शान्तिहोमान्ते अग्निकुम्भादीनामुद्वासः
भगवदाराधनविधिः
विश्वास-प्रस्तुतिः
श्रीभगवान् :—
मूलम्
श्रीभगवान् :—
विश्वास-प्रस्तुतिः
श्रूयतामभिधास्यामि ब्रह्मन्नाराधनं हरेः ।
येन विष्णोः पदं मर्त्यः प्रोप्नोत्यमरदुर्लभम् ॥ 3.1 ॥

स्नानभेदाः
विश्वास-प्रस्तुतिः
स्नानमूलाः क्रियास्सर्वाः स्नानं च बहुधा श्रुतम् ।
वारुणं दिव्यमाग्नेयं वायव्यं पार्थिवं तथा ॥ 3.2 ॥

मान्त्रं मानसमित्येवं स्नानं सप्तविधं स्मृतम् ।
निरीक्ष्य चात्मनश्शक्तिं समयं देशमेव च ॥ 3.3 ॥

एतष्वेकतरं कुर्यात्समाराधनतत्परः ।
अवगाहनमप्स्वन्तर्वारुणं स्नानमिष्यते ॥ 3.4 ॥

सहातपेन वर्षेण स्नानं दिव्यमनन्तरम् ।
समिधां दीपितानां च गोमयस्य हुतस्य च ॥ 3.5 ॥

सितेन भस्मनाऽङ्गेषु ललाटादिषु चक्रमात् ।
यदूर्ध्वपुण्ड्रकरणं मन्त्रोच्चारणपूर्वकम् ॥ 3.6 ॥

तदाग्नेयं भवेत् स्नानं शोधनं परमं स्मृतम् ।
गच्छत्सु गोषु 1 पादोत्थैरजोभिर्भूमिसम्भवैः ॥ 3.7 ॥

स्पर्शनं वपुषस्स्ननं वायव्यं तदुदाहृतम् ।
प्रशस्ते वर्वताग्रादौ जातया स्वेतमृत्स्नया ॥ 3.8 ॥

उच्चार्य केशवादीनां नामान्यङ्गे यथाक्रमम् ।
ललाटादौ यद्विधानमूर्ध्वपुण्ड्रस्य तद्भवेत् ॥ 3.9 ॥

2पार्थिवं स्नानमब्लिङ्गैर्मन्त्रैर्विप्रकरेरितैः ।
अम्भोभिः प्रोक्षणं ब्रह्मं स्तन्मास्त्रं स्नानमिष्यते ॥ 3.10 ॥

मानसस्नानम्
विश्वास-प्रस्तुतिः
त्रिराचम्याऽहतं वासः परिधाय सुखानसः ।
प्राणान यम्य मां ध्याये द्धृदयाम्भोरुहे स्थितम् ॥ 3.11 ॥

ध्यानेनानेन निर्द्धूतकल्मषो जायते पुमान् ।
स्नानं मानसमेतत्स्यात् स्नतश्च हरिमर्चयेत् ॥ 3.12 ॥

आजानु पादौ प्रक्षाल्य हस्तौ चामणि बन्धनात् ।
आचम्य च द्वारपार्श्वं गत्वाङ्गन्यासपूर्वकम् ॥ 3.13 ॥

भगवन्मन्दिरकवाटोद्घाटनम्
विश्वास-प्रस्तुतिः
तालत्रयं च हस्ताभ्यां कृत्वाऽभिवलजं स्थितः ।
3कवाट मुद्घाट्य ततो वायमन्त्रेण 4 मन्त्रेवित् ॥ 3.14 ॥

साम्ना देवव्रतेनान्तः प्रविशेद्दक्षिणाङ्घ्रिणा ।
प्रणमेच्छिरसा देवं पुण्डरीकाक्ष विद्यया ॥ 3.15 ॥

आरोपितेषु दीपेषु माल्ये चापि निरासिते ।
वेद्यां पात्रेषु बिम्बेषु शोधितेषु यथातथम् ॥ 3.16 ॥

द्वारपूजामुखे सर्वपरिवारसमर्चने ।
कृते शिष्येण वाऽन्येन परिचारपरेण वा ॥ 3.17 ॥

पूजकपरिकर्मा
विश्वास-प्रस्तुतिः
पूजकोऽलङ्कृतस्स्रग्वीशुक्लाम्बरधं श्शुचिः ।
शुक्लोपवीतोत्तरीयश्च न्दनाद्य नुलेपनः ॥ 3.18 ॥

5 चन्दनश्वेतमृत्स्नाम्बु तल्पिता ग्रोर्ध्वपुण्ड्रकः ।
6 आरभ्य नासिकामूलं ललाटान्तं लिखेत्क्रमात् ॥ 3.19 ॥

आत्मशुद्धिः
विश्वास-प्रस्तुतिः
देवपार्श्वां समासाद्य पार्श्वे 7 सव्येतरे स्वयम् ।
8 आसीनो विष्टगे शुद्धे ॠस्यादौ स्वस्ति कासने ॥ 3.20 ॥

बध्वा पद्मासनं वापि दूर्याघोषे प्रवर्तिते ।
तिरस्करिण्याच द्वारे निश्छिद्रं च्छादिते ततः ॥ 3.21 ॥

अस्त्रमन्त्रेण ककुभो बध्वा धूमध्वजं बहिः ।
प्राकारवत् स्थितं ध्यायेत्तेजो मन्त्रेण मन्त्रवित् ॥ 3.22 ॥

चक्रमुद्रां च खे न्यस्य चक्रमन्त्रेण साधकः ।
गोपयन्नित्थमात्मानं प्राणायामैस्त्रिभिः क्रमात् ॥ 3.23 ॥

युक्तः कृत्वा योगमुद्रां नाभिकन्टे स्थितं पुनः ।
वेद्याकारं वायुबीजं ध्यात्वा तज्जेन वायुना ॥ 3.24 ॥

धूम्रेण देहपाप्मानं शोषयित्वा निरन्वयम् ।
त्रिकोणमग्निभीजं च रक्तवर्णं हृदम्बुजे ॥ 3.25 ॥

ध्यात्वा तदुत्थसप्तार्चिश्शिखाभिः कल्मषं दहेत् ।
माहेन्द्र बीजं विन्यस्य पीताभं चतुरश्रकम् ॥ 3.26 ॥

कण्ठे सहस्पर्शनेन स्तम्भयेदग्निमुत्थितम् ।
वायुना कुम्भकेनैव वृत्तं स्फटिकसन्निभम् ॥ 3.27 ॥

विन्यस्य वारुणं बीजं मूर्ध्नि तज्जामृताम्भसा ।
क्षालयेत्सर्वतो देहमापादतलमस्तकम् ॥ 3.28 ॥

पृथिव्यादीनि तत्त्वानि समाधिपरया धिया ।
परमात्मनि संहृत्य प्रलयक्रममास्थितः ॥ 3.29 ॥

पृथिवीं पञ्चगुणकां पीताभां चतुरश्रकाम् ।
घ्राणोपस्थेन्द्रिययुतां तन्मात्रालक्षणे ततः ॥ 3.30 ॥

गन्धे संहृत्य योगेन 9 गगनेन विचक्षणः ।
कसना पाय्वीन्द्रियाभ्यां सहापश्च 10 चतुर्गुणाः ॥ 3.31 ॥

अर्धचन्द्राकृति 11 श्चैता स्तन्मात्रालक्षणे कसे ।

गन्धं च तन्मात्रात्मानं ततोग्निंत्र्यश्रपाटलम् ॥ 3.32 ॥

त्रिगुणं दृष्टिचरणस्त्रोतोभ्यां सुसमाहितः ।
तन्मात्रालक्षणे रूपे रसं तन्मात्रया सह ॥ 3.33 ॥

संहरेद्द्विगुणं वायुं स्पर्शेतन्मात्रलक्षणे ।
धूम्रं वृत्तं तत्कराभ्यां रूपं तन्मात्रया सह ॥ 3.34 ॥

12 वायुना संहरेद्योगी खं च शब्दगुणं पुनः ।
तन्मात्रालक्षणे शभ्दे नीलोत्पल दलप्रभम् ॥ 3.35 ॥

स्पर्शं च तन्मात्रात्मानं श्रुतिपाक्सहितं ततः ।
संहृत्य शब्दतन्मात्रां स्वान्ते स्वान्तमहङ्कृतौ ॥ 3.36 ॥

अहङ्कृतिं बुद्धितत्त्वे बुद्धिं च प्रकृतौ पुनः ।
जीवे च प्रकृतिं जीवं वासनाविवशं ततः ॥ 3.37 ॥

सुसूक्ष्मं नाभिचक्रे स्वे भास्कराभमवस्थितम् ।
नुषुम्नया नाडिकया पद्मसूत्रसुसूक्ष्मया ॥ 3.38 ॥

उपर्यारोहयेद्देहे कुम्भकेन सभस्वता ।
भित्वा च ब्रह्मणो रन्ध्रं बहिर्देहाद्विनिर्गतम् ॥ 3.39 ॥

प्रविश्य भास्करस्यापि मण्डलान्निर्गतं बहिः ।
अशरीरं तथा जीवं परस्मिन् ब्रह्मणि द्रुवे ॥ 3.40 ॥

स्थितं ध्यायेत् स्थितं तत्र स्वदेहं योनिजं दहेत् ।
न्यस्तेन शिखिभीजेन पादाग्रेज्वलनं द्विषा ॥ 3.41 ॥

पादादिमूर्धपर्यन्तं दग्धे देहे निजे ततः ।
निवृत्तिबीजं खे ध्याये त्पूर्ण चन्द्रायुतो पमम् ॥ 3.42 ॥

तदुत्थपीयूषनिधौ जा ते पाण्डर पङ्कजे ।
स्मरेज्जीवं समुत्पन्नं सकाशाद्भ्रह्मण स्तदा ॥ 3.43 ॥

जीवात्प्रधानं तस्माच्च बुद्धिं बुद्धेरहङ्कृतिम् ।
ततो मनस्ततश्शब्दं तन्मात्रां खं ततस्सह ॥ 3.44 ॥

पाक्छ्रुतिभ्यां शब्धगुणं तन्मात्रां स्पर्शलक्षणाम् ।
वायुं स्पर्शगुणं सार्धं त्वचा हस्तेन चस्मरेत् ॥ 3.45 ॥

13तन्मात्रां स्पर्शरूपां तां ततोग्निं सह चक्षुषा ।
पद्भ्यां रूपगुणं 14 रूपतन्मात्रां च रसं 15 ततः ॥ 3.46 ॥

अपो रसगुणाः पायुरसनाभ्यां सहाब्जज ।
गन्धं च तन्मात्रात्मानं सहगन्धगुणां भुवम् ॥ 3.47 ॥

समुत्पन्नं स्मरेद्विद्वान् फ्राणोपस्थयुतं तथा ।
इत्थं शरीरमात्मीयं सृष्टं मह्यादिभूतजम् ॥ 3.48 ॥

विचिन्त्य पङ्कजं बुध्या प्रबुद्धं तद्विनिस्सृतैः ।
शातकुम्भमयैःकुम्भैः पूर्णैरमृतवारिभिः ॥ 3.49 ॥

स्नापितं शुद्धमनघं चिन्तयित्वा निजं वपुः ।
आराधने हरे र्योग्यं परस्य परमात्मनः ॥ 3.50 ॥

मन्त्रन्यासविधिः
विश्वास-प्रस्तुतिः
ध्यायन्नष्टाक्षरं मन्त्रं द्वादशाक्षरमेव वा ।
सृष्टिस्थितिलयव्यासैर् हस्तन्यासपुरस्सरम् ॥ 3.51 ॥
न्यस्येदङ्गेषु मूर्धादिपादान्तेषु यथा तथम् ।

तलं पृष्ठं च करयोश्
शोधयित्वा ऽस्त्र-विद्यया ॥ 3.52 ॥
मूलम्
तलं पृष्ठं च करयोश्शोधयित्वास्त्रविद्यया ॥ 3.52 ॥
विश्वास-प्रस्तुतिः
अङ्गुलीनां च सर्वासां
पर्वस्व् आद्यन्त-वर्तिषु ।
इष्यते प्रणव-न्यासो
मध्यमेषु च पर्वसु …॥ 3.53 ॥
मूलम्
अङ्गुलीनां च सर्वासां पर्वस्वाद्यन्तवर्तिषु ।
इष्यते प्रणवन्यासो, मध्यमेषु च पर्वसु …॥ 3.53 ॥
विश्वास-प्रस्तुतिः
16मन्त्राक्षराणि विन्यस्येन्
न्यास एष सनातनः ।
पर्व दक्षिण तर्जन्याः 17
प्रक्रम्याङ्गुलिपर्वसु ॥ 3.54 ॥
मूलम्
16मन्त्राक्षराणि विन्यस्येन्न्यास एष सनातनः ।
पर्वदक्षिण तर्जन्याः 17 प्रक्रम्याङ्गुलिपर्वसु ॥ 3.54 ॥
विश्वास-प्रस्तुतिः
दक्षिणेतरतर्जन्याः
पर्वान्तं साधकोत्तमः ।
सृष्टिन्यासम् इमं कुर्याद् 18
व्यत्यासेन तु संहृतौ ॥ 3.55 ॥
मूलम्
दक्षिणेतरतर्जन्याः पर्वान्तं साधकोत्तमः ।
सृष्टिन्यासमिमं कुर्या 18 द्व्यत्यासेन तु संहृतौ ॥ 3.55 ॥
विश्वास-प्रस्तुतिः
प्रक्रम्य तर्जनी-पर्व
कनिष्ठा-पर्व विश्रमः ।
स्थिताव् अष्टाक्षरस्येष
मन्त्रस्य न्यास ईरितः ॥ 3.56 ॥
मूलम्
प्रक्रम्य तर्जनीपर्व कनिष्ठापर्व विश्रमः ।
स्थितावष्टाक्षरस्येष मन्त्रस्य न्यास ईरितः ॥ 3.56 ॥
द्वादशाक्षरमस्त्रस्य सृष्टिलयस्थितीनां नासः
विश्वास-प्रस्तुतिः
द्वादशाक्षर मन्त्रस्य न्यासस्सम्प्रति कथ्यते ।
न्यासस्तवले मध्यमया तर्जन्याऽङ्गुपर्वणि ॥ 3.57 ॥

कृत्वा प्रदक्षिणं पर्नस्वङ्गुष्ठेनेतरेषु तु ।
सव्ये तले तु विश्रान्ति स्सृष्टानपरधा लये ॥ 3.58 ॥

तलयोःप्रक्रमस्थाने दक्षिणेतरयोर्द्वमयोः ।
कनिष्ठयोश्च विश्रान्तिः पर्वणो रुभयोरपि ॥ 3.59 ॥

द्वादशाक्षर मन्त्रस्य न्यासोऽयं कमलासन ।

अष्टाक्षर स्थानानि
विश्वास-प्रस्तुतिः
हृदयादीनि चाङ्गानि
ध्यात्वाऽङ्गुष्ठादि पञ्चसु ॥ 3.60 ॥
मूलम्
हृदयादीनि चाङ्गानि ध्यात्वाऽङ्गुष्ठादि पञ्चसु ॥ 3.60 ॥
विश्वास-प्रस्तुतिः
न्यस्येन् नखमुखे नेत्रे तले सव्ये गदा 19 धरौ ।
सव्येतरे पद्मचक्रेन्यस्येस्न्यासः करद्वये ॥ 3.61 ॥
मूलम्
न्यस्येन्नखमुखे नेत्रे तले सव्ये गदा 19 धरौ ।
सव्येतरे पद्मचक्रेन्यस्येस्न्यासः करद्वये ॥ 3.61 ॥
विश्वास-प्रस्तुतिः
ईरितस् तलयोर् मन्त्रं
ध्यात्वा तेजोभिर् उज्ज्वलम् ।
ताभ्यां मूर्द्धादिपादान्तं
देहे न्यस्येत् 20 समूहितः ॥ 3.62 ॥
मूलम्
ईरितस्तलयोर्मन्त्रं ध्यात्वा तेजोभिरुज्ज्वलम् ।
ताभ्यां मूर्द्धादिपादान्तं देहे न्यस्येत् 20 समूहितः ॥ 3.62 ॥
विश्वास-प्रस्तुतिः
व्यापकं कञ्चुकं यद्वा 21 मन्त्रमक्षरशस्ततः ।
मूर्ध्नि नेत्रे मुखे चित्ते नाभ्यां गुह्ये च जानुनि ॥ 3.63 ॥

चरणौ क्रमशस्सृष्टौ
न्यासो मन्त्रस्य इष्यते ।
विपरीतक्रमो ज्ञेयस्
संहृतौ, पालने पुनः ॥ 3.64 ॥
मूलम्
चरणौ क्रमशस्सृष्टौ न्यासो मन्त्रस्य इष्यते ।
विपरीतक्रमोज्ञेय स्संहृतौ पालने पुनः ॥ 3.64 ॥
विश्वास-प्रस्तुतिः
नाभ्यादि हृदयान्तेषु
न्यासोङ्गेषु प्रकीर्तितः ।
अष्टाक्षरस्य मन्त्रस्य
स्थानान्येतानि, तानि च ॥ 3.65 ॥
मूलम्
नाभ्यादि हृदयान्तेषु न्यासोङ्गेषु प्रकीर्तितः ।
अष्टाक्षरस्य मन्त्रस्य स्थानान्येतानि तानि च ॥ 3.65 ॥
द्वादशाक्षर स्थानानि
विश्वास-प्रस्तुतिः
शिरसः पश्चिमं पूर्वं दक्षिणं चोत्तरं ततः ।
चत्वारि च चतुर्वक्त्रस्थानानि द्वादशाक्षरे ॥ 3.66 ॥

अष्टाक्षर न्यासभूमयः
विश्वास-प्रस्तुतिः
मूर्ध्नि मध्यमयाऽङ्गुल्या
तर्जन्या सह चक्षुषोः ।
न्यस्येन् मुखेऽनामिकया
साङ्गुष्ठेन च मन्त्रवित् ॥ 3.67 ॥
मूलम्
मूर्ध्नि मध्यमयाऽङ्गुल्या तर्जन्या सह चक्षुषोः ।
न्यस्येन्मुखेऽनामिकया साङ्गुष्ठेन च मन्त्रवित् ॥ 3.67 ॥
विश्वास-प्रस्तुतिः
अङ्गुष्ठ-तर्जनीभ्यां तु
हृदये न्यसनं भवेत् ।
तथाङ्गुष्ठ-कनिष्ठाभ्यां
नाभौ न्यासः प्रशस्यते ॥ 3.68 ॥
मूलम्
अङ्गुष्ठ तर्जनीभ्यां तु हृदये न्यसनं भवेत् ।
तथाङ्गुष्ठ कनिष्ठाभ्यां नाभौ न्यासः प्रशस्यते ॥ 3.68 ॥
विश्वास-प्रस्तुतिः
विनाङ्गुष्ठेन शेषाभिर्
गुह्ये जानुनि चोभयोः ।
समस्ताभिश् चरणयोर्
इत्यष्टाक्षरभूमयः ॥ 3.69 ॥
मूलम्
विनाङ्गुष्ठेन शेषाभिर्गुह्ये जानुनि चोभयोः ।
समस्ताभिश्चरणयोरित्यष्टाक्षरभूमयः ॥ 3.69 ॥
द्वादशाक्षर न्यासभूमयः
विश्वास-प्रस्तुतिः
प्राग्भागे शिरसोङ्गुल्या न्यासोऽङ्गुष्ठेन दक्षिणे ।
तर्जन्या पश्चिमे भागे न्यासोऽनामिक योत्तरे ॥ 3.70 ॥

कनिष्ठयातधैतास्स्युर्द्वादशाक्षरभूमयः ।
मूलम्
कनिष्ठयातधैतास्स्युर्द्वादशाक्षरभूमयः ।
मन्त्राक्षराणां वर्णाः
विश्वास-प्रस्तुतिः
रूपं क्रम्णाक्षराणां न्यासकाले विचिन्तयेत् ॥ 3.71 ॥

शुक्लं हिरण्ययं कृष्णं रक्तं कुङ्कुम सन्निभम् ।
22 पद्मकिञ्जल्क सदृशं सर्ववर्ण कमष्टकम् ॥ 3.72 ॥

सितं कृष्णं च धूम्राभं श्यामं तारानिभं ततः ।
स्फटिकाभं च शज्खाभं कक्तं शुक्लं च लोहितम् ॥ 3.73 ॥

तमोरूपं पीतवर्णं ध्वात्वामन्त्रद्वयाक्षरम् ।

षडङ्गन्यासः
विश्वास-प्रस्तुतिः
स्थाने यथोक्ते विन्यस्य षडङ्गन्यासमाचरेत् ॥ 3.74 ॥

हृदयं च शिरश्चेव शिखा कवच मेव च ।
नेत्रमस्त्रं षडेतानि हृदये मस्तके तथा ॥ 3.75 ॥

शिखायामानुपूर्व्येण स्कन्थस्योभय पार्श्वयोः ।
नेत्रयोर्दिक्षु सर्वासु न्यसनीयानि भूमिषु ॥ 3.76 ॥

षण्णां रूपाणि
विश्वास-प्रस्तुतिः
रूपाणि षण्णां कुमुदं बन्धूक मसितोत्पलम् ।
अब्जकेसर मम्भोज मतसी 23 सून सन्निभम् ॥ 3.77 ॥

दिव्यायुधधरं दिव्यवस्त्रमाल्यानु तेपनम् ।
कौस्तुभं वनमालां च श्रीवत्सं दिव्यलक्षणम् ॥ 3.78 ॥

बिभ्राणं भावयेत्साक्षादात्मानं परमेश्वरम् ।
अर्चयेन्न्यासबीजानि गन्दपुष्पादिभिः क्रमात् ॥ 3.79 ॥

मानसैरूप चारैश्च हृदयाम्भोरुहे स्धितम् ।
24 होमान्तमर्च येत्पूर्वं पासुदेवं सनातनम् ॥ 3.80 ॥

मन्त्रशुद्धिः
विश्वास-प्रस्तुतिः
आत्म शुद्धिरियं प्रोक्ता मन्त्रशुद्धिस्तु कथ्यते ।
षद्विंशे 25 नार्णबीजेन मन्त्रबीजानि 26 शोषयेत् ॥ 3.81 ॥

सप्तविंशेन बीजेन दहेदेतानि वर्णशः ।
अष्टाविंशेन बीजेन 27 खे च स्तम्भ नमाचरेत् ॥ 3.82 ॥

एकोनत्रिंशबीजेन तान्येव क्षा लयेत्पुनः ।
हुङ्कारेण प्रबुद्धानि फट्कारेण विचक्षणः ॥ 3.83 ॥

कुर्यादभिमुखान्य 28 न्वक्प्रणवेन विशोधयेत् ।
तमक्षमालया शुद्धं जपेन्मन्त्रं समाहितः ॥ 3.84 ॥

अष्टोत्तर शतं वारा नष्टाविंशति मेव वा ।
अष्ठौ वामन्त्रविन्मन्त्रं बीजाद्यन्त पुठीकृतम् ॥ 3.85 ॥

पूजाद्रव्याणि सर्वाणि क्षालयेच्चाम्बु पूरिताम् ।
29 दक्षिणे वामपार्श्वेवा विनिवेश्य गल न्तिकाम् ॥ 3.86 ॥

अर्घ्यादि पात्राण्यादाय गायत्र्या विष्ठुपूर्वया ।
प्रक्षाल्य पादेष्पादध्याद्देवस्याग्रेऽथ 30 पद्मज ॥ 3.87 ॥

पाद्यं मध्ये दक्षिणेऽर्घ्यं पामे चाचमनीयकम् ।
तस्य 31 पार्श्वस्य पार्श्वेतु वामे स्नानीयपात्रकम् ॥ 3.88 ॥

पूर्णानि गालिताम्बोभिः पात्राणि निगमादिना ।

अर्घ्यादिषु क्षेवणीयद्रव्याणि
विश्वास-प्रस्तुतिः
संस्पृश्यार्घ्यादि पात्रेषु द्रव्याणि विनिवेशयेत् ॥ 3.89 ॥

कुशाग्रमक्षतं पुष्पं फलं मलयजं तथा ।
तिर्ला सिद्धार्थसहितान् यवा 32 न र्घ्यस्य भाजने ॥ 3.90 ॥

तिलान् दूर्वां विष्णुपर्णीं श्यामाकं पद्ममक्षतम् ।
प्राद्यपात्रे षडेतानि द्रव्याणि विनिवेशयेत् ॥ 3.91 ॥

एलालवङ्गकर्पूरं जातीतक्कोल चन्दनम् ।
पुष्पाण्याचमनीये तु पात्रे द्रव्याणि कल्पयेत् ॥ 3.92 ॥

33 सन्धं सर्वैषधी रत्नफलबीज कुशानि च ।
तिलानि चाक्षतं चैव दधिक्षीरघृतानि च ॥ 3.93 ॥

रजनी द्वादशाङ्गानि 34 स्नानीये च विनिक्षिपेत् ।
कोष्ठं मांसीहिरिद्रे द्वे मुराशैलेयचम्पकाः ॥ 3.94 ॥

वचाकचोरमुस्ताश्च सर्वौषध्यः प्रकीर्तिताः ।
35 तिलानि तुलसी चैव निक्षिपेच्छान्ति वारिणि ॥ 3.95 ॥

द्रव्याणां दहनशोषणप्लावनादि
विश्वास-प्रस्तुतिः
द्वादशारं भासमानं चक्रं 36 मध्येतु भास्करम् ।
हस्ते पामेतरे ध्यात्वादीप्तौस्तद्रश्मिभिः पुनः ॥ 3.96 ॥

द्रव्याणि दग्ध्वानिश्शेषं भस्मीभूतानि तानि च ।
दक्षिणेतरहस्तस्थेसिते पद्मे विकस्वरे । 3.97 ॥

दलैष्षोडशभिर्युक्ते चन्द्रं पीयूषकश्मिभिः ।
ह्लौदयन्तं स्थितं ध्यात्वा तदुत्थैरमृताम्बुभिः ॥ 3.98 ॥

सिक्तानि जातानि पुन र्यागयोग्यानि भावयेत् ।
हस्तयोरुभयोर्देवं ध्यायेन्ना रायणं प्रभुम् ॥ 3.99 ॥

ताभ्यामर्घ्यादिपा त्रेषु स्पृष्ट्वा द्रव्याणि विश्वतः ।
सकृत्सकृत्सम्भृतानि गायत्र्या विष्णुपूर्वया ॥ 3.100 ॥

अभिमन्त्र्य ततो मुद्रां सौरभेयीं प्रदर्शयेत् ।
तद्दुग्धेन च पात्राणि पूरितानि विचिन्तयेत् ॥ 3.101 ॥

ओमर्घ्यमित्यादि पूर्वं कल्पयामीति 37 चोच्चरन् ।
स्पृशेत्पात्राणि हस्तेन पात्रेऽन्यस्मिन्नन न्तरम् ॥ 3.102 ॥

अर्घ्यपात्राज्जलं किञ्चद्गृहीत्वा विनिवेशयेत् ।
38 दक्षिणएतरहस्ते तत् पात्रं संस्थाप्य मन्त्रयेत् ॥ 3.103 ॥

मन्रैण मूलभूतेन वारान् सप्ततदम्बना ।
पठंसैनास्त्र मन्त्रेण द्रव्याण्यात्मानमेव च ॥ 3.104 ॥

योगपीठकल्पनम्
विश्वास-प्रस्तुतिः
प्रोक्ष्य कूर्चेन देवस्य योगपीठं प्रकल्पयेत् ।
अभिन्ने सहजे पीठे प्रतिमायाश्चतुर्मुख ॥ 3.105 ॥

आधारं प्रथमं रूर्मं कालाग्निं तदनन्तरम् ।
उपरिष्टाच्च भोगीन्द्रं पणाभिर्भूमिमण्डलम् ॥ 3.106 ॥

चतुरश्रं सहस्रेण बिभ्राणं बलवत्तरम् ।
भुवश्चोपरि धर्माद्याः कल्प्या योगासनाङ्घ्रयः ॥ 3.107 ॥

आग्नेयादिषु चत्वारश्चतसृष्वेव पद्मज ।
अधर्माद्याश्च तावन्तः 39 प्रागाद्यासु यथाक्रम् ॥ 3.108 ॥

आशासु तावतीष्वेव पुरुषाकृतयस्थ्सताः ।
चतुर्भुजास्सिंहवक्त्रास्सिताः पूर्वऽरुणाः परे ॥ 3.109 ॥

हस्ताभ्यामपि मुख्याभ्यां रचिताञ्जलि सम्पुटाः ।
अवराभ्यां च बिभ्राणा हस्ताभ्यां योगपीठिकाम् ॥ 3.110 ॥

मध्ये सदा शिवो देव स्तद्वदेव प्रतिष्ठितः ।
अथवा पुरुहूताद्या दिक्षु प्रागादिषु क्रमात् ॥ 3.111 ॥

अष्टावष्टनु पीठस्य पादरूपेण धारकाः ।
ईषाश्चतस्रः पूर्वाद्याः 40 तस्य वेद चतुष्टयम् ॥ 3.112 ॥

अहङ्कारास्त्रयः पाशा गुणास्सत्वादयो गुणाः ।
तूलिका पञ्चभूतात्मा जीवात्मास्तरणं तथा ॥ 3.113 ॥

अग्ने स्सोमस्य सूर्यस्य मण्डलान्यु परिक्रमात् ।
अम्भोजमुपरिष्टाच्च वलर्क्षंद्वादशच्छदम् ॥ 3.114 ॥

41 स्मेरकेसरसम्पूर्णं मध्ये विपुलकर्णिकम् ।
भद्रासनं कल्पयीत्वा यथो क्तेनैव वर्त्माना ॥ 3.115 ॥

पीठपार्श्वदेवताः
विश्वास-प्रस्तुतिः
अर्चयेद्गन्धपुष्पाद्यैः पीठपार्श्वैतु दक्षिणे ।
ब्रह्माणं विष्णु 42 मीशानं समाराध्य तथोत्तरे ॥ 3.116 ॥

सनत्कुमारं सनकं सनन्दं च सभाजयेत् ।
पार्श्वेच पश्चिमे दुर्गां विघ्नेशं नारदं तथा ॥ 3.117 ॥

आत्मनश्च गुरून् ध्यात्वा प्रारभेताच्युतार्चनम् ।

भगवदाराधनाम्भः
विश्वास-प्रस्तुतिः
आवाहनपदं पात्रं प्रक्षालितमथाम्बभिः ॥ 3.118 ॥

पूरमेस्मूलमन्त्रेण हस्ताभ्यां च समुद्धरेत् ।
ललाटसममेतस्मिन्नन्तरावाह्य केशवम् ॥ 3.119 ॥

मूलबिम्भा द्यथादीपं दीपादविकृतं तथा ।
यतुरुच्छारयेन्मन्त्रमागच्छ पदसं युतम् ॥ 3.120 ॥

तेनतोयेन कर्मार्चांसिञ्केत्कूर्चेन मूर्धनि ।
तत्र सन्निहितं देवं कर्मार्चायां विचिन्तयेत् ॥ 3.121 ॥

प्रणम्यकिञ्चदुत्थाय स्वागतो कैरनन्तरम् ।

मुद्राप्रदर्शनम्
विश्वास-प्रस्तुतिः
दर्शयेत्प्रतिमामुद्रां कल्पयीत्वा च सन्निधिम् ॥ 3.122 ॥

यावद्यागं स्थिति प्रार्थना
विश्वास-प्रस्तुतिः
यागावसानिकीं तत्र प्रार्थयेत हरेः स्थितम् ।
मूलम्
यागावसानिकीं तत्र प्रार्थयेत हरेः स्थितम् ।
सम्मुखीकरणम्
विश्वास-प्रस्तुतिः
सम्मुखीकरणं कुर्यात्पुण्डरीकाक्षविद्यया ॥ 3.123 ॥

सपर्यासनम्
विश्वास-प्रस्तुतिः
दद्याच्च मूलमन्त्रेण सपर्यासनमादितः ।
मूलम्
दद्याच्च मूलमन्त्रेण सपर्यासनमादितः ।
देहवदर्चायां मन्त्रेन्यासः
विश्वास-प्रस्तुतिः
यथा देहे 43 तथार्चायां मन्त्रन्यासं समाचरेत् ॥ 3.124 ॥

हस्तन्यासं विना मुद्राप्रदर्शनम्
विश्वास-प्रस्तुतिः
हस्तन्यासं विना शङ्खचक्रमुद्रां प्रदर्शयेत् ।

सुरसिद्धाद्यवतारितभिरे आवाहननिषेथः
44 नावाहयेदेकबेरे सुरसिद्धावतारिते ॥ 3.125 ॥
विश्वास-प्रस्तुतिः
ऋषिभिर्मनुजैर्वापि स्थापिते निश्चले 45 हरै ।
मूलम्
ऋषिभिर्मनुजैर्वापि स्थापिते निश्चले 45 हरै ।
सुस्थितेऽभिमुखीभाव एवावाहनं
विश्वास-प्रस्तुतिः
सुस्थतेऽभिमुखीभावस्त देवावाहनं हरेः ॥ 3.126 ॥

यथाग्निमाहितं कुण्डे यथा वा पुरुषं स्थितम् ।
काले प्रबोधयेदेवमर्चने बोधयेद्धरिम् ॥ 3.127 ॥

पूजारम्भे स्थिरबिम्बे योगपीठादीनां अवश्यकर्तव्यता
विश्वास-प्रस्तुतिः
कल्पनं योगपीठस्य मन्त्रन्यसनमेव च ।
बिम्बे स्थिरे सदा कार्यं पूजारम्भे चतुर्मुख ॥ 3.128 ॥

पाद्याचमनयोः स्थितं हरिंध्यायेत्
विश्वास-प्रस्तुतिः
अर्घ्यवस्त्राम्बराकल्प पुष्पगन्धानुलेपनैः ।
46 प्रत्यर्चितं स्थितं ध्यायेत्पाद्यचमनयोःपुनः ॥ 3.129 ॥

स्नोननै वेद्यकालयो स्सुखासीनं ध्यायेत्
विश्वास-प्रस्तुतिः
आसीनं स्नानकाले च पद्मासनसुखासने ।
नैवेद्यधूपदीपादापासीनं स्वस्तिकासने ॥ 3.130 ॥

अन्यतोप्रचारे स्थितमासीनं वा ध्यायेत्
विश्वास-प्रस्तुतिः
उपचारेषु चान्यत्र तत्तत्कर्मानुसारतः ।
स्थितमासीनमथवा देवं ध्यायेत पूजकः ॥ 3.131 ॥

पुष्पाञ्जलिः
विश्वास-प्रस्तुतिः
अर्चयामीति साम्नातु क्षिपेत्पुष्पाञ्जलिं हरेः ।
विभो सकललोकेश विष्णो जिष्णो प्रभो हरे ॥ 3.132 ॥

त्वां भक्त्या पूजयाम्यद्य भोगै रर्घ्यूदिभिः क्रमात् ।
47 दिव्येनार्घ्योपचारेण यथाशक्ति यथाविधि ॥ 3.133 ॥

अर्चयिष्यामि समये भगवन्तं जनार्दनम् ।
इति विज्ञाव्य देवेशं यजेदर्घ्यादिभिःक्रमात् ॥ 3.134 ॥

अर्घ्यादिदानकाले ध्यानप्रकारः
विश्वास-प्रस्तुतिः
भक्तिनम्रेण शिरसा दद्यादर्घ्यंच मूर्धनि ।
पादारविन्दयोर्दद्यात्पाद्यं पाद्यप्रतिग्रहे ॥ 3.135 ॥

ध्यायेदाचमनीयस्य दानकाले जगर्दुरुम् ।
आचामन्तमिवाम्भोभि स्साक्षादम्भः प्रतिग्रहे ॥ 3.136 ॥

उपचर्योपचारेण मधुपर्कादिना हरिम् ।
मूलम्
उपचर्योपचारेण मधुपर्कादिना हरिम् ।
प्रणामः
विश्वास-प्रस्तुतिः
हस्ताभ्यां शिरसा पद्भ्यां मनसा चधिया तथा ॥ 3.137 ॥

अहङ्कारेण चात्मानं निपात्य धरणी तले ।
अनेन प्रणिपातेन प्रणिपत्य जनार्दनम् ॥ 3.138 ॥

प्रार्थना
विश्वास-प्रस्तुतिः
दसोऽहं ते जगन्नाथसवुत्रादिपरिग्रहः ।
प्रेष्यं प्रशाधि कर्तव्ये मां नियुङ्क्ष्वहिते सदा ॥ 3.139 ॥

इति विज्ञाप्य देवेशं परिवाराम् प्रकल्पयेत् ।

योगासनाब्जपत्रेषु शक्तयः
विश्वास-प्रस्तुतिः
योगासनाब्जपत्रेषु पूर्वादिषु यथाक्रमम् ॥ 3.140 ॥

द्वादश द्वादशस्वेव शक्तीश्श्रीवत्सपूर्विकाः ।
श्रीवत्सं वनमालां चमायां योगात्मिकां तथा ॥ 3.141 ॥

वैष्णवीं विमलां सृष्टिं 48 शक्तिमुत्कर्षिणीमपि ।
प्रज्ञां सत्यां तथेशानामनुकम्पांपितामहीं ॥ 3.142 ॥

प्रथमावरणे शक्तयः
विश्वास-प्रस्तुतिः
प्रथमावरणे चापि दक्षु प्रागादिषु क्रमात् ।
व्याप्तिं कान्तिंचतृप्तिंचश्रद्धां विद्यां जयां क्षमाम् ॥ 3.143 ॥

शान्तिंच शक्तीरष्टैताः कृत्वा चामरधारिणीः ।

द्वितीयावरणस्थाः
विश्वास-प्रस्तुतिः
ततो द्वितीयावरणे सङ्खद्यायुधधारिणः ॥ 3.144 ॥

पुरुषानष्ट पूर्वादिष्वानु 49 पूर्व्येण कल्पयेत् ।

तृतीयावरणस्थाः
विश्वास-प्रस्तुतिः
तृतीयावरणे स्वासु दिक्ष्विन्द्रादीन् प्रकल्पयेत् ॥ 3.145 ॥

बहिरावरणस्थाः
विश्वास-प्रस्तुतिः
बहिरावरणे तार्क्ष्यं भगवत्प्रमुखं तथा ।
विष्वक्सेसं तधै शान्यां 50 द्वितीयावरणाद्बहिः ॥ 3.146 ॥

परिपाराणां भगवदभिमुखं स्थितिः
विश्वास-प्रस्तुतिः
परिवारा निरीक्षेरन् सर्वे प्राञ्जलयो हरिम् ।
मूलम्
परिवारा निरीक्षेरन् सर्वे प्राञ्जलयो हरिम् ।
स्नानासनम्
विश्वास-प्रस्तुतिः
दद्याच्च पादुके स्नातुमुत्थानसमये हरेः ॥ 3.147 ॥

इदंविष्णुरिति द्वाभ्यां पादुकारोहणं 51 हरेः ।
उद्धरेच्च हरिं स्नातुमुत्तिष्ठ ब्रह्मणस्स्पते ॥ 3.148 ॥

इतिमन्त्रेण देवेशं प्रापयेत् स्नानपीठिकाम् ।
मन्त्रस्तु भद्रंकर्णेभिरिति स्नानासनासने ॥ 3.149 ॥

सावित्र्या वितरेदर्घ्यं पाद्यं त्रीणिपदेति च ।
आपः पुनन्त्वित्येतेन मन्त्रेणाचमनक्रिया ॥ 3.150 ॥

52 दन्तधावन काष्ठं च तद्विष्णोरिति निर्वपेत् ।
अभ्यङ्गं पामदैव्येन कुर्यादुद्वर्तनं पुनः ॥ 3.151 ॥

कार्यं विष्णोर्नुकमिति मन्त्रेणामलकादिकं ।
53 प्रतद्विष्णुरिति क्षाल्यमभिषेक विधिस्ततः ॥ 3.152 ॥

अपाहिष्ठेति तिसृभिरतोदेवा अवन्त्विति ।
कङ्कतेन मृजेत्केशान् कलशैस्स्नपनं ततः ॥ 3.153 ॥

हिरण्यवर्णां हरिणीमिति लेपो हरिद्रया ।
हिरण्यवर्णां श्शुचयःपावकेति चतसृभिः ॥ 3.154 ॥

क्षाल्यो सन्धाम्बुना देहः पुनस्तं कुञ्कुमेनतु ।
आलिप्य विष्णुगायत्र्या क्षालमेत्पावमानीभिः ॥ 3.155 ॥

ब्रह्मजिज्ञानमिति च कयानश्चित्र अभुवत् ।
इत्येव मर्घ्यपाद्याद्यै 54 र्यजेदाद्यं महेश्वरम् ॥ 3.156 ॥

परिषिच्य तु सावित्र्या सूक्तेन पुरुषात्मना ।
सहस्रधारया स्नानं यद्वाकुम्भेन तद्भवेत् ॥ 3.157 ॥

अग्निर्मूर्द्धेतिमन्त्रेण प्लोतेनाङ्गाम्बु निर्हृतिः ।
विष्णुगायत्रिया दद्या द्वस्त्रे द्वे धौतनिर्मले ॥ 3.158 ॥

अलङ्कारासनम्
विश्वास-प्रस्तुतिः
प्रणवेन ब्रह्मसूत्रमुत्तरीयं च कल्पयेत् ।
अचान्तमन्वधिष्ठाय पादुके मण्डनासने ॥ 3.159 ॥

सुखासीनाय देवाय प्राग्वदर्घ्यादि नर्वपेत् ।
धूपेनागुरुजे 55 नार्द्रामूर्ध्रानं दिवइत्यृचा ॥ 3.160 ॥

केशान् संशोष्य शुचिना चन्दनेन सुगन्धिना ।
इदं विष्णुरिति श्रुत्या लेपनं वपुषिस्मृतम् ॥ 3.161 ॥

जितं त इतिमन्त्रेण मण्डनैरपि मण्डयेत् ।
पुष्पाणि दद्यात्त द्विष्णो रितिमन्त्रेण मन्त्रवित् ॥ 3.162 ॥

इरावतीति मन्त्रेण पादयोरक्षतान् क्षिपेत् ।
अञ्जनं विष्णुगायत्र्याव्याहृत्यादर्वणेक्षणम् ॥ 3.163 ॥

जितं त इति धूपैश्च धूपयेदगुरूत्थितैः ।
उद्धीप्यस्वेति मन्त्रेण दीपारोपण मिष्यते ॥ 3.164 ॥

तिलान् वस्त्रं तथा हेम ताम्बुलं तण्डुलानपि ।
फलानि गव्यमाघारं गाश्चध्यानं यथावसु ॥ 3.165 ॥

गोग्रासं देशिकायैव दद्याद्देवस्य सन्निधौ ।
अधिपस्य तथा राज्ञो राष्ट्रस्य सकलस्य च ॥ 3.166 ॥

प्रजानां ब्राह्मणादीनां दानमभ्युदयावहम् ।
अपनीते यवनिकापटे भक्तानुकम्पया ॥ 3.167 ॥

घोषयेत्तूर्यघोषेण नृत्तं गीतं तथाचरेत् ।
स्तोत्राणि च कथाश्चित्रा वेदनाङ्गानि षटे तथा ॥ 3.168 ॥

पठेयुरग्रे देवस्य सर्वमन्यच्च मङ्गलम् ।
मूलम्
पठेयुरग्रे देवस्य सर्वमन्यच्च मङ्गलम् ।
भोज्यासनम्
विश्वास-प्रस्तुतिः
आचरे त्पादुके दत्वा गमयेद्भोजनासनम् ॥ 3.169 ॥

दत्वार्घ्यं पाद्यमाचामं मधुपर्कं निवेदयेत् ।
प्रणवेन ततो दद्या त्ताम्बूलीमास्य शोधनीम् ॥ 3.170 ॥

56 ह विर्नवेदयेत्सिद्धं भोज्यभक्ष्यादिकं तथा ।
मधुराति कसोपेतं विध्युक्तं सुसमाहितेः ॥ 3.171 ॥

सुसंस्कृतैश्च 57 निष्पन्नैर्यक्तमन्यैःफलादिभिः ।
अपक्तैरपतिपक्वैश्च यथा योगं प्रकल्पयेत् ॥ 3.172 ॥

राजोपचार 58वत्सर्वमुप चारे प्रकल्पयेत् ।
प्रोक्षितं चास्त्रमन्त्रेण परिषिच्य च मर्मणा ॥ 3.173 ॥

प्रणवेनार्हणे दत्ते दहनाप्लावनादिके ।
कृते च सुरभीमुद्रां दर्शयित्वाच देशिकः ॥ 3.174 ॥

न्यस्तेऽर्घ्यपुष्टे संस्पृष्टे विष्णुहस्ते समाधिना ।
59 अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु 60 ॥ 3.175 ॥

प्रगृही तार्घ्यपुष्पेण दर्शितग्रासमुद्रया ।
देवस्य त्वेति मन्त्रेण नै वेद्यं तद्यथोदिशम् ॥ 3.176 ॥

देवस्य दक्षिणे हस्ते निर्वपेत्साधरस्स्वयम् ।

ताम्भूलसमर्पणम्
विश्वास-प्रस्तुतिः
दत्तेऽन्नपानके हस्ते पानीये च सुसंस्कृते ॥ 3.177 ॥

कृते चाचमने दद्यात्ताम्भूली मास्यशोधिनीम् ।
क्रियाकलापं पूजादै कर्मार्चायां यदीरितम् ॥ 3.178 ॥

तत्सर्वं ध्रुवबेरादौ यथासम्भवमाचरेत् ।
अर्घ्यादिषूपचारेषु कर्तव्येषु यथातथम् ॥ 3.179 ॥

मन्त्रपूर्वेषु सर्वषु वाचमेनामुदीरयेत् ।
दिव्येनार्घ्योपचारेण यथाशक्ति यथाविधि ॥ 3.180 ॥

अर्चयिच्यामि समये भगवन्तं जनार्दनम् ।
इत्यादिकामवितथां पूजकस्सुसमाहितः ॥ 3.181 ॥

चतुर्भिरेवगन्धाद्यैः परिपारार्चनं मतम् ।
सर्वस्मिन्नुपचारे च स्तुत्यन्तेऽपुष्ठिते पुनः ॥ 3.182 ॥

जपेच्च पूजको मन्त्रं यथोदीरितसञ्ख्यया ।
द्वादशाक्षरमन्यं वा तदन्ते हुहुयाद्बहिः ॥ 3.183 ॥

भूतेभ्यो बलिदानं च कुर्यान्नित्यं महोत्सवम् ।
विज्ञाप्य देवदेवेशं पूजकः 61 प्रणमेत्स्वयम् ॥ 3.184 ॥

आददीतावशिष्टानि पूजावस्तूनि कृत्स्नशः ।
तैरात्मपूजनं कुर्यात्तुष्येत्तेनापि केशवः ॥ 3.185 ॥

मन्त्रैर्यथोक्तैराराध्य सूक्तेन पुरुषेण वा ।
अथवाद्वादशार्णाद्यैर्मन्त्रैर्बिम्भमुखे हरिम् ॥ 3.186 ॥

प्रपद्यते परं श्रेया निष्कामो यदि पूजकः ।
62 कामनायास्तु काम्यानि फलानि प्रति पद्यते ॥ 3.187 ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मेतन्त्रेचर्यापादे नित्ययागविधिर्नम तृतीयोऽध्यायः ॥
-
अत्र “ऊर्ध्वपुण्ड्रं मृदा धार्यं सान्तरालं त्रियङ्गुलम् । लक्ष्म्यासार्धं सुखासीनो कमेZहं तत्र निर्वृतः ॥” इति पद्यं क्वचिद्दृश्यते. ↩︎ ↩︎
-
“फण्टायाश्चालनं कुर्यात्कपाटोद्घाटनादिषु” इदमर्धं क्वचिदधिक मस्ति. ↩︎ ↩︎
-
श्वेतमृत्स्नाम्बुकल्केन धारयेदूर्ध्व पुण्ड्रकम्. इदमर्धं चन्दनेत्य र्धस्थानेक्वचिद्दृश्यते. ↩︎ ↩︎
-
“परिवाराननभ्यर्च्य तथैवाग्नि समीडनम् । भोगैरकृत्वा देवस्य पूजास्यान्निष्प्रयोजना । तस्माद्यथोक्तमार्गेण पूजनं स्थान वृद्धिदम् ।” इति क्वचि दधिकं दृश्यते. ↩︎ ↩︎
-
तन्मात्रां च स्पर्शनाम्नाम्. ततश्च स्पर्शतन्मात्राम्. तन्मात्रां च ततोरूपाम्. इति च पाठान्तरम्. ↩︎ ↩︎
-
“श्रीरर्घ्यस्य भवद्देवी वागीशाचमनीयके । पाद्यस्य पितरो देवा स्नानीये वरुणस्तथा…कस्य शान्तिस्स्यात्पात्रेष्वेतास्समर्चयेत् ॥” इत्यधिकमेकत्र दृश्यते. ↩︎ ↩︎
-
आवाहयेत्. ↩︎
-
जिह्वानिर्लेखनं चैन विष्णु गायत्रि विद्यया. इतीदमर्धंक्वचिदधिकमस्ति. ↩︎ ↩︎
-
विधाय दक्षिणं जानुं भूमिसंस्पर्शगं पुनः. इति क्वचिदधिकमस्ति. ↩︎ ↩︎
-
अन्नम्य पामपृष्ठेन दक्षिणेन करेण तु. इद मर्धमन्वारब्धेत्यस्य प्रतिनिधितया क्वचिद्दृश्यते. ↩︎ ↩︎