.
महाभिषेकाख्य स्नपनम्
ब्रह्मा :—
राज्ञोराष्ट्रस्य मर्त्यानां यदभ्युदयसाधनम् ।
यच्चोत्पात प्रशमनं व्याधीनं चापनोदनम् ॥ 8.1 ॥
यदभिप्रेतमखिलं साधयत्य विलम्बितम् ।
कुर्वतां भगवन् तन्मे तदर्चन मनुत्तमम् ॥ 8.2 ॥
कथ्यतां मयि चेदस्ति दया परम पूरुष ।
रहस्यमपि तन्मह्य माख्येयं जगतो हितम् ॥ 8.3 ॥
श्रीभगवान् :—
महाभिषेको नामाग्र्यं स्नपनं 1 कमलासन ।
विषुवे सङ्क्रमे चैव ग्रहणे चायनद्वये ॥ 8.4 ॥
द्वादश्यां श्रवणे चैव तथा कर्तु स्त्रिजन्मसु ।
दिनत्रये व्यतीपाते रोहिण्यां च तिथित्रये ॥ 8.5 ॥
दर्शेच पौर्णमास्यां च पुनर्वस्वोर्विशेषतः ।
पञ्चम्यां शुभनक्षत्र तिथिवा रेषु चाब्जज ॥ 8.6 ॥
प्रयुज्यमानं सर्वार्थ साधनं सर्वशान्तिदम् ।
स्नपनत्रै विध्यम्
कर्तव्यं तत्त्रिधा ब्रह्मन्नुत्तमाधममध्यमम् ॥ 8.7 ॥
जात्युत्कर्षं धनोत्कर्ष मथवावेक्ष्यतत्त्ववित् ।
प्रयुञ्ञीतूत्तमं स्नान मितरेष्वितरद्भवेत् ॥ 8.8 ॥
अङ्कुरन्यासकौतुक बन्धाधिपासाः पूर्वेद्युस्सद्योवा
पूर्वेद्यु रङ्कुरन्यासो बध्वा कौतुकमङ्गलम् ।
अधिवासश्च बिम्बस्य सद्यो वा सकलं भवेत् ॥ 8.9 ॥
स्नपन प्रतिमाविकल्पः
स्नपनं 2 प्रतिमायास्स्यादधिवासश्च तुर्मुख ।
तीर्थप्रतिकृतौ वापि पूर्वालाभेऽधिवासयेत् ॥ 8.10 ॥
यद्वोत्स वार्थप्रतिमां बलिबिम्ब मथापिवा ।
बिम्बं कर्मार्थमथवा
उक्तबिम्बाभावे कुशकूर्चकम्
असत्त्सकुशकूर्चकम् ॥ 8.11 ॥
लेपमृण्मयादि प्रतिमाधिपासे विशेषः
लेपमृण्मयभित्तिस्थ पटस्थेषु च दर्पणम् ।
कूर्चं मूर्त्यन्तराभावेक्लुप्तिरेषा सनातनी ॥ 8.12 ॥
स्नपनमण्डप लक्षणम्
प्रासादस्या ग्रतःकुर्यात्ततस्स्नपन मण्डपम् ।
दशहस्त प्रविस्तारं द्विगुणेनायतं शुभम् ॥ 8.13 ॥
चतुर्द्वारं चतुर्दिक्षु चतुस्तोरण भूषितम् ।
सर्वावरण भूष्वेव दिक्षु सर्वासु वा भवेत् ॥ 8.14 ॥
क्लुप्ते वा मण्डपे कुर्या दवकाशानु सारतः ।
विभज्य तत्त्रिधा कुर्या त्तृतीयेऽoशेऽथ पश्चिमे ॥ 8.15 ॥
अवलम्ब्य ब्रह्मसूत्रं चतुरश्रं समन्ततः ।
चतुर्हस्तां स्नानवेदीं हस्तोत्सेधां शिलादिभिः ॥ 8.16 ॥
उपानहादिसंयुक्तां दर्शनीयां सलक्षणाम् ।
उपरिष्टाच्च वलयं वृत्तं वा चतुरश्रकम् ॥ 8.17 ॥
प्रादेशेन प्रविस्तीर्णं ततमष्टाङ्गुलेन वा ।
षडङ्गुलेन वा ब्रह्मन् चतुरङ्गुल मुन्नतम् ॥ 8.18 ॥
3 वेदिकोपरि तद्धारि कुल्यामाश्वभ्र मेदिनीम् ।
मृण्मयादिषु बिम्बेषु बहिर्वेदी प्रकल्पनम् ॥ 8.19 ॥
4 एकबेरे तु न बहिस्स्ना नवेदी प्रकल्पनम् ।
मण्डपालङ्कारः
दुकूलक्षौमवसनै र्मण्डपं सर्वतोदिशम् ॥ 8.20 ॥
शोभयेत्पूर्ण कुम्भाद्यैस्तो 5 रणैश्च विभूषयेत् ।
वेष्टयेद्दर्भ मालाभि र्मुक्तादामानि लम्बयेत् ॥ 8.21 ॥
आस्थानमण्डपे 6 स्थाने तथाचैवार्ध मण्डपे ।
गृहार्चायां विशेषः
तोरणादि न कर्तव्यं गृहर्चायां तथैव च ॥ 8.22 ॥
नित्यस्नपने अङ्करकौतुक चूर्णस्नपनादिनिषेधः
नित्ये च स्नपने नापि कौतुकं नाङ्कुरार्पणम् ।
निशाचूर्णैर्नस्नपनमिष्यते
अर्घ्यादि दीपान्तपूजासु उपकरणोपकल्पनम्
मण्डप [^7] स्थलम् ॥ 8.23 ॥
गोमयाम्बोभि 7 रालिप्य सुधाचूर्णैश्च शोभयेत् ।
दीपाना कोपयेत्तत्रन्यस्येद ङ्कुरपालिकाः ॥ 8.24 ॥
कोणे रौद्रे मण्डपस्य जलद्रोण्यादिभाजनम् ।
कल्पयेद्गालि तस्वादु सुगन्धि जलपूरितम् ॥ 8.25 ॥
पवमानादि भिस्सूक्तैर्मन्त्रितं सापिधानकम् ।
वेदिदक्षिणतो भूमा वुपस्नानाम्बु कल्पनम् ॥ 8.26 ॥
अर्घ्यादि दीपपर्यन्तं पूजाद्रव्याणि कल्पयेत् ।
चन्दनार्द्राणि सूत्राणि चतुर्दश निपातयेत् ॥ 8.27 ॥
प्रागायतानि तावन्ति सूत्राण्येव चतुर्मुख ।
उदगायतानि सन्त्येवं कोष्ठान्ये कोनसप्ततिः ॥ 8.28 ॥
शतं च तेषामा 8 याम विस्तारं षोडशाङ्गुलम् ।
धान्यपीठा नुरूपं वा कलशानां चतुर्मुख ॥ 8.29 ॥
दिक्ष्वष्टानु तथा मध्ये प्रत्येकं नव भूमिषु ।
नव कोष्ठानि कुम्भानां पदानि कमलासन ॥ 8.30 ॥
एकमेकाधिकाशीति कोष्ठानि कलशास्पदम् ।
अन्यान्यष्टोत्तराशीती रथ्यां सम्मृज्य कल्पयेत् ॥ 8.31 ॥
पीठिकोचितधान्य परिमाणम्
व्रीहिभिःपीठिकां कुर्यात्कोष्ठभूषु पृथक्पृथक् ।
आढकेन तदर्धेन तदर्धार्धेन 9 वा भवेत् ॥ 8.32 ॥
पीठिका धान्यतुर्यांशास्तण्डुलाः पीठिकोपरि ।
तत्तुर्यां शास्तिलास्तेषां भवेयुरुपरि स्थिताः ॥ 8.33 ॥
द्वौ द्वौ कु शाग्रौ 10 प्रत्यस्येत् पीठिकासुचतुर्मुख ।
कलशस्वरूपम्
सौवर्णा राजतास्ताम्रा मृण्मया वा यथावसु ॥ 8.34 ॥
कलशा लक्षणोपेताः पक्वबिम्बफलोपमाः ।
अच्छिद्रा स्स्वनव नश्च कालमण्डल वर्जिताः ॥ 8.35 ॥
अभिन्ना मृण्मयाःकुम्भाःपाषाण स्फोटवर्जिताः ।
कलशेषु पूरणीयद्रव्यमानम्
द्रव्यकुम्भा द्रोणपूर्णास्तदर्धेनाथवाऽथवा ॥ 8.36 ॥
पादेन कलशाश्शिष्टाः पूर्यावार्याढकेन तु ।
कुम्भानां सूत्रविष्टनम्
प्रक्षाल्य विष्णुगायत्र्या द्रव्यकुम्भांस्तथेतरान् ॥ 8.37 ॥
स्थापयित्वा करतले सव्येऽसव्येन पाणिना ।
11 इन्द्रमरुद्वमन्त्रेण तन्तुना परिवेष्टयेत् ॥ 8.38 ॥
कुम्भवेष्टने तन्तूनामन्तरालमानम्
तन्तूनां विष्टितानां स्या दन्तरालं यवा न्तरम् ।
अर्धाङ्गुलान्तरालं स्या द्यद्वैकाङ्गुल मन्तरम् ॥ 8.39 ॥
कलशास्पदमेदन्याःपश्चिमे धरणीतले ।
धान्यपीठं विधायास्मिन् कलशानधिवासयेत् ॥ 8.40 ॥
12 धान्यपीठे ततस्तस्मिन् कुशाना स्तीर्य विश्वतः ।
प्रागग्रानु दगग्रांश्च तेषु कुम्भानधोमुखान् ॥ 8.41 ॥
ओमित्युच्चार्य विन्यस्येन्नव भूषु यथोत्तरम् ।
13न्यस्ताना मपि कुम्भाना मुपरिष्टाद्यथापुरम् ॥ 8.42 ॥
दर्भांस्तृणी यादाचार्योमन्त्रेण परमेष्ठिना ।
प्रोक्षयेदर्घ्यतोयेन प्राङ्मुखः पुरुषात्मना ॥ 8.43 ॥
विश्वमन्त्रेण विरिरे दक्षता 14 न धिपासिते ।
उत्तानि तेषु कुम्भेषु निवृत्या 15 ह्वोनविद्यया ॥ 8.44 ॥
16सर्पिषा ष्टोत्तरशतं विष्णुगाय त्रियाकृते ।
होमे हुताज्य शेषेण स्नपनद्रव्यसेचनम् ॥ 8.45 ॥
घृतादिस्नपनद्रव्यै 17 र्वस्त्रपूतैः परिष्कृतैः ।
पूरयेत्क लशांस्तत्तन्मन्त्रेःपूर्णान् समुद्धरेत् ॥ 8.46 ॥
सर्वमन्त्रेण विश्वात्मन् कुम्भान् सप्तददश्धोतान् ।
द्रव्यकुम्भान् धान्यपीठे स्थापये द्विष्णुपूर्वया ॥ 8.47 ॥
गायत्र्या च चतुष्षष्टि द्वादशाक्षरविद्यया ।
उदकुम्भान् क्रमेणान्यान् प्रङ्मुखो वाप्युदङ्मुखः ॥ 8.48 ॥
कुम्भानां न्यासक्रमः
नवके मध्यमे स्थाने स्थावनी 18 यास्तु मध्यमे ।
घृतकुम्भं स्थापयित्वा पदेपौत्रामणे ततः ॥ 8.49 ॥
उष्णोदकुम्भं विन्यस्ये द्रत्न कुम्भ मनन्तरम् ।
फलकुम्भं यमपदे लोहकुम्भं तु नैरृते ॥ 8.50 ॥
प्राचेतसे मार्जनाम्भः कुम्भं गन्धाम्बुमारुते ।
अक्षताम्बु च कौ बेरे पदे शार्वे यपोदकम् ॥ 8.51 ॥
प्राच्यां तु कुम्भनवके मध्ये पाद्य घटं 19 स्यसेत् ।
अर्घ्य कुम्भं पदे याम्ये पदे प्राचेतसे पुनः ॥ 8.52 ॥
उपस्पर्शन पानीयं पञ्चगव्य मुदक्पदे ।
अग्नेय कुम्भनवके मध्ये दधि घटं न्यसेत् ॥ 8.53 ॥
नैरृते मध्यतःक्षीरं वायवीये घटं मधोः ।
कषाय कुम्भमैशाने सर्वत्र परितो घटान् ॥ 8.54 ॥
शुद्धोदकांश्चतुष्षष्टि मष्ठावष्टौ निवेशयेत् ।
सप्तभिः पञ्छभिर्वापि यद्वा दर्भौस्त्रिभिःकृतान् ॥ 8.55 ॥
कूर्चान् कुम्भेष्वपागग्रान् निक्षिपेल्ल क्षणान्वितान् ।
महा कुम्भे कुशैःकूर्चं चतुर्विंशतिभिः कृतम् ॥ 8.56 ॥
चक्रमन्त्रेण तान् 20 कुम्भान् शरावैरपिधान येत् ।
वासोभि र्द्रव्यकलशा न्युपासुपास इत्यृचा ॥ 8.57 ॥
कण्ठेषु वेष्टयेदन्यान् वासोभि स्छादयेन्नवैः ।
अधिपासितस्य देवस्योत्थापनम्
अधीयानैस्त्रयीविद्यां विद्वद्भि र्ब्राह्मणैस्सह ॥ 8.58 ॥
ऋत्विग्भि स्सहदेवस्य यायान्मन्त्र विदन्तिकम् ।
ऋत्विजो देवमुत्थाप्य गुरुश्चोत्तिष्ठ विद्यया ॥ 8.59 ॥
साम्नारथन्त राख्येन ब्रह्मयाने गुरुस्स्वयम् ।
स्थापयेदृत्विजैस्सार्धं ब्राह्मणै र्वेदपारगैः ॥ 8.60 ॥
स्नानासने निवेशनम्
शिभिकायां स्थापयित्वा मृद्वास्तरण कल्पिते ।
निवेशमेयुः प्रतिमां स्नान वेदितले 21 शुचौ ॥ 8.61 ॥
स्नानोपचाराः
पुण्याहं वा चयेत्पश्चात्पञ्चकाल परायणैः ।
अयुग्मैस्तोषयेद्वित्तैस्तान्विभूत्यनुसारतः ॥ 8.62 ॥
द्वारतोरण कुम्भादीन् समभ्यर्च्य यथापुरम् ।
द्वारेष्व ध्ययनं नृत्तं वाद्यं गेयं प्रवर्तयेत् ॥ 8.63 ॥
सर्पिषा जुहुयादगनौ यावत्कलशसङ्ख्यया ।
मूलमन्त्रेण जुहुया च्चरुं पुर्वेक्तसझ्ख्यया ॥ 8.64 ॥
नृ सूक्तेन समभ्यर्च्य कलशान् स्थापितान् गुरुः ।
अर्घ्यादि भिस्तथा देवं
घृतारोपणम्
घृतारोपण माचरेत् ॥ 22 8.65 ॥
दन्तकाष्ठं गन्धतैलं तथामलकवारि च ।
वस्त्रं दत्वाचोत्तरीय मर्घ्याद्यै 23 रर्चयेत्पुनः ॥ 8.66 ॥
दीपान्तमर्चनं कृत्वा पाद्यकुम्भ मुखै र्घटैः ।
घृतकुम्भान सानैश्च स्नापये 24 द्दे शिकोत्तमः ॥ 8.67 ॥
छिन्नैकतन्तु मुद्धृत्य पाद्यकुम्भं समर्चितम् ।
पुष्पैर्दद्यात्करतले देशिकेन्द्रस्य मूर्तिपः ॥ 8.68 ॥
कूर्चमादाय कुम्भस्थं 25 स्वहस्ते देशिकोत्तमः ।
अवागग्रेण कूर्चन तीर्धै र्ब्रह्मादि भिस्ततः ॥ 8.69 ॥
स्नपनमन्त्राणां निर्देशः
26शुभैर्वैष्णव गायत्र्यास्नापयेत्पाद्य वारिभिः ।
तद्विष्णुरितिमन्त्रेण स्नापयेदर्घ्यपारिभिः ॥ 8.70 ॥
न तेविष्णु रितिश्रुत्याकुम्भेनाचमनाम्बुना ।
विष्णोः क्रमेति मन्त्रेण पञ्चगव्याभिषेचनम् ॥ 8.71 ॥
दधिक्रा विण्णयजुषा दध्ना देवभिषेचनम् ।
साम्ना पयो पृतेनैव पयसा मधुना पुनः ॥ 8.72 ॥
मधुवातेति मन्त्रेण स्नपनं मधुविद्वषः ।
ओषध्य इतिमन्त्रेण 27 कषायाम्भोभिषेचनम् ॥ 8.73 ॥
28 तद्विष्णो रिति मन्त्रेण स्नानंमुष्णाम्बुधारया ।
फलिनीत्यनुवाकेन स्नपनं फलवारिभिः ॥ 8.74 ॥
शं नोदेवीरिति स्नानं मन्त्रिदैर्मार्जनाम्बुभिः ।
सावित्र्याक्षतपाथोभिस्त्रातार मिति सामभिः ॥ 8.75 ॥
रत्नोदकैर्लोहतोयैर्महाव्याहृतिविद्यया ।
गन्धद्वारेति मन्त्रेण स्नपनं गन्धवारिणा ॥ 8.76 ॥
शतधारेति मन्त्रेण स्नानं स्याद्यववारिभिः ।
29घृत स्नातेति मन्त्रेण घृतेन स्नपनं हरेः ॥ 8.77 ॥
अथवा पौरुषै स्सूक्तैःक्रमात्पा द्यादिपारिभिः ।
ऋग्भिष्षोड शभिस्स्नान मृचेदं विष्णुरित्यपि ॥ 8.78 ॥
अष्टाक्षरेण वा यद्वा द्वादशाक्षरविद्यया ।
विष्णुगायत्रिया वापि स्नानं यद्वा चतुर्मुख ॥ 8.79 ॥
स्वमूर्ति विद्यया वापि स्नपनं मधुविद्विषः ।
क्षालनं च घृत 30 स्नाने सामान्यै कुष्णवारिभिः ॥ 8.80 ॥
पाद्यादि द्रव्य कुम्भाना 31 मुद्धारेष्पन्तरा न्तरा ।
शुद्धोद कुम्भैरन्यैश्च स्नानमष्टभि रष्टभिः ॥ 8.81 ॥
अष्टाक्षरेण मन्त्रेण भवेद्देवस्य पद्मज ।
उपस्नानं तथा प्लोतं वस्त्रं चैपूत्तरीयकम् ॥ 8.82 ॥
अर्घ्यं पाद्यं तथाचामं 32 गन्धं पुष्पं च धूपकम् ।
दीपं चैतानि देयानि प्रतिद्रव्य 33 घटाप्लवम् ॥ 8.83 ॥
उद्धरेद्द्रन्व कलशान् विष्णुगायत्रिविद्यया ।
34शुद्धोदकांश्च कलशान् द्वादशाक्षर विद्यया ॥ 8.84 ॥
हरिद्रा तण्डुलै स्स्वर्ण चूर्णैः कुम्भान् ससूत्रकान् ।
पूरयेन्नव निर्दोषान् सप्तवा पञ्च वाथवा ॥ 8.85 ॥
त्रीण्येकं 35 कुम्भमथवा ते च स्थाप्याः परिव्यये ।
सापिधानेषु कुम्भेषु सकूर्चेषु समर्चयेत् ॥ 8.86 ॥
श्रियं कुम्भान् समुद्धृत्य श्रीसू क्तेनाभिषेचयेत् ।
चूर्णस्नानम्
पूर्णाहुतिर्यथा होमेचूर्णैस्स्नासं तथाभवेत् ॥ 8.87 ॥
तच्चूर्णधारणे फलम्
पासुदेवतनुभ्रष्टान् चूर्णान् परमपावनान् ।
येवहन्ति शिरोभिस्स्वैर्नरा निर्धूतकल्मषाः ॥ 8.88 ॥
तेयान्ति 36 वैष्णवं स्थानं पुनरावृत्तिवर्जितम् ।
अभिषेकजलपाने फलम्
अभिषेक जलं विष्णो र्ये पिबन्ति वहन्ति 37 वा ॥ 8.89 ॥
ते सर्वितीर्थाभिशेक फलमश्नुवते महत् ।
कृत्वा प्रदक्षिणं नत्वास्तुत्वा स्तोत्रेण देशिकः ॥ 8.90 ॥
तत स्सहस्र धाराभि स्स्नापयित्वा जनर्दनम् ।
नीराजनान्तमिष्ट्वैवं
अलङ्कारासनम्
ततोऽलङ्कार विष्टरे ॥ 8.91 ॥
यजेत मात्रादानान्तं मात्रासङ्ख्या परिव्ययः ।
मात्राद्रव्य परिमाणम्
खारिद्रोणं तदर्धं वा देयास्स्युर्देशिकाय ते ॥ 8.92 ॥
भोज्यासने भोज्यभेदः
चतुर्विधानि चान्नानि भोजयेद्भो जनासने ।
होमान्त मर्चयेद्देवं देशिकेन्द्रो यथाविधि ॥ 8.93 ॥
स्नपनान्ते ततो देवं सुखमासीन मासने ।
याचेत याजमानोपि सर्वमिष्टं जनार्दनम् ॥ 8.94 ॥
दक्षिणां देशिकेन्द्राय सुवर्णशतनिष्ककाम् ।
तदर्धं पादमथवा दद्याद्वि 38 त्तानु सारतः ॥ 8.95 ॥
कुर्यादा चार्यसात्सर्वं द्रव्यं पूजाङ्ग माहृतम् ।
वस्त्रादिकं तथान्येषां ऋद्विजां तुष्टिमावहेत् ॥ 8.96 ॥
नृत्तगेयरतानां च तथा स्वाध्यायशालिनाम् ।
ब्राह्मणानां यथा तुष्टि स्तथा 39 वित्तं विसर्जयेत् ॥ 8.97 ॥
स्नपनभेदनिरूपणम्
अथमोत्तममेतत्तुस्नपनं परिरीर्तितम् ।
कोणेषु कुम्भैर्द्वात्त्रिंशत्केवलोदकपूरितैः ॥ 8.98 ॥
तैर्विहीनं हरेस्स्नानं ज्ञेयन्त्वधममध्यमम् ।
शुद्धोद कुम्भेर्यद्धीनं सर्वेस्तदधमाधमम् ॥ 8.99 ॥
कुम्भेषु क्षेपणीयद्रव्याणि तन्मात्रा च
पाद्यकुम्भे तथा चार्घ्ये तथोपस्पर्शनाम्भसि ।
कुम्भे कषायफलयोः कुम्भे चाक्षतगन्धयोः ॥ 8.100 ॥
एकैकस्मिन् घटेष्वेषु द्रव्याणामष्टकं क्षिपेत् ।
पाद्यादिषु क्रमाद्द्रव्यं तत्प्रमाणं च कथ्यते ॥ 8.101 ॥
तुलसी च तथा पद्मं दूर्व च स्यात्तथाऽक्षतम् ।
श्यामूकं विष्णु 40 पर्णीं च भिल्वपत्राणि चन्दनम् ॥ 8.102 ॥
द्रव्याणि चन्दनं मुक्त्वा मुष्टिमात्राणि तत्फलम् ।
सिद्धार्थं चाक्षतं चैव कुशाग्रं च तथा फलम् ॥ 8.103 ॥
यवास्तिलाश्चन्दनं च प्रसवाश्च सुगन्धयः ।
41फलं सुपक्व मेतेषु चन्दनं च त्रिनिष्ककम् ॥ 8.104 ॥
शिष्टानि मुष्टिमात्राणि तक्कोलं 42 चम्पकस्य च ।
मुकुलं घनसारं च जातिरेलाफलानि च ॥ 8.105 ॥
लवङ्गत्वक्चन्दनं च पुष्पाणि सुरभीणि च ।
पलार्धपरिमाणानि प्रत्येकं कमलासन ॥ 8.106 ॥
शमीपलाशखदिरबिल्वाश्वत्थ 43 विकङ्कतम् ।
औदुम्बरं चन्यग्रोधश्शम्यादीनां त्वचः स्मृताः ॥ 8.107 ॥
प्रत्येकं पलमानास्स्युः कदली भेजपूरकम् ।
अम्रमामलकं भिल्वं नालिकेर 44 फलानि च ॥ 8.108 ॥
पनसं मातुलङ्गं च भिन्नान्येतानि निक्षिपेत् ।
नीवारवेणुशालीनां प्रियङ्गुयुवयोरपि ॥ 8.109 ॥
कङ्गुषाष्टिकयोश्चैव गोधूमस्य च तण्डुलाः ।
मुष्टिप्रमाणा विज्ञेयाः 45 कुङ्कुमं कोष्ठचन्दने ॥ 8.110 ॥
अगरूशीरमालानि ह्रिबेरं गिरिसम्भवम् ।
मांसी मुरं च प्रत्येकं पलमात्राणि पद्मज ॥ 8.111 ॥
माणिक्यं पद्मरागं च नीलं वज्रं च पुष्यकम् ।
प्रवालं मौक्तकं चैव तथा मरतकं क्षिपेत् ॥ 8.112 ॥
वैडूर्यं नवरत्नानि तानि रत्न घटो दके ।
रत्नकुम्भे निधातव्यवस्तूनि
सुवर्णं रजतं ताम्रं सीसकं त्रपुकं तथा ॥ 8.113 ॥
कांस्यमायससारं च सप्तलोहघटो दके ।
यपूदककुम्भे निधातव्यवस्तूनि तन्मात्रा च
प्रत्येकं निष्टमानानि रजनी सूर्यवर्तिनी ॥ 8.114 ॥
सहदेवी शिरीषं च सदा भद्रं कुशाग्रकम् ।
मार्जनानि षडेतानि मुष्टिमात्राणि निक्षिपेत् ॥ 8.115 ॥
यवा वेणुयवाश्चैव व्रीहयश्चेति तत्त्रिकम् ।
यपूदके निधातव्यं प्रत्येकं कुडुपं भवेत् ॥ 8.116 ॥
पञ्चगव्यं तदुपयोगि पात्रं च
पञ्चगव्यानि ग्रह्णीयास्मृत्पात्रे नूतने शुभे ।
गोमूत्रं गोमयं क्षीरं दधि सर्पिश्च पञ्चमम् ॥ 8.117 ॥
गोविशेषः
कपिलाया जराया ? वा पञ्चिगव्यं प्रशस्यते ।
तयोरभावे त्वन्यासां गवां गव्यं विधीयते ॥ 8.118 ॥
नार्ताया न च गर्भिण्या न वृद्धायाः कदा चन ।
नावत्साया उपादेयं धेनोर्मूत्रं शकृद्ध्वयम् ॥ 8.119 ॥
पञ्चगव्यस्य शुद्धिः
भूमिष्ठं गोमयं ग्राह्यं सोष्णं क्रिम्याद्यदूषितम् ।
निष्पीड्य सम्यग्गृह्णी याद्गोमयस्य रसं पुनः ॥ 8.120 ॥
सद्यस्तप्तं घृतं शुद्ध महोरात्रोषितं दधि ।
क्षीरं ग्राह्यमतप्तं च दशाह्ज्जन्मनः परम् ॥ 8.121 ॥
पञ्चगव्यस्य योजने प्रत्येकं मन्त्रः
गो मूत्रं विष्णुगायत्र्या गन्धद्वारेति गोमयम् ।
आप्याय स्वेति च क्षीरं दधिक्रा व्णेति वै दधि ॥ 8.122 ॥
घृतं शुक्रमसीत्येवं गव्यानि सह योजयेत् ।
विष्णुगायत्रिया यद्वा पञ्चोपनिषदै 46 स्तुवा ॥ 8.123 ॥
पञ्चगव्यस्याधि देवताः
परमेष्ठी शकृन्मन्त्रो गोमूत्रस्यतु पूरुषः ।
47 विश्वमन्त्रो भवेद्दध्नो निवृत्तिस्सर्पिषो भवेत् ॥ 8.124 ॥
पयसस्सर्वमन्त्रस्स्यात्सर्वेषा मष्टवर्णकम् ।
स्नपने पञ्चगव्यद्रव्यमानम्
दध्नि 48 द्विगुण माघारा त्पीयूषं त्रिगुणं ततः ॥ 8.125 ॥
षड्गुणं मूत्रमेतस्माच्छकृद्वारि चतुर्गुणम् ।
स्नवने कधितं मानम्
प्रोक्षणेपञ्चगव्यद्रव्यमानम्
प्रोक्षणे पञ्चकं समम् ॥ 8.126 ॥
प्राशने पञ्चगव्यद्रव्यमानम्
गोमयेन समं मात्रं दधिस्याद्द्विगुणं ततः ।
ततश्चतुगुर्णणं सर्पिस्सर्पिषोऽष्ट गुणं पयः ॥ 8.127 ॥
प्रशने पञ्चगव्यानां प्रमाण मिदमीरितम् ।
पञ्चगव्यमानन्यूनीभावे दोषः
द्रोणमानं पञ्चगव्यं घृतमानं च 49 ता दृशम् ॥ 8.128 ॥
तादृगेव दधि क्षीरं 50 तावदेव च माक्षिकम् ।
अर्धं पास्यादाढकं वान्यूनं चेदासुरं भवेत् ॥ 8.129 ॥
गृहोर्चायां पञ्चगव्यमानभेदः
गृहोर्चास्नपने न्यूनं 51 प्रस्थेनैव प्रकल्पयेत् ।
पाद्यादीनामुक्तद्रव्यालाभे प्रतिवापद्रव्याणि
पाद्ये द्रव्यान्तरालाभे दूर्वैवा र्घ्यो च सर्षपाः ॥ 8.130 ॥
शस्तमाचमनीये तु तक्कोलं मार्जनाम्भसि ।
सहदेवी गन्धतोये चन्दनक्षोद इष्यते ॥ 8.131 ॥
कषायतोये चाश्वत्थ श्शीतमुष्णोदरे सति ।
रत्नोदरे वज्रमेकं कदल्येका फलाम्भसि ॥ 8.132 ॥
सुवर्णं लोहपानीये शालि दण्डुलमक्षते ।
यपूदकघटेव्रीहिश्शस्यते कमलासन ॥ 8.133 ॥
पञ्चगव्यद्रव्यालाभे प्रतिवादद्रव्याणि
अलब्धे दधिनि क्षीरं क्षीरा भावे तु तद्दधि ।
मधुन्यलब्धे सर्पींषि तदलाभे भवेन्मधु ॥ 8.134 ॥
अलाभे पञ्चगव्यानां घृतमेवैकमिष्यते ।
पञ्चगव्येषु यस्यस्यादलाभ 52 स्तत्पदे घृतम् ॥ 8.135 ॥
मध्यमस्नपनम्
स्नपनं मध्यमं वक्ष्ये यथा तदव 53 धारय ।
मध्ये पूर्वोक्तकलश स्थापने विहिते सति ॥ 8.136 ॥
द्वौ द्वौ बहिस्ततः पङ्क्तीस्सम्मृज्य कमलासन ।
परितो 54 वीदिकाः कुर्या द्बहिस्ता भ्यो घटास्पदम् ॥ 8.137 ॥
55 पञ्चाशत मथैकोन कलशान् दिक्षु निक्षिपेत् ।
पूर्वादिषु प्रतिदिशं च तसृष्वम्बुजासन ॥ 8.138 ॥
चत्वारो द्रव्यकलशास्तेषु शुद्धोदकाः परे ।
56 गुळोदकं चेक्षुरसं नालिकेरजलं तथा ॥ 8.139 ॥
शान्तिवारि च पूर्वादौ क्रमान्न्यस्येच्चतुष्टयम् ।
गुळाभावे चेक्षुरसस्तस्त्याभावे गुळोदकम् ॥ 8.140 ॥
गुळमानं पलाशीति रर्धमर्धार्ध मेव वा ।
नालिकेर जलाभावे तत्थ्साने क्षीरमिष्यते ॥ 8.141 ॥
तुलसीवेणुनीवरयवाश्च श्वेतसर्षपाः ।
तिलाश्च षट् शान्तिकुम्भे द्रव्याणि तुलसी भवेत् ॥ 8.142 ॥
मुष्टिमात्रं द्रव्यमन्यत्पृथ 57 क्कुडुबसम्मितम् ।
तुलसीदलमन्येषामलाभे ग्राह्यमिष्यते ॥ 8.143 ॥
गुळोदकादि भिर्द्रव्यैस्स्नपने विहिते सति ।
कलशभेधेन स्नपनमन्त्रेभेदः
पाद्यादि द्रव्यकलशै र्घृतान्तै स्स्नापयेद्धरिम् ॥ 8.144 ॥
मधुवातेति मन्त्रेण स्नपनं गुळवारिणा ।
मधुनक्तमितिस्नान मैक्षवेन रसेन च ॥ 8.145 ॥
मधुमान्न इतिस्नानं नालिकेराम्भसा पुनः ।
वेदाहमितिमन्त्रेण शान्तिद्रव्य घटाम्बुभिः ॥ 8.146 ॥
जितं त इति शुद्धेन वारिणा स्नपनं हरेः ।
मध्यमोत्तममुद्दिष्टं मध्यमे मध्यमं पुनः ॥ 8.147 ॥
चतुर्भिर्द्रव्यकलशै स्स्नानं शुद्धोदकैर्विना ।
बहिष्ठैर्देवदेवस्य मध्यमाधम आप्लवः ॥ 8.148 ॥
सर्वैरेव द्रव्यकुम्भैस्सर्वैश्शुद्धोदकैर्विना ।
उत्तमं स्नपनम्
उत्तमं स्नपनं वक्ष्ये यथावदव 58 धारय ॥ 8.149 ॥
विदिक्षु दिक्षुवत्कुम्भास्थ्साप्याः पूर्वोक्तसङ्ख्यया ।
तेषु च द्रव्यकलशाश्चत्वारोऽन्ये चतुर्मुख ॥ 8.150 ॥
शुद्धोदका विदिश्यग्ने र्विन्यस्येन्मङ्गलोदकम् ।
इन्द्रवल्यङ्कु राश्वत्थपल्लवाश्च कुशेशयम् ॥ 8.151 ॥
एकपत्राम्भुजं कुष्ठं कुङ्कुमं रोहिण द्रुमम् ।
पुण्यास्सु मनसश्चाष्टौ यूधिका मल्लिकापि च ॥ 8.152 ॥
त्रीण्युत्पलानि जातिश्च चम्पकं केतकी तथा ।
द्रव्याणि मङ्गलानीति प्रस्यीन्मङ्गलपाथसि ॥ 8.153 ॥
अङ्कुरद्वयमेकैर् मेकपत्रं च पङ्कजम् ।
मुष्टिमात्रं सुमनसश्छैकैकं चन्दनादिकम् ॥ 8.154 ॥
पलं पृथक्पृथक्कुम्भे नैरृते सकलौषधीः ।
मांसी कुष्ठं हरिद्रे द्वेमुरा शैलेयचम्बके ॥ 8.155 ॥
मुस्ता वचा च कर्पूरं प्रत्येकं पलसम्मितम् ।
पिष्ट्वा सर्वैषदिघटे निक्षिपेत्कमलासन ॥ 8.156 ॥
वायवीये सर्वगन्ध द्रव्याणां क्षेपणं घटे ।
कर्पूरं कुङ्कुमं कुष्ठं मांसी मलयजं मुरम् ॥ 8.157 ॥
प्रियङ्गु केसरं मुस्ता तमालं नागकेसरम् ।
मालद्वयं चकच्चोरं सुरपर्णिकरेसरम् ॥ 8.158 ॥
उशीरं तगरं लोध्रं तथैव हरिचन्दनम् ।
अगुरुद्वयं सितं कुष्ठं कालेयं ग्रन्थिपल्लवम् ॥ 8.159 ॥
मुकुलं 59 चम्पकस्येति प्रत्येकं पलसम्मितम् ।
चूर्णीकृतं समस्तं च न्य स्येद्गन्धोदके घटे ॥ 8.160 ॥
मालौषधिघटे शार्वे मालौषधिसमर्पणम् ।
व्याघ्रीसिंही बला चाग्निश्शरपुङ्खा शतावरी ॥ 8.161 ॥
बिल्वमूलं वचा शुण्ठी कोरण्डं शतमूलिका ।
प्रत्येकं पलमानान्स्युः 60 पिष्ट्वा कुम्भे विनिक्षिपेत् ॥ 8.162 ॥
मङ्गलोदकवस्तूनामलाभे चन्दनं वरम् ।
सर्वौषधीनामेतासामलाभे कुष्ठमिष्यते ॥ 8.163 ॥
अलाभे सर्वगन्धानां शस्यते चन्दनं वरम् ।
मालौषधीनां सर्वासामलाभे शस्यते बला ॥ 8.164 ॥
अधिदैवं समभ्यर्च्य उद्धृत्य स्नापयेत्क्रमात् ।
पूर्वादिदिक्षु प्रथममाग्नेयादि ततःपरम् ॥ 8.165 ॥
विष्णोर्नुकमिति प्रोच्यस्नापयेन्मङ्गलाम्भसा ।
ओषध्य इति मन्त्रेण सर्वैषधिजलेन च ॥ 8.166 ॥
नारायणानुवाकेन सर्वगन्धाम्बुभिर्हरिम् ।
या ओषधीतिमन्त्रेण मालौषधिजलै स्ततः ॥ 8.167 ॥
61 अस्त्रशुद्धोदकैस्स्नायाद्द्विद्ययाष्टाक्षरात्मना ।
पाद्यपूर्वंघृतान्तंच 62 स्नानं देवे यथापुरम् ॥ 8.168 ॥
उत्तमोत्तममेतत्तुस्नपनं परिकीर्तितम् ।
उत्तममध्यमस्य उत्तमाधमस्य च स्नपनस्यविधिः
अर्धशुद्धोदकैर्हीनं भवेदुत्तममध्यमम् ॥ 8.169 ॥
सर्वशुद्धोदकैर्हीन मुत्तमाधम मिष्यते ।
स्नपनभेदे कलशसङ्ख्याभेदः
विंशतिः पञ्च च ब्रह्मन् सङ्क्ष्केपे कलशा मताः ॥ 8.170 ॥
चतुश्शतं च विस्तारे सप्ततिश्च त्रि रुत्तरम् ।
कुम्भद्रव्याणा मधिदेवताः
द्रव्याणा मथ सर्वेषां कथयाम्यधिदेवताः ॥ 8.171 ॥
घृतस्य परमात्मा च वासुदेवोऽधिदेवता ।
उष्णोदकुम्भे पुरुष स्सत्यस्स्यात्तु फलोदके ॥ 8.172 ॥
अच्युतो मार्जने देवस्त्वनन्तश्चाक्षतोदके ।
रत्नोदके केशवस्स्याल्लोहे नारायणस्म्सृतः ॥ 8.173 ॥
गन्धोदके माधवस्स्याद्गोविन्दस्स्याद्यवोदके ।
पाद्योदके भवेद्विष्णु रर्घ्ये च मधुसूदनः ॥ 8.174 ॥
त्रिविक्र मस्तथा चामे पञ्चगव्येषु वामनः ।
दधिनि श्रीधरो देवो हृषीकेशः पयस्यपि ॥ 8.175 ॥
मधुनः पद्मनाभस्स्याद्दामोदरः कषायके ।
गुळोदके वराहस्स्यात् नृसिंहश्चैक्षवोदके ॥ 8.176 ॥
श्रीधरो नालिकेरस्य हयास्य श्शान्तिवारिणः ।
वासुदेवो मङ्गलस्य कुम्भस्य कमलासन ॥ 8.177 ॥
सर्वैषध्यम्बुकलशे देवस्सङ्कर्षणस्म्सृतः ।
प्रद्युम्न स्सर्व गन्धस्य मालौषध्येऽनिरुद्धकः ॥ 8.178 ॥
मूर्तिरेतेषु कुम्भेषु साङ्गपीठं समर्चयेत् ।
63 शुद्धोदकेषु सर्वेषु नारायणसमर्चनम् ॥ 8.179 ॥
धान्यानां कलशानां च देवता स्याद्वसुन्धरा ।
कुर्चानां दैवतं चास्त्रं चक्रकाणां सुदर्शनम् ॥ 8.180 ॥
पाससो दैवतं विष्णु स्सर्वेषां वा जनार्दनः ।
नवसु स्नपनेषु शक्त्यनुसारतः करणेऽनुज्ञा
इत्येवं स्नपनं प्रोक्तं नवधा तव पद्मज ॥ 8.181 ॥
एषामन्य 64 तमेन स्यात्स्नानं वित्तानुसारतः ।
तिथ्यादिबेदेन स्नपनभेदः
पञ्चम्यां स्नपनं विष्णो र्यथोक्त फलमश्नुते ॥ 8.182 ॥
त्रिजन्मर्क्षे दशगुणं श्रवणे द्विगुणं भवेत् ।
त्रिगुणं शशिनः 65 पूर्तौ क्षये शतगुणं भवेत् ॥ 8.183 ॥
चतुर्गुणं स्याद्द्वादश्यां त्रिगुणं तारकात्रये ।
सङ्क्रान्त्यां षड्गुणं 66 चैव विषुवे त्रिगुणं भवेत् ॥ 8.184 ॥
अयने दक्षिणे स्नान मेकं शतगुणं भवेत् ।
अयनेऽन्यत्र विहिते सहस्रगुण आप्लवः ॥ 8.185 ॥
विदौ विधुन्तुदग्रस्ते स्नानं त्रिंशद्गुणं हरेः ।
सूर्ये शतसहस्रं तु युगान्ते कोटिसम्मितम् ॥ 8.186 ॥
अनन्तं स्याद्व्यतीपाते कालेष्वेतेषु पूजनम् ।
अनन्तरोक्तफलदं कल्पते चतुरासन ॥ 8.187 ॥
अष्टोत्तरशतकुम्भस्नपनम्
अष्टोत्तरेण कुम्भानां शतेन कमलासन ।
स्नपनं कथ्यते विष्णो र्यथावदवधार्यताम् ॥ 8.188 ॥
ब्राह्मदिव्य 67 मानुषेषु भागेषु त्रिषु भागयोः ।
आद्ययोः स्फालयेत्सूत्राण्येकादश पृथक् क्षितौ ॥ 8.189 ॥
प्रागायतानि तिर्यक्च तत्र मध्ये च दिक्षु च ।
चत्वारि चत्वार्यष्टासु कुम्भस्थानानि वीधिकाः ॥ 8.190 ॥
अन्यानि कुर्यादेवं चषट्त्रिंशत्कोष्ठकं भवेत् ।
तत्र कुम्भां स्तोयपूर्णान् विन्यसेन्मानुषे 68 पदे ॥ 8.191 ॥
भागे नव नवाशासु कुम्भानष्टसु कल्पयेत् ।
अष्टोत्तरशतं कुम्भास्संपद्यनैतथा सति ॥ 8.192 ॥
ब्राह्मे तु मध्यमे स्थाने कलशानां चतुष्टये ।
एकस्मिन् द्रव्यमाघारं शिष्टं शुद्धोदकं त्रिकम् ॥ 8.193 ॥
दिव्ये तु भागे प्राचीने कलशानां चतुष्टये ।
एकस्मिन्नुष्णमु दकं दिश्यग्ने रत्नशम्बरम् ॥ 8.194 ॥
याम्येफलोदकं लौहं नैरृत्यामथ वारुणे ।
मार्जनं वायुभागेतु गन्धतोय 69 मुदग्दिशि ॥ 8.195 ॥
अक्षतोदकमीशाने यवम्भःकथिता नव ।
द्रव्यकुम्भा बहिर्भागे मानुषे 70 पूर्ववत्पदे ॥ 8.196 ॥
पाद्यादि द्रव्यकलशाः पूर्वादिषु यथोदिताः ।
कल्पनीया यथापूर्वमुद्दृत्य स्नावयेत्क्रमात् ॥ 8.197 ॥
एकोनपञ्चाशत्कुम्भस्नपनम्
कुम्भैरेकोनपञ्चाश 71 त्सङ्ख्क्यैरन्यदुदीर्यते ।
चन्दनार्द्राणि सूत्राणि दश प्रागायतानि च ॥ 8.198 ॥
तथोदगायतानि न्युस्थ्साप्यानि कमलासन ।
मध्ये नवसु कोष्ठेषु विन्यसेत्कलशान्नव ॥ 8.199 ॥
दिक्षु प्रतिदिशं कुम्भान् षट्सु कोष्ठेषु तावतः ।
विन्यसेच्च तुरः कुम्भान् विदिक्ष्वपि पृथक्पृथक् ॥ 8.200 ॥
वीधयोऽन्यानि कोष्ठानि द्रव्याणि च यथापुरम् ।
पञ्चविंशतिकुम्भस्नपनम्
कुम्भानां पञ्चविंशत्या स्नानमन्यदुदीर्यते ॥ 8.201 ॥
पूर्ववद्दश सूत्राणि स्फालयित्वा भुवस्थ्सले ।
मध्ये नवसु कोष्ठेषु नवकुम्भान् प्रकल्पयेत् ॥ 8.202 ॥
प्रागादिदिक्षु प्रत्येकं कलशां स्त्रीन्प्र कल्पयेत् ।
आग्नेयादिषु कुम्भानां कोणेष्वेकैकल्पनम् ॥ 8.203 ॥
द्वौ द्वौ पुर्वादिषु घटौ पार्श्वतः केवलोदकौ ।
अष्टा तान्वर्जयित्वान्ये द्रव्यकुम्भा यथोदिताः ॥ 8.204 ॥
मध्यमे कुम्भनवके यथोक्त द्रव्यपूरणं ।
गन्धद्रव्यैः पूरयेद्वाकलशान्वञ्चविंशतिम् ॥ 8.205 ॥
चन्दनागुरु काश्मीर कुष्ठ तगर वीरणैः ।
असितागुरुणा चापि हरिचन्दनवारिणा ॥ 8.206 ॥
ह्रीभेरकर्दमेनापि नवमेन घटान्नव ।
मध्यादीशानपर्यन्तं पूरयेत्कमलासन ॥ 8.207 ॥
तमालसितकुष्ठाभ्यां सुरपर्णीरजः कणैः ।
कर्पूरनागसुमनोमुस्ताचम्पककुट्मलैः ॥ 8.208 ॥
प्रिङ्गुपुष्पकालेयग्रन्धिवल्लवभीजकैः ।
मांसीखर्जूरशैलेय ह्रीबेरैश्च सुरद्रुमैः ॥ 8.209 ॥
मुरेण तैर्यथा योगं बहिष्ठानपि षोडश ।
हित्वा बहिर्वि दिक्कुम्भान् यद्वान्यैस्स्नापयेद्धरिम् ॥ 8.210 ॥
स्फालयेन्नव सूत्राणि यथा पूर्वं भुवस्थ्सले ।
ब्राह्मस्थाने चतुष्कोष्ठे विन्यसेच्चतुरो घर्टा ॥ 8.211 ॥
द्वौ द्वौ स्यातां च पूर्वादि 72 दिक्ष्वौकैकं विदिक्षु च ।
रत्नं लोहं तथा गन्धमाघारं च यथा क्रमम् ॥ 8.212 ॥
द्रव्याणि कुम्भेष्वाग्नेय कोणादि स्थेष्वनु क्रमात् ।
बहिरैन्द्र पदे कोष्ठे द्वयोःकलशयोर्यथा ॥ 8.213 ॥
पाद्यमर्घ्यं तथाग्नेय कोणे दधिघटो भवेत् ।
याम्ये चाचमनीयं प्राक्सञ्चगव्यं 73 च पश्चिमे ॥ 8.214 ॥
कोणे तु नैरृते क्षीरं पश्चिमे तु घटद्वये ।
दक्षिणेऽक्षतमन्यत्र मार्जनाम्भस्तथानिले ॥ 8.215 ॥
कोणे मधु तथा सौम्ये कषायां च कुशोदकम् ।
यपोदकं शार्वकोणे 74 द्रव्यैः पद्यादिभिः क्रमात् ॥ 8.216 ॥
युग्भिष्टोडशभिस्सूक्तैः पौरुषै स्स्नापयेद्धरिम् ।
कुम्भैर्द्वादशभिर्वापि चतुर्भिर्मध्यमस्थितैः ॥ 8.217 ॥
कत्नेन लोहेन तथा सर्वगस्थेन सर्पिषा ।
पूर्तैर्बहिरिन्द्रादि कोष्ठस्थैरष्टभिर्घटैः ॥ 8.218 ॥
प्राचीमारभ्य पाद्येन दध्यर्घ्यक्षीरपूरितैः ।
तथैपाचमनीयेन मधुना पञ्चगव्यकैः ॥ 8.219 ॥
फलोदकेन यद्वान्यैर्द्रव्यैर्द्वादशसम्मितैः ।
मध्येऽग्नि कोणे कोष्ठेन नैरुतेऽगुरुणाऽनिले ॥ 8.220 ॥
ग्रन्धिपल्लवभीजेन शार्वे मलयजाम्भसा ।
बहिःक्रमेण पूर्वादि दिक्ष्वाष्टासु चतुर्मुख ॥ 8.221 ॥
काश्मीरजेन मांस्या च तमालेन मुरेण च ।
मूलेन पर्वतोत्थेन सुरवर्णीरजःकणैः ॥ 8.222 ॥
चम्पकप्रसनक्षोदैः शर्जूरेण प्रपूरितैः ।
कलशैस्स्नापयेद्देवं नवभिर्वा विधेःपदे ॥ 8.223 ॥
75 प्रागादिदिक्षु चाष्टानु क्रमेणाज्येन वस्तुना ।
पाद्येन दध्ना चार्घ्येण क्षीरेणाचमनाम्बुना ॥ 8.224 ॥
मधुना पञ्चगव्येन फलेनापि च पूरितैः ।
रत्नैर्वा नवभिपूर्णैः कुम्भैर्नवभिर्लावः ॥ 8.225 ॥
पञ्चभिर्वा घटैर्मध्ये दिक्षु 76 प्रागादिषु स्थितैः ।
मणिभिश्च प्रवालैश्च मुक्ताभिःपूरितैःक्रमात् ॥ 8.226 ॥
वज्रवैडूर्य 77 शकलैर्लोहैर्वा पञ्चभिश्शुभैः ।
पञ्चामृतैर्वा मधुना गुळेनाज्येन 78 पूरयेत् ॥ 8.227 ॥
दध्ना च पयसा यद्वा पञ्चगव्यैःक्रमाद्भवेत् ।
एकेन वाहरेस्स्नानं द्रव्यैः पूर्वोदितैर्भवेत् ॥ 8.228 ॥
व्यस्तैस्समस्तैर्वा वित्तं देशकालानुसारतः ।
देया च दक्षिणा स्वर्णनिष्काःकलशम्मिताः ॥ 8.229 ॥
अर्धं पादं तदर्धं वा यथावित्तानुसारतः ।
स्नपनं दक्षिणाहीनं निष्फलं फलकामिनः ॥ 8.230 ॥
कर्तुस्तस्माद्दक्षिणा च देयाऽल्पापि फलार्थिभिः ।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे महाभिषेकोनामाष्टमोऽध्यायः.
-
मम संमतम्. ↩︎
-
स्नपनं प्रतिमायां. ↩︎
-
वेदिरो परि चाधारा कुल्यामा. ↩︎
-
“एकबेरे” इतीदमर्धं क्वचिन्न ↩︎
-
तोरणानि. ↩︎
-
मण्डपस्थाने. ↩︎
-
रालिपै. ↩︎
-
यामं विस्तारं. ↩︎
-
भावयेत्. ↩︎
-
प्रत्यस्य वीधिकासु. ↩︎
-
इन्द्रंनत्वेतिमन्त्रेण. ↩︎
-
धान्यपीठे. ↩︎
-
नवानामपि. ↩︎
-
न्यधिपासयेत्. ↩︎
-
ह्वय. ↩︎
-
“सर्पिषा” इत्यतः पूर्नं. “आह्वानविद्यया” इत्यतः अनन्तरं केषु चित्कोशेषु अधिकपाठतया श्लोकद्वयं दृश्यते. तत्र तस्य सङ्गतिं प्रामाणिका विभानयस्तु. यथा—अस्थिरत्नं सिरा तन्तुर्मांसं मृत्स्ना प्रकीर्तितम् । शोणइतं कर्तमृद्भस्तु जलं मेदस्तथैन च ॥ कूर्चं वै शुक्लमित्युक्तं चर्मणाम्बरवेष्टनम् . तत्तत्प्रतिकृतिर्जीनः क्रमादेनं स्मरेद्बुधः ॥—इति, ↩︎
-
रस्त्र. ↩︎
-
ये तु. ↩︎
-
पदे. ↩︎
-
सर्वान् शरावेणापि. ↩︎
-
शुभे ↩︎
-
“आचरेत्”॥ इत्यनन्तरं. “सप्तधातूनि देहानां कुम्भेषु कल शेषुच । सर्वतस्संस्मरेद्भ्रह्मन्नाचार्यस्तदनु प्रभोः” इतीदंपद्यंक्वचित्. कोशे परं वर्तते ॥ ↩︎
-
धूपयेत्पुनः. ↩︎
-
देशिकःक्रमात् ↩︎
-
तद्धस्ते. ↩︎
-
शुद्धैः. ↩︎
-
कषायौरभिषेचयेत्. ↩︎
-
त्वं विष्णुरिति. ↩︎
-
घृतनत्येति. ↩︎
-
स्नानैः. ↩︎
-
मुत्तरेषु. ↩︎
-
फलं पुष्पं च. ↩︎
-
घटाप्लवे. ↩︎
-
`शुद्धोदक’ इत्यर्धक्वचिन्नास्ति. ↩︎
-
त्रीण्येन. ↩︎
-
परमं. ↩︎
-
च. ↩︎
-
द्यानु. ↩︎
-
वित्तविसर्जनम्. ↩︎
-
पर्णंच. ↩︎
-
फलेषु पक्वमेष्वेम्. ↩︎
-
चन्दनस्य च. ↩︎
-
विकङ्कताः ↩︎
-
फलं तथा. ↩︎
-
चन्दनं कुष्ठकुङ्कुनुम्. कुङ्कुमौ. ↩︎
-
स्समम्. ↩︎
-
बिम्बमन्त्रो. ↩︎
-
दध्नो. ↩︎
-
तत्समं. ↩︎
-
तादृगेव. ↩︎
-
प्रस्थमानेन. ↩︎
-
स्तत्कृते. ↩︎
-
धार्यताम्. ↩︎
-
वेदिकाः. ↩︎
-
पञ्चाशतमथैकेन कलशानां विनिक्षिपेत्. ↩︎
-
गुडशब्दे डकारस्थाने. `ळ’ इति प्रतिवापः प्राचीनकोशेषु दृश्यते. ↩︎
-
क्कुण्डाम्बु. कुसुम. ↩︎
-
धार्यताम्. ↩︎
-
चम्पकं चेति. ↩︎
-
पुष्पकुम्भे. ↩︎
-
अत्र. ↩︎
-
स्नायाद्देवम्. ↩︎
-
गन्धोदकेषु सर्वत्र. ↩︎
-
तमं तु. ↩︎
-
प्रोक्तम्. ↩︎
-
विद्धि. ↩︎
-
मनुष्येषु. ↩︎
-
पुनः. ↩︎
-
मुदक्पुनः. ↩︎
-
पूर्वसद्भवेत्. ↩︎
-
त्कलशैरन्यदीर्यते. ↩︎
-
दिक्षुचैको दिक्षुचैव. ↩︎
-
तु. ↩︎
-
पाद्यद्रव्यादिभिः. ↩︎
-
`प्रागादि’ इत्यर्धं क्वचिन्न. ↩︎
-
पूर्वादिषु. ↩︎
-
कलशैः. ↩︎
-
पूरितैः. ↩︎