.
ब्रह्मणा भगवन्तं प्रतिप्रजासर्ग शक्ति प्रार्थना
ब्रह्मा :—
नियक्तोऽहं प्रजास्स्रष्टु त्वया कैटभसूदन ।
मुह्यामि च प्रजास्स्रष्टुं कथं कर्तव्य मित्यहम् ॥ 9.1 ॥
भगवता सहस्रकलशाभिषेककरणानुज्ञा
श्रीभगवान् :—
देवराज्यात्परिभ्रष्टो देवेन्द्रो ब्रह्महत्यया ।
मां समाराध्य विधिना प्राप्तवानात्मनःपदम् ॥ 9.2 ॥
एवमन्ये च राजानो ममाराधनमुत्तमम् ।
कृत्वा निर्धूय पापानि पातकानि महान्त्यपि ॥ 9.3 ॥
प्रापुर्लोकान् सुदुष्प्रा पानिष्टानत्ययवर्जितान् ।
एकोत्तरेण कलशैस्सह स्रेणाभि षेचनम् ॥ 9.4 ॥
पवित्रवस्तुसहितैः पवित्रजलपूरितैः ।
आराधनं मम ब्रह्मन् प्रीणनं परमं मतम् ॥ 9.5 ॥
पापापनोदनैकान्तं सर्वाभ्युदयसाधनम् ।
प्रजानामपि राष्ट्रस्य राज्ञश्चायुर्विवर्धनम् ॥ 9.6 ॥
अनुष्ठितं पुत्रकामैस्तथा विजयकाङ्क्षिभिः ।
दुर्भिक्षदुर्निमित्तादि घोराणां शमनं परम् ॥ 9.7 ॥
सर्वसंपत्करं सर्व पुरुषार्धैकसाधनम् ।
आराधनेन तेन त्वं मामाराध्य यथाविधि ॥ 9.8 ॥
निर्मुक्तमोहो निष्पापः प्रजास्स्रष्टुमपीशिषे ।
ब्रह्मा :—
1 सहस्रकलशस्नानविधिःकीदृक्कथं भवेत् ॥ 9.9 ॥
पवित्राणि च वस्तूनि कानि को वा विधेःक्रमः ।
स्थापनं कलशानां च को वा स्थापक इष्यते ॥ 9.10 ॥
श्रीभगवान् :—
सहस्रकलशाभिषेक विधानम्
द्वात्रिंशद्धस्त 2 विस्तारं द्विगुणेनायतं शुभम् ।
कलशास्पदभू 3 भागवैपुल्यानुगुणं महत् ॥ 9.11 ॥
मण्टपं कल्पयित्वान्यद्द्वाराणि च यथाविधि ।
कलशस्थापनाभूमिं पञ्चविंशतिधा समम् ॥ 9.12 ॥
स्थानभेदेन कलशानां सङ्ख्या
विभज्य 4 सूत्रमार्गेण मध्यमे ब्रह्मणःपदे ।
एकाशीतिघटा स्थ्साप्यादिव्ये तु तदनन्तरे ॥ 9.13 ॥
भागे प्रत्येकमाशासु पूर्वादिचतसृष्वपि ।
एकाशीतिघटाः स्थाप्याः कोणेऽपि च चतुष्टये ॥ 9.14 ॥
5 स्थाप्याश्चै कोनपञ्चाशत्प्रत्येकं मानुषे पुनः ।
भागे षोडश दिक्षु स्यात्प्रत्येकं पञ्चविंशतिः ॥ 9.15 ॥
विधिकाश्च यथायोगं कल्पनीयाः पदे पदे ।
ब्राह्मे भागे तु नवके मध्यमे 6 च महाघटे ॥ 9.16 ॥
सर्वलोहानि रत्नानि सर्वाणि च फलानिच ।
सर्वैषधींश्च सर्वांश्च गन्धपूर्णांश्च निक्षिपेत् ॥ 9.17 ॥
श्रीवत्साद्याः प्रतिकृतीः कृत्वा निष्कप्रमाणिकाः ।
स्वर्णं ताम्रं च रजयं 7 केवलं चैव निक्षिपेत् ॥ 9.18 ॥
भगवतोष्टौ चिह्नानि
श्रीवत्सं वनमालां च शङ्खं चक्रं गदां तथा ।
पद्मं शार्ङ्गं तथा खड्ग मष्टौ चिह्नानि शार्ङ्गिणः ॥ 9.19 ॥
वासोभ्यां वेष्टिते कुम्भे वासुदेवं समर्चयेत् ।
ब्राह्म एव च भूभागे परितो नवकाष्टके ॥ 9.20 ॥
प्राचीन कुम्भनवके मध्यमे कलशे क्षिपेत् ।
नूर्याकान्तं पद्मरागं पुरुषस्तस्य देवता ॥ 9.21 ॥
कुम्भानां देवताः द्रव्याणि च
8 नवकानां तथान्येषां क्रमाद्द्रव्यं च देवताः ।
कुम्भस्य वक्ष्यते ब्रह्मन् मध्यमस्य पृथक् पृथक् ॥ 9.22 ॥
वैडूर्य 9 मिन्द्रकान्तं च द्वयं 10 द्रव्यं तु देवता ।
वासुदेवश्चेन्द्र नीलोऽप्ययस्कान्तश्च तद्द्वयम् ॥ 9.23 ॥
देवता सत्यमूर्तिस्स्यात्प्रवालो वस्तु गारुडम् ।
सङ्कर्षणो देवता स्यात्पुष्यकं स्फटिकद्वयम् ॥ 9.24 ॥
द्रव्यं देवोऽच्युतः पद्मरागः कनकमेव च ।
प्रद्युम्नो देवता तस्य वज्रं रजतमेव च ॥ 9.25 ॥
अनन्तो देवता तस्य ताम्रं मुक्ता च वस्तुनि ।
देवता चानिरुद्धस्स्या त्सर्वकुम्भेषु मौक्तिकम् ॥ 9.26 ॥
दिव्ये भागे दिशि प्राच्यामेकाशीतिघटास्पदे ।
नवके मध्यमे मध्यकलशे कदलीफलम् ॥ 9.27 ॥
पनसाम्रं मातुलङ्गं 11 हव्यजम्बाककेसराः ।
बदराणि च तत्त्वात्मा देवता तस्य कथ्यते ॥ 9.28 ॥
देवताऽद्रव्यमन्यत्र नवकेष्वष्टसूच्यते ।
क्रमान्मध्ये घटे द्रव्यं मातुलङ्गं सदाडिमम् ॥ 9.29 ॥
पृथिवी देवता तस्य जम्बा नारङ्गमेव च ।
देवताऽपामदिष्ठात्री तक्कोलैला फलद्वयम् ॥ 9.30 ॥
तेजस्वी पुरुषो देवः क्षीरिकामलकद्वयम् ।
द्रव्यं देवो जगत्प्राणो द्राक्षा खर्जूरजं फलम् ॥ 9.31 ॥
द्रव्यं विष्णुपदं देवचूतं 12 पारा च दाडिमम् ।
देवो मनःफलं क्षुद्रपनसं वस्तु देवता ॥ 9.32 ॥
अहङ्कारःफलं बिल्वकदल्योर्वस्तु देवता ।
बुद्दिस्सर्वेषु कुम्भेषु बदराणि च निक्षिपेत् ॥ 9.33 ॥
अष्टाक्षरेण मन्त्रेण पञ्चोपनिषदा पुनः ।
कुम्भानामपि सर्वेषा मभिमन्त्रणमिष्यते ॥ 9.34 ॥
उशीरं कुङ्कुमं कुष्ठं मांसी मलयजं मुरम् ।
ह्रीबेरमगुरुं पिष्ट्वा कुम्भे तत्र विनिक्षिपेत् ॥ 9.35 ॥
त्रैलोक्यमोहनं देव 13 मर्चयेन्मन्त्रवित्तमः ।
नवकेषु तथा न्येषु प्राच्यादिषु यथाक्रमम् ॥ 9.36 ॥
14 जलतो वीरणीमूलं बभ्रुर्देवस्स 15 भाज्यते ।
कर्पूरकाश्मीरमुभौ द्रव्यं शौरिश्च देवता ॥ 9.37 ॥
चम्पकं मुकुलं मांसी दासार्हश्चाधिदेवता ।
चन्दनं चन्दनं रक्त मन्नाधिपतिरच्युतः ॥ 9.38 ॥
नुरपर्णी 16 रजो मौरं कर्दमो वस्तु देवता ।
17 वैकुण्ठो गिरिजं मूलं प्रियङ्ग्वाश्च रजःकणाः ॥ 9.39 ॥
पुरुषोत्तमदैवत्यं कुष्ठे द्वे द्रव्यमुच्यते ।
18 मुकुन्दःकृष्णधवलो वक्ररूपी वृषाकपिः ॥ 9.40 ॥
तमालपत्रं सर्वेषु निक्षिपेत्पुरुषात्मना ।
पवमानादिभिर्मन्त्रेर्मन्त्रेयेत्तान् सकृत्सकृत् ॥ 9.41 ॥
त्रत्येकं गन्ध 19 वस्तूनि फलन्यष्टै यथोदितम् ।
एकाशीति 20 घटग्रामे वारुणे ब्रह्मणः पदे ॥ 9.42 ॥
कुम्भेषु पूरणीया आपः
घटे वापीसरित्कूप ह्रदवृष्टि हिमापगाः ।
पत्युः पाथांसि चाहृत्य 21 तटाकस्य च निक्षिपेत् ॥ 9.43 ॥
नवकानामथान्येषा मष्टानां मध्यमे घटे ।
पूर्वोक्तान्येव वाप्यादि नीराणि 22 क्रमशःक्षिपेत् ॥ 9.44 ॥
23 मध्यमार्न द्रव्यकलशान् सर्वानेव प्रपूरयेत् ।
नलिनीनिर्झराम्भोभिः मत्स्यकूर्मावपि द्वयम् ॥ 9.45 ॥
निष्कद्वयपरिच्छिन्न काञ्चनेन विनिर्मितम् ।
कलशेष्वेव नवसु मध्यमेषु विनिक्षिपेत् ॥ 9.46 ॥
मत्स्यादि रूपिणं 24 देवं वर्जयित्वाच भार्गवम् ।
यथोक्तकुम्भनवके क्रमेणैव सभाजयेत् ॥ 9.47 ॥
मध्यम नवककुम्भेषु नव धान्यानि
एकाशीति पदे सौम्ये मद्ये नवकमध्यमे ।
यमगोधूमकव्रीहि शालिमुद्गप्रियङ्गुकान् ॥ 9.48 ॥
माषश्यामाकनीवारान् क्षिपेत्तत्र च पूजयेत् ।
देवेशं गरुडारूढं पद्मनाभं यथाविधि ॥ 9.49 ॥
धान्यानि तानि चैकैक मन्येष्वष्टसु निक्षिपेत् ।
घटेषु मध्यभूतेषु क्रमात्सर्वत्र शालयः ॥ 9.50 ॥
पूजयेद्वनमालां च शङ्खं चक्रं च कौस्तुभम् ।
पद्मं शार्ङ्गं गदां खड्गं क्रमादुक्तं घटाष्टके ॥ 9.51 ॥
आग्नेयादिदिक्कुम्भेषु पूरणीयद्रव्याणि
पङ्छा25 शत्सुटेष्वग्नेरेकोनेषु तथा दिशि ।
मध्यमं कुम्भनवकमाघारेण प्रपूरयेत् ॥ 9.52 ॥
षट्स्वेन्द्रेषु च गोमूत्रं क्षीरं याम्येषु पुरुणे ।
दधि षट्सु तथा सौम्ये गोमयं षट्सु निक्षिपेत् ॥ 9.53 ॥
चतुर्षु कुम्भेष्वाग्नेये कोणे वाप्युष्णमुच्यते ।
नैरुते पञ्चगव्यानि पञ्चामृतमथानिले ॥ 9.54 ॥
ऐशाने सक्तुभिस्तेषु नारायणसभाजनम् ।
नैरृत्तौकोनपञ्चाशद्घटेषु ब्रह्मणःपदे ॥ 9.55 ॥
तैलेन नवकं पूर्य 26 गन्धाद्भिष्षट्पुरस्थ्सिताः ।
घटसारद्रवैर्याम्ये लाजैःकुम्भेषु वारुणे ॥ 9.56 ॥
सौम्ये भिमन्त्रिताम्भोभिः कोणेषु गुळवारिभिः ।
यजेत तेषु कुम्भेषु वासुदेवं जगद्गुरम् ॥ 9.57 ॥
मारुदैकोनपंचाञ्चाशद्घटेषु नवकं पुनः ।
पूर्य सर्षपतैलेन प्राच्यां षट्पाद्यपारिभिः ॥ 9.58 ॥
याम्येषडर्घ्यैष्षट्कुम्भाः प्रतीच्याचमनाम्बुभिः ।
षट्सैम्ये 27 मङ्गलाम्बोभिः पूरयेत्कमलासन ॥ 9.59 ॥
कोणेष्विक्षुरस्तेस्तत्र समाराध्योऽनिरुद्धकः ।
एशानैकोनपंचाशद्घटेषु ब्रह्मणः पदे ॥ 9.60 ॥
नवकं मधुभिःपूर्य प्राच्यां षट्सर्वगन्धकैः ।
शान्तिवारिभिरन्यत्र षट्कं 28 कोणे च नैरुते ॥ 9.61 ॥
आग्नेये च स्थिताः कुम्भा नालिकेरजलैरपि ।
शार्वे च वायवीये च पीयूषैर्नालिकेरजैः ॥ 9.62 ॥
यष्टप्यो हरिरेतेषु कुम्भेषु कमलासन ।
भागे तु मानुषे प्राच्यां कुम्भानां पञ्चविंशतिः ॥ 9.63 ॥
मध्यमं पुरयेन्मृद्भिर्वक्ष्यमाणाभिरष्टभिः ।
क्षेत्रतीर्थाब्धिशैलेषु गजसूकरयोरपि ॥ 9.64 ॥
वल्मीकवृषमोर्मृत्स्नान्यस्यते मध्यमे घटे ।
अष्टास्वन्येषु 29 कलशेष्वेकै कां तां विनिक्षिपेत् ॥ 9.65 ॥
30 अर्च्यश्च केशवस्तेषु क्रमादन्यत्र चोच्यते ।
सहदेवी वचा चैव शतमूला शतावरी ॥ 9.66 ॥
कुमारी च गुलूची च सिंही व्याघ्रीति चाष्टमी ।
मूलानि मध्ये चै तेषां कलशे मध्यमे क्षिपेत् ॥ 9.67 ॥
एकैकमष्टास्वन्येषु तेषु नारायणार्चनम् ।
न्यग्रोधोमम्बराश्वत्थ जम्बुभिल्व 31 त्वचां रसाः ॥ 9.68 ॥
तथापलाशमधुक शिरीषाणामपि त्वचः ।
न्यसनीया घटे मध्ये प्रत्येकमितराष्टके ॥ 9.69 ॥
पूज्यश्चमाधवस्तेषु तरूणां पल्लवा इमे ।
पलाशबिल्ववकुल कदम्बाम्रशिरीषजाः ॥ 9.70 ॥
न्यग्रोधाश्वत्थजाश्चापि न्यसनीया विधेःपदे ।
एकैकमित रेष्वर्च्यो गोविन्दो जातिमल्लिकैः ॥ 9.71 ॥
प्रियङ्गु पद्मवकुल नन्द्यावर्तक चम्पकाः ।
32 कुन्दं चैतानि पुषाणि न्यसनीयानि मध्यमे ॥ 9.72 ॥
सिद्धार्थो राजसिद्धार्थो वंशो गोरोचनापि च ॥ 9.73 ॥
इन्द्रवेणुर्यवष्षष्ठश्शमी च चणक स्तथा ।
33 एतानि मध्यमे कुम्भे एकैकमिति 34 रेषु तत् ॥ 9.74 ॥
तेषु 35 पूज्यो मधुरिपुसरस्सी रुहसम्भव ।
तिलमारण्यं कं 36 ग्राम्यं जीरकद्वयमेव ॥ 9.75 ॥
अतसीसम्भवं 37 चैव शतपुष्पं 38 कुमारकम् ।
ऋषिबीजं च कलशे मध्यमेऽन्यत्र पूर्ववत् ॥ 9.76 ॥
तेषां त्रिविक्रमो देवो यष्टव्य स्साङ्गपीठकः ।
श्यामाकष्षाष्टिकश्शाली नीवारस्य च तण्डुलाः ॥ 9.77 ॥
दुर्वाकुशेन्द्र वल्लीनामङ्कु राः पिप्पलस्य च ।
न्यस्यन्ते मध्यमे कुम्भे कुम्भेष्व न्यत्र पूर्ववत् ॥ 9.78 ॥
देवता वामनस्तेषु कुशा 39 दिव्यौषधास्त्रयः ।
काशा मूलमुशिरस्य शरपुङ्खस्य मूलिका ॥ 9.79 ॥
मूलिकास्त गरस्यापि तथापामार्गमूलिका ।
ते मध्ये च घटे 40 सर्वे घटेष्वन्यत्र पूर्ववत् ॥ 9.80 ॥
देवता श्रीधरस्तेषां तुलस्यौ च सितासिते ।
वेणुकेसरिणोःपत्रे पत्रे केतकबिल्वयोः ॥ 9.81 ॥
शमीपर्णं तथा जातेर्मध्यमेऽन्यत्र पूर्ववत् ।
देवता च हृषीकेशो 41 द्वयं मुस्ताकचोरकम् ॥ 9.82 ॥
कुमुदोत्पलयोः कन्दं कह्लोरं शीतलीयकम् ।
न्यस्येन्मध्ये कुवलयं कुम्भेष्वष्टसु पूर्ववत् ॥ 9.83 ॥
तेषां देवः पद्मनाभो मुद्गमाषयवाङ्कुराः ।
निष्पावतुवरीव्रीहिकुलुत्थानामथाङ्कुराः ॥ 9.84 ॥
आढकस्य च कुम्भानां मध्यमेऽन्यत्र पूर्ववत् ।
दामोदरार्चनं तत्र शङ्ख 42 पुष्पी बला तथा ॥ 9.85 ॥
विष्णुक्रान्ता सदाभद्रा पद्ममेकदलं वरम् 43 ।
सहा च सह 44 देवा च न्यसनीयाःविधेःपदे ॥ 9.86 ॥
अन्यत्र 45 पूर्ववत्पूज्यो यज्ञनारायणो भवेत् ।
स्वेतार्कश्च तथैवाग्निभद्रा ब्रह्मसुवर्चला ॥ 9.87 ॥
सरसा च 46 विरक्ता च पृश्निपर्णी स्थिरा तथा ।
एरण्डकं घटे मध्ये अन्यत्र स्याद्यथा पुरम् ॥ 9.88 ॥
अर्चनीयो हरिस्तत्र 47 सूरभिः पद्मकेसरं ।
पत्रमेला लवङ्गत्व ङ्नागकेसरमेव च ॥ 9.89 ॥
लताजातिफले मध्ये न्यसनीया विधेःपदे ।
एकैकमितरेषु स्यात्तेषु कृष्णश्च देवता ॥ 9.90 ॥
सुवर्णं रजतं ताम्रं प्रत्येकं निष्टपञ्चकम् ।
कृत्वा पद्माकृतिं कांस्यं दर्पणं चषकानि च ॥ 9.91 ॥
अयोलवित्राद्याकारं त्रपुं सीसकपित्तले ।
त्रयं प्रकृतिरूपेण न्यस्यते मध्यमे घटे ॥ 9.92 ॥
प्रत्येकमितरेष्वेतद्धय ग्रीवोऽधिदैवतम् ।
कुम्भेष्वन्येषु सर्वेषु पूरणं गन्धपारिभिः ॥ 9.93 ॥
सहस्रकलशस्स्नाने देशिका बहवः स्मृताः ।
चत्वारो द्विगुणं वापि तेषां षोडश ऋत्विजः ॥ 9.94 ॥
पुण्याहं वाचयित्वान्वगधिदेवार्चनं भवेत् ।
पञ्चोपनिषदैर्मन्त्रैस्सहस्रं सर्पिषाहुतीः ॥ 9.95 ॥
शान्त्यर्थं मूलमन्त्रेण जुहुयात्समिदादिभिः ।
यावद्रजोभिर्हारिद्रैस्स्नपनं मधुविद्विषः ॥ 9.96 ॥
मृत्स्नाभिर्मानुषे भागे प्रक्रम्य ब्रह्मणःपदे ।
रत्नोदकान्तं कलशैस्सहस्रेणाभिषेचनम् ॥ 9.97 ॥
मृदा विष्णोर्नुकमिति स्नपनं मूलवारिभिः ।
तद्विष्णोरिति देवस्य कषाय कलशाम्बभिः ॥ 9.98 ॥
48 प्रथद्विष्णुरितीशस्य विद्यया पल्लवाम्बभिः ।
देवस्य त्वेति कुसुमैस्तवामित्यपिसर्षपैः ॥ 9.99 ॥
द्रुवः पात्विति मन्त्रेण स्नपनं तिलवारिभिः ।
भद्रं कर्णेतिमन्त्रेण षाष्टिकाम्बुभिराप्लवः ॥ 9.100 ॥
न ते विष्णुरिति स्नानं कुश मूलाम्बभिर्हरेः ।
इरावतीति मन्त्रेण तुलसीदलवारिभिः ॥ 9.101 ॥
मुस्ताम्बुभिरतो देवा अवन्त्विति चतुर्मुख ।
इदं विष्णुरिति स्नानं 49 उष्णैस्त्रीणिपदेति च ॥ 9.102 ॥
शङ्खपुष्पाम्बुभिश्चे तैर्विष्णोः कर्माणि पश्यत ।
तद्विष्णोः परमिति सुरभ्यादिजलै स्तथा ॥ 9.103 ॥
तिद्विप्रास इतिस्नानं लोहौर्भागे नृणामपि ।
दिव्ये भागे तु पौरस्त्ये एकाशीति घटास्पदे ॥ 9.104 ॥
प्रागादि ब्रह्म भूम्यन्तं क्रमेण स्नानमिष्यते ।
स्नपने दिक्कलशभेदेन मन्त्रभेदः
ऐन्ट्रे फलाम्बुभिः स्नानं यज्ञायज्ञीयमन्त्रकम् ॥ 9.105 ॥
क्रमेण मन्त्राः कथ्यन्ते द्रव्य कुम्भाष्टके यथा ।
इन्द्राविष्णुपदे मन्त्रो मनीषापदलक्षितः ॥ 9.106 ॥
पषट्ते विष्णुरित्येत त्तिस्रो वाच इतीदृशः ।
इषेत्वोर्जेति मन्त्रेण 50 सावित्री त्वमसीति च ॥ 9.107 ॥
यस्मिन्विश्वानि विद्य च पर्जन्यायेति लक्षितः ।
एकाशीतपदे याम्ये स्नानं गन्धोदकैर्घटैः ॥ 9.108 ॥
नारायणानुवाकस्य ऋग्भिरष्टाभिरादितः ।
व्यस्ताभिरष्टभिस्स्नानं सर्वाभि र्मध्यमेन तु ॥ 9.109 ॥
दिग्भागे पश्चिमे ब्रह्म न्ने काशीति फटास्पदे ।
प्रागादि ब्रह्मभूम्यन्तं स्नानं 51 वाप्यादिभिर्जलैः ॥ 9.110 ॥
मन्त्राः क्रमेण वक्ष्यन्ते प्रतिद्रव्य घटाप्लवम् ।
या आप इति मन्त्रेण सिन्धुद्वीपेतिविद्यया ॥ 9.111 ॥
52 एते शतमृचा स्नानमिमं मे वरुणेति च ।
शं नो देवीरभीत्येष यासां राजेति 53 मन्त्रतः ॥ 9.112 ॥
समुद्र ज्येष्ठ मन्त्रेण यासां देवेति विद्यया ।
सूक्तेन वारुणेनैव स्नानं द्रव्य 54 घटैरि ति ॥ 9.113 ॥
एकाशीति घटे सौम्ये वूर्वाद्यब्जपदावधि ।
धान्यानि वस्तु कुम्भानां नवानां मन्त्र उच्यते ॥ 9.114 ॥
त्रातार मिन्द्रसाम्ना चमन्तश्चात्वा वहन्त्विति ।
मन्त्रोजितं त इत्येष आपो वहति लक्षितः ॥ 9.115 ॥
मन्त्रश्च तावती त्येष स त्वं नो अग्निरित्यृचा ।
त्वं नो अग्न इति च महाव्याहृतय स्तथा ॥ 9.116 ॥
अणोरणीयानित्यन्तो मन्त्रः स्नान विदौ क्रमात् ।
एकोन पञ्चाशत्कुम्भेष्वग्नेः कोणे यथाक्रमम् ॥ 9.117 ॥
गोमूत्रादि घटे स्नाने मन्त्राणं कथ्यते क्रमः ।
गायत्री प्रथमा तासां पयोव्रत मनन्तरम् ॥ 9.118 ॥
दधिक्राव्णेति च स्नानं गन्धद्वारामितीदृशम् ।
विष्णोरराटमिति च मूर्धानं दिव इत्यृचा ॥ 9.119 ॥
हिरण्यगर्भमन्त्रेण आप्यायस्वेति विद्यया ।
घृतस्ना तेति मन्त्रश्च घृतस्नानविधौ क्रमः ॥ 9.120 ॥
एकोनपञ्चाशत्कुम्भे पदे निरृतिगोचरे ।
मन्त्राःक्रमेण वक्ष्यन्ते वस्तुकुम्भेरथाप्लवे ॥ 9.121 ॥
रक्षोघ्नमिति सामाद्यं पवित्रन्त इतीति च ।
भगवान् वासुदेवेति सामवेदव्रताह्वायम् ॥ 9.122 ॥
55 वै राजसाम कथितं तथा चैव पराजिताः ।
कथ्यते वायुकोणेऽपि मन्त्रास्स्नासविदौ तथा ॥ 9.123 ॥
56 द्वादशाक्षरमन्त्रश्च द्रुपदा दिव इत्यसौ ।
अष्टाक्षराह्वयो मन्त्रश्शन्नोदेवीरिति स्मृतः ॥ 9.124 ॥
हिरण्यपाणिरिति च वेदाहमिति च क्रमात् ।
ईशानकोणे मन्त्रोक्ति रानोनियुरिति ? स्मृतः ॥ 9.125 ॥
श्रीसूक्तं मधु मान्नश्च मधुनक्त इतीति च ।
मधुवातेति कोणेषु मन्त्रक्लृप्तिरुदाहृता ॥ 9.126 ॥
ब्राह्मेपदे तु सूक्तस्य पौरुषस्यादितःक्रमात् ।
अष्टासु द्रव्यकुम्भानामष्टानां मन्त्र इष्यते ॥ 9.127 ॥
मध्यमे नवके पूर्वमष्टाभिश्शुद्धवारिभिः ।
स्नापयेन्मूलमन्त्रेण सहस्रेण घटैरिति ॥ 9.128 ॥
स्नापिते देवदेवेशे 57 पश्चाद्रत्नघटाम्बुभिः ।
नूक्तेन पौरुषेणैन स्नापयेद्देशिकस्स्वयम् ॥ 9.129 ॥
घटैश्शुद्धोदकैन्यैस्स्नपनं मूलविद्यया ।
हरिद्राचूर्णसंपूर्णैःपञ्चविंशतिभिर्घटैः ॥ 9.130 ॥
स्नपनं 58 सप्तदशभिर्यद्वाषोडशसंमितैः ।
यद्वा द्वादशभिः कार्यं नवभिर्वा यथावसु ॥ 9.131 ॥
आराध्य देवमुचितं निवेद्य च महाहविः ।
होमस्सहस्त्रेराज्येन समिद्भिर्मूलविद्यया ॥ 9.132 ॥
59 अन्नैश्छतुर्विधैश्चैव प्रत्यृचं पुरुषात्मना ।
सूक्तेन तुष्टिं वस्त्राद्यैर्दे शिकानामनन्तरम् ॥ 9.133 ॥
सहस्रकलशस्नाने तत्सङ्ख्या स्वर्णदक्षिणा ।
तदर्धमधवा पादो यथाश्रद्धं यथावसु ॥ 9.134 ॥
यावती दक्षिणा तेषां स्यादर्धमथ ऋत्विजाम् ।
सहस्रं ब्राह्मणा 60 नन्नैर्भोजयेद्दक्षिणामपि ॥ 9.135 ॥
तद्यात्तुष्टिकरीमन्यानागतानपि तोषयेत् ।
सेवां कुर्वन्तिये मर्त्याश्श्रद्धाभक्तिसमन्विताः ॥ 9.136 ॥
देवस्य स्नानसमये सहस्रकलशाम्बुभिः ।
गङ्गादि 61 सरितां स्नानफलमश्नुवते महत् ॥ 9.137 ॥
सहस्र कलशस्नाने यत्फलं राजराष्ट्रयोः ।
62 पूजन्ते तदशेषेण प्रागुक्तमिति नोच्यते ॥ 9.138 ॥
महोत्सवफलनैतत्किञ्चित्तुल्यफलं स्मृतम् ।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मे तन्त्रे चर्यापादे सपास्रकलशाभिषेक विधिर्नाम नवमोऽध्यायः.
-
सहस्रकलशानां च . ↩︎
-
विस्तीर्णम्. ↩︎
-
भागे. ↩︎
-
सूत्रपातेन. ↩︎
-
ऊना चैकोनपञ्चाश. ↩︎
-
मध्यमे मध्यमे. ↩︎
-
केनलेनैव. ↩︎
-
नवानां च. ↩︎
-
मिन्दुकान्तं च द्वयं ↩︎
-
द्रव्यस्य. ↩︎
-
भव्य. ↩︎
-
पाराव तान्वितम्, वासुदेवो मनः क्षुद्रपनसस्तु स देवता. ↩︎
-
मच्युतम्. ↩︎
-
जलदो वीरणी, जलजो विदारिणी, ततो विदिरणी. ↩︎
-
भाष्यते. ↩︎
-
रजो मूरं. ↩︎
-
वैकुंठगिरिजं मूलम्. ↩︎
-
मुकुन्दकृष्णधवलानगुरुश्च. ↩︎
-
वस्त्राणि. ↩︎
-
घटाग्रामे. ↩︎
-
तारकेषु च निक्षिपेत्. ↩︎
-
कलशे क्षिपेत्. ↩︎
-
मध्यमान्, इत्यादि श्लोकद्वयं क्वचिन्नदृश्यते. ↩︎
-
देवमर्चयित्वा च भार्गपम्. भाजनमिति च. ↩︎
-
शीतिघटे. ↩︎
-
मांस्याद्भिः, प्राच्यां स्यात् इत्यपि पाठः. ↩︎
-
मज्जनाम्बोभिः. ↩︎
-
कोणेषु. ↩︎
-
ननकैष्वेकैकां. ↩︎
-
अभ्यर्च्यः. ↩︎
-
त्व चस्समाः. ↩︎
-
कुन्दं च, पुष्पाण्येतानि—पुष्पाण्येतेषाम्. ↩︎
-
एकैकं मध्यकुम्भेषु. ↩︎
-
रेष्वपि. ↩︎
-
पूजा मधुरिपोः. ↩︎
-
ग्राह्यं. ↩︎
-
सम्भवच्छन्नं सम्भवं चिह्नं. ↩︎
-
कुठाकरम्. ↩︎
-
दिव्येष्टुनः दिव्येषुनः. ↩︎
-
पूर्व. ↩︎
-
द्विधिमुस्ता. ↩︎
-
पुष्पफलं. ↩︎
-
मुरम्. खुरम्. ↩︎
-
देव्यै. ↩︎
-
देनवत्पार्वो. ↩︎
-
विकर्ता च. सरक्ताच. ↩︎
-
सुरभिः. ↩︎
-
प्रविष्णुरिति मन्त्रेति. ↩︎
-
मुद्गेस्त्रीणि. ↩︎
-
स्तरिरित्वमितीति च. ↩︎
-
व्यापृतिभिर्जलैः. ↩︎
-
एष ते च ऋचा. ↩︎
-
मन्त्रकम्. ↩︎
-
घटेन तु. ↩︎
-
वैय्याघ्र. ↩︎
-
मन्त्रश्चाक्षरमन्त्र. ↩︎
-
पञ्चरत्न. ↩︎
-
पञ्चदशभिः. ↩︎
-
अन्नैश्चतुर्गुणैश्चैव. ↩︎
-
नन्ते. ↩︎
-
स्नानफलदमश्नुते महतोमहत्. ↩︎
-
प्रजानां तदशेषेण. ↩︎