०२

द्विक्षास्वरूपप्रश्नः

ब्रह्मा :–

ये दीक्षायामधिकृता ये च तत्र बहिष्कृताः ।
ते यथावदशेषेण कथिताः पुरुषोत्तम ॥ 2.1 ॥

दीक्षा स्वरूपविषये बुभुत्सा मम सम्प्रति ।
विजृम्भते तत्स्वरूपमुपदेष्टुं त्वमर्हसि ॥ 2.2 ॥

दीक्षाविधि निरूपणम्

तत्र स्थानोपकरणादि

श्रीभगवान् :—

प्रतिष्ठाविधिवत्सर्वं दीक्षामण्डपमादितः ।
कारयित्वा शुचौ देशे तद्वदेव चतुर्मुख ॥ 2.3 ॥

देशे च पश्चिमे वेद्याः गुण्डं तालत्रयाद्बहिः।
कारयित्वाद्विजेन्द्रादि वर्णानामनुपूर्वशः ॥ 2.4 ॥

अनुकूलं चतुष्कोणं तालद्वयमितान्तरम् ।
वृत्तं गोकर्णयुग्मेन विस्तीर्णं तदनन्तरम् ॥ 2.5 ॥

चापाकारं वितस्तिभ्यां विस्तारायाम सम्मितम् ॥

त्रिकोणमितरत्कुण्डं प्रादेशद्वयविस्तृतम् ॥ 2.6 ॥

आयामस्स्रुक्स्रुवादीनामीदृशो ब्राह्मणादिषु ।

यजनकालः

दशम्यां यागसम्भारास्सम्भूर्यान्समिधादयः ॥ 2.7 ॥

एकादश्यां तु सायाह्ने तिथौ स्यादधिवासनम् ।

चक्राब्जमण्डले कुम्भन्यासः

मण्डपे यजने स्थाप्यं द्वारकुम्भादि पूर्ववत् ॥ 2.8 ॥

धारणाशोधिततनुश्चक्राब्जं वर्तयेद्गुरुः ।
कुम्भं च हेमादिमयं करकं चापि तादृशम् ॥ 2.9 ॥

गालितोदकसम्पार्णं न्यस्तरत्नसुवर्णकम् ।
सूत्रवेष्टितनर्वाङ्ग्रं प्रक्चन्दन परिष्कृतम् ॥ 2.10 ॥

अहताभ्यां च पासोभ्यां च्छादितं दोषवर्जितम् ।
अस्त्रेण शतवारं तु करकं चाभिमन्त्रयेत् ॥ 2.11 ॥

अच्छिन्नधारया सिञ्चे द्वेदिकां परितो गुरुः ।
प्रादक्षिण्येन करकं नीत्वा कुम्भं च पृष्ठतः ॥ 2.12 ॥

ऐशाने चक्रपद्मस्य भागे धान्ये निवेशयेत् ।
दक्षिणे कलशं वामे करकं मूलविद्यया ॥ 2.13 ॥

कुम्भे च हरिमावाह्य पूजयेच्छास्त्रवर्त्मना ।
यजेत देवं चक्राब्जमण्डले कमलासन ॥ 2.14 ॥

साङ्ग्रं सपरिवारं च यथाविधि यथाक्रमम् ।
मथित्वाऽष्टाक्षरेणाग्निं गुण्डे तं विनिवेशयेत् ॥ 2.15 ॥

चरोश्चातुर्विध्यम्

तत्र सिद्धं चरुं कृत्वा चतुर्धैकं निवेदयेत् ।
मण्डलस्थाय हरये कुम्भे भागमथेतरम् ॥ 2.16 ॥

अग्नौ चैकं स्वयं चैकमुप युञ्जीत देशिकः ॥

समिधश्शतमष्टा च जुहुयाद्देशिकोत्तमः ॥ 2.17 ॥

आज्यहोमोऽपि तद्वत्स्यान्मूलमन्त्रेण मन्त्रवित् ।
चरुं नृसूक्तेन तथा पूर्णाहुत्यन्त मन्यतः ॥ 2.18 ॥

सिष्यलक्षणं तत्संस्काराश्च

शिष्यं स्नातं जितक्रोधं मदाद्येर्वर्जितं शुचिम् ।
1 अहतक्षौमवसनं सोत्तरीयमलज्कृतम् ॥ 2.19 ॥

आहूय पाससा बध्वा गुरुर्नेत्रे स्व विद्यया ।
आत्मनो दक्षिणेपार्श्वे निवेश्य प्राङ्मुखं यथा ॥ 2.20 ॥

तेन दर्भैश्छ संस्पृष्टः पुण्डरीकाक्ष विद्यया ।
द्वादशाहुतिमाज्येन जुहुयाच्चरुणा तथा ॥ 2.21 ॥

समित्पुष्पतिलैश्चापि ततः प्रसृति मुद्रया ।
त्रिर्मूर्ध्नि शिष्यमालभ्य प्रादक्षिण्येन देशिकः ॥ 2.22 ॥

अष्टाक्षरेण मन्त्रेण ततो भस्म 2 समिद्भवम् ।

पाण्डरं मूर्ध्नि शिष्यस्य विनिवेश्योर्ध्व पुण्ड्रकम् ॥ 2.23 ॥

अस्त्रमन्त्रेण भध्नीया त्सूत्रं प्रतिसरं करे ।
पीत्वा शिष्यः पञ्च गव्यं प्रणवेन चरुं ततः ॥ 2.24 ॥

भुञ्जीत कायशुद्ध्यर्थं दर्ना काष्ठेन धावयेत् ।

दन्तकाष्ठाग्र निमित्तपरीक्षा

दन्तकाष्ठं च भूभागे निपात्याग्रं विलोकयेत् ॥ 2.25 ॥

नैरृते मारुते याम्ये यद्यग्रमशुभं भवेत् ।
शुभमन्यत्र दिग्भागे काष्ठाग्रे प्रतिते भवेत् ॥ 2.26 ॥

अशुभं शान्तिहोमेन शाम्येच्छु भकरश्चसः ।
नारसिंहेन मन्त्रेण तिलैकष्टोत्तरं शतम् ॥ 2.27 ॥

होमः कार्यस्ततश्शिष्यमाचान्तं देपवन्निदौ ।
करे गृहीत्वा दे वेशं प्रणम्य गुरुरात्मवान् ॥ 2.28 ॥

विज्ञापयेदिमां गाधामुच्चार्य कमलासन ।

गुरुणा भगवते शिष्यसमर्पणम्

संसारपाशबद्धानां पशूनां पाशमोक्षणे ॥ 2.29 ॥

त्वमेव शरणं देव गतिकन्यान विद्यते ।
वाशमोक्षणहेतुर्यस्त्वत्समाराधनात्मकः ॥ 2.30 ॥

तेनेमान् जन्मपाशेन पाशितान् पशुजन्मनः ।
विपाशयादिदेवेश तदनुज्ञातुमर्हसि ॥ 2.31 ॥

इति विज्ञाप्य शिष्यं तं मायासू त्रेणवेष्टयेत् ।

मायासूत्र स्वरूपम्

शुक्लं कक्तं च कृष्णं च त्रिवर्णं त्रिगुणीकृतम् ॥ 2.32 ॥

सूत्रं पुनश्चत्रिगुणं कृत्वा सूत्रेण तादृशा ।

मायासूत्रेण शिष्य कायवेष्टनम्

शिखां प्रक्रम्य पादान्तं पञ्चविंशति सङ्ख्यया ॥ 2.33 ॥

वेष्टयेन्मूलमन्त्रेण कायं शिष्यस्य सर्वतः ।
जुहुयात्तेन मन्त्रेण शिष्यं संस्पृश्य देशिकः ॥ 2.34 ॥

सर्पिषाष्टोत्तरशतं पारान् पूर्णाहुतिं ततः ।

स्वप्नार्थं होमः

स्वप्नाधिपतिमन्त्रेण सर्पिषाष्टोत्तरं शतम् ॥ 2.35 ॥

स्वप्नदर्शनसिद्ध्यर्थं जुहुयाद्देशिकोत्तमः ।
माषोदनेन भूतेभ्यो बलिं दद्यात्समाहितः ॥ 2.36 ॥

मायासूत्रमोक्षणम्

विमुक्तनेत्रबन्धस्य शिष्यस्य तनुबन्धनम् ।
मायासूत्रं समादाय शरावेन्यस्य निक्षिपेत् ॥ 2.37 ॥

कुम्भपार्श्वेशरावेण पिधायान्येस देशिकः ।

शिष्यस्वापनम्

दर्भानास्तीर्य तत्तल्पे शिष्यस्वापनमाचरेत् ॥ 2.38 ॥

मण्डलस्थं च कुम्भस्थं देवं नूद्वास येत्तदा ।

शुभस्वप्ने दीक्षानुज्ञा

ततः प्रभाते शिष्यस्य शुभं चेत्स्वप्न दर्शनम् ॥ 2.39 ॥

अशुभस्वप्ने शान्तिहोमः

दीक्षेत नूचेदशुभं शान्तिहोमं समाचरेत् ।

दीक्षाविधिः

स्नात्वा शिष्येण सहितः प्रविसेद्याग मण्डपम् ॥ 2.40 ॥

ध्वाजतोरण कुम्भादिपूजा पूर्ववदिष्यते ।
चतुर्विधं निवेद्यान्नं समस्कृत्य प्रदक्षिणम् ॥ 2.41 ॥

शिष्यं तु पूर्ववन्नेत्रे बध्वा नूतनवाससा ।
निवेश्य वूर्ववत्पार्श्वे जुहुयात्समिधादिभिः ॥ 2.42 ॥

प्रत्येकमष्टोत्तर शतं मूलमन्त्रेण देशिकः ।
मायासूत्रं ततश्छित्वा संहारक्रम मास्थितः ॥ 2.43 ॥

तत्त्वान्यादिश्य जुहुयात्प्रकृत्यन्तानि देशिकः ।
प्रत्येकमष्टोत्तर शत मष्टकृत्वोऽथवागुरुः ॥ 2.44 ॥

3 हृत्पद्मे परमं ज्योति र्ध्यात्वा परमपूरुषम् ।
तस्मिन् जीवं च शिष्यस्य संहरेन्मन्त्रवित्तमः ॥ 2.45 ॥

शोषणादीनि देहस्य शिष्यसम्भन्धिन स्तथा ।
कृत्वा तत्र स्मरेदण्डं ततस्स्व हृदयाम्बुजात् ॥ 2.46 ॥

सज्क्रमय्य पुनर्जीवं प्रकृत्यादि क्रमात्सृजेत् ।
सर्गकाले च जुहुयात्तत्त्वानि क्रम 4 मूस्थितः ॥ 2.47 ॥

सृष्ट्वा स्थूलशरीरान्त मण्डभेदं विचिन्तयेत् ।
तन्मध्ये पुरुषं ध्यात्वा जातमात्मान मात्मना ॥ 2.48 ॥

प्रोक्षयेन्मूलमन्त्रेण नेत्रबन्धं च मोचयेत् ।
शिष्यस्तु परिधायान्यद्वासःपादौ प्रसाद्य च ॥ 2.49 ॥

अचम्य पाससाऽन्येन बद्धनेत्रो 5 न्तिके गुरोः ।
असीत प्राङ्मखस्तस्मिन् 6 शोधयेच्च षडध्वाना ॥ 2.50 ॥

अध्वषट्कम्

कलाध्वा च पदाध्वा च भुननाध्वातथैव च ।
मन्त्राध्वा मन्त्रवर्णाध्वाषडध्वानः प्रकीर्तिताः 7 ॥ 2.51 ॥

पूर्वविधि शेषः

पूर्नमाज्याहुतिं हुत्वा महाव्याहृतिविद्यया ।
हुतशेषेण शिष्यस्य पादौस्पृष्ट्वा ततस्तिलैः ॥ 2.52 ॥

हुत्वा नाभिं समालभ्यततो हुत्वाकुशेशयैः ।
स्पृष्ट्वा च हृदयं हुत्वा चरुणा मूर्धनिस्पृशेत् ॥ 2.53 ॥

अष्टोत्तर शतं होमः प्रत्येकं मूलविद्यया ।
होमन्तेच गुरुश्शिष्यं गृहीत्वा दक्षिणे करे ॥ 2.54 ॥

नीत्वा प्रदक्षिणं कुम्भं मण्डलं च यथोदितम् ।
द्वारे तिष्ठंश्चतुर्णां तु द्वाराणां कमलासन ॥ 2.55 ॥

मणिमुक्ताप्रवालैर्वा 8 पुष्पैर्वाकेवल्तेर्गुरुः ।
अञ्जलिं पूरयेदन्ते ततस्तस्य विकस्वरैः ॥ 2.56 ॥

दीक्षितस्य नामनिर्देशः

पुष्पादि विकि रेत्तस्मिन् मण्डले गुरुचोदितः ।
यस्मिन् पतति भूभागे पुष्पाणामुत्करस्स्वयम् ॥ 2.57 ॥

तद्भागाधिपमूर्तीनां नामान्यस्य विनिर्दिशेत् ।
शिष्यस्य केशवादीनि पदं भागवतेति च ॥ 2.58 ॥

नाम्नामन्ते प्रयोक्तव्यं यद्वा भट्टारकेति च ।
ब्राह्मणच्चेत् क्षत्रियस्य देह नं नामनिर्दिशेत् ॥ 2.59 ॥

वैश्यस्य 9 पालशब्दान्तं दासान्तं पादजन्मनः ।
ततो विमुच्य दृग्बन्धं दर्शयेच्चक्रमण्डलम् ॥ 2.60 ॥

शिष्येण सहितो वेद्यां ध्यायेन्ना रायणं गुरुः ।

मन्त्रोपदेशः

ध्यात्वाच दक्षिणे कर्णे शिष्यस्य प्रणवान्वितम् ॥ 2.61 ॥

मन्त्रं दद्यादृषिच्छन्धो दैवतं चाङ्ग्रमेव च ।
द्वादशाक्षरमादौ तु पश्चादष्टाक्षरात्मकम् ॥ 2.62 ॥

मूर्तिमन्त्रांश्च तदनु समध्याप्य यथाविधि ।

स्त्रीशूद्राणां मन्त्रोपदेसे विशेषः

केवलं वैष्णवं नाम नमः प्रणववर्जितम् ॥ 2.63 ॥

हुं फढादिवषट् स्वाहावर्जितं केशवादिकम् ।
अध्याप्यं स्त्रीषु शूद्रेषु तद्वदेवानुलोमजे ॥ 2.64 ॥

शिष्येण कुम्भमण्डलस्थदेवतार्चनम्

कुम्भस्थं मण्डलस्थं च हरिं शिष्यस्समर्चयेत् ॥ 2.65 ॥

गुहुणा शिष्यनियमोपदेशाय संविधानम्

आराध्य हरिमुत्थाय तस्थुषः प्रञ्जले स्तथा ।
मूर्ध्नि शिष्यस्यस गुरु 10 र्हस्तेध्यात्वाब्जमण्डलम् ॥ 2.66 ॥

हस्तं न्यसे द्विष्णुहस्ते ततश्शिष्यस्य देशिकः ।
11 आचारान्नि यमान् सर्वान् बोधयेदग्नि सन्निधौ ॥ 2.67 ॥

शिष्यानुष्ठेया बाह्यनियमाः

मन्त्रः परस्य नाख्येयो नाक्षसूत्रं प्रदर्शयेत् ।
न च मुद्रां नापि सिद्धिं मन्त्रस्य कथयेत् 12 स्वयम् ॥ 2.68 ॥

आचार्यनाम नवदे 13 न्नि योगान्नास्य लङ्घयेत् ।

शयनादींश्चन गुरोराक्रमेन्न च लङ्घयेत् ॥ 2.69 ॥

न गुरुं दूषयेद्वाचा नाचरेत्तस्य विप्रियम् ।
गुरुवद्गुरुदारेषु वर्तितव्यमसन्निधौ ॥ 2.70 ॥

आचार्यमच्युतं शात्त्रं त्रयं सम्मान येत्सदा ।

नास्तिकादि सहवास निषेधः

नास्तिकान् भिन्नमर्यादान् देव ब्रह्मणदूषकान् ॥ 2.71 ॥

नस्पृशेन्नैव तैस्सार्धं संवसेद्दुर्दशान्वपि ।

गुरुदेवादिसन्निधौ वृत्तिः

प्रसारयेन्नैव पादौ गुरुदेवाग्नि सन्निधौ ॥ 2.72 ॥

नियमविशेषाः

वेदितव्यं जगत्सर्वं वासुदेवमयं सदा ।
अनर्चयीत्वा देवेशं नात्मपोषण माचरेत् ॥ 2.73 ॥

जवस्तोत्रप्रणामादीन् सन्ध्याकाले समाचरेत् ।
भगवद्ध्यानतत्कर्म 14 कीर्तनेषु सदा कमेत् ॥ 2.74 ॥

वैष्णवं च यतिं चैव दृष्ट्वातं प्रणमेत् क्षितौ ।
पुत्रदारगृहक्षेत्र पश्वादि धनमात्मनः ॥ 2.75 ॥

व्यपदेश्यमशेषेण नाम्ना भगवतो भवेत् ।
समस्सर्वेषु भूतेषु कामक्रोधौ विपर्जयेत् ॥ 2.76 ॥

शनैश्शनैरिन्द्रियाणि विषयेभ्यो निवारयेत् ।
संसारविमुखैस्सार्धं शास्त्राभ्यासं समाचरेत् ॥ 2.77 ॥

श्रौतस्मार्तादिकर्माणि सदि सेवेत नेतरत् ।
स्वनूत्रोक्तेन विधिना निषेकादिक्रिया भवेत् ॥ 2.78 ॥

कुर्यात्सर्वाणि कर्माणि भगवद्ध्यानतत्परः ।
गुह्यं नाम च गोत्रं च प्रकृतं नान्यदिष्यते ॥ 2.79 ॥

आसीनो वा शयानो वा गच्छन् भुञ्जान एव वा ।
सज्कीर्तयेत् स्मरेद्वापि वासुदेवं सनातनम् ॥ 2.80 ॥


  1. दधतं क्षौमवसनम्. ↩︎

  2. समुद्भवम्. ↩︎

  3. स्पहृत्पद्मे परञ्ज्योतिऽ. ↩︎

  4. माश्रितः ↩︎

  5. निजे गुरौ. ↩︎

  6. च्छादयेत्. ↩︎

  7. अत्र तत्त्वाध्वनः नाम निर्देशः अभ्यूह्यः. ↩︎

  8. केसलैर्गुरु रात्मवान्. ↩︎

  9. बालशब्दान्तम्. ↩︎

  10. स्ततो. ↩︎

  11. आचारं नियमान्. ↩︎

  12. स्वरम्. ↩︎

  13. न्नियैगम्. ↩︎

  14. कर्तन्येषु ↩︎