.
सकामनिष्कामानुष्ठेय महोत्सवप्रश्नः
ब्रह्मा :—
कथं महोत्सवः कश्चित् कीदृक्तस्य फलं च किम् ।
फलकामैरनुष्ठातुमविज्ञातो न शक्यते ॥ 10.1 ॥
मह्यं जिज्ञासमानाय प्रसीद भगवन्निदम् ।
आख्यातुमर्हसि यथा महोत्सव मनुत्तमम् ॥ 10.2 ॥
श्रीभगवान् :—
तस्योत्तरम्
आराधनमिदं ब्रह्मन् मोक्षकामै रनुष्टितम् ।
पश्वादिफलकामैस्तु दुरनुष्ठेयमद्भुतम् ॥ 10.3 ॥
तोषणं मम कल्याण मनुष्ठितममानुषम् ।
देवैरेव पुरावृत्रवधे तत्पापनुत्तये ॥ 10.4 ॥
इन्द्रेणापि दिविष्ठेन मामुद्दिश्य कृतं शुभम् ।
रूपं तस्य प्रवक्ष्यापि यथा तदवधारय ॥ 10.5 ॥
उत्सवशब्दनिर्वचनम्
सवस्सांसारिकं दुःखमुत्तरन्ति तदम्भुधिम् ।
यष्टार इति विद्वंसो निर्ब्रुवन्त्युत्सवाह्वयम् ॥ 10.6 ॥
उत्सवत्त्रेविध्यम्
नित्यो नैमित्तिकः काम्य स्त्रिविध स्स महोत्सवः ।
नित्योत्सवः
तत्र नित्यं प्रतिसमं मासपक्षव्यवस्थया ॥ 10.7 ॥
शुभे च तथिनक्षत्रे विषुवे चायनद्वये ।
कल्पितावभृथस्नानस्सेवितस्सर्वदैवतैः ॥ 10.8 ॥
नैमित्तिक स्स विज्ञेयो निमित्ते सति कल्पितः ।
अवग्रहे च दुर्भिक्षे चोल्कापाते तथा निशि ॥ 10.9 ॥
दर्शने सुरचापन्य वालमीनस्य दर्शने ।
1 देवता प्रतिकायानां कम्पने भेदने तथा ॥ 10.10 ॥
2 हसने चलने चैव रोदने पतने तथा ।
गोपुरालयसालानां मण्टपस्य च भेदने ॥ 10.11 ॥
भङ्गे वा पतने वापि पर्वतानां तथैव च ।
निपाते चैत्यवृक्षस्य भङ्गे ज्वलनदर्शने ॥ 10.12 ॥
वृक्षे त्वन्यफले दृष्टे दिवा नक्षत्रदर्शने ।
भूतादिदर्शने घोरे भूमिकम्पे तथैव च ॥ 10.13 ॥
दिग्दाहे च महावाते महावृष्टै तथैव च ।
ग्रहयुद्धे च सञ्जाते प्रतिसूर्यस्य दर्शने ॥ 10.14 ॥
नृपे रोगाभिभूते च ग्रामे जनपदे तथा ।
मसूरिकादि घोराणां व्याधीनां च प्रवेशने ॥ 10.15 ॥
परचक्रप्रवेशे च व्योम्नि नेमिस्वने तथा ।
दिव्यदुन्दिभि निर्ह्रदे निर्मले गगने सति ॥ 10.16 ॥
3 वर्षेवाऽशनिपाते च शक्रध्वजनिपातने ।
जलेऽग्निजनने चैव तथैवाद्भुतदर्शने ॥ 10.17 ॥
एवमादौ महोत्पातेनैमित्तिक महोत्सवः ।
चतुर्णां पुरुषार्थाना मुद्दिश्यान्यतमं फलम् ॥ 10.18 ॥
उत्सवोनुष्ठितः काम्यस्सङ्कल्पितफलप्रदः ।
अवभृथस्नानसमयः
कथ्यतेऽवभृथस्नानसमयस्त्रिविधोत्सवे ॥ 10.19 ॥
मासर्क्षे विषुवे चैव ग्रहणे चायनद्वये ।
दर्शे च पूर्णमास्यां च श्रवणे सर्वमासिके ॥ 10.20 ॥
रोहिण्यां च पुनर्वस्वोः प्रतिष्ठादिवसे तथा ।
राज्ञां जन्मदिने कुर्यादभिषेकदिने तथा ॥ 10.21 ॥
एते ष्ववभृथस्नानं ब्रह्मन् सर्वार्थसाधनम् ।
उत्सवकालपरिमाणम्
मासेन वा तदर्धेन द्वादशाहेन वा पुनः ॥ 10.22 ॥
नवाहेनोत्सवः कार्यः स्सप्ताहेन चतुर्मुख ।
अहोभिः पञ्चभि र्वापि त्रिभिर्वैकेन वा पुनः ॥ 10.23 ॥
द्वजारोहणरहित उत्सवः
एकाहे त्र्यहके धीमान् ध्वजकर्मन कारयेत् ।
अवभृथसमयस्यापवादः
सङ्कल्पपूर्वमालोच्य मासऋक्षे तथा तिथौ ॥ 10.24 ॥
तीर्थावगाहनं यद्वा संयोग तिथितारयोः ।
विषुवे चायने चैव नादरस्तिथि 4 तारयोः ॥ 10.25 ॥
दुष्टवारादि संयोगे शुभमेव यथोदितम् ।
बलिदानस्य धामविशेषनिबन्धनत्वम्
पत्तने नगरे ग्रामे प्रतिलोमाऽनधिष्ठिते ॥ 10.26 ॥
अशून्ये बलिदानादीन् रथ्यासु बहिराचरेत् ।
नोचेदावरणेष्वेव कुर्यादन्तर्महोत्सवम् ॥ 10.27 ॥
ग्रामादि रहिते धाम्नि नोत्सवं बहिराचरेत् ।
अन्तरावरणेष्वेन न तु त्याज्यं कथं चन ॥ 10.28 ॥
पास्त्वेङ्गे च स्वतन्त्रे च धामन्युत्सव सम्पदि ।
यौगपद्ये न दोषस्याद्दोषो वास्त्वङ्गयोर्द्वयोः ॥ 10.29 ॥
आश्रयद्वैविध्यम्
स्वतन्त्रं परतन्त्रं च आश्रयं समुदाहृतम् ।
उत्तमादित्रैविध्यम्
उत्तमादिविभेदेन आलयस्त्रिविधोभवेत् ॥ 10.30 ॥
उत्तमस्स्वतन्त्रालयः
विष्ण्वालयं पुराऽऽकल्य पश्चाद्ग्रामादि कल्पनम् ।
स्वन्त्रमिति विज्ञेय मालयं तूत्तमं भवेत् ॥ 10.31 ॥
मध्यमः परतन्त्रालयः
ग्रामादिकं पूराऽऽकल्प्य पश्चादालयकल्पनम् ।
अस्वतन्त्रमिति ख्यातमालयं मध्यमं भवेत् ॥ 10.32 ॥
अधमः वीध्यन्तराकल्पितालयः
स्वतन्त्रालय क्लृप्तासु रथ्यावीधीषु पद्मज ।
अन्तरे स्थापितं यत्त दाश्रयं त्वधमालयम् ॥ 10.33 ॥
उत्सवसन्नि पाते स्वतन्त्रालये पूर्वमर्चनम्
स्वतन्त्रे परतन्त्रे वा उत्सवादौ कृते सति ।
पूर्वं स्वतन्त्रे कर्तव्यं वास्त्वङ्गे द्विगुणार्चनम् ॥ 10.34 ॥
आश्रयादिबिम्बानामुत्सवं तत्तदावरण एव कुर्यात्
आश्रयादिषु बिम्बेषु उत्सवादौ कृते सति ।
तत्तदावरणे कुर्या द्बाह्यवीध्यां तु नाचरेत् ॥ 10.35 ॥
मोहाद्वा यदिवा लोभा द्विपरीते कृते सति ।
अरातिभिः परिभवो महाव्याध्यादिपीडनम् ॥ 10.36 ॥
प्राङ्गणएषु च सर्वेषु प्रासादादिषु मूर्तिषु ।
प्रीत्याभिषेकमात्रं च स्नपनाद्युत्सवं विना ॥ 10.37 ॥
5 कारयेद्यदि सम्मोहात्प्रजानां पीडनं तथा ।
तस्मात्सर्वप्रयत्नेन विपरीतं तु नाचरेत् ॥ 10.38 ॥
अन्यथा कारयेन्मोहाद्राजा राष्ट्रं च नश्यति ।
ग्रामवास्तुबलिनिषेधः
ग्रामाश्रयादिभेराणामालयाश्रयकेषु च ॥ 10.39 ॥
ग्रामवस्तु बलिहीनं केवलोत्सवमाचरेत् ।
वैष्णवोत्सवे देवतान्तरोत्सवनिशेधः
देवतान्तरकल्याणे वर्तमानेऽपि वैष्णवम् ॥ 10.40 ॥
कुर्याद्देवोत्सवं नैव वैष्णवेऽन्यं कदाचन ।
वासुदेवो हि देवानां देवताम्नायते यतः ॥ 10.41 ॥
देवोत्सवमध्ये मानुषोत्सवनिषेधः
उत्सवे देवदेवस्य ध्वजारोहणपूर्वके ।
प्रवर्तिते 6 देवयागे चौलादि र्नैव संस्क्रिया ॥ 10.42 ॥
पूर्वापपादः
ग्रामाद्यनङ्गायतने प्रवृत्तेऽप्युत्सवे पुनः ।
कुर्याद्देवान्तरं यागं चौलादिं चैव संस्क्रियाम् ॥ 10.43 ॥
अन्यदेवतोपयुक्ततोरणादीनां प्रतिक्षेपः
तोरणादीनि चान्येषां देवानामुत्सवे सताम् ।
उत्पाट्य रथ्यासु हरे रुत्सवो नान्यथा भवेत् ॥ 10.44 ॥
पूर्वापवादः
क्लृप्तानामुत्सवे विष्णो रथ्यादिष्वितरोत्सवे ।
स्थिराणां तोरणादीनां कुर्यं नोत्पाटनं भवेत् ॥ 10.45 ॥
अधिमासादौ प्रथमोत्सवनिषेधः
अधिके मासि शुक्रादौ गुरौ च स्तमिते सति ।
नोत्सवः प्रथमःकल्प्यः कल्पने राजराष्ट्रयोः ॥ 10.46 ॥
प्रजानां चैव दुःखं स्या द्व्याधिर्वा मृतिरेव वा ।
उत्सवे च द्विदीयादौ नोक्तदोषः कथञ्चन ॥ 10.47 ॥
ध्वजारोहणस्य मुख्यकालः
मासादावुत्सवदिने पञ्चाहावधिके क्रमात् ।
ध्वजारोहणकालस्तु ब्रह्मन्नद्य प्रदर्श्यते ॥ 10.48 ॥
एकोनविंशतितमे दिने तीर्थाङ्कुरार्पणात् ।
अष्टादशदिने वापि प्रागेव समये शुभे ॥ 10.49 ॥
वैनतेयध्वजारोहाद्द्वादशाहेऽथवा भवेत् ।
यद्वा कल्याण दिवसं त्रिगुणीकृत्य तावताम् ॥ 10.50 ॥
आदौ दिनानां कर्तव्यं ध्वजारोहणमब्जज ।
अङ्कुरानपर्ययित्वाह्नि पुण्ये पुर्वे यथोदिते ॥ 10.51 ॥
ध्वजमारोपयेत्पश्चान्मङ्गलं मङ्गले दिने ।
अनुकल्पकालः
दैवाद्वामानुषाद्वापि कुतश्चित्कारणाद्यदि ॥ 10.52 ॥
7 उत्सवाहर्गणा त्पूर्वं यथोक्तैन कृते ध्वजे ।
उत्सवारम्भणदिने दिवाऽऽरोप्य ध्वजं निशि ॥ 10.53 ॥
ध्वजारोहण भेरीताडनयोः पौर्वापर्यविकल्पः
भेरीताडनमन्वक्च पालिकास्वङ्कुरान् क्षिपेत् ।
अघोष्य भेरीं प्रथमं ध्वजारोहणमन्वतः ॥ 10.54 ॥
ततोऽङ्कुरार्पणं यद्वा यद्वा निश्यङ्कुरार्पणम् ।
प्रदोषेऽन्वग्ध्वजारोहो भेरीताडनमन्वतः ॥ 10.55 ॥
तत्कालेऽपि ध्वजारोहे त्रैविध्यं चतुरासन ।
ध्वजपटायामादिमानम्
तन्तूत्थं क्षौमवसनं निर्देषं सूक्ष्ममाहृतम् ॥ 10.56 ॥
कार्पासं वा यथावित्तं ध्वजार्थे कल्पयेद्बुधः ।
आयतं दशभिर्हस्तै र्विस्तीर्णं पञ्चभिर्दृढम् ॥ 10.57 ॥
नवभिर्वाष्टभिर्वापि सप्तभिर्वा चतुर्मुख ।
मूलभेरसमायामं द्वारायाम मथापि वा ॥ 10.58 ॥
आयामार्धेन विस्तीर्णं पादेन कृते शेखरम् ।
शेखरेण समं पुच्छं तदर्धं कर्णपुच्चकम् ॥ 10.59 ॥
निर्णेजितं खलीयुक्तं शोषितं लक्षणान्वितम् ।
गरुडमूर्ति लक्षणम्
आहृत्य मध्ये वस्त्रस्य गरुडं काञ्चनप्रभम् ॥ 10.60 ॥
नवतालप्रमाणेन द्विभुजं धृतञ्चुकम् ।
धृतपुष्पाञ्जलिपुटं श्वेताम्बर धरं विभुम् ॥ 10.61 ॥
दंष्ट्राकरालवदनं ब्रुकुटीकुटिलेक्षणम् ।
नीलनासाग्रसंयुक्तं कुञ्चितासव्यपादकम् ॥ 10.62 ॥
पृष्ठे निविष्टसर्वाङ्घ्रिं पक्षविक्षेपशोभितम् ।
गगने गमनारम्भं 8 सुवृत्तं घोरदर्शनम् ॥ 10.63 ॥
करण्डिकामुकुटिनं ललाटे रचितालकम् ।
हारकेयूरवलयनूवुराभरणोज्ज्वलम् ॥ 10.64 ॥
अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः ।
उरसि न्यस्तकार्कोटं कटिसूत्रिततक्षकम् ॥ 10.65 ॥
बिभ्राणं दक्षिणे कर्णे पद्माह्वयसरीसृपम् ।
महापद्मं तथान्यत्र शङ्खं शिरसि भोगिनम् ॥ 10.66 ॥
गुलिकं चाङ्गदे सर्पं वर्णस्तेषां च कध्यते ।
स्फटिकाभश्पोणिताभःपीताभोधूम्रवर्णकः ॥ 10.67 ॥
रक्ताम्बुज निभश्छैव पिङ्गलस्तु हिनप्रभः ।
भ्रमराभः
गरुडप्रतिमाया उपरि पार्श्वेऽधस्ताच्च लेखनीयानि
क्रमाच्छत्रं मुक्ताहेम परिष्कृतम् ॥ 10.68 ॥
उपरिष्टाच्च कर्तव्यं पार्श्वयोश्चामरद्वयम् ।
अधस्तादम्बजं पुर्ण कुम्भमद्भिश्च पालिकाः ॥ 10.69 ॥
सङ्कुरा लिखितव्यास्स्युर्दीपौ द्वौ पार्श्वयोर्द्वयोः ।
पञ्चवर्णैर्लिखेदेव मन्तरं श्यामवर्णकम् ॥ 10.70 ॥
अन्तरालञ्च 9 कृष्णेन चित्रये च्चित्रकृत्तमः ।
ध्वजार्धसम्मितां चैव पताकां चैव चित्रयेत् ॥ 10.71 ॥
अधिपासदिने कर्तव्यानि
अधिवासे दिने प्राप्ते तमिस्रायां गुरुस्स्वयम् ।
कारुशालां प्रविश्याथ कारयित्वाथ शिल्पिना ॥ 10.72 ॥
नयनोन्मीलनं तस्मिन् विसृष्टे शिल्पिनी 10 प्सितैः ।
अर्थैश्च तोषिते सश्चा 11 निक्षिप्य शिरसि ध्वजम् ॥ 10.73 ॥
12 मूर्त्रिपस्य सुवर्णादि लोहपात्रे समर्पितम् ।
प्रादक्षिण्येन धामादीन्नी त्वा तूर्य 13 निनादितम् ॥ 10.74 ॥
ततःप्रवेशयेद्याग मण्डपं देशिकोत्तमः ।
नयनोन्मीलनादन्य त्प्रतिष्ठायामिवाचरेत् ॥ 10.75 ॥
अधिवासः
छायाधिवासनं सद्यो जले कुर्याद्यथाविधि ।
कुम्भैष्टोडशभि 14 श्छायास्नपनं दर्पणे भवेत् ॥ 10.76 ॥
पौरुषेणैव सूक्तेन 15 गायत्र्या स्वस्य पूजयेत् ।
शाययेच्छालि भारादावास्तीर्णे नववाससि ॥ 10.77 ॥
शायितस्य पटस्याथ अपसव्ये सहाष्टभिः ।
परितो न्यस्तकलशैर्वर्धन्या च घटं क्षिपेत् ॥ 10.78 ॥
आवाह्य गरुडं कुम्भे करके च सुदर्शनम् ।
इन्द्रादीनष्टपूर्वादि कलशेषु सुपूजयेत् ॥ 10.79 ॥
शोधयित्वा च गरुडं पटस्थं शोषणादिभिः ।
संहृत्य तत्त्वानि ततः क्रमादुत्पाद्य पक्षिणम् ॥ 10.80 ॥
चतुर्षु पार्श्व कुण्डेषु होमे स्थण्डिलभूषु वा ।
कुण्डे महानसे वापि 16 समिधाज्यै र्यथापुरम् ॥ 10.81 ॥
शान्तिहोमस्स्पर्शनं च सेचनं च यथापुरम् ।
पटं विस्तीर्णगरुडं मन्दिराभिमुखं यथा ॥ 10.82 ॥
प्रदर्श्यापाहयेत्तत्र व्याहृत्या
गरुड प्रार्थना
सन्निधिं ततः ।
प्रार्थयेत गुरुस्तस्य गाधया वक्ष्यमाणया ॥ 10.83 ॥
महाबल महाबाहो वैनतेय वयोधिप ।
सन्निधत्स्व पटे तुभ्यं समः प्रणवमूर्तये ॥ 10.84 ॥
कर्मणां सिद्धिमाहोतः कुरुष्व विहगेश्वर ।
अहुतव्यास्त्रयो लोका देवस्योत्सव सम्पदि ॥ 10.85 ॥
यजेदात्मीय गायत्र्या तमर्घ्याद्युपचर्यया ।
निवेदयेत्ततस्तस्मै निवेद्यं च चतुर्विधम् ॥ 10.86 ॥
कुम्भाय च निवेद्यान्नं स्तोत्रेर्गरुडतोषणम् ।
वाहनाय महाविष्णो स्तार्क्ष्याया मिततेजसे ॥ 10.87 ॥
गरुडाय समस्तुभ्यं सर्वसर्पेन्द्र मृत्यवे ।
नमो नमस्ते पक्षीन्द्र स्वाध्यायवपुषे नमः ॥ 10.88 ॥
विहगन्द्रे मनस्तेऽस्तु समुत्पाटितकल्पक ।
आहृतामृतकुम्भाय जननीदास्यमोचिने ॥ 10.89 ॥
सुरासुरेन्द्रजयिने नागेन्द्राभरणाय ते ।
यदाधार्मिदं सर्वं तदाधाराय ते नमः ॥ 10.90 ॥
पक्षौ यस्य बृहत्साम रथन्तरमपि द्वयम् ।
अक्षिणी चापि गायत्रि त्रिवृत्सामशिरः स्मृतम् ॥ 10.91 ॥
स्तोम आत्मा नमस्तस्मै वामदेव्याङ्गसम्पदे ।
नमःप्राणादि वायूना 17 मिशाय गरुडात्मने ॥ 10.92 ॥
दोषानपयायाखण्डन् गुणानावह सर्वतः ।
विघ्नानि जहि सर्वाणि आत्मसात्कूरु मामपि ॥ 10.93 ॥
स्तुत्वैवं गारुडं मन्त्रं जपेदेकाग्रमानसः ।
तुर्याघोषैर्वेदघोषैर्जागरेण नयेन्निशाम् ॥ 10.94 ॥
गरुडनि वेदित पिण्डभक्षणं सन्तानप्रदम्
निवेद्यं कबलीकृत्य मन्त्रयित्वाच मन्त्रवित् ।
पौरुषैर्गारुडैर्मन्त्रै र्वस्थ्यानामपि योषिताम् ॥ 10.95 ॥
क्षिपेदञ्जिलिषु ध्वात्वा गरुडं चाच्युतं हरिम् ।
भक्षयित्वा त्रयः पिण्डान् जनयेयुस्सुतान् बहून् ॥ 10.96 ॥
ध्वजपटोत्सवः
तं प्रभाते समाराध्य निवेद्य च हर्विःक्रमात् ।
वस्त्राभरण पुष्पैस्तु पटस्थं शोभयेत्खगम् ॥ 10.97 ॥
आरोप्य हस्तिपृष्ठे पारथे वान्यत्र मङ्गले ।
शिभिकादौ नयेद्ग्रामं प्रादक्षिण्येन धाम वा ॥ 10.98 ॥
भेरीमृदङ्गपटहौश्शङ्खकाहलचिह्नकैः ।
घोषयेत्पुरतस्तस्य नृत्तैर्गेयैश्च सर्वतः ॥ 10.99 ॥
खगेश वाद्ययोर्मध्ये साङ्कुरपालिकानयनम्
खगेश वाद्ययोर्मध्ये पालिकास्सङ्कुरान्विताः ।
वहेयुर्ब्राह्मणास्सर्वे शिरोभिस्संयतेन्द्रियाः ॥ 10.100 ॥
बिम्बमौत्सवमन्यच्च 18 गरुडस्यान्तिकेऽथवा ।
ध्वजस्तम्भस्थापनस्थानम्
इच्छया यजमानस्य सर्वमङ्गलसंयुतम् ॥ 10.101 ॥
अग्रतो बलिपीठस्य 19 बहिर्वा धाम गोपुरात् ।
ध्वजस्तम्भं खनेद्भूमौ निर्देषं दारवं स्थिरम् ॥ 10.102 ॥
स्थम्भोपयोगिदारुमानम्
20 अन्तस्सारो बहिस्सारो निस्सारस्त्रिविध स्तरुः ।
क्रमुकादि बहिस्सारं प्रशस्तं विदुरुत्तमम् ॥ 10.103 ॥
अन्तस्सारं चन्दनादि प्रशस्तं स्तम्भकल्पने ।
निस्सारं वर्जयेत्त्सम्भं शततालायतं शुभम् ॥ 10.104 ॥
मानाङ्गुलप्रमाणेन 21 विंशत्यूनमथापि वा ।
प्रासादोच्छ्रायमथवा यद्वा गोपुरुसम्मितम् ॥ 10.105 ॥
चतुर्धा विभजेत्त्सम्भमेकांशेनैव मस्तकम् ।
तस्यचाधारभूतानां 22 च्छेदितानां तु मूलतः ॥ 10.106 ॥
त्रयाणामपि पीठानां स्तम्भाग्रे विनिवेशनम् ।
आयतानि च पूठानि द्वितालेन चतुर्मुख ॥ 10.107 ॥
विस्तीर्णानि तदर्धेन तदर्धेन घनानि च ।
मूले स्थूलानि सूक्ष्माणि चाग्रे युञ्जीत भूरुहान् ॥ 10.108 ॥
अग्रे पीठद्वयेच्छिद्रे ध्वजयष्णिं च स्स्कृताम् ।
निवेशयेच्छिद्रयित्वा ध्वजस्तम्भं चतुर्मुख ॥ 10.109 ॥
निवेशयेद्वेणुकं वासव वा सप्तपञ्च वा ।
ध्वजस्तम्भंसंस्कारः
इत्थं भूतं ध्वजस्तम्भं पीठस्योत्तरपार्श्वतः ॥ 10.110 ॥
23 आराध्य वेदविद्विप्रैः प्रागग्रं शाययेद्गुरुः ।
यद्वोदगग्रं प्रक्षाल्य स्तम्भमब्लिङ्गमन्त्रतः ॥ 10.111 ॥
कुशैश्च साग्रैः प्रच्छाद्य स्तम्भमूर्ध्वमुखैश्शुभैः ।
संवेष्ट्य दर्भमालाभि र्विष्णुसूक्तेन देशिकः ॥ 10.112 ॥
ध्वजस्तम्भावटे न्यस्य लोहबीजादि शोधितम् ।
तत्रावटे ध्वजस्तम्भं स्थापयित्वादृढं यथा ॥ 10.113 ॥
प्रासादाभिमुखं
स्तम्भशिरसि ध्वजपटबन्धनम्
तस्य वेण्वग्रविवरे ध्वजम् ।
पाशेनाङ्गुष्ठनाहेन त्रिगुणीकृत्य तन्तुना ॥ 10.114 ॥
ध्वजं निवेशयेद्यद्वा स्तम्भमारुह्य बन्धयेत् ।
बद्धध्वजाग्रस्तम्भं वा स्थापयेच्छक्त्यपेक्षया ॥ 10.115 ॥
ध्वजारोपणकालः
एवं नियोज्य यष्ट्यग्रे मुहूर्ते शोभने गुरुः ।
पूर्वाह्णे वाथ मध्याह्ने ध्वजमारोपयेत्तथा ॥ 10.116 ॥
आरोपणमन्त्रः
बध्वा पुरुषमन्त्रेण सपताकं सघण्टकम् ।
सुवर्णोऽसीति मन्त्रेण ध्वजस्यारोपणं भवेत् ॥ 10.117 ॥
प्रासादाभिमुखं स्थाप्य खगेन्द्रं पटसंस्थितम् ।
तूर्यघोषं तथाम्नायघोषं दिक्षु च घोपयेत् ॥ 10.118 ॥
खगेशमालामन्त्रादीं स्तत्काले देशिको जपेत् ।
स्तम्भमूल वेदीकल्पनम्
स्तम्भमूलस्थले वेदिं हस्तैस्सप्तभिरायताम् ॥ 10.119 ॥
तापद्भिरेव विस्तीर्णामेकहस्तसमुच्छृताम् ।
पञ्चभिर्वा त्रिभिर्वापि चतुरश्रां प्रकल्पयेत् ॥ 10.120 ॥
वेदिकायास्तृतीयांशे मध्ये पीठं प्रकल्पयेत् ।
चतुष्टयाङ्गुलोत्सेधं मेखलात्रयसंयुतम् ॥ 10.121 ॥
भागे तृतीये तस्यापि पद्ममष्टदलै र्युतम् ।
कर्णिकास्थो यथा स्तम्भस्तथा कुर्याद्विचक्षणः ॥ 10.122 ॥
षोडश स्तम्भसंयुक्ता प्रपा स्यात्परित स्ततः ।
चतुर्द्वारसमायुक्ता दर्भमालाद्यलङ्कृता ॥ 10.123 ॥
पुण्याहं पाचयित्वाथ प्रोक्षयेत्कुम्भवारिणा ।
गारुडेनैव मन्त्रेण कलशैश्चाष्टभि स्तथा ॥ 10.124 ॥
इन्द्राद्यैःप्रोक्षयेत् स्तम्भंस्वैस्वैर्मन्त्रैर्यथाक्रमम्
ध्वजे गरुडसान्निध्य प्रार्थनम्
प्रार्थयेत स्थितिं तस्य गरुडस्य ध्वजोदरे ॥ 10.125 ॥
उत्सवावभृथं यावद्गाधया वक्ष्यमाणया ।
पक्षीन्द्र पक्षविक्षेपतरङ्गानिलसम्पदा ॥ 10.126 ॥
निरस्तासुरसन्नाह समरे शत्रुसूदन ।
सन्निधत्स्य पटे यावदुत्सवावभृथावधि ॥ 10.127 ॥
गरुडाय अशेषलोकाह्वानाज्ञापनम्
उत्सवप्रतिमां यानमारोप्य शिभिकादिकम् ।
ध्वजस्तम्भसमीपोर्वीमानीयादर्शयेत्खगम् ॥ 10.128 ॥
आह्वोनार्थमशेषाणां लोकानां पतगेश्वरम् ।
नियुज्य देवस्तदनु प्राप्नुयान्मण्डपावनिम् ॥ 10.129 ॥
गरुडस्य कालत्रये आराधनम्
आराधयेत्त्रिकालं तु गरुडं च निवेदयेत् ।
अनिर्वाण दीपस्थापनम्
अनिर्वाणं तथा दीपं रक्षेन्नक्तन्दिवा सदा ॥ 10.130 ॥
उत्सवप्रतिमाया रात्रौ होमान्तमर्चनम्
उत्सवप्रतिमां तत्र मण्डपे च यथाविधि ।
पूजयित्वा निवेद्याथ हविर्होमान्तमर्चयेत् ॥ 10.131 ॥
रात्रौ तु पूजयित्वैवं
भेरीताडनसिद्धये कल्पनीयानि
भेरीताडन सिद्धये ।
ध्वजपीठसंय पुरतः क्षितिं गोमयपारिणा ॥ 10.132 ॥
आलिप्य चतुरश्रं च सुधाचूर्णैश्चशोभयेत् ।
चतुरश्रं धान्यपीठं द्रोणपञ्चकशालिना ॥ 10.133 ॥
कल्पयित्वा कालचक्रं तस्य मध्ये निवेशयेत् ।
बल्यर्चामपितत्रैव स्थापयेद्ध्वज सम्मुखम् ॥ 10.134 ॥
पूजयित्वा निवेद्याथ हवींषि विविधानि च ।
भेर्यर्चनम्
आपिप्ते पुरतस्तस्य भूतले धान्यपीठके ॥ 10.135 ॥
तावदेव महाभेरीं वेष्टितां नववाससा ।
दक्षिणेतरयोस्तस्या भेरिकाया यथाक्रमम् ॥ 10.136 ॥
भागयोरर्चयेद्विष्णुं श्रियं चैव यथाविधि ।
त्रिगुणां प्रकृतिं चैव मध्यभागे सभाजयेत् ॥ 10.137 ॥
भेरीताडनम्
मुहूर्ते शोभने भेरीं शब्दतन्मात्रविद्यया ।
कोणेन ताडयेन्मूर्तित्रयं ध्यायेद्गुरुस्स्वयम् ॥ 10.138 ॥
ततः पारशवस्स्नातो दर्भपाणिरलङ्कृतः ।
सोपवीतोत्तरीयश्च वहन् भेरीमलङ्कृताम् ॥ 10.139 ॥
शङ्खादिवाद्यसहितां तालभेदविधानवित् ।
घोषयेद्गुरुणेन्द्रादौ हूयमाने मरुद्गणे ॥ 10.140 ॥
आहूतव्य देवताः
दिव्यायुधानामाह्वानं तथा वैकुण्ठवासिनाम् ।
तथा पारिषदास्सर्वे विष्वक्सेनाभिरक्षिताः ॥ 10.141 ॥
आह्वातव्या मखे तस्मिन् कुमुदाद्या स्सनायकाः ।
ऋषिभिश्च मरीच्याद्यैर्ब्रह्मलोकनिवासिभिः ॥ 10.142 ॥
समाह्वानं विरिञ्चस्य रुद्रलोकनिवासिभिः ।
सार्दं प्रमथसार्धैश्च रुद्रश्च वृषवाहनः ॥ 10.143 ॥
आह्वातव्यास्तथान्ये च तत्तल्लोकनिपासिनः ।
वाहनैःपरिवारैश्च साकं तस्मिन् महूत्सवे ॥ 10.144 ॥
विद्याश्च मूर्तिधारिण्यस्त्रयू चङ्गैर्वपुष्मती ।
अह्वातव्यास्समाह्वानं सर्वेषां च स्वनामभिः ॥ 10.145 ॥
नित्योत्सवार्चं परितो वीधिकासु सुदर्शनम् ।
अन्नर्मूर्तिविधानं च प्रदीपैर्बहुभिर्वृतम् ॥ 10.146 ॥
गमयित्वा प्रतिदिशं भेरीताडनपूर्वकम् ।
ग्राममध्ये चतुर्मुखस्यावाहनम्
ग्राममध्यं समासाद्य तत्रावाह्य चतुर्मुखम् ॥ 10.147 ॥
अर्चयित्वा मखे तस्मिन् याचित्वा सन्निधिं गुरुः ।
इन्द्रादींश्च प्रतिदिशं बल्यर्थं सन्निधिं तदा ॥ 10.148 ॥
अर्चयित्वा तूर्यघोषं घोषयित्वास्वतालवत् ।
अन्यत्र गारुडं तालमन्तरालेषु घोषयेत् ॥ 10.149 ॥
प्रविश्य मन्दिरं तत्र यथापूर्वं निवेशयेत् ।
वीधीषु देवताह्वानम्
आदायोत्सवबिम्बं वा केवलं वा सुदर्शनम् ॥ 10.150 ॥
अन्नमूर्तिविधानं वा भेरीमादाय केवलाम् ।
रथ्यासु देवताह्वानं तत्र तत्र यथाविधि ॥ 10.151 ॥
भेरीशब्दं श्रुत्वा अवभृथान्तमन्यत्र न यायात्
देवताह्वानवेलायां भेरीं शृण्वन्तिये नराः ।
तैर्नदीतरणं नैव यानं वा योजनात्परम् ॥ 10.152 ॥
अनादृत्योत्सवं मोहाद्दूरं यायाज्जनो यदि ।
स याति निरयस्थानं प्रेत्य दुःखमिहापि च ॥ 10.153 ॥
तस्मादवभृथं यावद्वसेत्तत्रैव नो प्रजेत् ।
ध्वजार्थमङ्कुरा येन न्यस्तास्स यदि कारणात् ॥ 10.154 ॥
कुतश्चिदसमर्थो वा मृतो वा देशिकोत्तमः ।
शेषं समापयेदन्यः पुत्रो वा तदनुज्ञया ॥ 10.155 ॥
शिष्यो वा यदि वा ब्राता ऋत्विक्वा गुणवत्तरः ।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्म संहितायां चर्यापादे ध्वजारोहण विधिर्नाम दशमोऽध्यायः
-
देवतानां निकायानां. ↩︎
-
“वृक्षे त्वन्यफले” इत्यर्ध मत्रापिलिखितमस्ति क्वचित्कोशे. ↩︎
-
अनर्षेZशनिपाते च. ↩︎
-
वारयोः. ↩︎
-
सदा देशाधिपस्य स्यात्प्रजानाम्. ↩︎
-
नैव यागश्चौलादिश्चैव. ↩︎
-
उत्सवारम्भणात्. ↩︎
-
वृत्ताक्षम्. ↩︎
-
अन्तरालं न. ↩︎
-
प्सिते. ↩︎
-
निक्षिपेत्. ↩︎
-
मूर्तिपश्च. ↩︎
-
निनादितैः. ↩︎
-
स्नायात् स्नपनम्. ↩︎
-
गाधया. ↩︎
-
समिधाद्यै. ↩︎
-
मिशानाय गरुत्मते. ↩︎
-
गरुडस्यानयेत वा. ↩︎
-
बहिःप्रासाद. ↩︎
-
अन्तस्सारे बहिस्सारे नि स्सारे त्रिविधे तरौ. ↩︎
-
विंशत्तालमथापि. विंशन्न्यूनम्. ↩︎
-
च्छिद्रितानां त्रि. ↩︎
-
आनाय्य. ↩︎