चक्राब्जमण्डलन्यासः
ब्रह्मा :—
भगवन् कथ्यतां कीदृक् चक्राब्जं नाम मण्डलम् ।
यदाराध्यं समाराध्य तरन्ति भववारिधिम् ॥ 7.1 ॥
श्रीभगवान् :—
चतुर्भिर्याज्ञिकैः काष्ठैष्षडङ्गुल घनैश्शुभैः ।
द्वादशाङ्गुल विस्तारै राकारं चतुरश्रकम् ॥ 7.2 ॥
मण्डलानुगुणायामविस्तारं परिकल्पयेत् ।
अष्टतालायतान् स्तम्भान् सुवृत्तां श्चतुरस्तथा ॥ 7.3 ॥
1 सन्निकृष्टस्य कोणेषु चतुर्ष्वेतस्य मङ्गलान् ।
स्थापयेदुपरिष्टाच्च 2 स्तम्भानां सन्नि 3 वेशयेत् ॥ 7.4 ॥
4 चत्वारि चैव दारूणि यथापूर्वेक्त लक्षणम् ।
5 तच्चतुष्कं च दारूणां वितानध्वजमालया ॥ 7.5 ॥
भूषये त्परितो मुक्तादामानि च विलम्बयेत् ।
शुद्धया च मृदाधस्ताच्चतुष्कोष्ठस्य चान्तरम् ॥ 7.6 ॥
पूरये 6 दन्तरं तस्य गोमयेनोपलेपयेत् ।
चक्राब्जादीनि बिम्बानि कुर्यात्तत्र महीतले ॥ 7.7 ॥
तेषामा यामविस्तारा विष्येते हस्तसम्मितौ ।
द्विगुणौ त्रिगुणौ वापि स्याता मथ चतुर्गुणौ ॥ 7.8 ॥
यद्वापञ्छ गुणौ ब्रह्मन्नवकाशानु 7 सारतः ।
चन्दनार्द्राणि सूत्राणि प्रञ्चि सप्तदशक्षितौ ॥ 7.9 ॥
निपात येत्तधोदञ्चितावन्ति कमलासन ।
षट्पञ्चाशत्समधिके सन्त्येव द्वेशते पुनः ॥ 7.10 ॥
कोष्ठानि सन्ति तत्रान्तष्षट्त्रिंशत्कोष्ठ मध्यतः ।
स्थापयित्वाततश्शङ्कुं भ्रामये त्सूत्रवर्त्मना ॥ 7.11 ॥
पञ्चवृत्तानि बिम्बानि समान्येकं तु मध्यमम् ।
कर्णिकाक्षेत्रमेतस्माद्बहिर्बिम्बं त्रिधा पुनः ॥ 7.12 ॥
विभज्य सूत्रमार्गेण प्रथमा केसरावनिः ।
दलभूमिर्द्वितीया तु तृतीया नाभिमण्डलम् ॥ 7.13 ॥
तदेकं द्विविधं वापि त्रिविधं सूत्रवर्त्मना ।
विभजेन्नाभि भूभागाद्बहिर्द्वे मण्डले भत् ॥ 7.14 ॥
अरक्षेत्रं बहिर्नेमिभूरेकं मण्डलं भवेत् ।
कोष्ठैरथाष्टविंशत्यापरितो बहिरासनम् ॥ 7.15 ॥
चतुरश्रं भवेत्कोष्ठैरशीत्यावीधिका बहिः ।
पङ्त्किद्वयेन 8 विश्वात्मन् चतुरश्राद्बहिःपुनः ॥ 7.16 ॥
कोष्ठानि द्वादशाधिक्यं शतं पङ्क्तिद्वये भवेत् ।
प्रत्याशं तेषु कोष्ठेषु चतुर्द्वारं प्रकल्पयेत् ॥ 7.17 ॥
कोष्ठेश्चतुर्भिःप्रत्येकं द्वयोः पङ्त्क्योश्चतुर्मुख ।
चतुर्षु कोणेषु तथा प्रत्येकं शङ्खसिद्धये ॥ 7.18 ॥
कोष्ठध्वयं तु सम्मार्ज्यं द्वयोःपङ्त्क्योश्चतुर्मुख ।
प्रतिद्वारं तदभ्यर्णे पार्श्वयो रुभयोरपि ॥ 7.19 ॥
अर्थ 9 शोभा प्रसिद्यर्थं बाह्यानन्तर रथ्ययोः ।
द्वे द्वे कोष्ठे बहिःपङ्त्क्या 10 मैकैकं तदनन्तरम् ॥ 7.20 ॥
सम्मार्ज्य मेवं शोभार्थमेकैकं बहिरन्यतः ।
त्रीणि त्रीणि च कोष्ठानि मार्जनीयानि पद्मज ॥ 7.21 ॥
उपशोभार्थमप्येवं व्यत्यासेन चतुष्टयम् ।
सम्मार्जनीयं कोष्ठानां विनियोगः 11 प्रदर्शितः ॥ 7.22 ॥
यद्वापीठादिनिर्माणं विना कोष्ठानि विंशतिः ।
शतद्वयं च परितः 12 परिमृज्य चतुर्मुख ॥ 7.23 ॥
आदिपद्म प्रमाणेन कुर्यादावरणत्रयम् ।
चतुर्दिशं चतुर्द्वार कल्पनं पद्ममानतः ॥ 7.24 ॥
यद्वैक 13 वलजं कुर्यादभीष्टदशि पद्मज ।
द्वादशाब्जानि कल्प्यानि प्रत्यावरणकल्पनम् ॥ 7.25 ॥
चतुर्षु कोणेष्वेकैकं द्वे द्वे 14 वलज पार्श्वयोः ।
दलैर्द्वादशभिर्युक्तं कर्णिकाके सरान्वितम् ॥ 7.26 ॥
आदिपद्मार्धमानेन पद्मजातं प्रकल्पयेत् ।
मध्यमे पङ्कजे बिन्दून् कर्णिकायां प्रकल्पयेत् ॥ 7.27 ॥
द्वादशा 15 ब्बजरेखाश्च शतं च नवतिं तथा ।
केसरोर्व्यां पिधायान्वग्दलक्षेत्रे प्रकल्पयेत् ॥ 7.28 ॥
विदिक्षु दिक्षु च तथा चतस्रो विंशतिं तथा ।
रेखे द्वे द्वे दलानि स्युस्सूच्य 16 ग्रवदनन्तरे ॥ 7.29 ॥
प्रदर्शयेदुपदलान्न्यरक्षेत्रे दिशःप्रति ।
अरे द्वे द्वे विहिक्षु स्यादेकैकं द्वाशशारता ॥ 7.30 ॥
अराणिन्दीवरदलैस्तुल्यान्यब्जपलाशवत् ।
यद्वा यपोदराभानि मातुलुङ्ग 17 समानि च ॥ 7.31 ॥
पिपीलिकोदराभानि परस्परमानि च ।
अन्तरालानि चै तेषां तुल्यमानानि पद्मज ॥ 7.32 ॥
ईदृशं मण्डलं शस्तं पासुदेव समर्चने ।
नारायणे तु यष्टव्ये 18 बिन्द्वाद्याः पूर्वमीरिताः ॥ 7.33 ॥
अष्टावष्टौ विधातव्याः केसरा नवतिस्सषट् ।
पूर्वेरितानि कोष्ठानि मार्जयित्वाषडुत्तरम् ॥ 7.34 ॥
त्रिंशश्च 19 तत्र नाभ्यादि विनापद्मं प्रकल्पयेत् ।
शङ्कुमाहृत्य सूत्रेण तत्समं विभजेद्द्विधा ॥ 7.35 ॥
प्रथमं कर्णिकाक्षेत्रं द्वितीयं विभजेत्त्रिधा ।
त्रिष्वाद्यं केसरक्षेत्रं दलक्षेत्र मनन्तरम् ॥ 7.36 ॥
तृतीयमन्तरालं स्या 20 द्दलपीठिकयोर्द्वयोः ।
अष्टौ द्वादश वा कुर्या 21 द्बिन्द्वादीन् कमलासन ॥ 7.37 ॥
मण्डलं भद्रकं नाम तदिदं सर्वकामदम् ।
चिकीषन् स्वस्तिकं बिम्बं क्षेत्रं षट्त्रिंशतायुम् ॥ 7.38 ॥
सम्मृज्य तत्र कोष्ठानि 22 एकं दश च पातयेत् ।
प्रागायतानि सूत्राणि उदिचीनायतानिच ॥ 7.39 ॥
सम्मृज्य मध्यतो द्वे द्वे 23 वीधीं प्रागायतामपि ।
तथोदगायतामेकां कुर्यान्निर्ग मनं पुनः ॥ 7.40 ॥
प्रागायताभ्यां कोष्ठाभ्यां बहिःपङ्त्का 24 उदङ्मुखम् ।
प्राचीनं पश्चिमं चापि दक्षिणामुख मिष्यते ॥ 7.41 ॥
तथोदगा यताभ्यां स्या 25 दुदक्प्रत्यङ्मुखं शुभम् ।
दक्षिणाग्रं भवेत्प्राच्या मितिस्वस्तिक मीरितम् ॥ 7.42 ॥
द्विधा विभज्य पूर्वोक्तं षट्त्रिंशत्कोष्ठमण्डलम् ।
मध्यतः पद्मकरण मवशिष्टे त्रिधाकृते ॥ 7.43 ॥
द्वाभ्यां सुवृत्तं भागभ्यां भ्रान्तं वृत्त्यस्य मण्डलम् ।
अवशिष्टेन भागेन 26 त्वन्तरालं भवेद्बहिः ॥ 7.44 ॥
सौरमण्डल मेतत्स्यादे तदेवेन्दु मण्डलम् ।
सर्वेषामेव बिम्बानां पीठाद्बाह्यं यथापुरम् ॥ 7.45 ॥
विना विदध्यात्पीठादीन् केवलं 27 चक्रपङ्कजम् ।
कर्तुश्शक्त्यपेक्षया चक्रं विना पद्ममण्डलम्
चक्रं 28 विना वा पद्मं स्या त्कर्तुश्शक्ति समीक्षया ॥ 7.46 ॥
सितादिपञ्चवर्णै र्मण्डल शोभा
मण्डलं शोभयेद्रत्नैः पञ्चवर्णैस्सितादिभिः ।
तत्र द्रव्य विकल्पः
29 तच्चूर्णै रथवा चूर्णै र्लोहजै र्वाथ धातुजैः ॥ 7.47 ॥
चन्दनागुरुकुष्ठादि गन्धचूर्णै रथापि वा ।
शाल्यादि तण्डुलैः पिष्टैस्सित्रेर्व्रीहि भिरप्युत ॥ 7.48 ॥
पुटदग्धै रवक्षुण्णै रसितै र्याज्ञिकैश्छदैः ।
श्यामै श्शुक्लैरवक्षुण्णौः कौसुम्भै 30 रपि पाटलैः ॥ 7.49 ॥
निशा चूर्णैः प्रसूनैर्वापङ्चवर्णैश्च कालजैः ।
शोभयेत्कर्णिकादीनि यद्वर्णानि चतुर्मुख ॥ 7.50 ॥
तद्वर्णैरेव रत्नादि द्रव्यैराकारशोभनम् ।
अन्तरालानि सर्वत्र कृष्णैश्श्यामैरथापि वा ॥ 7.51 ॥
शोभ येत्कर्णि कां पीतै श्शुक्लैर्बिन्दून्वि शोभयेत् ।
पाटलैः कर्णिकारेखां कृष्णैर्वा केसरावनिम् ॥ 7.52 ॥
द्विधा कृत्वा पूर्वभागं श्वैतैर्भाग मथोत्तरम् ।
पीतैरक्तैर्विरामेषु प्रतिकेसरमर्जुनैः ॥ 7.53 ॥
बिन्दून्विदध्याद्रद्नैस्तु दलकोटिषु रेखयेत् ।
आद्यन्तानि च बर्हाणां 31 सितर क्तैर्विशोभयेत् ॥ 7.54 ॥
बर्हान्त वलयं रक्तैस्सितैर्वा र्भूषये त्पृथक् ।
श्यामैः पीतैश्च रक्तैश्च नाभिरेखात्रयं क्रमात् ॥ 7.55 ॥
द्विनाभित्वे श्यामपीतै श्श्यामैरेवैकनाभिके ।
रेखयेदसितै रेव त्वरकोटी रराणि तु ॥ 7.56 ॥
रक्तैररान्तवलयं कृष्णैर्नेम्यन्तमेदिनीम् ।
सितैर्नेमि 32 महीभागं द्विधा 33 कृत्वैक मादितः ॥ 7.57 ॥
भागं कृष्णैस्सितैरन्यन्नेमिभागं विशेषयेत् ।
पीठं पीतैः पाटलैर्वा सितैर्वा वीधिकां पुनः ॥ 7.58 ॥
लतावितान 34 पत्रादियुक्तां चूर्णैश्च चित्रयेत् ।
रक्तैश्शोभां तथा पीतै 35 रूपशोभां च शोभयेत् ॥ 7.59 ॥
द्वारं शुक्लैश्च रक्तैश्च पीतैः कृष्णै र्यथाक्रमम् ।
शोभये दुत्तरादींश्च कोणान् कृष्णैरथार्जुनैः ॥ 7.60 ॥
36 शङ्खं च कुर्यात्तैरेव स्वस्तिकं पाटलप्रभम् ।
यद्वा पीतनिभं सौरं मण्डलं पाटलप्रभम् ॥ 7.61 ॥
मण्डलं चैन्दवं शुक्लमन्तरालं तु 37 सर्वशः ।
मण्डलविस्तारानुसारेण पूरणीय चूर्णोत्सेधः
यथेष्टवर्ण सुभगं मण्डले हस्तसम्मिते ॥ 7.62 ॥
रेखानु 38 चूर्णैरुत्सेधः कनिष्ठाङ्गुलि सम्मितः ।
द्विहस्तेऽनामि का 39 मानस्त्रिहस्ते 40 मध्यमासमः ॥ 7.63 ॥
चतुर्हस्ते मण्डले तु तर्जन्य ङ्गुलिसम्मितः ।
पञ्छहस्ते 41 समोऽङ्गुष्ठेनेत्युत्सेधः प्रदर्शितः ॥ 7.64 ॥
मण्डलं चित्रयित्वैव मारभेत समर्चनम् ।
मन्त्राध्वादि षडध्वार्चनम्
आराध येत्कर्णिकायां मन्त्राध्वानमनन्तरम् ॥ 7.65 ॥
तत्त्वाध्वानं केसरेषु वर्णाध्वानं दलेषु च ।
पदाध्यानं नाभिभागि कलाध्वान मरेषु च ॥ 7.66 ॥
षष्ठं तु भुवनाध्वानं नेमिभागे चतुर्मुख ।
बिन्दुषु द्वादशाक्षरावाहनम्
कर्णिकायां द्वादशसु बिन्दुषु द्वादशार्चयेत् ॥ 7.67 ॥
अक्षराणि समावाह्य कर्णिकायां समाहितः ।
यजेत परमात्मानं सकलीकृत्य 42 तत्त्ववित् ॥ 7.68 ॥
केसरेषु श्रियादीनामर्चनम्
केसरेषु श्रियादींश्च यजेत दलभूमिषु ।
शक्तीस्तदीया दश च द्वे च पूज्या यथाविधि ॥ 7.69 ॥
श्रीवत्सा द्याश्शक्तयश्च 43 व्याप्त्याद्याः परितस्थ्सिताः ।
नाभिक्रमेण विष्ण्वादीनां पूजा
दला न्तवलये पूज्यो विष्णुः प्रथमनाभिगः ॥ 7.70 ॥
ब्रह्मा द्वितीयनाभिस्थस्तृणेत्रस्तु तृतीयगः ।
द्वादशस्वरेषु विष्ण्वादिद्वादश मूर्तिपूजा
द्वादशारेषु विष्ण्वाद्वाः पूज्या द्वादशमूर्तयः ॥ 7.71 ॥
अरान्तवलये मीनादिदशमूर्तीनामर्चनम्
अरान्तवलये पूज्या मीनाद्या दश मूर्तयः ।
प्रथमनेमिवलये शङ्ख्याद्यायुधपूजा
प्रथमे नेमिवलये शङ्ख्याद्यायुध पूजनम् ॥ 7.72 ॥
पीठरोणेषु नराहादीनां पूजा
पीठकोण चतुष्केषु वराहो नरकेसरी ।
अनन्तश्च हयग्रीवस्तदाग्नेयादिषु क्रमात् ॥ 7.73 ॥
वीधिकायां लोकपालपूजा
44 वीधिकायां लोकपालाः पुरुहूता दयः क्रमात् ।
द्वारेषु चण्डादीनां पूजा
पूज्या द्वारेषु चण्डाद्या द्वौ द्वौ प्रति चतुर्ष्वपि ॥ 7.74 ॥
ईशानकोणे विष्वक्सेनपूजा
ईशान कोणे रथ्यायां विष्वक्सेनं समर्चयेत् ।
पूर्वद्वारे अभिमुख्येन गरुडस्य पूजा
गरुडोऽभि मुखस्तिष्ठन् पूर्वद्वारा द्बहिः क्षितौ ॥ 7.75 ॥
चक्रगदाशज्खानां दक्षिणादिद्वारेषु पूजा
चक्रं च दक्षिणद्वारि गदां च द्वारि पश्चिमे ।
वलजे चोत्तरे शङ्खं प्रथमा वरणे ततः ॥ 7.76 ॥
द्वितीयावरणपद्मेषु विष्ण्वादिद्वादशमूर्तिपूजा
विष्ण्वादि मूर्तयः पूज्या द्वादशा ब्जेषु पद्मज ।
अनन्तरे चावरणे पद्मेषु द्वादशस्वपि ॥ 7.77 ॥
पासुदेवादि कृष्णान्ता मूर्तयो द्वादशैव ते ।
तृतीयावरण पद्मेषु द्वादशादित्यपूजा
पद्मेष्वावरणे चान्ते द्वादशा दित्य पूजनम् ॥ 7.78 ॥
मण्डले वासुदेवार्चनम्
एतस्मिन् मण्डले देवं पासुदेवं समर्चयेत् ।
बिन्दुषु अष्टाक्षरन्यासः
बिम्बे नारायणाख्ये तु बिन्दुष्वष्टसु तावताम् ॥ 7.79 ॥
अष्टाक्षराणां 45 न्यसनम्
केसरेषु अष्टौ शक्तयः पूज्याः
व्याप्त्याद्याश्शक्तयोऽष्ट च ।
केसरेषु समाराध्या
दलेषु श्रियादयः पूज्याः
दलेष्वष्टौ श्रियादयः ॥ 7.80 ॥
अरेषु शङ्खाद्यष्टायुधपूजा
अरेष्वष्टनु शङ्खादीन्यायुधान्यष्ट पूजयेत् ।
चतुर्विंशतिपद्मेषु तावन्मूर्ति पूजनम्
चतुर्विंशतिपद्मेषु चतुर्विं शतिमूर्तयः ॥ 7.81 ॥
त्रिषु चावरणेष्वेषु पूज्याः
अस्मिन् चक्राब्जमण्डले नारायणस्य यजनम्
तन्मण्डले हरिम् ।
नारायणं समावाह्य यजेत परमेश्वरम् ॥ 7.82 ॥
भगवतो यजने मुख्यःकालः
दर्शेच पौर्णमास्यां च सङ्क्रान्तौ श्रावणेषु च ।
द्वादश्यां विषुवे चैव ग्रहणेष्व यनेषु च ॥ 7.83 ॥
जन्मऋक्षे 46 विशेषेण मण्डले हरिमर्चयेत् ।
मण्डलाराधनमिदं धर्मका मार्थमोक्षदम् ॥ 7.84 ॥
दीक्षायाश्चक्राब्जमण्डलं प्रशस्तम्
चक्राब्जमण्डले शस्ता दीक्षा तस्याश्च मण्डलम् ।
ब्राह्मणादिभेदेन मण्डलक्षेत्रवर्णभेदः
एकद्वारं भवेत्तच्च सौम्यं स्यादग्रजन्मनाम् ॥ 7.85 ॥
चित्रितं श्वेतवर्णेन प्राग्द्वारं पृथिवी भुजाम् ।
रक्तेन चित्रितं द्वारं पाश्चात्यं पीतवर्णकम् ॥ 7.86 ॥
विशां भवेद्दाक्षिणात्य मसितं पादजन्मनाम् ।
अनुलोमानामुत्पादकवत् द्वाराणि
द्वाराणि चानुलोमाना मुत्पादकवदिष्यते ॥ 7.87 ॥
सूतस्य विशेषः
सूतस्य वलजं प्राच्यां
स्त्रीणां द्वारनिरूपणम्
शूद्राणामिव योषिताम् ।
कर्षणादिक्रिया योग्याधिकारी
शिष्यं सुतं वा सर्वज्ञ मनसूयं जितेन्द्रियम् ॥ 7.88 ॥
आचार्यवंशजन्मानं निग्रहानु ग्रहे क्षमम् ।
शान्तिके पौष्टिके चैव कर्मणि क्षममर्थिनाम् ॥ 7.89 ॥
वेद 47 वेदान्त तत्त्वज्ञ माचार्य 48 पदकाङ्क्षिणम् ।
देशिकेन्द्रो विधानेन वक्ष्यमाणेन तत्त्ववित् ॥ 7.90 ॥
कर्षणादिषु सर्वेषु विधानेष्वधिकारिणम् ।
कुर्यान्मण्डल पूजादि कुम्भयागावसानिकम् ॥ 7.91 ॥
अधिकारसम्पादका स्संस्काराः
दीक्षायामिव तत्सर्वं कृत्वा शिष्यस्य सन्निदौ ।
आज्येन चरुणा चैव समिद्भः कुसुमै स्तिलैः ॥ 7.92 ॥
जुहुयान्मूलमन्त्राभ्या मष्टोत्तरसहस्रकम् ।
शिष्यस्य दक्षिणे हस्ते बध्वाप्रति सरं गुरुः ॥ 7.93 ॥
नृत्तैर्गेयैस्तथा पाद्यै र्वेदघोषैर्नयेन्नि शाम् ।
ततःप्रभाते शिष्यं तं स्नातं नूतन वासनम् ॥ 7.94 ॥
49 समाहोया समाराध्य मण्डलं कुम्भमेव च ।
चतुर्विधं निवेद्यान्नं होमं कुर्याद्यथा निशि ॥ 7.95 ॥
कलशां श्चतुरो द्रोण पूर्णान् होमादि निर्मितान् ।
मृण्मयान्वा यथावित्तं सूत्र वस्त्रादिवेष्टितान् ॥ 7.96 ॥
संस्थाप्य धान्यराशौ तु रत्नादीनि विनिक्षिपेत् ।
अग्नेयकुम्भे रत्नानि सर्वाणि विनिवेशयेत् ॥ 7.97 ॥
नैरृते सर्वलोहानि गन्धद्रव्याणि मारुते ।
ऐशाने तीर्थवारीणि ततो देवं समर्चयेत् ॥ 7.98 ॥
50 अग्निकोणे वासुदेवं सङ्गर्षण मनन्तरे ।
प्रद्युम्नं वायुकोणे तु कोणे रौद्रेऽनिरुद्धकम् ॥ 7.99 ॥
ततोऽनु शिष्यं संस्थाप्य पीठे भद्रादिविद्यया ।
शिष्यं प्राङ्मुखमासीनं षडङ्ग न्यासपूर्वकम् ॥ 7.100 ॥
अर्चयित्वाघृतारोप माचरे दविलम्बयन् ।
तूर्य घोषेण गेयेन ब्रह्मघोषेण घोषयेत् ॥ 7.101 ॥
चतुर्दिक्षु ततोगन्धैः पुष्पैस्ताम्बालविटिभिः ।
धनैर्बहु विधैरिष्टैस्सदस्यान् तोषयेद्द्विजान् ॥ 7.102 ॥
तोषयेच्च विशेषण भगवद्भक्तिमा श्रितान् ।
मन्त्रित कुम्भजलै श्शिष्याभिषेकः
मुहोर्ते शोभने प्राप्ते ब्राह्मणानामनुज्ञया ॥ 7.103 ॥
ऋग्वेद मन्त्रितं कुम्भ माग्नेयदिशि निष्ठितम् ।
तमुपादाय पाणिभ्यां सूक्तेन पुरुषात्मना ॥ 7.104 ॥
द्वादशाक्ष रमन्त्रेण 51 सम्पुटीकृतमूर्तिना ।
अभिषिञ्चेद्गुरुश्शिष्यं कुम्भेव तदनन्तरम् ॥ 7.105 ॥
नैरृतस्थेन यजुषा मन्त्रितेन समाहितः ।
वैष्णवेन च सू क्तेन ब्रह्मन्नाद्यवसानयोः ॥ 7.106 ॥
सङ्कर्षणाख्य मन्त्रेण सम्मुटीकृतमूर्तिना ।
कुम्भेन मारुतस्थेन 52 सामाघोषितवारिणा ॥ 7.107 ॥
प्रद्युम्नसम्पुटेनाथ ब्रह्मन् वारुणसामभिः ।
कुम्भेनाथर्ववेदेन पवित्री कृतवारिणा ॥ 7.108 ॥
ईशान कोणसंस्थेन सम्पुटीकृतमूर्तिना ।
अनिरुद्धाख्य मन्त्रेण नारायण समाह्वाया ॥ 7.109 ॥
विद्यया कलशैस्सर्वै रभिषिञ्चेद्यथोदितम् ।
एवमभिषिक्तस्य अधिकारलाभः
अभिषिक्तस्ततश्शिष्यो नवाम्बरथंश्शुचिः ॥ 7.110 ॥
आचान्तश्चन्दनक्षोदै 53 र्लिप्तमाति रलङ्कृतः ।
स्रग्वी पासोभि रुष्णीषं बद्ध्वा मुकुट सन्निभम् ॥ 7.111 ॥
उत्तरीयं च बिभ्राणो बिभ्राणो योगपट्टिकाम् ।
अञ्जनाक्तेक्षणद्वन्द्वो बाहुमाला परिष्कृतः ॥ 7.112 ॥
निरीक्षितादर्शतलो ब्राह्मणैस्स्वस्ति 54 पाचकैः ।
दत्तप्रसव वृष्टिश्च श्वेतव्यजनवीजितः ॥ 7.113 ॥
55 दत्तोपानट् सितच्छत्रो दत्ताश्व गजवाहनः ।
नीराजितश्च कल्याणो जायते गुर्वनुग्रहात् ॥ 7.114 ॥
अनेनैवाभिषेकेण लब्ध्वाचार्य पदं स्वयम् ।
आचार्य कृत्यमखिलं कर्तुमिच्छे च्चतुर्मुख ॥ 7.115 ॥
गुरुवे दक्षिणां दद्वा द्गोभूहेमादिकं तथा ।
यथाविभवविस्तारं ततो हस्त्यादि वाहनम् ॥ 7.116 ॥
आरुह्य धवलच्छत्र श्वेत चामर वीजितः ।
आचार्यचिह्नैरखिलै र्लक्षितो ब्राह्मणै स्सह ॥ 7.117 ॥
रथयानेनाग्रहारं प्रादक्षिण्येन रथ्यया ।
गत्वा देवस्य सदनं प्रविशेत्स्वस्य धाम वा ॥ 7.118 ॥
इति श्रीपाञ्चिरात्रे महोपनिषदि पाद्मे तन्त्रे चार्यापादे मण्डलाराधनचार्याभिषेकविधिर्नाम सप्तमोऽध्यायः.
-
सन्निविष्टस्य. ↩︎
-
स्तम्भाग्रे सन्निवेशनम्. ↩︎
-
सन्निवेशनम्. ↩︎
-
चत्वारि दा रूणि तथा. ↩︎
-
चतुरश्रं च दारूणां वितानम्. ↩︎
-
दुन्नतं तच्च. दन्तदस्तस्य. ↩︎
-
रूपतः. ↩︎
-
बिम्बात्मन् चतुरश्रान् बहिःपुनः. ↩︎
-
अर्धशोभा प्रक्लुप्त्यर्थं. ↩︎
-
पङ्त्क्या एकैकम्. ↩︎
-
प्रशिक्षितः. ↩︎
-
परिगृह्य. ↩︎
-
वलयं. ↩︎
-
वलयं. ↩︎
-
ब्जार. ↩︎
-
ग्राणि तदन्तरे. ↩︎
-
सदृंशि. ↩︎
-
बिम्बाद्याः. ↩︎
-
त्रिंशतं. ↩︎
-
दलम्. ↩︎
-
द्बिम्बादीन्. ↩︎
-
एकादश. ↩︎
-
द्वौ द्वौ. ↩︎
-
पङ्त्क्या उ. ↩︎
-
दुदक्पङ्क्त्यामुदङ्मुखम्. ↩︎
-
चान्तरालं. ↩︎
-
पद्मचक्रजम्. ↩︎
-
विनापि. ↩︎
-
तच्चूर्णैरथपारत्नैः. अथवा चूर्णितैरत्नैः. ↩︎
-
रथ. ↩︎
-
सितैरक्तैः ↩︎
-
महाभागं ↩︎
-
कृत्वैव. ↩︎
-
पत्राणि. युक्तैश्चूर्णैर्विचित्रयेत्. ↩︎
-
रूपशोभां. ↩︎
-
शङ्खंश्चकुर्यात्तेनैव ↩︎
-
सर्वतः. ↩︎
-
पूर्णैः. ↩︎
-
नाहः. ↩︎
-
अनामिकासमः. ↩︎
-
समाङ्गुष्ठै रित्युत्सेधः. ↩︎
-
कृत्य. ↩︎
-
मासाद्या. ↩︎
-
वेदिकायान्द्वारपालाः. ↩︎
-
सन्यासम्. ↩︎
-
जन्मर्क्षेतु. ↩︎
-
वेदङ्ग. ↩︎
-
वरकाङ्क्षिणम्. ↩︎
-
समालभ्य. ↩︎
-
अग्निकुम्भे. ↩︎
-
केषु चित्कोशेषु “सम्पुटीकृत्यमूर्तिना” इति पाठोZस्ति. ↩︎
-
सामस्थापित. ↩︎
-
लिप्ताङ्गस्समलङ्कृतः. ↩︎
-
वाचितैः. ↩︎
-
दत्तप्रसन्ययष्टिः. ↩︎