.
अर्चननिवेदनोपयोगि फलपुष्पनिर्देशः
ब्रह्मा—-
समाराध्यो हरिः पुष्पैः 1 कालपक्वैर्हवींषि च ।
फलमूलानि चान्यानि कानि योग्यानि कथ्यताम् ॥ 12.1 ॥
श्रीभगवान्—-
पुष्पाणि नन्दनवनादारामादात्मनोपि वा ।
अरण्याद्वा गृहीत्वा च विक्रीतान्यापणस्थलात् ॥ 12.2 ॥
अयाचितानि लब्धानि यद्वा कमलसम्भव ।
पूर्वपूर्वोदितालाभे ग्राह्यमुत्तरमुत्तरम् ॥ 12.3 ॥
वर्ज्यानि कुसुमफलादीनि
अन्यायोपार्जिताव्यन्यदेवतार्थानि वा पुनः ।
अग्राह्याणि तथा भिन्नं मुकुलं पतितं तथा ॥ 12.4 ॥
जीर्णं पर्युषितं कीटदूषितं पादलङ्घितम् ।
म्लानं स्पृष्टं तथाऽस्पृश्यैर्नीतं च प्रतिलोमजैः ॥ 12.5 ॥
पुष्पादिसङ्ग्रहविधानम् तत्पात्राणि च
स्नातश्शुद्धाम्बरो मौनी पाणिं प्रक्षाल्य वारिणा ।
पात्रे पुष्पाणि गृह्णीयाद्वेत्रजे तृणजेऽथवा ॥ 12.6 ॥
उपादेयपुष्पाणि
कल्पकद्रुमसञ्जातं पारिजातसमुद्भवम् ।
हरिचन्दन सन्तानमन्दारद्रुमसम्भवम् ॥ 12.7 ॥
सौगन्धिकोद्भवं पुष्पं षडेते सुरदारुजाः ।
पालाशं सप्तमं पुष्पमुपयुक्तानि चार्चने ॥ 12.8 ॥
2 अनिर्माल्यानि देयानि पुनःप्रक्षाल्य वारिभिः ।
उत्तरोत्तरमेकैकं सहस्रगुणमिष्यते ॥ 12.9 ॥
प्रातरर्चनोपयोगि पुष्पाणि
प्रातःपद्मद्वयं शस्तमुत्पलत्रयमर्चने ।
फलं च पूर्ववत् ज्ञेयं तथैव शतपत्रिका ॥ 12.10 ॥
चम्पकं केतकीयुग्मं मालती माधवी तथा ।
सन्द्यावर्तं च पुन्नागं सुरपर्ण्येकपर्णिका ॥ 12.11 ॥
प्रियङ्गु पाटलद्वन्द्वं मन्दारद्वयमेव च ।
लक्ष्मीश्च कर्णिकारश्च यूधिका कुरवस्तथा ॥ 12.12 ॥
पट्टिकै तानि शस्तानि फलं पूर्ववदिष्यते ।
?* मध्याह्मार्चनोपयोगीनि.*
शस्तं मध्यन्दिने श्वेतकरवीरजमर्चने ॥ 12.13 ॥
कैङ्किरातं च सौवर्णं पुष्पं सहचरी तथा ।
प्रदोषार्चनोपयोगीनि
पूर्ववच्च फलं 3 विद्यात्प्रदोषे च प्रशस्यते ॥ 12.14 ॥
जातियुग्मं विचकिलं मल्लि काद्वयमेव च ।
वकुलं वनजातिश्च तथा च वनमल्लिका ॥ 12.15 ॥
कुमुदं वनमल्ली च पूर्ववच्च फलं स्मृतम् ।
प्रातरपचितस्य मध्याह्ने विनियोगः
प्रातःकालोदितं पुष्पं युक्तं मध्यन्दिनेपिच ॥ 12.16 ॥
प्रदोषोदितपुष्पाणां मध्यरात्रार्चनयोग्यता
प्रदोषे कथितं पुष्पं मध्यरात्रे च शस्यते ।
दिवापुष्पैर्दिवा निशावुष्पौर्निशि विनियोगश्शस्तः
दिवापुष्पैर्दिवा पूजा निशापुर्षौस्तथा निशि ॥ 12.17 ॥
देशकालानुसारीणि पुष्पाणि
4 देशे काले यथायोगमर्चयेत्पुरुषोत्तमम् ।
मालत्या पूजयेत्प्रातर्मध्याह्ने करवीरजैः ॥ 12.18 ॥
सायाह्ने जातिपुष्पैस्तु प्रदोषे वकुलैरपि ।
मध्यरात्रे मल्लिकाभिर्यजेत
जलजपुष्पस्य सर्वदा पुजार्हता
जलजैस्सदा ॥ 12.19 ॥
प्रत्यूषे नन्दिकावर्तैः काल एष उदाहृतः ।
पद्मादिजलपुष्पाणां दिनत्रयावधि अपर्युषितता
पद्मादि 5 जलपुष्पाणामर्वाग्धर्तुस्त्र्यहाद्भवेत् ॥ 12.20 ॥
न च पर्युषितो दोषो 6 नीरजानां भवेत्तथा ।
अबद्देभ्यः प्रसूनेभ्यः मालाबद्धानि श्रेष्ठानि
अबद्धेभ्यः प्रसूनेभ्यो बद्धमाला प्रशस्यते ॥ 12.21 ॥
मालास्रजोस्स्वरूपं प्रशस्तिभेदश्च
मालाभ्यस्स्रग्वरा माला सजातीय 7 प्रसूनका ।
स्रक्तु नानाविधैःपुष्पैर्निर्मिता कदलीत्वचा ॥ 12.22 ॥
सर्वदा अपर्युषितानि पुष्पाणि
ह्रीबेरं च तमालं च तथा दमनकत्रयम् ।
न पर्युषितमेतैश्च सदैवाराधयेद्धरिम् ॥ 12.23 ॥
तुलसी चतुष्टयं दूर्वा भिल्वपत्रं च पूजार्हाणि
तुलस्यौ सितकृष्णे च केवलाक्षपकास्तथा ।
चत्वारस्तुलसीभेदा दूर्वा भिल्वदलानि च ॥ 12.24 ॥
सर्वदारराधनार्हाणि
गृहार्चने करवीननिषेधः
पूजा तु करवीरजै ।
गृहे कुलक्षयकरी
अक्षतादयोऽप्यर्चनोपयोग्याः
पुष्पपत्राद्यसन्निदौ ॥ 12.25 ॥
अक्षतैरर्चनं कुर्याद्धरेः कलमजैस्सितैः ।
हविर्योग्यानि धान्यानि
नीवारा वेणवश्शाल्यः कलमाद्या यवा अपि ॥ 12.26 ॥
हविर्योग्या व्रीहयश्च तदभावे प्रयङ्गवः ।
अन्ये च याज्ञिका धान्यभेदाःकोद्रववर्जिताः ॥ 12.27 ॥
वर्जनीयानि धान्यानि
नीचैर्दत्तास्तथा स्पृष्टाःपतितैः प्रतिलोमजैः ।
अशौचवद्भिरपरै
पक्वापक्वयोर्गुणतारतम्यम्
रपक्वाःकलमादयः ॥ 12.28 ॥
शस्यन्ते चरुसाकेषु 8 पक्वाश्च तदसन्निदौ ।
तण्डुलानां सर्ववर्णेभ्योऽपि ग्राह्यता
चातुर्वर्णैरुपहृतास्तण्डुला दोषवर्जिताः ॥ 12.29 ॥
अखण्डिताःखण्डिताश्चा 9 भावे त्रीनिष्फलीकृताः ।?
चरुपात्र निरूपणम्
चरुपात्रं ताम्रमयं प्रशस्तं मृण्मयं तु वा ॥ 12.30 ॥
पात्रशुद्धि मन्त्रः
विष्णुगायत्रिया भाण्डे क्षालिते गालितैर्जलैः ।
पुर्णेप्रणवसंस्पृष्टे
तण्डुलक्षालनमन्त्रः
तण्डुलान्मूलविद्यया ॥ 12.31 ॥
यद्वा पञ्चोपनिषदा क्षालयेद्वारिभिःपुनः ।
पूरणपिधानाधिश्रयणाग्नीन्धनमस्त्राः
पूरयेत्प्रणवेनैव पिदध्याच्चक्रविद्यया ॥ 12.32 ॥
अधिश्रित्य च मूलेन मन्त्रेणाग्निं समेधयेत् ।
पञ्छोपनिषदैर्मन्त्रेःकाष्ठैः
पाकसाधन काष्ठानि
कीटाद्यतूषितैः ॥ 12.33 ॥
10 यज्ञवृक्षोद्भवैःकाष्ठैः पाचयेत्पावकःक्रमः ।?
चरुपरिष्कारः
पक्वे जलमपि स्राव्यसिक्त्वाज्येन चरुं पुनः ॥ 12.34 ॥
उदगुद्वासयेद्दर्भैःफलके यज्ञदारुजे ।
चरुश्रपणे दीक्षितसम्बन्धि स्त्रीणामधिकारः
साधयेद्दीक्षितःपाकं विधिनो क्तेन 11 तत् स्त्रियः ॥ 12.35 ॥
यद्वा तूष्णीं साधयेयुरुपदंशांश्च चोदितान् ।
निवेदनीय फलशाकवर्गः
फलमूलानि तत्रादौ फलानि कदलीफलम् ॥ 12.36 ॥
12 आम्रं पनसमुर्वारुं बृहतीं कर्करीमपि ।
कारवल्लीमलाबुं च कूश्माण्डं तन्त्रिणीमपि ॥ 12.37 ॥
करवर्तं च निष्पावं गवाक्षं त्रपुसं तथा ।
13 मुद्गभेदांश्च निर्देषान्
वर्जनीय फलशाकादि
सदोषान् परिवर्जयेत् ॥ 12.38 ॥
उच्चिष्टं क्रिमिणा दष्टं शिवद्यैर्लङ्घितं तथा ।
14 घ्रातं लालाजलस्पृष्टममेध्यप्रभवं तथा ॥ 12.39 ॥
पादस्पृष्टं च पतितमकाले चाशुचिस्थले ।
भुक्तशेषं तथा स्पृश्यैस्स्पृष्टं दत्तावशिष्टकम् ॥ 12.40 ॥
वर्ज्यं वल्ली त्रयं कन्दं सूरणद्वयमुत्पलम् ।
पिण्डारद्वितयं चापि
हविर्योग्य फलशाकादि
हविर्योग्यं चतुर्मुख ॥ 12.41 ॥
जीवन्तीं वस्तुकं शाकं कारवल्लीदलं तथा ।
तुम्बूदलं च भाञ्जीं च 15 शिम्बमुद्गदलानि च ॥ 12.42 ॥
शाकिनीं शतपर्वाणं तथैवाश्वासमर्दिनीम् ।
आगस्त्यं पाचयेच्छाकं विहितं ब्राह्मणस्य च ॥ 12.43 ॥
एकमूलवेण्वङ्कुरादीनां परिग्रह्यता
16 एकमूलानि चान्यानि गृह्णीयादनिषेधने ।
अङ्कुराण्यपि वेण्वादिवस्तूनां कमलासन ॥ 12.44 ॥
चेदयित्वालवित्रेण
लवणादिव्यञ्जन द्रव्याणि
लवणैर्मरिचै स्तथा ।
सर्षपैर्जीरकैर्हिङ्कुश्रीपर्णीदलमिश्रितैः ॥ 12.45 ॥
नालिकेरफलैराज्यैर्यथायोगं निवेशितैः ।
17 संस्कार्यं व्यञ्जनं यूषयुक्तं कहितमेव वा ॥ 12.46 ॥
आयसभाजने घर्षणम्
सर्पिषा वाऽऽयसे पात्रे घृष्टं मृण्मय एव वा ।
कलायमुद्गनिष्पाव 18 शिम्बमाषकुलुकत्थाकाः ॥ 12.47 ॥
सयूषनिर्यूष पाकविवेकः
सयूषा वा वियूषा वा पचनीया गुणान्विताः ।
कुल्माषादीनां निष्कुलीकरणम्
त्वचो व्यपोह्य 19 कुल्माषाःकार्या यद्वा यथोदिताः ॥ 12.48 ॥
शुष्काणामाम्रादीनां विनियोगः
आम्रादीनि च शुष्काणि फलानि गुळतिन्त्रिणी ।
मिश्राणि पचनीयानि तथा लवणपासितम् ॥ 12.49 ॥
कालपक्वानि फलानि
आम्रं च श्रृङ्गिबेरं च तथा केवलमिष्यते ।
पसनं कदली चाम्रं कपित्थं बदरीफलम् ॥ 12.50 ॥
द्राक्षा राजादनं जम्भूफलं तोटकमप्यथ ।
खर्जूरं वेत्रजं चैव मातुलुङ्गं च दाडिमम् ॥ 12.51 ॥
फलान्येतानि पक्वानि कालपक्वानि योजयेत् ।
परमान्नविधानम्
क्षीरं चैरो गुणस्तस्य तोयमर्धं तदर्धकम् ॥ 12.52 ॥
तण्डुलास्तावदेव स्याद्भिन्नो मुद्गस्तदर्धकः ।
घृतं समुदितं सर्वं परमान्नं निवेदयेत् ॥ 12.53 ॥
गुळान्नम्
20 समभागं तु पूर्वोक्तैस्तण्डुलैस्सम्मितं समम् ।
गुळं फलेन निक्षिप्य गुळान्नं तद्विदुर्बुधाः ॥ 12.54 ॥
तण्डुलैस्सम्मितं निस्त्वङ्मुद्गभिन्नं सुसाधितम् ।
मुद्गान्नम्
मुद्गान्नं कालपक्वैस्तु फलै राज्यपरिप्लुतम् ॥ 12.55 ॥
केवलान्नम्
निवेदयेत्केवलान्नं दण्डुलै रेव साधयेत् ।
फलानि कन्दशाकानि मुद्गभेदास्तथाङ्कुराः ॥ 12.56 ॥
पयो दधि घृतं चापि कालपक्वं तथा फलम् ।
उपदंशोपस्कार द्रव्याणि
आम्रादिलवणैश्चापि शृङ्गिबेरादिसाधितम् ॥ 12.57 ॥
मत्स्यण्डी गुळभेदाश्च यच्चान्यदुपदंशकम् ।
उक्तद्रव्याणां मात्रा
परिमाणममिषां 21 स्यात् यथाश्रद्धं यथावसु ॥ 12.58 ॥
मरीच्यादि यथायोग्यं द्रव्यसंस्कारकं भवेत् ।
ताम्बोलोपयोगिनागवल्ली क्रमुकादीनां मात्रा
नागमल्लीदलानि स्युरशीतिरवरास्तथा ॥ 12.59 ॥
विंशतिःक्रमुकस्यापि फलान्यवरसङ्ख्यया ।
अङ्गानि तैलं तक्कोलं लवङ्गं जाति रेव च ॥ 12.60 ॥
मातुलङ्गत्वगन्यच्च चूर्णकं कर्पूरमिश्रितम् ।
पाषाणजं नालिकेरफलं पक्वं च निर्जलम् ॥ 12.61 ॥
कर्पूरं केवलं वापि आमं वा शुष्कमेव वा ।
एतैर्वस्तुभिरन्यैश्च न्यूनभाविवर्जितैः ॥ 12.62 ॥
ताम्बूलवीटिकास्तैलमृदुपूगफलान्विताः ।
निवेद्य याजमानस्य श्रद्धावित्तानुसारतः ॥ 12.63 ॥
अपूपविचारः
गोधूमशालिपिष्टात्था अपूपाश्चापि संस्कृताः ।
22 गुळभेदाज्यमरिच जीवकाद्यैर्यथायथम् ॥ 12.64 ॥
वस्तुभिर्विविधाकारा गुळपाकपरिप्लुताः ।
पुटदग्धानि निवेदनीयानि
पुटदग्धां स्तिलानिक्षुरसपाकपरिप्लुतान् ॥ 12.65 ॥
मरिचैर्जीरकै र्युक्तान् पललांश्च निवेदयेत् ।
पृथुकान् पुटदग्धान्वा केवलान्वा गुळप्लुतान् ॥ 12.66 ॥
मरिचैर्जीरकै र्युक्तान् नालिकेरफलैस्सह ।
सक्तून् गुळद्रवैर्मिश्रान् मरिचैरपि जीरकैः ॥ 12.67 ॥
करम्भानपि पूर्वोक्तैस्संस्कारैरपि स्स्कृतान् ।
भाण्डानां शुद्धिः पुण्ड्रविधानं च
पाकस्थानाच्च भाण्डान्वा वारिभिःक्षालितान् बहिः ॥ 12.68 ॥
भस्मना च चतुर्दिक्षु कृतोर्ध्वाकारपुण्ड्रकान् ।
अस्त्रमन्त्रेण वासोभिश्चन्नान्वा वेत्रपञ्जरे ॥ 12.69 ॥
यद्वा प्रतिष्ठितान् भूमौ
जलधारापुरस्सरं हविर्भाण्डप्रापणम्
जलधारापुरस्सरम् । वहेयु
हविःपात्रवाहिनामुष्णिषबन्धः
र्विधृतोष्णीषास्सितकञ्चुकसंवृताः ॥ 12.70 ॥
परिचर्या परा विप्रा
देवस्यदक्षिणभागे हविःपात्रनिक्षेपः
मण्टपे मन्दिरेऽपि वा ।
देवस्य दक्षिणेपार्श्वे नीत्वा फलकभूमिषु ॥ 12.71 ॥
सौवर्णादिपात्राणां शुद्धिमन्त्रः
सौवर्णादी 23 निपात्राणि विष्णुगायत्रिया ततः ।
क्षालितानि 24 परामृश्य
हविःपरिवेषणक्रमः
प्रणवेनाज्यधारया ॥ 12.72 ॥
पात्राणिसिक्त्वामन्त्रेण तथा दर्व्या हवींषि च ।
आदायादाय निक्षेप्य 25 ममत्रेष्वन्नमर्चितम् ॥ 12.73 ॥
स्थालीषु बक्तपरिमाणम्
खारी तदर्धं पादं वा तदर्धं वाऽवरं मतम् ।
प्रतिस्थालीं पायसादिभक्तमानं चतुर्मुख ॥ 12.74 ॥
यथायथं व्यञ्जनानि निक्षेप्याणि घृतैस्सह ।
26 दध्ना च सर्वाण्य 27 न्नानि प्रकल्प्य व्यञ्जनैस्सह ॥ 12.75 ॥
निवेदयेयुर्देपाय पानकानि च पूजकाः ।
चोष्याणि लेह्यखाद्यानि यथाविभवविस्तरम् ॥ 12.76 ॥
भगवन्नि वेदितस्य विष्वक्सेननिवेदने मात्रा
निवेदितानां तुर्यांशं विष्वक्सेनाय कल्पयेत् ।
तच्चागाधजले क्षेप्यं तद्भक्तान्यापि भोजयेत् ॥ 12.77 ॥
विष्वक्सेननिवेदनेनैव इतरपार्षदादीनां पृत्पिः
तेनैवपार्षदास्तृप्ताभवेयुर्भूत तृप्तये ।
दास्यो वा गणिका भोज्या देवस्य परिचारिकाः ॥ 12.78 ॥
ब्रह्मेशानादिनिवेदितस्य अभोज्यत्वम्
ब्रह्मेशानादि देवानां नैव भोज्यं निवेदितम् ।
चण्डादिनिवेदितस्य अस्पृश्यत्वादि
28 न स्पृश्यं लङ्गनीयं च चण्डादीनां नि 29 वेदितम् ॥ 12.79 ॥
लक्ष्मी प्रभृतीनां निवेदितस्य अवश्यभोज्यत्वम्
देवीनां च श्रियादीनां विनता नन्दनस्य च ।
चक्रादीना मायुधानां वस्तु यद्यन्निवेदितम् ॥ 12.80 ॥
भोक्तव्यमेव सर्वेषां विप्रादीनाम शङ्कितम् ।
विष्णुनिवेदितस्य अत्यर्थपावनत्वम्
विष्णोर्निवेदितं शुद्धं पावनानां च पावनम् ॥ 12.81 ॥
प्रापणं दुर्लभं भोज्यं न त्याज्यं स्यात्कदाचन ।
भुञ्जानानामेधते श्रीस्त्यजतां परिहीयते ॥ 12.82 ॥
तत्प्राशने व्रतोपवासतुलितत्वम्
व्रतोपवासतुलितमशनं तस्य पावनम् ।
शुनामिव पुरोडाशो न नीचेषु तदिष्यते ॥ 12.83 ॥
विष्णुनि वेदितशेषेण देवतान्तरपित्रादियजनेऽनन्तफलत्वम्
विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तरम् ।
पितृभ्यश्चापि तद्देयं तदानन्त्या कल्पते ॥ 12.84 ॥
विष्णुनिर्मूल्य धारणस्य अतिपावनत्वम्
धारितं विष्णुनिर्माल्यं चन्दनाद्यनुलेपनम् ।
अहर्निशं धारयतां न पुनर्जननं भवेत् ॥ 12.85 ॥
विष्णुपादोदकसेवनस्य सर्वपुरुषार्थकारिता
तथा हि चरणस्पर्शि विष्णोस्त्स्रिपथगाजलम् ।
पुनाति सिद्धदेवर्षिसङ्खानं हो विघातकम् ॥ 12.86 ॥
पादोदकं च देवस्य पवित्रं परमं मदम् ।
पाद्यं दत्वा जलं विष्णो र्मूलमन्त्रेण देशिकः ॥ 12.87 ॥
गृहीत्वा शतधारेण मूर्द्निधार्यं विशुद्धये ।
शोधनं सर्वपापानां सर्वदुष्कृतनाशनम् ॥ 12.88 ॥
लक्ष्मीविवर्धनं नित्यमायुर्वृद्धिकरं परम् ।
म्रियमाणस्स्वयं विष्णोश्चरणस्पर्शितं जलम् ॥ 12.89 ॥
पीत्वा सद्गतिमाप्नोति न चेहाजायते पुनः ।
पितृणां तर्पणं शस्तं पारिणा तेन तर्पिताः ॥ 12.90 ॥
ऋणेभ्यःपितरो मुक्तावसन्तिदिवि देववत् ।
भक्ताय देयं पादोत्थं शान्ताय शुभकर्मिणे ॥ 12.91 ॥
पञ्चकालविधिज्ञाय तदनुष्ठानशीलिने ।
विष्णुपादोदकस्य अनधिकारिणः
न नास्तिकाय दातव्यं दातव्यं नाभ्यसूयवे ॥ 12.92 ॥
पाषण्डिने न दातव्यं तेभ्यो रक्षेत्प्रयत्नतः ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे पुष्पहविर्विधानं नाम द्वादशोऽध्यायः.
-
कैःपत्त्रेवान्. ↩︎
-
समारोप्यानि. ↩︎
-
दद्यात्. ↩︎
-
अपत्काले यथायोगं पूजयेत्. प्रातःकाले. ↩︎
-
दलपुष्पाणामर्वाक्कर्तु. ↩︎
-
नीवाराणाम्. ↩︎
-
प्रसूनजा. ↩︎
-
पक्वं न्वक्वेत्प्रयत्नतः. इतिकोशान्तरे ↩︎
-
भावे च प्रिफली. भावे च्छत्री. इति क्वचित्. भावे त्रिर्निष्कुलीकृताः. इति स्यात्किम्. ↩︎
-
इदमर्धं क्वचिन्न. ↩︎
-
नस्त्रियः. ↩︎
-
वेत्रं पनस. ↩︎
-
इदं पद्यमेकं क्वचिन्नदृश्यते, क्वचित्पूर्वोत्तरार्ध वेपरीत्यमस्ति. ↩︎
-
घ्रातमित्यर्धं क्वचिन्न. ↩︎
-
चमू ↩︎
-
शाकमूलानि. ↩︎
-
संस्कार्यवर्जनं यूषयुक्तं. ↩︎
-
चम्प. ↩︎
-
गुल्मस्य ↩︎
-
समवाये तु. ↩︎
-
च. ↩︎
-
गुळभेदाश्चमरि च. ↩︎
-
न्यमत्राणि. ↩︎
-
परामृज्य. ↩︎
-
निक्षिप्य मन्त्रेणान्न. ↩︎
-
इदमर्धं क्वचिन्न. ↩︎
-
न्यानि. ↩︎
-
अस्पृश्यं ↩︎
-
तधैव च. ↩︎