुष्ये वायव्येदितिदैवते ॥ 14.170 ॥
49 मखासु मैत्रे चित्रायां श्रविष्ठायामथापि वा ।
सौम्ये त्रिषूत्तराख्येषु सम्भवानुगुणं भवेत् ॥ 14.171 ॥
अयुग्मास्तिथयस्सर्वा नवमीपरिर्जिताः ।
युग्मास्तु तिथयो नेष्टा द्वितीयां दशमीं विना ॥ 14.172 ॥
सोमो बृहस्पतिस्सौम्यो बृगुश्चेति ग्रहाश्शुभाः ।
मेषवृश्चिकमिने तु कन्याझषकुलीरके ॥ 14.173 ॥
पूर्वपक्षे च कर्तव्यस्तत्रायं कर्मणःक्रमः ।
ओषधिलवन धान्य ग्रहणादिविधिः
आदौ दध्यादनं क्षेत्रे क्षेत्रपालाय कल्पयेत् ॥ 14.174 ॥
मुहूर्ते लवनस्योक्ते विधाय लवनं ततः ।
धान्यं 50 कणिशभारेण गृह्णीयाद्भूमिकर्षकैः ॥ 14.175 ॥
कदलीपनसादीनि तथादधिघृतादिकम् ।
धान्यभारासपि तथा 51 कन्दल्यादिदलानि च ॥ 14.176 ॥
नयेयुर्नृत्तवादित्रगीतालङ्कारसंयुतम् ।
धान्यानयनकाले रक्षा संविधानम्
पुरतः पृष्ठतश्चैव सेनेशविहगधिपौ ॥ 14.177 ॥
अलङ्कृतौ कुञ्जरादियानारूढौ यथावसु ।
छत्र चामरसौशेयध्वजातिपरिबर्हकौ ॥ 14.178 ॥
ग्रामप्रादक्षिण्येन धान्यानां कोष्ठागारनयनम्
नीत्वा प्रदक्षिणं ग्राममालयं च मधुद्विषः ।
गोष्ठागारं प्रविश्यान्तर्धान्यं कणिशगोचरम् ॥ 14.179 ॥
भाण्डे धान्यनिक्षेपणे मन्त्रः
श्रीसूक्तेन समभ्यर्च्य भाण्डेष्वभिनवेषु तत् ।
निक्षिप्य सङ्ग्रहं तस्य कुर्यात्तत्राल येषु च ॥ 14.180 ॥
कर्मकरेभ्यो धान्यविभागः
कर्मिणां देवदेवस्य तथा देवं समर्चताम् ।
यथाधिकारं धान्यानि दद्याच्च समये शुभे ॥ 14.181 ॥
परिष्कृत हविर्निवेदनम्
तण्डुलान्नूतना 52 नामान् क्षालितांस्त्रिफलीकृतान् ।
मरिचैर्जीरकै र्युक्तान् गुळपाकेनुभावितान् ॥ 14.182 ॥
नालिकेरफलोपेतानिक्षुखण्डसमन्वितान् ।
मूलबेरादिबेराणां मुहूर्ते शोभने गुरुः ॥ 14.183 ॥
नवतण्डुलहोमः
निवेदये
त्ततो मूलविद्ययाष्टोत्तरं शतम् ।
तण्डुलै र्जुहुयादग्नौ
नवान्न निवेदनम्
53 ब्राह्मणानां यथापुरम् ॥ 14.184 ॥
तस्मिन् दिने परेद्युर्वा नवान्नानि निवेदयेत् ।
प्रभूतस्स्कृता 54 नेकनिष्ठानि कदलीदले ॥ 14.185 ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मे तन्त्रे चर्यापादे 55 पवित्राद्युत्सवविधिर्नाम चतुर्दशोऽध्यायः.
-
त्रयो विक्रमाः यस्य यस्माद्वा इदं जन्मविशेषणम्. ↩︎
-
रुत्सव इष्यते. ↩︎
-
च विशेषतः. ↩︎
-
तदात्मकान्. ↩︎
-
स्तरेयुस्ते तरङ्गिणीम्. ↩︎
-
ख्याता. ↩︎
-
यतः. ↩︎
-
तरे तथा. ↩︎
-
क्षालितान् शुद्धवारिभिः. ↩︎
-
आयुःपवित्रम्. ↩︎
-
नाभ्यवधीहितम्. ↩︎
-
प्रमाण. ↩︎
-
त्रिगुणे क्रन्थि. ↩︎
-
ग्रन्थि. ↩︎
-
मानं च तेषां सूत्राणां. ↩︎
-
सङ्खोक्ता. ↩︎
-
तन्तवश्च. ↩︎
-
ग्रन्थयः. ↩︎
-
द्वादशैवाध मे मताः. ↩︎
-
स्समं मितम्. ↩︎
-
र्युक्तां ग्रन्धिभिर्बहुभिर्युतम्. ↩︎
-
नाभ्यन्तं त्रयमेतत् स्यात्. ↩︎
-
पासो. ↩︎
-
विरयेत्. ↩︎
-
र्निशायां स्यात्. ↩︎
-
कल्याण. ↩︎
-
पूजयित्वा. ↩︎
-
बलिर्बहिः. ↩︎
-
द्यैरुपचर्य. ↩︎
-
क्रमम्. ↩︎
-
समाराध्य. ↩︎
-
सर्वासु च. ↩︎
-
रङ्गै. ↩︎
-
पर्णपञ्चकैः. ↩︎
-
धूपान्तम्. ↩︎
-
कुम्भेदेवे. ↩︎
-
यथम्. ↩︎
-
मुच्यते.. ↩︎
-
सङ्ख्यया. ↩︎
-
इदमर्धं क्वचिन्नास्ति. ↩︎
-
प्राङ्कणे सताम्. ↩︎
-
अन्येषामप्यनुक्तानां. ↩︎
-
दीनि च वस्त्राणि. ↩︎
-
माचार्येण पदान्तिके. ↩︎
-
इदमर्धं क्वचिन्नदृश्यते. ↩︎
-
द्वयैकविंशतिस्सप्त. ↩︎
-
पान्थो वै लभते चापि बन्धुभिश्च. ↩︎
-
आग्रेणं श्रवणे. ↩︎
-
मखे च चित्रे चैत्रायाम्. ↩︎
-
कणशहारेण. ↩︎
-
कन्दलानि दलानि च. ↩︎
-
नन्यान्. ↩︎
-
ब्रह्मादीनां. ↩︎
-
न्नानि. ↩︎
-
आग्रयणोत्सव. ↩︎