पञ्च कालाः
पञ्च-काल-विधानप्रश्नः
ब्रह्मा :—
पञ्च कालविधिज्ञानं प्रशस्तं 1 भगवन्निह ।
विहितं पञ्चके काले 2 विधयश्चापि पञ्चके ॥ 13.1 ॥
मह्यं जिज्ञासमानाय कथयस्व यथातथम् ।
न चेद्रहस्यमत्यन्तं यदहं पृष्टवानिदम् ॥ 13.2 ॥
अभिगमनादि-पञ्चक-निर्देशः
श्रीभगवान् :—
आद्यं कर्माभिगमनमुपादानमतःपरम् ।
इज्या च पश्चात्स्वाध्यायस्ततो 3 यागस्ततःपरम् ॥ 13.3 ॥
पंचैते विधयस्तेषां कालाःपंचैव ते क्रमात् ।
अभिगमनम्
अभिगमन-निर्वचनम्
कल्याणाचरणान्तं यत्कर्मजातं चतुर्मुख ॥ 13.4 ॥ उत्थानादिक्रमादेतदभियानमुदीरितम् ।
शयनोत्थान-तत्त्व-न्यासौ
ब्राह्मे मुहूर्ते बुध्येत ध्यायन्ना रायणं परम् ॥ 13.5 ॥
उत्थायीसीत 4 शयने कीर्तयन्नाम वैष्णवम् ।
क्रमेण सृष्ट्वा तत्त्वानि देहमुत्पाद्य तत्त्ववित् ॥ 13.6 ॥
न्यस्य देहे षडङ्गानि मन्त्रमुच्चार्य मानसम् ।
दशावतारान् व्योहांश्च चतुर्णां मानसानपि ॥ 13.7 ॥
ध्यात्वा स्वनामभिस्तानि कीर्तयित्वा पृथक्पृथक् ।
बहिर्-अटनम्
अवकुण्ठ्य च वस्त्रेण शरीरं दक्षिणाङ्घिणा ॥ 13.8 ॥
आक्रम्य भूमिं प्रथमं प्रविक्रममनुस्मरन् ।
नमः क्षितिधरायेति मन्त्रमुच्चार्य मानसम् ॥ 13.9 ॥
मल-विसर्गः
ग्रामाद्बहिर्दिशं गत्वानैरृतीं न्यस्य दक्षिणे ।
उपवीतं कर्णदेशे व्यवधाय तृणादिना ॥ 13.10 ॥
5 भूमिं समुत्सृजेन्मूत्रं किट्टं च तदनन्तरम् ।
उदङ्मुखो दिवा कुर्यात्सन्थ्ययोरुभयोरपि ॥ 13.11 ॥
दक्षिणाभिमुखो रात्रौ वाति वाते नुसारिणि ।
दक्षिणेतरहस्तेन गृह्णीयान्मेहनं ततः ॥ 13.12 ॥
दक्षिणे मृत्तिकां हस्ते समुत्थाय
जलाशयगमनम्
जलाशयम् ।
प्रागुदीच्यां प्रतीच्यां वा गत्वा शौचं समाचरेत् ॥ 13.13 ॥
अवयव-शौचे मृत्तिका-सङ्ख्या
मृत्तिकाभिर्द्वादशभिर्गुदं षड्भिश्च मेहनम् ।
अन्तराचान्तरा वामकरं प्रक्षाल्यवारिभिः ॥ 13.14 ॥
मृण्मात्राभिस्तदन्ते द्वौकरौ द्वादशसङ्ख्यया ।
संशोध्य चरणै ङङ्घे कटिं चोरू च वारिभिः ॥ 13.15 ॥
प्रत्येकं मृत्तिकामात्रा 6 चतुष्कोणे विशोधयेत् ।
दन्तधावनम्
आ चम्य प्रङ्मुखोभूत्वा दन्तधावनसमाचरेत् ॥ 13.16 ॥
न्यग्रोधोदुम्भराश्व त्थप्लक्षाम्रार्जुनधातकी । 7
पालाशवेणु खदिरशमीदारूणि धावने ॥ 13.17 ॥
दन्तानामुदितान्येकादश चाम्भोरुहासन ।
दन्तधावनकाष्ठं तद्ध्वादशाङ्गुलमायतम् ॥ 13.18 ॥
दशांगुलं तथा मानमष्टाङ्गुलमथा 8 पि वा ।
ब्राह्मणक्षत्रियविशां क्रमेण समुदाहृतम् ॥ 13.19 ॥
जिह्वानिर्लेखनं कुर्या द्गण्डूषाचमनं पुनः ।
क्षालयित्वा मुखं तोयै
स्नानम्
अवगाहने जलाशय-विकल्पः
राचान्तस्स्नानमाचरेत् ॥ 13.20 ॥
अवगाहोभवेद्वाप्यां स्नायाद्वा सरसीघु च ।
वाप्याद्यसंभवे नैव कुपैष्वाप्लवनं भवेत् ॥ 13.21 ॥
तप्त-तोय-स्नान-निमित्तम्
स्नानं वातप्ततोयेन दोषवैषम्यसम्भवे ।
स्नानक्रमः
नाभेरधस्ताद्वा देहं क्षालयित्वात्मनस्तनुम् ॥ 13.22 ॥
आचम्य प्रोक्षयेद्देहं वारिभिर्मन्त्र वित्तनुम् ।
ओं पूर्वया च गायत्र्या वारिभिश्चभिमन्त्रितैः ॥ 13.23 ॥
आत्मानं परिषिच्योर्ध्वमुत्क्षि पेत्सलिलाञ्जलिम् ।
योद्धुकामानि रक्षांसि सन्ध्ययोरुभयोरपि ॥ 13.24 ॥
शाम्यन्ति तैर्वज्रघातैर्हस्ताभिप्रेरिर्जलैः ।
प्रायश्चित्तं तु हिंसायाः परिभ्रमणमात्मनः ॥ 13.25 ॥
स्नानतर्पणम्
तर्पयेदुपविश्याथ तत्तन्मन्त्रमुदीरयन् ।
देवादीन् सलिले तिष्ठन् सावित्रीं प्राङ्मुखो जपेत् ॥ 13.26 ॥
उपस्थानम्
यावत्सूर्योदयं दृष्ट्वा प्रञ्जलिस्तिमिरापहम् ।
उपस्थाय स्वशाखोक्तैर्मन्त्रैध्यायन् हृदि स्थितम् ॥ 13.27 ॥
गुर्वाद्य्-अभिवादनम्
अभिवाद्य गुरून् वृद्धार्न तथा भागवतान् क्रमात् ।
9 प्रणम्य स्वाश्रमं देवमबिगम्य यथाविधि ॥ 13.28 ॥
जपहोमान्तार्चनं गोग्रासश् च
अर्चयेज्जपहोमान्तं 10 दद्याद्ग्रासं गवामपि ।
अलङ्कारः
अञ्जनालेपनैस्स्रिग्भिर्वासोभिर्भूषमैस्तथा ॥ 13.29 ॥
अलक्तकरसाद्यैश्च ताम्बूलीमुखशोदनैः ।
उपेतोमङ्गलैरन्यैर्नयेदभिगमक्रियाम् ॥ 13.30 ॥
उपादानम्
उपादद्यात्ततःपूजासाधनानि यथायथम् ।
सम्भरणीयवस्तूनि
पुष्पाणि फलमूलानि विविधान्योषधीरपि ॥ 13.31 ॥
दध्यादि च हविर्योग्यं तण्डुलानि गुळानि च ।
स्नानीयानि च वस्त्राणि स्वादूनि सलिलानि च ॥ 13.32 ॥
दर्भान् पर्णानि समिधो यथाशक्ति यथावसु ।
आहृत्य याज्ञिकार्धैर्वा पूजास्थाने निवेशयेत् ॥ 13.33 ॥
नीत्वोपादानसमयमित्थं
इज्या
तदनु पूजयेत् ।
माध्याह्निकस्नानम्
प्राप्ते मध्याह्नसमये स्नानं कुर्याद्यथाविधि ॥ 13.34 ॥
षडङ्ग-न्यास-मृत्तिका-विक्षेपादि
न्यासमग्रे षडङ्गानां कृत्वादाय मृदं करे ।
सव्ये निधाय कृत्वा तु त्रिधा मूलाग्रमध्यतः ॥ 13.35 ॥
मूले स्थितां मृदं पूर्व मभिमन्त्र्यास्त्रविद्यया ।
विदिक्षु दिक्षु चोर्ध्वायामधरायूमपि क्षिपेत् ॥ 13.36 ॥
ततो मध्यस्थितां मृत्स्नामुदके मूलविद्यया ।
निक्षिप्य भागमग्रस्थं कराभ्यां करयोर्द्वयोः ॥ 13.37 ॥
11 विधाय पङ्कमंभोभिर्दर्शयित्वा च पूषणम् ।
अस्त्रहीनाङ्गविद्याभिरापादतलमस्तकम् ॥ 13.38 ॥
आलिप्य देहमखिल मवगाह्य च वारिषु ।
देवमावाह्य लक्ष्मीशं दत्वा चार्घ्यादिकं 12 ततः ॥ 13.39 ॥
तत्पादक्षालनाम्बोभिः पाणिभ्यां कुम्भमुद्रया ।
पावनैश्शिरसि न्यस्तैरात्मानमभिषिच्य च ॥ 13.40 ॥
अघ-मर्षणम्
वासुदेवमभिध्यायन्नघमर्षणमाचरेत् ।
उत्तीर्य कर्मनिखिलं मध्याह्न समयोचितम् ॥ 13.41 ॥
देवयजनम्
कृत्वा यजेत देवेशं होमान्तं कमलासन ।
स्त्रेत्रेणाभिष्टुयाद्देवं दण्डवत्पतितःक्षितौ ॥ 13.42 ॥
देवस्तोत्रम्
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ 13.43 ॥
नमस्ते वासुदेवाय 13 शान्तानन्तचिदात्मने ।
अजिताय समस्तुभ्यं षाड्गुण्यनिधये नमः ॥ 13.44 ॥
महाविभूतिसंस्थाय मनस्ते पुरुषोत्तम ।
सहस्रशिरसे तुभ्यं सहस्रचरणाय ते ॥ 13.45 ॥
सहस्रबाहवे तुभ्यं सहस्रनयनायते ।
14 अमृताय नमस्तुभ्यमेकमूर्ताय ते नमः ॥ 13.46 ॥
अनेक मूर्तये तुभ्य 15 मक्षराय च ते नमः ।
व्यापिने वेदवेद्याय नमस्ते परमात्मने ॥ 13.47 ॥
चिन्मात्ररूपिणे तुभ्यं नमस्त्रैयन्त 16 भूमये ।
अणिष्ठाय स्थविष्ठाय महिष्ठाय च ते नमः ॥ 13.48 ॥
नेदिष्ठाय दविष्ठाय क्षेपिष्ठाय च ते नमः ।
वर्षिष्ठाय यविष्ठाय कनिष्ठाय नमो नमः ॥ 13.49 ॥
पञ्चात्मने नमस्तुभ्यं सर्वान्तर्यामिणे नमः ।
कल्पना 17 पोढरूपाय सृष्ठिस्थित्य न्तहेतवे ॥ 13.50 ॥
नमस्ते गुणरूपाय गुणरूपातिवर्तिने ।
व्यस्ताय च समस्ताय 18 समस्तव्यस्तरूपिणे ॥ 13.51 ॥
आदिमध्यान्तशून्याय 19 तद्वदेव नमो नमः ।
प्रणवप्रतिपाद्याय नमःप्रणवरूपिणे ॥ 13.52 ॥
लोकयात्राप्रसिध्यर्थं नृष्ट ब्रह्मादिरूपिणे ।
नमस्तुभ्यं नृसिंहादिमूर्तिभेदाय विष्णवे ॥ 13.53 ॥
विपाकैःकर्मभिःक्लैशैरस्पृष्टवपुषे नमः ।
नमो ब्रह्मण्यदेवाय तेजसां निधये नमः ॥ 13.54 ॥
नित्यसाधारणानेकलोकरक्षापरिच्छद ।
सच्चिदानन्दरूपाय वरेण्याय नमो नमः ॥ 13.55 ॥
यजमानाय यज्ञाय यष्टव्याय नमो नमः ।
इज्याफलात्मने तुभ्यं नमस्स्वाध्यायशूतिने ? ॥ 13.56 ॥
नमःपरम हिंसाय समस्सत्वगुणायते ।
स्थिताय परमे प्यूम्नि भूयो भूयो नमो नमः ॥ 13.57 ॥
संसारसागरे घोरे विषयावर्तसङ्कुले ।
अपारे दुस्तरेऽगाधे पतितं कर्मभिस्स्वकैः ॥ 13.58 ॥
अनाधमगतिं भीरुं दयाया परया हरे ।
मामुद्धर दयासिन्धो सिन्धोरस्मात्सु 20 दुस्सहात् ॥ 13.59 ॥
मन्त्रहानिं क्रियाहानिं हानिं वान्यां त्वदर्चने ।
क्षमस्व मम देव त्वमपराधसहो व्यासि ॥ 13.60 ॥
21 अपराधसहस्रभाजनं पतितं भीमभवार्णपोदरे ।
अगतिं खरणागतं हरे कृपया केवलमात्मसात्कुरु ॥ 13.61 ॥
जन्मप्रभृतिदासोऽस्मि शिष्योऽस्मि तनयोऽस्मिते ।
त्वं च स्वामी गुरुर्माता पिता च मम माधव ॥ 13.62 ॥
नाहं हितं विजानामि त्वां भजाम्वेव केवलम् ।
बुद्वैवं नय गोविन्द मुक्त्युपायेन वर्त्मना ॥ 13.63 ॥
त्वमेव 22 वेत्ता श्रेयो मे नैत देतदितीति च ।
बुद्धियोगं च मे देहि येन त्वामुपयाम्यहम् ॥ 13.64 ॥
इति विज्ञाप्य देवेशं
पञ्च-महा-यज्ञातिथि-संस्कारादि
वैश्वदेवं स्वधामनि ।
कुर्यात्पञ्च महायज्ञानपि गृह्योक्तवर्त्मना ॥ 13.65 ॥
अतिथीनपि तत्काले यथाशक्ति समर्चयेत् ।
पोष्यवर्गान् भोजयित्वा भुञ्जीत नियतस्स्वयम् ॥ 13.66 ॥
इज्यायास्समयस्तस्याःकथितःकमलासन ।
स्वाध्यायः
तद्देशाः
मन्दिरे वा हरेर्न द्यास्तीरे वा 23 मठभूमिषु ॥ 13.67 ॥
विविक्ते विपिने वापि पर्वते पा गृहेऽपि वा ।
ऋचो यजांषि सामानि भिद्यमानान्यनेकधा ॥ 13.68 ॥
शाखाभेदैर्मूलशाखायेकायनसमाह्वयाम् ।
त्रयूमयीमधीयीत सुखासीनस्समाहितः ॥ 13.69 ॥
अन्यैस्सार्ध 24 मधीयानैष्षजङ्गेषु च रोविधैः ।
25 अध्यापयीत वा शिष्यान् शास्त्राणि विविधानि च ॥ 13.70 ॥
इतिहासपुराणानि धर्मशास्त्राणि वा पुनः ।
तदाराधननिष्ठानि समभ्यस्येद्यथायथम् ॥ 13.71 ॥
सहवास-योग्याः
संसारभीरुभिर्विप्रैस्तत्त्व निष्कर्षकोनिदैः ।
सहासीतोपदेशादिप्रकारचतुरैरपि ॥ 13.72 ॥
स्वाध्यायकालः कथितस्स्वाध्यायोपि च कीर्तितः ।
सायं सन्थ्या
ततःपश्चिमसन्थ्यायां प्राप्तायां तत्र चोदितम् ॥ 13.73 ॥
जपहोमादिकं सर्वं कृत्वा परमपुरुषम् ।
अर्चयित्वा यथान्यायं यथापूर्वमशेषतः ॥ 13.74 ॥
योगः
शयन-संवेशः
भुक्त्वा संविश्य शयने समुत्थाय महानिशि ।
आचम् प्रयतो भूत्वा ध्यात्वा परमपुरुषम् ॥ 13.75 ॥
योगा 26 नने सुखासीनो युञ्जीतात्मानमात्मनि ।
यथोक्तेन प्रकारेण यथाशक्ति चतुर्मुख ॥ 13.76 ॥
संहारक्रमाश्रित्य तत्त्वान्यात्मनि संहरेत् ।
आत्मानं वापि हृत्पद्मे 27 परमात्मनि निष्ठिते ॥ 13.77 ॥
संह रेदुत्थितो योगात्स्वापं क्लेशावहं 28 त्यजेत् ।
उपसंहारः
इत्येष कथितो ब्रह्मन् योगःकालश्च पञ्चमः ॥ 13.78 ॥
पञ्चै ते समयाःपञ्च विधय स्तेषु दर्शिताः ।
इत्थमेतेषु कालेषु दर्शितैःकर्मभिर्नरः ॥ 13.79 ॥
आराधनं भगवतःकुर्वन्नै वावसीदति ।
-
भगवन्नहम्. ↩︎
-
काला. ↩︎
-
योग. ↩︎
-
शयनात्. ↩︎
-
भूमौ. ↩︎
-
चतुष्केण. ↩︎
-
अत्र—द्वितीय तृतीय पादयोरविश्रान्ततया योजनं श्रौतम्. ↩︎
-
यतम्. ↩︎
-
प्रविश्य. ↩︎
-
दद्याद्ग्राह्यं यथाविधि. ↩︎
-
पिधाय कल्क. ↩︎
-
तथा. ↩︎
-
शान्तानन. ↩︎
-
अमूर्ताय. ↩︎
-
मक्षयाय ↩︎
-
मूर्तये. ↩︎
-
क्रोडरूपाय. ↩︎
-
समस्त्वव्यक्तमूर्तये-रूपिणे. ↩︎
-
तद्वते च. ↩︎
-
दुस्तरात्. ↩︎
-
इदं समग्रं दद्यं श्रीयामुनाचार्यकृते स्तोत्र रत्ने दृश्यते. ↩︎
-
वेत्थ श्रेयो मे नेदमेतदितीति च. ↩︎
-
आमर. ↩︎
-
मनूचानैः. ↩︎
-
“अध्यापयीत-कोविदैः” इत्यन्तं श्लोकद्वयं क्वचिन्नास्ति. ↩︎
-
सनसमासीनः. ↩︎
-
परमात्मनि विष्ठिते. ↩︎
-
क्लेशापहं व्रजेत्. ↩︎