.
नित्योत्सव विधिः
श्रीभगवान् :—
अथ नित्योत्सवविधिं कथयामि चतुर्मुख ।
सर्वदुःखहरं पुंसां सर्वभूत प्रहर्षणम् ॥ 5.1 ॥
राष्ट्रस्य राज्ञो ग्रमस्य यजमानस्य सद्मनः ।
सुखावहं शान्तिकरं पुण्यमायुर्विवर्धनम् ॥ 5.2 ॥
आवाह्य तण्डुले शुद्धे पार्श्वस्थे परमेश्वरम् ।
शक्तिभिर्दशभिर्द्वाभ्यां सह प्रातर्दिने दिने ॥ 5.3 ॥
परिक्रमेदायतनं मध्याह्ने त्वन्न कल्पिते ।
सायं कुसुमसङ्घाते त्रिसन्ध्यं त्रिषु कल्पयेत् ॥ 5.4 ॥
बिम्बेन 1 वा परीयायात्त्रि सन्ध्य मनुवासरम् ।
अथवान्नेन मध्याह्ने कालेऽन्यत द्वये र्चना ॥ 5.5 ॥
त्रिसन्ध्य मथवान्नेन कुर्यान्नित्योत्सवं हरेः ।
मध्यन्दिने वा सर्वार्थं परिक्रम्य बलिं क्षिपेत् ॥ 5.6 ॥
यद्वोत्सवप्रतिकृते रन्वगग्रेऽथवा 2 भवेत् ।
त्रिसन्ध्यं चामरं छत्रं वि तानध्वज संयुतम् ॥ 5.7 ॥
पञ्चावरण बलिदानम्
तण्डुलादिकमन्नं वा केवलं कमलासन ।
पञ्चावरणके धाम्नि पञ्चस्वावरणे ष्वपि ॥ 5.8 ॥
बलिं दत्वा पर्यटनं गेयवाद्य पुरस्सरम् ।
आवरणभेदेन उत्सवतारतम्यम्
उत्सवं प्राहुरुत्कृष्टमेकोनं मध्यमं विदुः ॥ 5.9 ॥
द्व्यूनेऽधमं जघन्यं त्रिन्यूने क्षुद्रमथेतरे ।
बलिप्रदानेन विना नोत्सवोऽभ्युदयावहः ॥ 5.10 ॥
परिचारक लक्षणम्
शुक्लाम्बरधरं सौम्यं शुक्लयज्ञोपवीतिनम् ।
सोत्तरीयं च सोष्णीषं स्वनुलिप्तमलङ्कृतम् ॥ 5.11 ॥
परिचारकमाहूय भावितं गरुढात्मना ।
तन्मूर्धनि च पात्रस्थे तण्डुलेऽन्ने प्रसूनके ॥ 5.12 ॥
देवमावाहयेन्मूल बेरादाराधक स्स्वयम् ।
इष्ट्वाच गन्धपुष्पाद्यैस्तत्र देवं यथाविधि ॥ 5.13 ॥
विष्ण्वादिमूर्तीश्चपुनः पूजयित्वा प्रदक्षिणम् ।
प्रागाद्येषु द्वादशनु पात्रस्थेषु दलेषु च ॥ 5.14 ॥
सूक्तं सर्वं स्वस्त्ययनं तथान्यच्चापि मङ्गलम् ।
पठन् पात्रं चबिभ्राणो व्रजेच्च परिचारकः ॥ 5.15 ॥
चण्डप्रचण्डुप्रमुखान् द्वारपालान् प्रपूजयेत् ।
बलिदाने तालनृत्तादि व्यवस्था
घोषयेन्मल्लतालाद्यैर्बलिदान पुरस्सरम् ॥ 5.16 ॥
नृत्तं तु वैजयन्ती स्यादृषभं गेयमिष्यते ।
वितान धवलच्छत्र चामर व्यजनादि भिः ॥ 5.17 ॥
परिक्रमेत बल्यर्थं सर्वानावरणान् क्रमात् ।
पीठं प्रदक्षिणीकृत्य प्रविशेदालयं पुनः ॥ 5.18 ॥
3 तन्तु प्रदक्षिणीकृत्य प्रविशेद्गर्भमन्दिरम् ।
दत्वार्घ्यां 4 मूलमन्त्रेण मूलबेरे समुत्सृजेत् ॥ 5.19 ॥
बलिशेषं क्षिपेत्किञ्चि द्विष्वक्सेनस्य मूर्धनि ।
परिशिष्टं महापीठे निक्षिपेदक्षतादिकम् ॥ 5.20 ॥
नित्योत्सवे बलिबेरं याने शिरसि वा आरोप्य परिब्रणम्
नित्योत्सवश्चे 5 दारोप्य तद्बिम्बं शिबिकादिषु ।
आरोप्य यद्वा शिरसि परिभ्रमणमिष्यते ॥ 5.21 ॥
बलिबेरभ्रमणे नृत्तातो द्यादिभेदः
आतोद्यनृत्तैर्बहुधा भिद्यमान्ते स्समधितम् ।
तत्र नृत्तं बहुविधं तानि वक्ष्ये समासतः ॥ 5.22 ॥
विलासं कर्तरी विष्णुक्रान्तमालीढमङ्गलम् ।
भद्रमाली तार्क्ष्यपक्षौकरणं स्वस्तिकाह्वायम् ॥ 5.23 ॥
चारी प्रचारी सूची च 6 सावर्तं पारिभद्रकम् ।
सौम्यं 7 विषमसूची च खेटकं चावकुञ्चितम् ॥ 5.24 ॥
कटिबन्धमलङ्कार मश्मरी 8 पृष्ठकुट्टिमम् ।
उल्लङ्घिवामजान्वाख्य 9 मासूरी चापवेष्टितम् ॥ 5.25 ॥
वासरेश्वरसञ्चारीभावै स्यातां निकुट्टिमौ ।
कुट्टिमं घटितं स्थायीभावो यच्च विजृम्भितम् ॥ 5.26 ॥
मण्डलं कुञ्चितार्धादि पताका सर्वमङ्गलम् ।
कान्तारकुट्टिमाह्वानं प्रपूर्वं घटितं तथा ॥ 5.27 ॥
10 विलासं सर्वतो भद्रं शुद्धं कुञ्चित मिष्यते ।
मार्गचारी कराधीन 11 मावभास मनन्तरम् ॥ 5.28 ॥
आवेष्टितं परीवर्तं निर्धूतं देशिमण्डलम् ।
समपूर्वञ्च 12 घटितं पदं विषमपूर्वकम् ॥ 5.29 ॥
कर्करीकविलासश्च भवेद्विगलितं तथा ।
नृत्तभेदाः पृथग्भावा गात्रावयव चेष्टितैः ॥ 5.30 ॥
आतोद्य गीतिभेदाना मानन्त्यान्नेह 13 तन्यते ।
खगेश प्रियं नृत्तम्
पुष्पप्रभासमोपेतं 14 ध्वजच्छत्रादि संयुतम् ॥ 5.31 ॥
सर्ववादित्रसुभगं सर्वगेय समेधितम् ।
ब्रह्मविद्ब्रह्मघोषेण सहितं दीपसङ्कुलम् ॥ 5.32 ॥
विष्णुक्रान्तं खगेशस्य नृत्तं गेयं च मध्यमम् ।
पुरुहोतादि प्रियं नृत्तम्
विलासं सर्वतोभद्रं खेटकं चक्रमण्डलम् ॥ 5.33 ॥
कान्तारं कुट्टिमं पृष्ठकुट्टिमं कटिबन्धनम् ।
पामजानूर्ध्वनृत्तं च पुरुहोतादिषुस्मृतम् ॥ 5.34 ॥
पुरुहोतादीनां प्रियस्स्वरः
षड्जर्षभौच गान्धारो मध्यमः पञ्चमस्तथा ।
ध्यैवतश्त्चेव निषधः पुरुहूतादिषु स्वरः ॥ 5.35 ॥
भवस्य प्रियस्स्वरः
सप्तज्ञेया धैवतस्तु भवस्य स्वर इष्यते ।
विष्वक्सेनस्य प्रियौ नृत्तस्वरौ
नृत्तं तु विष्वक्तेनस्य स्वस्तिकं वृषभस्स्वरः ॥ 5.36 ॥
गणेश प्रियनृत्तस्वरौ
हस्तिनृत्तं गणेशस्य स्वरःपञ्चम इष्यते ।
धैवतस्स्यात्स्वरो नृत्तं दुर्गायास्सर्व मङ्गलम् ॥ 5.37 ॥
अन्येषां देवानां प्रियनृत्तस्वराः
अन्येषामपि देवानां नृत्तं स्यात्सर्वमङ्गलम् ।
गानं च धैवतं प्रोक्तं गान्धारं पङ्चमं तथा ॥ 5.38 ॥
तदवान्तरभेदा वा गेया गेयविचक्षणैः ।
दिग्भेदेन तालभेदः
समतालाह्वयं पाद्यमैन्द्र्यं दिशि हविर्भुजः ॥ 5.39 ॥
बद्धावतालाभिधानं यमस्य दिशि शृङ्गिणी ।
नैरृत्यां मल्लतालं स्याद्वारुण्यां मङ्गलाह्वयम् ॥ 5.40 ॥
वायव्यां जयतालाख्यं कौबेर्यां भद्रसञ्ज्ञितम् ।
ऐशान्यां कर्करीतालम् ।
तार्क्ष्यस्य प्रियं तालम्
तार्क्ष्यस्य गरुडाह्वयम् ॥ 5.41 ॥
भूतानां प्रियं तालम्
भूतानां बलितालाख्यम् ।
सेनेशस्य प्रियं तालम्
सेनेशस्यापि तादृशम् ।
अन्येषां देवानां प्रियं तालम्
अन्येषामपि देवनां तालं भद्रं प्रशस्यते ॥ 5.42 ॥
दिक्षु सर्वासु सर्वेषु मन्दिरावरणेषु च ।
नृत्तं गेयं च वाद्यं च साकल्येन समीरितम् ॥ 5.43 ॥
ध्वजदर्शन मङ्गलाष्टक बलिदान भक्ष्यादिनिवेदनम्
खगध्वजं दर्शयीत्वा मङ्गलाष्टकमेव च ।
सन्निधाने च देवस्य सर्वत्र बलिरिष्यते ॥ 5.44 ॥
15 निवेद्यं तत्र ताम्बूलं भक्ष्यं च पृथुकादिकम् ।
नर्वेष्वा वरणेष्वेवं स्थानं प्रति समाचरेत् ॥ 5.45 ॥
शङ्खनादमात्रेण प्राकारद्वारनिर्गमः
केवलाम्बुजनादेन प्राकारद्वारनिर्गमः ।
महापीठे बलिप्रदानम्
निर्गम्य च महापीठे मन्दिराभिमुखं स्थितः ॥ 5.46 ॥
दीक्षु सर्वासु पीठस्य पादित्रे घोषि ते भृशम् ।
क्षालिते पीठिकामूर्द्नि पूजयेद्विष्णु पार्षदान् ॥ 5.47 ॥
बलिं निरवशेषेण दत्वा पीठस्य मूर्दनि ।
पीठं परीत्य धामान्तः प्रविश्य मुखमण्डपे ॥ 5.48 ॥
देवस्य यानादितोऽपरोपणम्
प्रदाय पादुके पीठे यानादेरवरोप्यच ।
प्रङ्मखं विष्टरे देवमवस्थाप्य सभाजयेत् ॥ 5.49 ॥
देवस्य गर्भगेहप्रवेशनम्
उपहार मशेषेण प्रदायावसरोचितम् ।
प्रवेशयेद्गर्भगेहं देवमाराधक स्स्वयम् ॥ 5.50 ॥
वाद्यादिन्यूनता समाधानर्थं ताण्डवम्
वाद्ये गेये तथा नृत्ते बहिरङ्गण भूमिषु ।
न्यूनीभावं समाधातुं शुद्धे ताण्डवमाचरेत् ॥ 5.51 ॥
महावातादिसङ्क्षोभेनित्योत्सवप्रतिषेधः
महावातादि सङ्क्षोभेन नित्योत्सवमाचारेत् ।
बलिप्रदानमात्रं तु कुर्याच्च सति सम्भवे ॥ 5.52 ॥
नबिं चण्डे प्रचण्डे तु केवलं वा विनिक्षिपेत् ।
तयोर्मध्येतु पुरतो मूलमन्त्रेण साधकः ॥ 5.53 ॥
भूतेभ्यो नम इत्येवं पक्षिपेत्सोदकं बलिम् ।
आराधन कालभेदः
आराधन विधिर्ह्येषु कालभेदेषु शस्यते ॥ 5.54 ॥
अह्नि कात्रौ च तान् ब्रह्मन्नधुना कथयामि ते ।
एकस्त्रयो वा षड्वापि कालि द्वादश एववा ॥ 5.55 ॥
पञ्च कालश्चतुष्काल स्तत्कालो बहुधा मतः ।
यथाविभवमुद्दिष्टं समाराधन कर्मणि ॥ 5.56 ॥
एको मध्याह्नसमयः प्रातर्मध्यन्दिनं निशा ।
16 त्रयश्चेत् षट्सुपूर्वेक्ताः कालभेदाः पुनस्त्रयः ॥ 5.57 ॥
मध्यरात्रोऽप राह्णश्च तथा प्रत्यूष ईरितः ।
प्रत्यूष श्चार्धरात्रं च प्रातर्मध्यन्दिनं निशा ॥ 5.58 ॥
पञ्चकाला इमे प्रोक्तान्सतःकालचतुष्टयम् ।
एकेन हीनः प्रत्यूषो विज्ञेयश्छतुरासन ॥ 5.59 ॥
कालानां नाडिकामानम्
काला द्वादश विज्ञेयाः पञ्च पञ्च च नाडिकाः ।
इतरे कालभेदास्तु प्रत्येकं याम सम्मिताः ॥ 5.60 ॥
आराधनभेदाः
उत्सवावसितं श्रेष्ठमाराधन मुदाहृतम् ।
होमान्तं मध्यमं प्रोक्तं प्रापणान्त मथाधमम् ॥ 5.61 ॥
क्षुद्रं तु धूपदीपान्त मधमारधनं भवेत् ।
स्नानार्चन नृत्तगेयादीनां घटिकामानम्
घटिके द्वे भवत् स्नाने घटिकै कार्चने भवेत् ॥ 5.62 ॥
नृत्तगेये तथा चैका तधर्धेन निवेदनम् ।
होमे चैका चोत्सवे द्वे शुद्धनृत्तावसानिके ॥ 5.63 ॥
17 प्रभातकाल पूजायां स्नानादि विधिरीदृशः ।
घटिका स्नानसमयस्तथार्ध घटिकार्चनम् ॥ 5.64 ॥
गेयनृत्तस्य घटिका तदर्धेन निवेदनम् ।
18 होमार्धे परिशिष्टस्तु भवेन्नित्योत्सवेक्षणः ॥ 5.65 ॥
कालभेदेषु कालत्रयं श्रेष्ठम्
कालभेदेषु सर्वेषु श्रेष्ठं कालत्रयं विदुः ।
प्रातर्मध्यन्दिनं रात्रि र्मुख्यं च कमलासन ॥ 5.66 ॥
उक्तकालत्रये बलिनित्योत्सव योरवश्यम्भाविता
आवश्यं भाविनौ तेषु बलिनित्योत्सवापुभौ ।
होमपर्यन्तमन्यत्र कारभेदेषु शस्यते ॥ 5.67 ॥
उत्सवाद्यङ्गबिम्बानां सर्वकालेषु पूजनम्
उत्सवाद्यङ्गलिम्बानि सेनान्यं विहगेश्वरम् ।
चण्डप्रचण्डै द्वारस्थौसर्वकालेषु पूजयेत् ॥ 5.68 ॥
वाद्यपादनकालः
मध्यन्दिने प्रदेषे च पुरस्ताद्वाद्य वादनम् ।
नीराजनकालः
नीराजयेत्प्रदोषेषु देवं
नीराजनपात्रादि निरूपणम्
तदपि कथ्यते ॥ 5.69 ॥
स्वर्णपात्राणि युग्मानि विपुलानि तथावसु ।
तन्मध्ये सालिपृष्ठेषु पर्तिदीपान् 19 तप्रदीपयेत् ॥ 5.70 ॥
स्त्रीभिश्श्रेणीनन्धेन दीपधारणन्सासौ
तथाविधानि पात्राणि करैरुद्धृत्य योषितः ।
कल्याणवस्त्राभरणा निर्गताश्च महानसात् ॥ 5.71 ॥
श्रेणीबन्धाः पुरोगीत नृत्त 20 वाद्यसमन्विताः ।
अन्तिके देवदेवस्य विन्यसेयु र्महीतले ॥ 5.72 ॥
दीपपात्रार्चनम्
आधारेषु ततः पात्राण्यर्चये द्विश्वविद्यया ।
दीपप्रापणविधिः
आचार्योध्रुवभेरादै षडङ्गन्यासमाचरेत् ॥ 5.73 ॥
इष्ठ्वा च देवमर्घ्याद्येर्दीपपात्राणि पूजकः ।
उद्धृत्य भ्रामयेद्देव मापादतलमस्तकम् ॥ 5.74 ॥
गुणन्त्रैस्त्रिभिः पात्राण्यनुयोषित्सु निक्षिपेत् ।
अर्चानामे
-
वाथ पर्यायात्त्रिसन्ध्यमनुसारतः. ↩︎
-
हरेत्. ↩︎
-
तद्वत्. ↩︎
-
पाद्यमाचामं मूलबेरे नियोजयेत्. ↩︎
-
द्बिम्बेन. ↩︎
-
संवर्तं. ↩︎
-
विषमसूरी. ↩︎
-
पृष्ठाकुट्टकम्. ↩︎
-
माधुरी. ↩︎
-
विगात्रं. ↩︎
-
मानभाल. ↩︎
-
गदितम्. ↩︎
-
गीयते. ↩︎
-
नृत्तं गेयं च मध्यमम्. ↩︎
-
नैवेद्यम् ↩︎
-
त्रयं च. क. त्रयश्चेत् षट्सु पूर्वोक्त स्ततः कालचतुष्टये । पञ्च काला इमे प्रोक्ताः कालभेदाः पुनस्त्रयः. इति कोशान्तरम्. ↩︎
-
प्रकारकालभेदोयं. ↩︎
-
होमार्धे परिशिष्टार्धं भवेन्नित्योत्सवक्रिया. ↩︎
-
प्रकल्पयेत्. ↩︎
-
वाद्यादिभिस्सह. ↩︎