महोत्सवविधौ अङ्कुरार्पणकालः
श्रीभगवान् :—
उत्सवारम्भदिवसादर्वागहनि सप्तमे ।
आङ्कुरानावपेल्लग्ने शोभने देशिकोत्तमः ॥ 11.1 ॥
पालिकासङ्ख्या
1 अष्टोत्तर शतेष्वेव पालिकासु यथाविधि ।
2 षट्त्रिंशत्स्वथ वा
वीधीचत्वरपरिष्कारालङ्कारौ
पश्चादलङ्कारं समाचरेत् ॥ 11.2 ॥
क्रमुकैर्दारुजैर्वापि तोरणै र्वीधिकामुखम् ।
चत्वाराणि तथा ग्रेषु गोपुराणामलङ्क्रिया ॥ 11.3 ॥
फलभारावनम्राश्च कदलीक्रमुकादयः ।
पार्श्वेषु तोरणानां स्युः स्थाप्या गमनवीधयः ॥ 11.4 ॥
समभूमितलाःकार्यास्सिकताभिश्च शोभिताः ।
दुकूलक्षौमपासोभि र्दर्भमालाशतेन च ॥ 11.5 ॥
ध्वजैश्च सर्वतो दिक्षु शोभयेच्च प्रपादिभिः ।
शोधयेत्सर्वभूभागं गोमयोम्भोभिराप्लुतैः ॥ 11.6 ॥
प्रासादालज्कारः
प्रासदभित्तयः कार्याश्चित्रिता वर्णपञ्चकैः ।
3 कम्भाभिः पूर्णकुम्भैश्च दीपिकावलिभि स्तथा ॥ 11.7 ॥
मुक्तादामभिरन्यैश्च साङ्कुरैःपालिकाशतैः ।
देशान्तरागतसेवार्थिभ्यः प्रपादिकल्पनम्
देशाद्देशात्समेतानां वर्णानां च तदुत्सवे ॥ 11.8 ॥
सेवितुं देवदेवेश मन्नाद्यैस्तुष्टिमावहेत् ।
प्रपापानीयशालाध्यै र्यजमानो दिवानिशम् ॥ 11.9 ॥
रोगार्तेभ्यः भैषज्यकल्पनम्
रोगार्तानथ भैषज्यैर्भिषजेद्धनराशिभिः ।
यागमण्डपस्थानम्
प्रथमावरणे ब्रह्मन् कारयेद्यागमण्डपम् ॥ 11.10 ॥
यद्वावकाशानुगुणं द्वितीयावरणे भवेत् ।
अन्तरालेषु सर्वत्र दिशामिष्टे क्वचिद्भवेत् ॥ 11.11 ॥
मण्डपायामिविस्तारौ
सप्तहस्तायतं यद्वा पञ्चहस्तायतं तु वा ।
विस्तारायामसदृशं यतुर्द्वारस मन्वितम् ॥ 11.12 ॥
मण्डपं कारयेत्तस्य परितः कारयेत्प्रपाम् ।
वेदीकल्पनम्
तस्य मध्ये त्रियंशे तु वेदीं हस्तसमुच्छृताम् ॥ 11.13 ॥
विस्तीर्णां द्वित्रिहस्तेन
अग्निकुण्ड निर्माणम्
वेद्याः प्राच्यां प्रकल्पयेत् ।
कुण्डमाहवनीयस्य चतुरश्रं यथोदितम् ॥ 11.14 ॥
दक्षिणस्यां दक्षिणाग्नेर्दिशि चाप समाकृति ।
कुण्डं तु गार्हपत्यस्य प्रतीच्यां वृत्त मद्भुतम् ॥ 11.15 ॥
सभ्यस्य कुण्डं कौबेर्यां त्रिकोणं तदनन्तरम् ।
ऐशान्या मग्निकोणे वा कुण्डं च चतुरश्रकम् ॥ 11.16 ॥
अवसक्थ्यस्य शिखिनः पञ्चाग्न्युत्सव मुत्तमम् ।
यजमानेच्छया अग्निषु विकल्पः
यद्वाऽऽवसक्थ्य रहितं चतुरग्निं चतुर्दिशि ॥ 11.17 ॥
सभ्यावसक्थ्य रहितं यद्वाग्नि त्रयसंयुतम् ।
एकामाहवनीयं वा कल्वयेत्कत्कुरिच्छया ॥ 11.18 ॥
अश्वत्थादिद्रुमैर्द्वारतोरणानि चतुर्दिशम् ।
स्रुक्स्रुवौ कारयेदष्ट मङ्गलानि यथापुरम् ॥ 11.19 ॥
आसनं त्वृत्विजां होमपात्राणि विविधानि च ।
मण्डपानां च पुरतः प्रपास्यात्पार्श्वयोरपि ॥ 11.20 ॥
दुकूलक्षौमकाशेयैर्विचित्रं मण्टपं प्रपाम् ।
वितानयेद्वेष्टयेच्च स्तम्भानन्तर्बहिस्थ्सितान् ॥ 11.21 ॥
मुक्तादामानि सर्वत्र लम्बयेद्दीपमालिकाः ।
आरोपयेच्च स्तम्भेषु पताकावलिबन्धनम् ॥ 11.22 ॥
मुक्तावितानं बध्नी यात्पुष्पमालाश्च सर्वतः ।
एवमादिपरिष्कारै र्भूषयेन्मण्डपादिकम् ॥ 11.23 ॥
तिरस्करिण्यो विपुला बध्नीयाच्च विचित्रिताः ।
वरणीयाचार्यादिसङ्ख्या
अग्रे चतुर्णां वरण माचार्याणां च ऋत्विजाम् ॥ 11.24 ॥
षोडशा नां तथान्येषां स्वीकारः परिचारिणाम् ।
ते च भूष्या यथावित्तं भूषणैः कटकादिभिः ॥ 11.25 ॥
वासोभिश्च नवैश्चित्रे रधिकारानु सारतः ।
उष्णीषैरुत्तरीयैश्च गन्धद्रव्यासु लेपनैः ॥ 11.26 ॥
शोभनीयाः प्रयत्नेन यजमानेन सर्वदा ।
उत्सवस्यारम्भे अन्तेच स्नपनं कार्यम्
स्नपनं चोत्सवा रम्भे तदन्ते च यथोदितम् ॥ 11.27 ॥
कौतुकस्य बन्धनकालः तत्संस्कारश्च
कुर्याद्देवस्य पूर्वेद्युः कौतुकं बन्धयेद्गुरुः ।
सौवर्णे राजते वापि पात्रे 4 विमलतण्डुले ॥ 11.28 ॥
खारिद्वयेन वार्धेन यद्वा पादेन सम्मिते ।
न्यस्येत्सूत्रं च सौवर्णं क्षौमं कार्पासमेव वा ॥ 11.29 ॥
सप्तभिः पञ्चभिर्वापि सूत्रं क्षौमादितन्तुभिः ।
शतेन षष्ठ्यारूढेन फलैः क्रमुकजैरपि ॥ 11.30 ॥
नागवल्लीदलैस्सार्धं फलसङ्ख्या चतुर्गुणैः ।
तदर्धैर्वा तदर्धैर्वा कदल्यादिफलैरपि ॥ 11.31 ॥
कौतुकस्य सविभवं ग्रामप्रादक्षिण्येन धामप्रवेशः
सार्धं तदनु तत्पात्रं 5 साधारं न्यस्य मूर्धनि ।
वस्त्रेणआच्छादितं छत्रचामरव्यजनान्वितम् ॥ 11.32 ॥
बहुदीपकसंयुक्तं सवितानं च मूर्तिपः ।
पठद्भिश्शाकुनं सूक्तं ब्राह्मणैर्वेद पारगैः ॥ 11.33 ॥
तूर्य मङ्गलगीतैश्च सार्धं नीत्वा प्रदक्षिणम् ।
धाम विष्णोस्तथा तस्य बहिरावरणानि च ॥ 11.34 ॥
प्रादक्षिण्येन वा ग्रामं प्रविशेद्देवता न्तिकम् ।
उत्सवभेरस्य कौतुकबन्धः उपचाराश्च
देवस्य पुरतो भूमितले गोमयपारिणा ॥ 11.35 ॥
आलिप्ते चतुरश्रेच शालिभारेण 6 पूरिते ।
पात्रं निधाय पुण्याहं वाचयित्वा यथाविधि ॥ 11.36 ॥
सभाजयित्वा त्त्सूत्र मन्त्रमन्त्रेण देशिकः ।
अङ्गुष्ठा नामिकाभ्यां तु गृहीत्वा हस्तयोर्द्वयोः ॥ 11.37 ॥
अपराजितया सूत्रं चन्दनक्षोद वारिणा ।
आलिप्य दक्षिणे हस्ते बध्वा चोत्सवकौतुकम् ॥ 11.38 ॥
स्पृष्ट्वा दक्षिणहस्तेन सूत्रं पारान् शतं जपेत् ।
अन्त्रमन्त्रं तथार्घ्यार्दैरिष्ट्वादेवं निवेदयेत् ॥ 11.39 ॥
महापूवं तथापूपान् पृथुकांश्च फलान्यपि ।
केयं नृत्तं तथापाद्य माचरेद्देवतान्तिके ॥ 11.40 ॥
त्रिभिर्भागवतैर्देवं स्थानेऽन्यत्र निवेशयेत् ।
स्नानान्तं क्षौमवसनमालिप्तं चन्दनादिना ॥ 11.41 ॥
भूषितं भूषणैस्सर्वैस्स्रिग्विणं देवदैवतम् ।
अर्चयित्वा यथाशास्त्रं परमान्नं निवेदयेत् ॥ 11.42 ॥
यथोदितं प्रतिष्ठायां यथाशयन कल्पनम् ।
भिम्बं चोपरि विन्यस्य 7 शयने स्थापयेच्छुभे ॥ 11.43 ॥
कोणेषु स्थापयेद्दीपान् पालिका स्साङ्कुरास्तथा ।
तूर्यघोषैस्तथावेदैस्तोत्रैस्तुत्वा मधुद्विषम् ॥ 11.44 ॥
निशायां जागरणम्
निशां नयोज्जागरेण समाहितमना गुरुः ।
देवस्यो तत्थापनम्
श्वोभूते शोभने प्राप्ते मुहूर्ते भास्करोदये ॥ 11.45 ॥
उत्तिष्ठे त्यादिमन्त्रेण त्रिभिर्भागवतैस्सह ।
दिक्षु शाकुनिकं सूक्तं पठत्सु ब्राह्मणेष्वपि ॥ 11.46 ॥
उत्थाव्य शयनाद्देवं तं
देवस्य शिभिकारोपणम्
इदंविष्णुरित्यृचा ।
आरोपयेयुश्शिभिकां सुवर्ण प्रभया सह ॥ 11.47 ॥
ब्राह्मणा एव यानं वहेयुः
वहेयु र्भूसुरा यानं ध्यायन्तो विहगाधिपम् ।
विकिरेत्सर्वतो दिक्षु पुष्पाणिसुरभीणि च ॥ 11.48 ॥
लाजांश्च साकं मुक्ताभिस्तूर्यघोषैश्च नादयेत् ।
ईदृसैर्मङ्गलैरन्यैस्सर्वावरण भूमिकाः ॥ 11.49 ॥
नीत्वा प्रदक्षिणं
भगवतो भद्रासने उपवेशनम्
यानादवरोप्य प्रभान्विते ।
भद्रासने दुकुलादिचित्रास्तरणशोभिते ॥ 11.50 ॥
पार्श्वेकल्पद्रुमच्छायाशीतले स्वर्णनिर्मिते ।
निवेश्य मण्टपे सर्वमुपचारं समाचरेत् ॥ 11.51 ॥
प्राभृतसमर्पणम्
प्राभृतं चाहृतं सर्वं द्रव्यमुत्सवकारणम् ।
देवाय दर्शयेत्सर्वं जनसन्नदि देशिकः ॥ 11.52 ॥
कृत्वोपचार मखिलं 8 ततस्स्नपनमण्टपे ।
स्नापयेद्देवदेवेशं यथापूर्वोदितैःक्रममैः ॥ 11.53 ॥
आचार्यो यजमानश्च समीक्ष्य विभवोदयम् ।
स्नपनहविर्निवेदनानन्तरं देवस्य गर्भगृहनयनम्
महाहविर्निवेद्यान्ते हुत्वा हव्यैर्यथाविधि ॥ 11.54 ॥
गर्भगेहं 9 विमानस्य नयेन्मङ्गलसंयुतम् ।
अपराह्णे मृत्तिकासङ्ग्रहणबीजावापौ
ततोऽपराह्णसमये अङ्कुराधारमृत्तिकाम् ॥ 11.55 ॥
आनेतुं बहिरुद्यान बूमेर्यद्वा नदीतटात् ।
यानमारोप्य गरुडं सेनान्यं 10 वा परिष्कृतम् ॥ 11.56 ॥
देवादेशं पुरस्कृत्य सर्वमङ्गल संयुतम् ।
वहद्भिःपालिकाःपूर्वं खनित्रं चापि भूषितम् ॥ 11.57 ॥
ब्राह्मणैर्बहुभिर्वेदानधीयानैस्समन्ततः ।
नीत्वा प्रदक्षिणं 11 ग्रामं ततो निर्गत्य देशिकः ॥ 11.58 ॥
दिशं प्राचीमुदीचीं वा प्रतिसङ्गृह्यमृत्तिकाम् ।
यथापूर्वोदितं धाम प्रविश्य रजनीमुखे ॥ 11.59 ॥
प्रदोषे यागसदसि पालिका द्वादशावराः ।
शरावकुम्भसहितास्तद्वर्गा अपि षोडश ॥ 11.60 ॥
ईशानभागे संस्थाप्य सोमकुम्भसमन्विताः ।
आवपेत्तासु बीजानि मुहूर्ते शोभने गुरुः ॥ 11.61 ॥
प्रार्थनापूर्वकं देवस्य यागमण्डपे निवेशनम्
ततः प्रविश्य सदनं यजमानो गुरुश्च तौ ।
प्रणम्य दण्डवद्भूमौ देवमुत्सव सम्पदम् ॥ 11.62 ॥
याचेतां गुरुरन्वक्च बध्वा कल्याणकौतुकम् ।
उत्सवस्नानबल्यर्थ प्रतिमासु यथा क्रमम् ॥ 11.63 ॥
सुदर्शने चशयने कल्पितेऽन्यत पूर्ववत् ।
बद्धप्रतिसरं सर्वमधिवास्य यथाक्रमम् ॥ 11.64 ॥
उत्थाप्य सद्यश्चाराध्य प्रादक्षिण्येन मन्दिरम् ।
नीत्वा प्रवेश्य यागार्थमण्डपं तत्र 12 चासने ॥ 11.65 ॥
नित्योत्सवा र्चां चक्रं च निवेश्य तदनन्तरम् ।
वेदिकायां धान्यराशौ कुम्भस्थापनम्
वेदिकायां धान्यपीठं कृत्वा पुर्वेदितक्रमात् ॥ 11.66 ॥
तत्र प्रक्षालितान् कुम्भान् सूत्रेण परिवेष्टितान् ।
गन्धोदकेन 13 सम्पूर्णा न्नवरत्नयुतान्नव ॥ 11.67 ॥
सर्वगन्धरजोमिश्रान् करकेण समन्वितान् ।
प्रत्येकं स्यस्तसौवर्णनिष्कानश्वत्थपल्लवैः ॥ 11.68 ॥
कुशकूर्चेन सहितान् मुखेष्वपि समल्लकान् ।
मध्यमं वस्त्र युग्नेन शिष्टानेकेन वाससा ॥ 11.69 ॥
वेष्टितान्वेदिकाभूमौ स्थापयेद्धान्यराशिषु ।
अयतं सप्तभिर्हस्तैष्षद्भिर्वा चाथ पञ्चभिः ॥ 11.70 ॥
विस्तीर्णं वस्त्रमायाममानार्धेन नियोजयेत् ।
भगवन्मयविप्रैश्च पुण्याहमपि वाचयेत् ॥ 11.71 ॥
कुम्भेषु स्थानभेदेन यष्टव्यदेवताः
14 द्वारतोरणकुम्भादीन् प्रतिष्ठायामि वार्चयेत् ।
मध्यकुम्भे मूलबेरं 15 करके च सुदर्शनम् ॥ 11.72 ॥
पूर्वाद्याशागते कुम्भे वासुदेवादि 16 कान्यजेत् ।
आग्नेयादिषु कोणेषु यष्टव्याः पुरुषादयः ॥ 11.73 ॥
17 तधैव पुरुषस्सत्यः क्रमेणाच्युतदेवता ।
अनन्तश्चेति हविषा चतुर्णां च निवेदनम् ॥ 11.74 ॥
18 कुम्भे तथास्त्रे च बलिबिम्बे चै वाष्ट मङ्गलम् ।
वेष्टितं वाससा वेदे रधस्ताद्धान्य राशिषु ॥ 11.75 ॥
न्यस्याभ्यर्च्य चतुर्दिक्षु वेदतूर्यादिघोषणे ।
आहवनीयाद्यग्निषु होतव्यदेवताः
प्रवृत्ते जुहुयादग्नौ ध्यायन्नाहव नीयके ॥ 11.76 ॥
वासुदेवं दक्षिणाग्नौ सङ्कर्षण मनन्तरे ।
प्रद्युम्नं पश्चिमे चाग्नावुदी चीनेऽनिरुद्धकम् ॥ 11.77 ॥
आवसक्थ्ये मूलमूर्तिमिष्ट्वा तीर्थाव सानिकम् ।
सन्निधिं प्रार्थ कुण्डेषु जुहुया त्सर्पिरादिभिः ॥ 11.78 ॥
होमद्रव्याणि
सर्पिषा च प्रसूनैश्च धूपद्रव्यैश्च पद्मज ।
समिधा पयसा दध्ना तिलव्रीहि यवै स्तथा ॥ 11.79 ॥
होमसङ्ख्या
तत्तद्दैवतमन्त्रेण अष्टोत्तर शतं पृथक् ।
अष्टाविंशतिवारान्वा कुण्डेषु प्रागुपक्रमः ॥ 11.80 ॥
पायसैःकृसरैर्गौल्यैर्हरिद्रान्नैश्च मौर्दिकैः ।
होतव्यं पौरुषै स्सूक्तैः पृथगग्निषु पञ्चसु ॥ 11.81 ॥
ब्रह्मादि स्थावरास्त सर्वदेवताहोमः
पञ्चमे परमान्नेन ब्रह्माद्युद्दिश्य देवताः ।
तत्तन्नाम चतुर्थ्यन्तं परिवारपदान्वितम् ॥ 11.82 ॥
स्वाहान्तं मन्त्रमुच्चार्य ध्यात्वा ब्रह्मादिदेवताः ।
ब्रह्मा प्रजापती रुद्रस्सर्वे देवा यथाक्रमम् ॥ 11.83 ॥
छन्धांसि वेदा ऋषयो गन्धर्वाश्च सरीसृपाः ।
यक्षाश्चप्सरसश्चैव मासाद्यैस्सह वत्सराः ॥ 11.84 ॥
19 सरितश्च समुद्राश्च पर्वताश्च तथापगाः ।
भूतानि पशवो वृक्षा स्तथैवौषधयःस्मृताः ॥ 11.85 ॥
वनस्पतिश्चोद्भिदश्च स्वेदजाश्चाण्डजा स्तथा ।
जरायुजाश्च भूरादिसप्तलोकास्तथैव च ॥ 11.86 ॥
अतलाद्यास्तथालोकास्सप्त चण्डादिदेवताः ।
इत्येतेभ्यो बलिद्रव्यं जुहुयान्मूलविद्यया ॥ 11.87 ॥
इदं विष्णुरितिप्रोच्य पूर्णाहुति मथाचरेत् ।
न दहेत्परिधीन् दर्भान् देवान्नोद्वासयेत् स्थितान् ॥ 11.88 ॥
प्रत्यहं धारयेदग्नीन् यावत्तीर्थदिनावधि ।
अहोरात्रं प्रतिदिनं जुहुयादुक्तवर्तना ॥ 11.89 ॥
एकाग्नौवापि होतव्यं होमद्रव्यमशेषतः ।
त्रये चतुष्टये चैवमग्नीनां कमलासन ॥ 11.90 ॥
बलिदानया चक्रस्य अन्नमूर्तेश्च निष्क्रमणम्
बलिप्रदानं प्रथमं कुर्याद्यागस्य मण्टपे ।
चक्रं च बलिभिम्बं च समादायान्नमूर्तिना ॥ 11.91 ॥
साकं निष्क्रम्य 20 सदनात्तद्द्वारे कुमुदादिकम् ।
अभ्यर्च्यपुरतो दद्याद्बलिं भूमितले शुचौ ॥ 11.92 ॥
उपकरण वाहिनामग्रे गमनम्
पात्रस्थं तद्बलिद्रव्यं घण्टां प्रसवभाजनम् ।
तोयपूर्णं च करकं दीपपात्रं च दीपिकाः ॥ 11.93 ॥
धूपपात्रं गृहीत्वाग्रे गच्छन्तु परिचारकाः ।
अग्रे अन्नमूर्तिः गच्चेत्
21 अग्रे गच्छेदन्न मूर्तिस्ततश्चक्रमनन्तरम् ॥ 11.94 ॥
तदनु नित्योत्स वार्चाया सयनम्
नित्योत्सवार्चां तदनु वितानादि समन्विताम् ।
ततश्चण्ड प्रचण्डादीन् द्वारेष्वा वरणेषु च ॥ 11.95 ॥
बलिनिक्षेपः
नित्योत्सवप्रक्रियाया बलिमभ्यर्च्य निक्षिपेत् ।
मध्यमारभ्य च ग्रामे ब्रह्मादीनां यथाविधि ॥ 11.96 ॥
देशेष्वीशानपर्यन्तं दत्वाऽभ्यर्च्य बलिं ततः ।
परिशिष्टबलिद्रव्यस्य महापीठे निक्षेपः
महापीठे बलिद्रव्यं परिशिष्टम शेषतः ॥ 11.97 ॥
दद्यात्पारिषदान् सर्वानुद्दिश्य कमलासन ।
उत्सवमूर्तेश्शयनादुत्थापनम्
मुहूर्ते शोभने प्राप्ते गुरुरुत्सव कौतुकम् ॥ 11.98 ॥
शयनस्थं समुत्थाप्य मन्त्रमुत्तिष्ठ पूर्वकम् ।
उच्चारयन् स्वस्तिसूक्तं पठद्भिर्ब्राह्मणै स्सह ॥ 11.99 ॥
निष्क्रम्य मन्दिरात्तस्मा दुच्चार्य च रथन्तरम् ।
उत्सव मूर्तेर्हस्त्यादियुक्तरथेन परिभ्रमणम्
समारोप्य रथं युक्तं चतुर्भिर्हस्तिपुङ्गवैः ॥ 11.100 ॥
वाजिभिर्वा बलीवर्दैश्शीघ्रगामिभिरुत्तमैः ।
कल्पकद्रुमसंयुक्तं हेमकुटै रलङ्कृतम् ॥ 11.101 ॥
रथस्यो परिकृत्वा च नयेदास्थितसारथिम् ।
यन्त्रेण वा विप्रवर्यौ रधीयानै र्बलान्वितैः ॥ 11.102 ॥
गजे वा स्यन्दनालाभे याने वा तदसम्भवे ।
भगवतो यानारोपणे मन्त्रः
भद्रङ्कर्णेति मन्त्रेण यानमारोपयेत्तदा ॥ 11.103 ॥
सपुष्पहेमप्रभयायुक्तं पुष्पैरलङ्कृतम् ।
हैमेन च 22 विमानेन युक्तं पुष्पादिशोभिना ॥ 11.104 ॥
कुटाकारेण वा युक्तं मयूरच्छदशोभिना ।
सर्वालङ्कार युक्तेन समनःपरिवेषिना ॥ 11.105 ॥
यात्रोपचारविधिः
याने तत्र समासीसमभ्यर्च्यन्यासपूर्वकम् ।
देवं निवेदयेत्तस्मै भक्ष्यं च पृथुकादिकम् ॥ 11.106 ॥
नान्यं चरणयोर्न्यस्येन्निशाचूर्णानि सर्वशः ।
दीपैरुदग्रैर्बहुभिः परिषिक्तै र्घृतादिना ॥ 11.107 ॥
परस्सहस्रै स्सर्वत्र दीपयेच्च शतावरैः ।
परिवारवर्गः
द्विजेन्द्रमुख्यैर्बहुभि र्भूषितैर्धवलाम्बरैः ॥ 11.108 ॥
कञ्चुकोष्णीषसहितै र्वालव्यजनपाणिभिः ।
तालव्यजनहस्तैश्च बर्हिबर्हकरैस्तथा ॥ 11.109 ॥
मुक्तातपत्रहस्तै श्च मेघुडम्बरधारिभिः ।
भिभ्राणैर्धूपपात्राणि गन्धोद्गारीणी विश्वतः ॥ 11.110 ॥
यानारुढेन पुरतो रचिताञ्जलिकर्माणा ।
23 उच्छैर्ध्वजाधिरूढेन तथा तार्क्ष्येण पद्मज ॥ 11.111 ॥
पृष्ठतश्च प्रणमता शिभिकां कलकोज्ज्वलाम् ।
आरूढेन विरिञ्चादीन् समुत्सारयता बहिः ॥ 11.112 ॥
विष्वक्सेनेन देवेन वेद्रहस्तेन सेवितः ।
उपानहौ पादुके च पात्रे कनकनिर्मिते ॥ 11.113 ॥
समारोप्य पुरो विप्रैर्धारयद्भिरलङ्कृतैः ।
राजचिह्नानि चान्यानि यातव्यमविलम्बितम् ॥ 11.114 ॥
विप्रैस्त्रयी मधीयानै र्जवस्तुति परायणैः ।
नृत्यता गायता चापि गाणिक्येनानु सेवितम् ॥ 11.115 ॥
वीणादिवादनपरैर्वन्दिभिश्च तथा परैः ।
षड्जदिगीतनिपुणै र्वाद्यवादनकोनिदैः ॥ 11.116 ॥
गद्यं पद्यं तथा मिश्रं पठद्भिस्तोत्र मुज्ज्वलम् ।
भाषाश्च बहुधा भिन्ना भाषमाणै रित स्ततः ॥ 11.117 ॥
वैतण्डि कै स्तथा जल्पनिपुणैर्वाद शिक्षितैः ।
तथा तत्त्वकथानिष्ठैः पदार्थज्ञैश्च तार्किकैः ॥ 11.118 ॥
विमांसकैर्याज्ञिकैश्च च्छान्दसैस्साङ्ख्यकोविदैः ।
योगज्ञैश्च पूर्णज्ञै श्शाब्दिकौस्तत्व वेदिभिः ॥ 11.119 ॥
मौहुर्तिकैश्च गणशःपरस्परजिगीषुभिः ।
तत्तच्छास्त्रोक्तमार्गेण प्रमेयं बहुधा स्थितम् ॥ 11.120 ॥
उच्चैर्ब्रुवाणैर्व द्वद्भिः पञ्च रात्र परायणैः ।
पासुदेवस्य महात्म्यं कथयद्भिश्च सात्विकैः ॥ 11.121 ॥
संस्कृतं प्राकृतं मिश्रमीर यद्भिरित स्ततः ।
शास्त्रेषु नैपुणं सर्वं प्रदर्शयितु मुद्यतैः ॥ 11.122 ॥
देवस्य पुरतःपृष्ठे पार्श्वतश्च स्थितैर्जनैः ।
सेनया सर्वतोदिक्षु चतुरङ्ग नलाढ्यया ॥ 11.123 ॥
देवस्य पार्श्वयोःपूर्वे लाक्षा 24 रञ्चितमस्करैः ? ।
यन्त्रेर्दारु मयैश्चित्रैऋः पक्ष्याकारैरिति स्ततः ॥ 11.124 ॥
देवताकृति यन्त्रैश्च तथा यन्त्रैर्गजादिभिः ।
निषादिभिस्समारूढैस्त्रीभिश्च भरतोदितैः ॥ 11.125 ॥
मार्गैर्बहुविधैर्नृत्तं दर्शयन्तीभिरद्भुतम् ।
25 लेखायन्त्रे स्त्रियारूढै र्यन्त्रे रन्येस्तथाविधैः ॥ 11.126 ॥
गतागतानि कुर्वाणैरनुयातस्समाकुलैः ।
इत्थमावरणं सर्वं परिक्रम्य बहि स्तथा ॥ 11.127 ॥
ग्रामादिवीधि काश्छापि परिक्रम्य प्रदक्षिणम् ।
प्रवेशसमये 26 चापि प्राकारवलयं तथा ॥ 11.128 ॥
प्रादक्षिण्येन गत्वान्तः प्रविशेन्मण्ट 27 पावनिम् ।
तत्रावरोपयेद्देवं बलिबेरं तु मन्दिरे ॥ 11.129 ॥
चक्रं च यागसदने बलिपीठे बहिस्थ्तते ।
अन्नमूर्तिङ्क्षिपेन्नित्यं समाराधनकल्पितैः ॥ 11.130 ॥
वस्तुभिर्द्वगुणैर्नित्यं द्रुवभेरं समर्चयेत् ।
उत्सवबिम्बस्य प्रातस्सिंहासनेऽवस्थापनम्
रात्रिशेषे व्यतिक्रानै मण्टपे सिंहविष्टरे ॥ 11.131 ॥
अवस्थाप्यौत्सवं बिम्बमर्चयेच्छान्त्रवर्त्मना ।
तर्स्मिबिम्बे वा स्नपनबिम्बे वा स्नपनम्
स्नपनं तत्र वा बिम्बे यद्वान्नपरकौतुके ॥ 11.132 ॥
एकबेरविधाने मूलबिम्ब एव स्नपनम्
एकभेरविधाने तु मूलबिम्बेऽभिषेचनम् ।
प्रत्यहं स्नपनं महाहविर्निवेदनं च
प्रत्यहं स्नपनं कुर्याद्यथाशक्ति 28 यथाविधि ॥ 11.133 ॥
मेहीहविर्नि वेद्याथ बिम्बे कल्याणकल्पिते ।
मण्डनालयमासाद्य शोभयोद्भूषणादिभिः ॥ 11.134 ॥
बिम्बे तत्र स्थिते यागमण्टपं प्राप्य देशिकः ।
कुम्भादिकं समभ्यर्च्य निवेद्य च यथोदितम् ॥ 11.135 ॥
हुत्वा च पूर्ववत्पीठे बलिं दत्वा यथाविधि ।
सर्वमन्यच्च
बल्यर्चाया ग्रामवीधिषु नयनम्
बल्यर्चां नीत्वा ग्रामादिवीधिकाः ॥ 11.136 ॥
यथानिशं विधायान्वगुत्सवार्चं नयेद्भहिः ।
उत्सवार्चायाः दिवसानुगुणोपचारेण बहिर्नयनम्
यथापुरमलङ्कारं कृत्वा परिकरां स्तथा ॥ 11.137 ॥
दिवसानुगुणानन्यान् ध्वजादीन्विष्वगुच्छृतान् ।
ताम्बूलवीटिकां दत्वा स्थाने स्थाने 29 समाहृताम् ॥ 11.138 ॥
पुथु कादीं स्तथा भक्ष्या न्नालिकेरफलानि च ।
पानीयाचमानादीन चोदितानि यथाविधि ॥ 11.139 ॥
दत्वानैवेद्यमखिलमद्भिः प्रोक्ष्यास्त्रविद्यया ।
निवेदयेदपूपादीन् पक्वं तूष्णीं प्रदर्शयेत् ॥ 11.140 ॥
पानीयं च तथा स्वादु पयःप्रभृति चाहृतम् ।
पिष्पमूलादि यच्चास्यच्चन्दनक्षोदभाजनम् ॥ 11.141 ॥
भूषणं चाङ्गुलीयादि भक्त्या यत्प्रतिदीयते ।
प्रोक्ष्य सर्वं तथास्त्रेण देवङ्गे योजयोद्गुरुः ॥ 11.142 ॥
शिभिकया प्रदक्षिणानन्तरं स्नानमण्टपे समाराधनम्
ग्रामं प्रदक्षिणं नीत्वातधैवावरणानि च ।
प्रवेश्य धाम शिभिकामन्यामारोप्य मङ्गलाम् ॥ 11.143 ॥
प्नानमण्टपभूभागे काञ्चने परमानने ।
सुखास्तरण 30 संयुक्ते यूनादेरवरोप्यतम् ॥ 11.144 ॥
निवेश्याभीष्टदिग्भागे सम्मुखं मखकौतुकम् ।
आराधकस्य कञ्चकोष्णीधारणम्
आराधयेद्भागवत स्सर्वालङ्कार संयुतः ॥ 11.145 ॥
अहतेन सुसूक्ष्मेण वासना श्लक्ष्णतस्तुना ।
बद्दोष्णीषोत्तरासङ्गः कर्णकार्दौरलङ्कृतः ॥ 11.146 ॥
सौवर्णवारवाणेन धवलेन विराजितः ।
बद्धस्वदेहसन्नाहः पवित्रतकरश्शुचिः ॥ 11.147 ॥
परिचारकाणां च तथा
समाराधनवस्तूनि नयद्भिः परिचारकैः ।
कञ्चुकोष्णीषवासोभिर्भवितव्यं समन्ततः ॥ 11.148 ॥
पूजकस्यदेवदक्षिणे उपवेशः
31 देवस्य दक्षिणे पार्श्वे पूजरेन्द्रोपवेशनम् ।
सेनार्थिनां भगवतः पार्श्वेपृष्ठतश्चोपवेशः
आस्थितव्यं भगवतः पार्श्वयोः पृष्ठत स्ततः ॥ 11.149 ॥
एकाग्रेमानसैस्सर्वै रेकान्तिभिरुवासकैः ।
त्रिदण्डिप्रभृतीनामुपासकावां स्थितिः
आस्थितव्यं यतिवरैस्त्रिदण्डैरेकदण्डिभिः ॥ 11.150 ॥
ब्रह्मध्यान परैरन्व गाराधन विधिक्रमम् ।
अनुसन्धायि भिश्शश्व दुपवेष्टव्य मन्तिके ॥ 11.151 ॥
बहिस्तेषां च कल्याणै र्वैष्णवै स्संयतेन्द्रियैः ।
आनस्दजाश्रु सलिलै राप्लुताङ्गैर्महीसुरैः ॥ 11.152 ॥
मण्डपाद्बहि रुपवेष्टव्याः
उपासितव्यमन्त्येस्तु सदस्यैर्मण्टपाद्बहिः ।
अधस्तात्सर्वतोदिक्षु प्रपाया मुपवेशनम् ॥ 11.153 ॥
नर्तकगायकादीनां स्थानम्
अधस्तादग्रतो नृत्तगीतवाद्यविशारदैः ।
नाट्यं बहुविधं वाद्यं प्रकृष्टं बहुधास्थितम् ॥ 11.154 ॥
32 गीतं च दिव्यं षड्जद्यैस्स्वरैःकालानुसारिभिः ।
प्रदर्शयद्भिर्लास्यानि 33 बन्धनानीतराणिच ॥ 11.155 ॥
आविष्कुर्वद्भिरान्यांश्च श्रव्यं दृश्यं च तद्द्वयम् ।
दर्शयद्भिरधीयानैस्त्रयूं 34 स्वाध्यायकल्पिताम् ॥ 11.156 ॥
इतिहासपुराणानि कथयद्बिर्यथायथम् ।
सन्निधातव्यमन्याभि 35 र्वाणिनीबिस्समन्ततः ॥ 11.157 ॥
देवस्य सहस्रधारया स्नानम्
इत्थं संसेविते तत्र मण्डपे मधुविद्विषम् ।
अर्चयित्वा ततस्स्नानपीठे नीत्वा यथापुरम् ॥ 11.158 ॥
सहस्रधारापर्यन्तं स्नापयेत्पुरुषोत्तमम् ।
अलङ्कारानन्तरं यात्रा
अलङ्कारासने नीत्वा तत्र कृत्यम शेषतः ॥ 11.159 ॥
कृत्वा यात्रासने देवमारोप्य सपरिच्छदम् ।
भोजनवासने महाहविर्निवेदनम्
प्रवेश्य मण्डपं तत्र न्यसेत्तं भोजवासने ॥ 11.160 ॥
महाहविर्निवेद्याथ पानकान्तं यथोदितम् ।
देवस्य राजवदुपचारः
सुखासने 36 स्थापयित्वा राजवत्सर्वमाचरेत् ॥ 11.161 ॥
37 अलङ्कारासनं नीत्वा यानमारोप्य मङ्गलम् ।
महोत्सवनिगमनम्
38 अवरोप्यासने तत्र मण्डयित्वा यथापुरम् ॥ 11.162 ॥
होमादि बलिदानान्तं कृत्वा सर्वम शेषतः ।
औत्सवं बिम्बमादाय कुर्यादेवं महोत्सवम् ॥ 11.163 ॥
तीर्थदिनपर्यन्तं अपूर्ववस्तुभिरुपचारः
प्रत्यहं महमुक्तेन विधिना विहितं क्रमात् ।
अपूर्वाभरणैर्माल्यैरपूर्वैश्चाम्बरैस्तथा ॥ 11.164 ॥
अपूर्वोद्यानयानाद्यैर्यथा कौतूहलं भवेत् ।
तथा विशिष्य कर्तव्यं यावत्तीर्थदिनावधि ॥ 11.165 ॥
पूर्वानतिक्रमेण स्थानभोगादिकल्पनम्
यस्मिन्नास्थानभूभागे ये भोगाः कल्पिताः पुरा ।
तत्रेव ते विधातव्या देवस्य सति सम्भवे ॥ 11.166 ॥
श्रीभूमिभ्यां साकं विना पादेवस्य ग्रामादौ भ्रमणम्
श्रिया वसुधया सार्धं ग्रामादौ नित्यमुत्सवे ।
परिभ्रमणमीशस्य केवलस्यापि वा भवेत् ॥ 11.167 ॥
प्रथमदिनमारभ्य षट्सु दिनेषु निवेदनीयवस्तूनि
अहनि प्रथमादौस्या द्बलिदानमनुक्रमात् ।
पललं रजनीचूर्णं करम्भान् लाजसंयुतान् ॥ 11.168 ॥
चरुणा सह संयोज्य बलिं तद्याद्यथाविधि ।
द्वितीयेऽहनि संयोज्य चरुणा तिलतण्डुलम् ॥ 11.169 ॥
मिश्रितांश्चरुणा 39 लाजा धानान्यापूपकां स्तथा ।
तृतीये च चतुर्थे च नालिकेरजलैस्सह ॥ 11.170 ॥
सक्तूंश्च शालिपिष्टं च संयोज्य चरुणा सह ।
पञ्चमे पद्मभीजानि पायसं शालितण्डुलम् ॥ 11.171 ॥
षष्ठे त्वपूपान् संयोज्य चरुणा निक्षिपेद्बलिम् ।
सप्तमादिषु दिनेषु निवेदनीयविशेषः
सप्तमादिषु सर्वत्र सार्धमन्नैश्चतुर्विधैः ॥ 11.172 ॥
अपूपांश्च तथा सक्तून् प्रत्यहं निक्षिपेद्बलिम् ।
ब्रह्मादीशानपर्यन्तं स्थानेष्वष्टसु पूर्ववत् ॥ 11.173 ॥
गोमयशुद्धे बलिपीठे तोयपूर्वं बलिदानम्
विधाय बलिपीठानि गोमयालिप्तभूमिषु ।
तेषु वाद्यं तथा नृत्तं गेयं नित्येत्सवे यथा ॥ 11.174 ॥
कृत्वा दद्यात्तोयपूर्वं बलिं तेयोत्तरं तथा ।
बलिमुद्रां दर्शयित्वा दर्शयेन्मङ्गलाष्टकम् ॥ 11.175 ॥
बलिप्रदक्षिणम्
बलिं प्रदक्षिणीकृत्य गच्छेयुर्बलिदायिनः ।
आरम्भसमाप्तिदिनयोरेको बलिः मध्यदिनेषु बलिद्वयम्
आरम्भदिवसे रात्रौ समाप्तिदिवसेऽहनि ॥ 11.176 ॥
बलिमेकां क्षिपेन्मध्यदिवसेषु बलिद्वयम् ।
अहोरात्रं बलिदानम्
अह्नि रात्रौ च सर्वत्र बलिदानं यथाविधि ॥ 11.177 ॥
अन्तदिने ग्रहणादिसम्पाते बलिद्वयम्
अवसानदिने रात्रौ ग्रहणे विषुवेऽयने ।
प्राप्ते कुर्यादवभृथं यदि तस्मिन् बलिद्वयम् ॥ 11.178 ॥
ग्रामादिरहितस्थाने महपीठस्य पुरतोबलिः
ग्रामादिरहिते स्थाने मध्ये तु पुरतो बलिम् ।
महापीठस्य वितरेद्ब्रह्मणे देशिकोत्तमः ॥ 11.179 ॥
तीर्थदिनात्पूर्वेद्युर्मृगया
पुर्वेद्युस्तीर्थदिवसाद्देवस्य मृगया भवेत् ।
मृगयादिवसात्पूर्वं जलद्रोण्यवगाहनम् ॥ 11.180 ॥
तस्मिन् दिने सविभवं देवस्य निर्गमः
अवगाहदिनात्पूर्वदिवसे देवमर्चयेत् ।
श्रीभूमिभ्यां सहैकस्मिन् विष्टरे विपुले स्थितम् ॥ 11.181 ॥
उद्यानादौ च देवीभ्यां सार्धं देवस्य निर्गमः ।
कीड्राश्च तत्र बहुधा दर्शये 40 च्चोपदाः पुनः ॥ 11.182 ॥
देसान्तरादाहृतप्रौभृतादिनिवेदनम्
देशाद्देशादाहृतानि प्राभृतानि गुरुस्स्वयम् ।
प्रदर्श्य देवदेवाय जनसंसदि मण्डपे ॥ 11.183 ॥
इतो यातमिदं सर्व मितो यातमितीर्यच ।
देवादीनपि 41 चाहर्तॄन्काले विज्ञापये त्ततः ॥ 11.184 ॥
देशिकेन्द्रः देवानन मपलोक्यसर्वेषामनुग्रहङ्कुर्यात्
तन्मयत्वाद्देशिकेन्द्रो देवोऽहमिति 42 भावयन् ।
कुर्यादनुग्रहं सर्वं देवस्यालोक्य चाननम् ॥ 11.185 ॥
समीपस्थैरनुग्रहभावना
अभिप्रायं यथा राज्ञो ज्ञात्वा तेन प्रदर्शितम् ।
ब्रुवन्ति तत्समीपस्था राज्ञां तत्तदनुग्रहम् ॥ 11.186 ॥
बल्यर्चया उत्सवेसुददर्शनान्नमूत्योर्विकल्पः
सुदर्शनान्नमूर्तिभ्यां सह ताभ्यां विनापि वा ।
सह बल्यर्चया कुर्याद्विना वा तं महोत्सवम् ॥ 11.187 ॥
केवलोत्सवबिम्बेन दिनेष्ववभृथावधि ।
अपराह्णे जलद्रोण्यव गाहनम्
जलद्रोणीं जलस्नानदिने कृत्वा यथापुरम् ॥ 11.188 ॥
उत्सवं देवदेवस्य प्रातरारभ्य मङ्गळम् ।
अपराह्णे जलद्रोण्यामवगाहनमिष्यते ॥ 11.189 ॥
सोपानदेशे सरसि जलद्रोणीं निवेशयेत् ।
कटाहं वापि सौवर्णं पूरयेद्गन्धवारिभिः ॥ 11.190 ॥
मुक्ता 43 भान्यक्षतान्यत्र परितो विकिरेत् स्थले ।
जलेष्वावाह्य गङ्गाद्यास्सरितस्तास्सभाजयेत् ॥ 11.191 ॥
जलेऽभिमन्त्रिते मन्त्रैरब्लिङ्गैर्देवमर्चितम् ।
उपचारैर्यथापूर्वं 44 स्नानान्त्रैरवगाहयेत् ॥ 11.192 ॥
तस्मिन् काले वारुणसूक्त वाद्यादिघोषः
काले तस्मिन्नधीयूरन् सूक्तं 45 वारुणमुच्चकैः ।
तन्मया दिक्षु सर्वासु घोषयेत्तूर्यमुच्चकैः ॥ 11.193 ॥
अवगाढस्य देवस्य यानेन मण्डपप्रापणम्
अवगाढं ततो देवं यानमारोप्य मण्डपम् ।
अन्यमानीय तत्रापि यथापूर्वं सभाजयेत् ॥ 11.194 ॥
तीर्थस्ननस्य ब्रह्मादिभिरनुष्ठितत्वम्
अनुष्ठितमिदं तीर्थं ब्रह्मद्यैरपि दैवतैः ।
तीर्थस्नानपानादिफलम्
एतैश्च तीर्थसलिलैःपीतैश्शिरपि धारितैः ॥ 11.195 ॥
स्नानैर्निर्धूतपाप्मानो यान्ति ब्रह्म सनातनम् ।
उत्सवात्पूर्वमनन्तरं वा मृगया
मृगयादिवसे वापि प्रातरारभ्य पूर्ववत् ॥ 11.196 ॥
कृत्वोत्सवमशेषेण तस्यान्ते मृगया भवेत् ।
मृगयाविधानम्
मृगयानुगुणैस्सर्वैर्भूषणैर्भूषितं ततः ॥ 11.197 ॥
तद्योग्यायुधसन्नाहं हस्त्यादौ 46 परिकल्पिते ।
आरोप्य कृत्रिमे चाश्वे नयेद्ग्रामादि पूर्ववत् ॥ 11.198 ॥
देवीभ्यां सह सीमादौ सैन्यैर्हस्त्यादिभिर्युतम् ।
उद्यनमण्टपे चापि मध्ये सौवर्णविष्टरे ॥ 11.199 ॥
मृगयानिवृत्तस्य देवस्य रात्रौ मण्टपनयनम्
आसने तत्र चासीनं स्नानपूर्वं समर्चयेत् ।
मण्टपेऽन्यत्र विधिना निवेद्य च महाहविः ॥ 11.200 ॥
यानमारोप्य तद्रात्रौ मन्द्रिरान्तर्भुवं नयेत् ।
पश्चिमरात्रिभागे तीर्थभिम्बाधिवासनम्
नित्योत्सवं यथापूर्वं कुर्यात्तदनु मङ्गलम् ॥ 11.201 ॥
पश्चिमे रात्रिभागे तु तीर्थभिमाबाधिवासनम् ।
बद्वा प्रतिसरं तीर्थबिम्बाभावे चतुर्मुख ॥ 11.202 ॥
तीर्थबिम्बाभावे उत्सवमूर्तेरेवकौतुकबन्धः
नित्योत्सवप्रतिकृतेरभावे त्वधिवासनम् ।
स्नानर्चायां भवेद्यद्वा बिम्बस्योत्सवकारिणः ॥ 11.203 ॥
उत्सवं प्रातरारभ्य कुर्यात्पूर्वोदितक्रमात् ।
उत्थाप्य शायितं बिम्बं निवेश्य 47 मुखमण्टपे ॥ 11.204 ॥
आदाय स्थापितान् कुम्भान् यागमण्डपभूमिषु ।
नीत्वा प्रदक्षिणं धाम तीर्थभिम्बस्य सन्निदौ ॥ 11.205 ॥
स्थापयित्वा धान्यराशौ तीर्थबिम्बं यथाविधि ।
एकबेरे मूलबेरस्यैव कौतुकबन्धः
वस्त्रान्तमर्चयित्वान्ते मुहूर्ते शोभने गुरुः ॥ 11.206 ॥
एकभेरे मूलभेरमन्यथा तीर्थकौतुकम् ।
कुम्भौरभ्युद्धृतैर्देवं मूलमन्त्रेण मन्त्रवित् ॥ 11.207 ॥
वूर्वादिमध्यकुम्भान्तमभिषिञ्चेद्यथाविधि ।
स्नानादिदीपपर्युन्तं प्रतिकुम्भं समर्चयेत् ॥ 11.208 ॥
पठत्सु विप्रवर्येषु दिक्षु स्वाध्यायमुच्चकैः ।
घोषयत्सु च वाद्येषु मन्त्रैरब्दैवदैर्गुरुः ॥ 11.209 ॥
नववस्त्रोत्तरीयाद्यैर्दीपान्तैरर्चिते हरौ ।
निशाचूर्णविधिः
ध्वजपीठस्य पुरतः 48 क्षितौ गोमयपारिणा ॥ 11.210 ॥
आलिप्ते चतुरश्रे च शालिभारैर्विकीर्यच ।
वस्त्रपूर्वाद्यलङ्कारैरुलूखलमङ्कृतम् ॥ 11.211 ॥
क्षालितं 49 स्थण्डिले पीठे स्थापयित्वा चतुर्मुख ।
श्रीनूक्तविद्यया लक्ष्मीं 50 ध्यात्वा मन्त्रितमर्चितम् ॥ 11.212 ॥
मुसलं क्षालितं चापि मन्त्रितं मूलविद्यया ।
आदाय मार्तिपैस्सार्धं देशिकेन्द्रस्समाहितः ॥ 11.213 ॥
अवहन्यान्नि शाचूर्णं निक्षिप्तं तदुलूखले ।
गायन्त्यो गणिका गीतं 51 मन्दिरे देवदासिकाः ॥ 11.214 ॥
अवहन्युर्निशाचूर्णं यथासूक्ष्मतरं भवेत् ।
देवस्य निशाचूर्णकुम्भाभिषेकः
निक्षिप्तचूर्णं तदनु कुम्भं वेष्टितवासनम् ॥ 11.215 ॥
52 सकूर्चमल्लकं पीठे तण्डुलैः परिकल्पिते ।
स्थापितं मूलमन्त्रेण गन्धादिभिरथार्चितम् ॥ 11.216 ॥
53 आदायकुम्भचूर्णैस्तैश्श्रीसूक्तेनाभिषेचयेत् ।
अवभृथार्थं देवस्स सरित्तीर्थनयनम्
ऋत्विजो देशिकेन्द्रश्च देवं गत्वा प्रदक्षिणम् ॥ 11.217 ॥
अष्टाङ्गप्रणिपातेन प्रणिपत्य विकीर्य च ।
पुष्पाण्यञ्जलिभिर्देवं स्तुत्वा स्तोत्रे 54 रनेकशः ॥ 11.218 ॥
अलङ्कृतैर्भागवतैश्छत्रचामरधारिभिः ।
तैरेव सर्वैर्बहुभिर्भाव्यं देवसमीपगैः ॥ 11.219 ॥
अरोप्य देवं हास्त्यादौ तीर्थभिम्बमलङ्कृतम् ।
पश्चादुत्सवबिम्बेन नीयमानेन पूर्ववत् ॥ 11.220 ॥
सहितं 55 सरित स्तीर्थं नीत्वा यद्वा सरित्तटम् ।
समुद्रे अवभृथे नियमः
दर्शे च पौर्णमास्यां च अर्वाक्चेद्योजनावदौ ॥ 11.221 ॥
समुद्रतीरमथवा मण्डपे तत्र कल्पिते ।
अवरोप्यासने याना न्निविष्टे तीर्थकौतुके ॥ 11.222 ॥
कलशस्थापनचक्राभिषेकौ
कलशानग्रतःपञ्च विंशतिं दश सप्त च ।
यद्वा यद्वा नव न्यस्य यथाविधि 56 यथाक्रमम् ॥ 11.223 ॥
कलशैरभिञ्चेत चक्रं शिष्टैश्च वारिभिः ।
चक्रस्य चले मज्जनम्
सरितादौ च तीर्थेषु तीर्थान्यावाह्य नामभिः ॥ 11.224 ॥
57 निमज्जयेत्तत्र बिम्बं चक्रं च त्रिर्यथाविधि ।
तीर्थार्थमौत्सवे बिम्बे समानीते तु वारिभिः ॥ 11.225 ॥
प्रोक्ष्य कूर्चाग्रपतितैर्भिम्बं चक्रं निमज्जयेत् ।
चक्राभावे कूर्चस्य विधानम्
चक्राभावे तु तत्कूर्चं केवलं देवसन्निदौ ॥ 11.226 ॥
देवेन सहमज्जतां शाश्वतलोकावाप्तिः
देवेन सह तत्काले निमज्जन्ति च ये नराः ।
ते निर्धूयाखुभं सर्वं महापातकमप्यथ ॥ 11.227 ॥
यान्ति द्रुवं सुदुष्प्रापं स्थानमाचन्द्रतारकम् ।
मण्डपे देवस्य महाहविर्निवेदनम्
मण्डपे देवमानीय पूजयित्वा यथापुरम् ॥ 11.228 ॥
महाहविर्निवेद्याथ ब्राह्मणान् भोजयेत्ततः ।
प्रत्यहं ब्रह्मणभोजनम्
प्रत्यहं भोजयेद्विप्रान् सहस्रं शतमेव वा ॥ 11.229 ॥
देवस्यालयाभ्यन्तरप्रापणम्
आलयाभ्यन्तरं यानमारोप्य प्रापयेत्ततः ।
तद्रात्रौ मण्डपे देवं नीत्वाभ्यर्च यथाविधि ॥ 11.230 ॥
प्रभाते चक्राब्जमण्डले पुष्पयागः
निवेद्य च यथान्यायं प्रभाते मण्डपान्तरे ।
भक्तैर्भागवतैश्चैव सेविते भूतेल क्वचित् ॥ 11.231 ॥
चक्राब्जं वर्तयित्वोक्तवर्तना वरणान्वितम् ।
प्रसवैः कालजैश्श्यामैः कृष्णैश्च तुलसीदलैः ॥ 11.232 ॥
न्यूवातिरेकरहितैर्वर्णैरेव सितादिभिः ।
विचित्रयेत्पञ्चवर्णैश्चित्रिते 58 तस्य मध्यतः ॥ 11.233 ॥
भद्रपीठे प्रभायुक्तेन्यस्ते कल्याणकौतुकम् ।
निवेश्याराधयेदर्घ्यपाद्यादिभिरनुक्रमात् ॥ 11.234 ॥
द्वादशाक्षरमन्त्रस्थान्यक्षराणि यथायथम् ।
उद्दिश्य भूषापर्यन्तैरर्घ्यार्द्यैर्नवभिःक्रमात् ॥ 11.235 ॥
प्रत्यक्षरं समस्तानि पुष्पौ 59 रभ्यर्चयेद्धरिम् ।
हृदयादीनि चाङ्गानि समुद्दिश्याञ्जलिस्थितैः ॥ 11.236 ॥
फलं भवतु मे 60 पुष्पैर्नम इत्यवसानकम् ।
61 तन्त्र मन्त्रं समुच्चार्य मन्त्रविद्देशिकोत्तमः ॥ 11.237 ॥
भूषणानि तथोद्दिश्य श्रीवत्पादीन्यनुक्रमात् ।
आयुधानि च दिव्यानि चक्रादीनि यथाक्रमम् ॥ 11.238 ॥
तथैवावरणस्थानां देवतानां समर्चनम् ।
मत्स्यादिमूर्तिदशकं केशवादीं स्तथा परान् ॥ 11.239 ॥
चतुर्विंशतिसङ्ख्याता नुद्दिश्य कुसुमार्चनम् ।
पौरुषेण तु सूक्तेन प्रत्यृचं कमलासन ॥ 11.240 ॥
नारायणानुवाकेन विष्णुसूक्तेन देशिकः ।
पुष्पाणि तद्याद्देवस्य चरणाम्बोजयोर्द्वयोः ॥ 11.241 ॥
तथौपनिषदैर्मन्त्रेः ञ्चभिस्सर्वपापनैः ।
दिक्षु वेदांश्च चतुरः पठेयुर्मन्त्रवित्तमाः ॥ 11.242 ॥
विदिक्ष्वेकायनां शाखां तन्मयूस्सुमुखा स्तथा ।
अधीयीरन् 62 तथा स्तोत्रेनृत्तैश्च सततोद्यतैः ॥ 11.243 ॥
तोषयेद्देवदेवेशं गेयैश्च बहुधा स्थितैः ।
63 पुष्पाभिषेकं प्रहितैः पुष्पैरेव सितादिभिः ॥ 11.244 ॥
देवस्य कृत्वा देवाय पायसादि चतुर्विधम् ।
अन्नं निवेद्य जुहुयाद्दिश्यग्नेर्मण्डपस्च च ॥ 11.245 ॥
समिद्भिराज्यैश्चरु भिश्चतुभिर्नश्च पृथक्पृथक् ।
अष्टोत्तरशतं वारान् मूलमन्त्रेण मन्त्रवित् ॥ 11.246 ॥
देवस्य यानेन परिभ्रमणम्
ततःप्रदक्षिणं कृत्वा देवं स्तुत्वा च भूतले ।
प्रणयेद्दण्डद्यानमारोप्य शिभिकादिकम् ॥ 11.247 ॥
आगतानां ब्राह्मणादीनां निवर्तनानुज्ञा
प्रविशयेदावरणं प्रथमं तत्र च स्थितः ।
सेवानुभूतिविवशार्न भक्तान् भागवतांश्च सः ॥ 11.248 ॥
64 ब्रह्मादीनपि कल्याणमनुसन्धातुमागतान् ।
प्रणतानालयं स्वं स्वं गन्तुं सर्वेश्वरो हरिः ॥ 11.249 ॥
नियुज्यावरणं तच्च परिक्रम्य प्रदक्षिणम् ।
सार्धमभ्यन्तरै 65 र्निर्तैस्सेवकै 66 रनुयायिभि ॥ 11.250 ॥
शान्तिहोमः पूर्णाहुतिः
अभ्यन्तरं मन्दिरस्य प्रविशेन्जङ्गलान्वितम् ।
तदहर्निशि पूर्वस्मिन् 67 न्यस्येत्स्नसपनमण्डपे ॥ 11.251 ॥
उत्सवान्तोचितं स्नानं कलशैरा चरेत्क्रमात् ।
महाहविर्निवेद्यथ नीत्वातन्मण्डपान्तरे ॥ 11.252 ॥
यागमण्डपमासाद्य होमं कुर्याद्यथाविधि ।
शान्तिहोमं ततःकुर्याद्यथा पूर्वोदितत्रमात् ॥ 11.253 ॥
प्रायश्चित्तं तु जुहुयात्पञ्सोपनिषदा घृतम् ।
सहस्रं वाशतं वापि हुत्वा पूर्णाहुतिं चरेत् ॥ 11.254 ॥
अग्न्यादीनामुद्वासनम्
अग्नीन् विसर्जयेद्देवान् तत्रस्थां स्तोरणादिषु ।
ध्वजोद्वासनम् यजमानाय ध्वज स्तम्भदानम्
ध्वज स्तम्भं समासाद्य पूजयित्वा खगाधिपम् ॥ 11.255 ॥
हविर्नि वेद्य गरुडं परिक्रम्य प्रदक्षिणम् ।
तमुद्वसेत्पटात्तार्क्ष्यं संहारक्रममाश्रितः ॥ 11.256 ॥
अवरोप्य ध्वजस्तम्भ मुत्पाट्य च महानिशि ।
68 स्तम्भं ध्वजं चगृह्णीयाद्देशिकेन्द्रस्स्वयं ततः ॥ 11.257 ॥
ग्रहणं देशिकेन्द्रेण तार्क्ष्यतृप्तिकरं भवेत् ।
स्थाने चावाहितान् देवान् तत्र तत्र स्थितानपि ॥ 11.258 ॥
बलिं दत्वा तूर्यघोषैः स्थाने स्थाने सकृत्सकृत् ।
घोषयित्वा चतुर्वक्त्र 69 समुद्वास्य स्वनामभिः ॥ 11.259 ॥
देशिकस्य परिजनेन साकं मौनेनाष्टाक्षरजपः
मूकैः 70 परिकरैस्सार्धं गुरुरष्टाक्षरं जपेत् ।
प्रविश्य धाम देवस्य विज्ञाप्य शकटादिकम् ॥ 11.260 ॥
यजमानादिभ्यः दक्षिणा
यानमारोप्य धामान्तः प्रापयेन्मखकौतुकम् ।
71 प्रभातायां निशायां वाऽनुष्ठिते यागकर्मणि ॥ 11.261 ॥
यजमानो गुरुं वस्त्रे र्भूषमैःकटकादिभिः ।
सौवर्णैर्गन्धपुष्पाद्पैद्यैरलङ्कृत्याभिपूज्य च ॥ 11.262 ॥
दक्षितामुत्तमां स्वर्णशतनिष्कां ततोऽधिकाम् ।
यथाविभूति दत्वान्या दक्षिणाः प्रतिपासरम् ॥ 11.263 ॥
72 दशनिष्कं तदर्धं वा तदर्धं वा यथावसु ।
निष्करूपां यथाश्रद्धमाचार्यय तदर्धकाम् ॥ 11.264 ॥
तदर्धमृत्विजां दद्यात्तदर्धं परिचारिणाम् ।
हेमवस्त्रान्नयानाद्येस्तोषये 73 दुपचर्यया ॥ 11.265 ॥
गायकाद्यान् जनान् सर्वानधिकारानुसारतः ।
कर्माङ्गभूतानन्यांश्च कल्याणं द्रष्टुमागतान् ॥ 11.266 ॥
भर्क्ता भागवतांशैव सामान्यांश्चेप्सितैर्धनैः ।
अप्यल्पिकापि दातव्या दक्षिणा यागकर्मणि ॥ 11.267 ॥
कर्मिर्भ्यो दक्षिणाहीनो निष्फलःकर्तुरब्जज ।
यज्ञःप्रत्युत कर्तॄणां प्रत्यवायाम कल्पते ॥ 11.268 ॥
उत्सवकारकस्य उपकुर्वाणानां च फलम्
तस्मादर्थानुगुण्येन दातव्या दक्षिणा भवेत् ।
श्रद्धया वासुदेवस्य साङ्गो पाङ्गं सदक्षिणम् ॥ 11.269 ॥
उत्सवं देवदेवस्य यःकुर्यात्सकुलं स्वकम् ।
उत्तरयर्न स्वयं विष्णोस्सायुज्यं गच्छति द्रुवम् ॥ 11.270 ॥
हयमेधसहस्रेण यजते यस्समाहितः ।
यश्चोत्सवेन यजते तयोस्तुल्यफलान्वयः ॥ 11.271 ॥
यागानामपि सर्वेषां फलमुत्सव 74 कर्मणा ।
देवस्याश्नुवते सर्वं यष्टारो नास्तिसंशयः ॥ 11.272 ॥
राजराष्ट्रादीनामभ्युदयकथनम्
ुपकुर्वन्ति ये मर्त्यादेवस्योत्सव कर्मणि ।
कर्मणा मनसा वाचा तेऽपि यान्ति यथेप्सितम् ॥ 11.273 ॥
ग्रामे वा नगरे वापि पत्तेने वा महोत्सवः ।
विष्णोः प्रवर्तते यत्र देशे राष्ट्रेऽपि वा भवेत् ॥ 11.274 ॥
भयं न मृत्योर्सव्याधेर्न दुर्भिक्षादिसम्भवः ।
नस्यन्ति तस्करास्तत्र नाधर्मस्सम्प्रवर्तते ॥ 11.275 ॥
धर्मयुक्तो भवेद्राजा जना धर्मपरायणाः ।
भवन्ति सुखिनस्सर्वे सर्वदुःखविवर्जिताः ॥ 11.276 ॥
सेवार्थिभ्यः पानीयादिदानस्य महाफलत्वम्
महोत्सवे वर्तमाने यतर्थिभ्यःप्रदीयते ।
पानीयमन्नं वस्त्रं वा तत्सवास्रगुणं भवेत् ॥ 11.277 ॥
उत्सवेऽधिकृतानां भगवत्प्रसादः
पुष्पमूलफलै रिज्या देवस्याभरणादिकैः ।
क्रियमाणा यथाशक्ति फलानन्त्याय कल्पते ॥ 11.278 ॥
सेवस्ते तत्र ये देवमहर्निशमतन्त्रिताः ।
तेषामिदमियच्चेति फलं वक्तुं न शक्तते ॥ 11.279 ॥
अलेपनं मार्जनं च रजःप्रशमनं तथा ।
वारिभिर्दीपिकारोपं क्ष्वेलनास्फोटनादिकम् ॥ 11.280 ॥
कुर्वन्तिये ब्रह्मलोकं ते यान्त्यमरदुर्लभम् ।
यानं वहन्तिये विप्रास्ते यान्ति 75 ब्रह्मणःपदम् ॥ 11.281 ॥
रथं वहन्तिये 76 चाश्वास्तेऽपि यान्ति सुरालयम् ।
छत्रादिधारिणश्चापि मोदन्तेदिवि मानवाः ॥ 11.282 ॥
देशिको मूर्तिपाश्चैत तथैव परिचारकाः ।
उत्सवेऽधिकृता विष्णोःप्राप्नुवन्ति यथेप्सितम् ॥ 11.283 ॥
ऋचो यजूंषि सामानि ये तत्राधीयते जनाः ।
ते परे प्योम्नि देवस्य पार्श्वे 77 वर्तन्तिनिस्पृहाः ॥ 11.284 ॥
देवस्य कल्याणाराधनम्. सर्वक्षेमकरम्
सर्वशान्तिकरं सर्वदुःखोत्सादनमुत्तमम् ।
राज्ञो राष्ट्रस्य सुखदयायुरारोग्यवर्धनम् ॥ 11.285 ॥
प्रजानां वासुदेवस्य कल्याणा राधनं महत् ।
इमं देवदयस्सर्वे विष्णोरुत्सवमुत्तमम् ॥ 11.286 ॥
कृत्वा शाश्वतिकं स्थानं प्रापुरत्यन्तदुर्लभम् ।
त्रिदिनै काहसाध्योत्सवयोर्विधेया विधयः
उत्सवे त्रिदिनै काहसाध्ये श्रद्धा प्रवर्तिते ॥ 11.287 ॥
बलिप्रदानं समनोयजनं चाधिपासनम् ।
नवावामपि कुम्भानां तथा तीर्धावगाहनम् ॥ 11.288 ॥
मृगया च जलद्रोणी वर्जनीयानि पद्मज ।
तावत्येवोत्सवदिने तीर्थान्ते ग्रामवीधिषु ॥ 11.289 ॥
ब्रह्मादिदेवतास्सद्यस्समावाह्य बलिः क्षिपेत् ।
केनलोदनमग्नौ च होमो निश्यधिवासनम् ॥ 11.290 ॥
स्नपनं विषुवाद्येषु नद्यादाववगाहनम् ।
पुष्पयागो जलद्रेणी मृगया च न युज्यते ॥ 11.291 ॥
अन्यत्सर्वं यथापूर्वं कर्तव्यं फलकाज्ञ्क्षिभिः ।
इति गुह्यतमं ब्र्हमन्नुत्तमाराधनं परम् ॥ 11.292 ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायाम् चर्यापादे महोत्सव विधिर्नाम एकोदशोऽध्यायः.
-
अष्टोत्तरशतं वापि. ↩︎
-
षट्त्रिंशद्भिस्तुवा. ↩︎
-
अम्भोभिः. ↩︎
-
कलमतण्डुलैः. ↩︎
-
साधानम्. ↩︎
-
भूषिते. ↩︎
-
स्नपने. ↩︎
-
तद्बिम्बं स्नान. ↩︎
-
समासाद्य. ↩︎
-
च. ↩︎
-
यानम्. ↩︎
-
चानयेत्. ↩︎
-
सम्पूर्य नवरत्नोदरान्नव. ↩︎
-
इदमर्धङ्क्वचिन्न. ↩︎
-
करकेष्वस्त्रपूजनम्. ↩︎
-
पूजनम्. ↩︎
-
क्रमेण पुरुषस्सत्यस्तथैवा. ↩︎
-
कुम्भे कुम्भे तथास्त्रे च विन्यसेदष्ट. ↩︎
-
सर्वा देव्यः. ↩︎
-
सदसः. ↩︎
-
अन्वग्गच्छेत् अनुगस्छेत्. ↩︎
-
वितानेन. ↩︎
-
मत्स्यध्वजाधिरूडेन. ↩︎
-
सर्जक. ↩︎
-
डोलायन्त्रे. ↩︎
-
वापि. ↩︎
-
नालयम्. ↩︎
-
यथावसु. ↩︎
-
समाहिताम्. ↩︎
-
कल्याणे. ↩︎
-
देवस्य वामपार्श्वेतु देशिकेन्द्रोपवेशनम्. ↩︎
-
गीतं च नृत्तं. ↩︎
-
निबन्धानि. ↩︎
-
त्रैयन्तकल्पिताम्. ↩︎
-
सर्वाण्येभिः. ↩︎
-
स्नापयित्वा. ↩︎
-
अलङ्कारालयं. ↩︎
-
अवरोप्येत्येतदर्धं क्वचिन्न. ↩︎
-
लाजान् धान्यानाया. ↩︎
-
च्चोपधाः. ↩︎
-
चाहर्तुं काले. ↩︎
-
भावयेत्. ↩︎
-
काराण्यक्षतानि. ↩︎
-
स्नातं तैरेव गाहयेत् ↩︎
-
शाकुन. ↩︎
-
साधु कल्पिते. ↩︎
-
स्नाममण्डपे. ↩︎
-
क्षितिम्. ↩︎
-
तण्डुले पीठे. ↩︎
-
ध्यायन्. ↩︎
-
मङ्गलं. ↩︎
-
सकूर्चं, मल्लकम्. पल्लनं. ↩︎
-
आचार्यः आधार. ↩︎
-
रनेकधा. ↩︎
-
परित. ↩︎
-
यथापुरम्. ↩︎
-
निमज्जयेत्तत्र कुम्भं चक्रं च त्रिर्यथा विधि. निमज्जेत्तत्र तद्बिम्बं चक्रमन्त्रैः. ↩︎
-
तत्र. ↩︎
-
रुपचरेद्धरिम्. ↩︎
-
पुष्पं नम ↩︎
-
तत्र मन्त्रं. ↩︎
-
तथातोद्यैः. ↩︎
-
पुष्पाभिषेकसहितैः. ↩︎
-
ब्रह्मन्नपि च. ↩︎
-
र्नित्यं ↩︎
-
रनपायिभिः. ↩︎
-
यामे. ↩︎
-
सहध्वजं. ↩︎
-
स्समुत्पाद्य. ↩︎
-
परिजनै. ↩︎
-
प्रभाते तन्निशायां. ↩︎
-
शतनिष्कं. ↩︎
-
दुपचर्यच. ↩︎
-
कर्मणि. ↩︎
-
परमं पदम्. ↩︎
-
चान्ये तेZपि. ↩︎
-
सर्तन्तीति श्रौतः प्रयोगः. ↩︎