०१

        ॥ ब्रह्मणा भगवदाराधन विधानप्रश्नः ॥

ब्रह्मा—

कर्षणादि प्रतिष्ठान्तं कर्म यस्य 1 प्रसिद्धये ।
तं समाराधनविधिं श्रोतुमिच्छामि साम्प्रतम् ॥ 1.1 ॥

आराधनविधिः कीदृगधिकारी च कीदृशः ।
भगवंस्तदशेषेण ब्रूहि मे भक्तवत्सल ॥ 1.2 ॥

      ॥ भगवता स्वाराधनाधिकारि निरूपणम्.॥

श्रीभगवान् :—

श्रूयतामभिधास्वामि पृष्टं निरवशेषतः ।
चतुर्णां ब्राह्मणादीनां वर्णानां 2 कमलासन ॥ 1.3 ॥

अधिकारोऽनुलोमानामपि नान्यस्य कस्य चित् ।
पूजाविधौ भगवतः परस्य परमात्मनः ॥ 1.4 ॥

प्रतिलोमभुवां सूतः प्रथमस्तत्र शस्यते ।

      ॥ एकायनशाखाध्यायिनां मुख्योऽधिकारः ॥

आद्यमेकायनं वेदं सद्ब्रह्म प्रतिपादकम् ॥ 1.5 ॥

तेनैव संस्कृता विप्रा मुख्य कल्पाधिकारिणः ।

      ॥ अन्येषां ब्राह्मणादीनां दीक्षयानुकल्पाधिकारः ॥

अन्येषां ब्रह्माणादीनां वर्णानां दीक्षया क्रमात् ॥ 1.6 ॥

त्रयाणां क्षत्रियादीना मनुलोमभुवामपि ।

      ॥ सूतस्य स्वार्थमात्र यजनेऽधिकारः ॥

सूतस्य च विशेषेण दीक्षा चात्मपराऽनिशम् ॥ 1.7 ॥

      ॥ विप्राणां मुख्यानुकल्पयोरपि परार्थयजनेऽधिकारः ॥

परार्थयजनं कुर्युर्वप्रा मुख्यानुकल्पयोः ।

      ॥ दीक्षा हीनानामनधिकारः ॥

नैवाधिकारिणस्तेच 3 दीक्षा संस्कारवर्जिताः ॥ 1.8 ॥

यथैव दीक्षणीयेष्ट्या जायन्ते ब्राह्मणादयः ।
तथैव दीक्षाविधिना जायामाना यथोदिताः ॥ 1.9 ॥

पूजाविदौ भगवतः प्रकल्पन्तेऽधिकारिणः ।
ब्रह्मा—

      ॥ ब्राह्मणादीनां जन्मकर्मणोर्निरूपणप्रश्नः ॥

भगवन् ब्राह्मणादीनां जन्म कर्म च भावुकम् ॥ 1.10 ॥

विहितं च विवाहं च यच्च यावच्च यादृश्यम् ।
मह्यं जिज्ञासमानाय भक्ताय परमेश्वर ॥ 1.11 ॥

तदशेषं यथातत्त्वमुपदेष्टुं त्वमर्हसि ।
॥ भगवता तन्नि रूपणम्.॥

श्रीभगवान् :—

सत्वं कजस्तमश्चेति स्त्रेगुण्यं कमलासन ॥ 1.12 ॥

तन्मयीं तनुमास्थाय ससर्जाहं पुरा प्रजाः ।
॥ सत्वप्रथानू विप्रसर्गः ॥

सत्वेऽधिके मुखे विप्रानसृजं विथुनात्मकान् ॥ 1.13 ॥

      ॥ रजः प्रधानः क्षत्रियसर्गः ॥

रजोगुणेऽतिशयिते बाहुभ्यां क्षत्रियां स्तथा ।
॥ गुणसाम्ये वैश्यसर्गः ॥

ऊरुभ्यां गुणसाम्येतु असृजं मिथुनं विशाम् ॥ 1.14 ॥

      ॥ तमः प्राचुर्ये शूद्रसर्गः ॥

आधिक्ये तमसः पर्द्भ्यां शूत्रान् मिथुनरूपिणः ।
॥ वर्णेषु पूर्वपूर्वश्श्रेयान् ॥

एतेच वर्णाश्श्रेयांसः पूर्वेपूर्वे यथोदिताः ॥ 1.15 ॥

      ॥ श्रेयस्त्वे जन्मकर्मणोर्हेतुभावः ॥

हेतुभ्यां जन्मकर्मभ्यां श्त्रेष्ठ्यमेषु प्रकल्पते ।
॥ द्विजानामाश्रय चतुष्टयम्. ॥

त्रयस्तेषु द्विजाः पूर्वे मौञ्जबन्धनकर्मणा ॥ 1.16 ॥

चत्वारश्चाश्रमा ब्रह्हन् सर्वएव द्विजन्मनाम् ।
॥ प्रथमः ब्रह्मचर्याश्रमः ॥

उपनीय गुरोः पार्श्वे व्रतानुष्ठान पूर्वकम् ॥ 1.17 ॥

वेदाध्ययनमादौयत्स श्रेयान् प्रथमाश्रमः ।
॥ द्वितीयः गृहस्थाश्रमः ॥

भार्यासङ्ग्रहणं स्नात्वा प्रजायै तदन न्तरम् ॥ 1.18 ॥

तया च धर्मचरणं द्वीतीयश्चाश्रमस्मृतः ।
॥ तृतीयः वानप्रस्थाश्रमः ॥

गत्वा सभार्योविपिनं यथोक्तेनैव वर्त्मना ॥ 1.19 ॥

वने वन्य फलहारो विहितेन्द्रिय निग्रहः ।
वसेत्तृतीयो विज्ञेयश्चाश्रमः कमलासन ॥ 1.20 ॥

      ॥ तुरीयस्सन्न्यासाश्रमः ॥

पुत्रे दारान्विनिक्षिप्य शिखी मुण्डी त्रिवण्डवान् ।
यद्वैकदण्डनियतो ब्रह्मध्यानपरायणः ॥ 1.21 ॥

निवृत्तसर्वकामस्तु वसेत्तुर्याश्रमे द्विजः ।
॥ क्षत्रियस्य पूर्वेत्रय आश्रमाः ॥

क्षत्रियस्याश्रमाः पूर्वे सन्न्यासाश्रमवर्जिताः ॥ 1.22 ॥

      ॥ विशः आद्यैद्वा ॥

विहिता विश एकस्य द्वावन्यैनतु पश्चिमौ ।
॥ शूद्रस्य द्वितीय एकः ॥

एक एव चतुर्थस्य दारसङ्ग्रहणात्मकः ॥ 1.23 ॥

      ॥ ब्राह्मणस्य षट्कर्माणि.॥

षष्कर्मा ब्राह्मणो ज्ञेयः कर्मणाध्यापनादिना ।
अध्यापनं चाध्ययनं यजनं याजनं तथा ॥ 1.24 ॥

दानं प्रतिग्रहश्चेति षट्कर्माण्यग्रजन्मनः ।
॥ क्षत्रियस्य त्रीणिकर्माणि.॥

दानमध्ययनं यज्ञोवृत्तिस्त्रय्येव भूभुजाम् ॥ 1.25 ॥

      ॥ विशामपि त्रीणि शूद्रस्यैकम्.॥

विशां च सैव शूद्रस्य शुश्रूषैकैव वर्तना ।
॥ विप्रस्य सहजा गुणाः ॥

आस्तिक्यमार्जवं शौचं 4 तपश्शान्तिर्दमः क्षमा ॥ 1.26 ॥

ज्ञानं विज्ञानमित्येते विप्रस्य सहजा गुणाः ।
॥क्षत्रियस्य सहजा गुणाः ॥

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ॥ 1.27 ॥

दानमिश्वरभावश्च क्षात्रं कर्म स्वभावजम् ।
॥ विशस्सहजा गुणाः ॥

कर्षणं चैव वाणिज्यं गवां रक्षणमेव च ॥ 1.28 ॥

स्वाभाविकं विशां कर्म

      ॥ शूद्रस्य सहजो गुणः ॥

शुश्रूषा पादजन्मनः ।
॥ चतुर्णां वर्णानां दारसङ्ग्रहतारतम्यम्.॥

शुद्रा शूद्रस्य भार्यैकासा च स्वाच विशस्म्सृता ॥ 1.29 ॥

तेच स्वा च क्षितीशस्य ताश्च स्वा चाग्रजन्मनः ।
॥ सजातीय विजातीय प्रजास्वरूपम्.॥

स्वासु प्रजास्सजातीया श्चातुर्षर्ण्यमितीरितम् ॥ 1.30 ॥

5 अपरे जारजाती च कुण्डगोलकसञ्ज्ञिते ।

जारै रुत्पादिता वर्णास्सवर्णास्वेव भीरुषु ॥ 1.31 ॥

सभर्तृकासु कुण्डोसौ गोलको विधवासुतः ।
॥ कुण्डगोलकयोरध्यापनादित्रिके अनधिकारः.॥

तयोर्विप्रजयोर्नेष्टं त्रयमध्यापनादिकम् ॥ 1.32 ॥

      ॥प्रसङ्ग्रादनुलोमविलोम जातिपृत्तिनिरूपणम्.॥

      ॥ तत्रानुलोमः ॥

6सवर्णः क्षत्रियायां तु विप्रेणोढश्चिकित्सकः ।
आयुर्वेदमधीयूत मन्त्रवच्छोपनीय सः ॥ 1.33 ॥

तत्र चौर्येण सम्भूतो ज्योतिर्वेदाभिजीविकः ।
ज्योतिर्विद्यां समभ्यस्ये दुपनीय समन्त्रकम् ॥ 1.34 ॥

ब्राह्मणाध्यूढ वैश्यायामम्बष्ठश्शल्य7कृन्तकः ।
चौर्यात्कुलालः कुम्भूदि निर्माणं तस्य जीविका ॥ 1.35 ॥

मृण्मयू प्रतिमा चापि कार्या शोस्त्रेक्तवर्त्मना ।
नाभेरूर्ध्वं तु वपवनं पृत्तिरस्य विधीयते ॥ 1.36 ॥

ब्राह्मणाध्यूढशूद्रायां जातःपारशवस्म्सृतः ।
अर्चनं सप्तमात्रूणआं पाद्यपादनमेव च ॥ 1.37 ॥

तस्य वृत्तिर्निषादस्तु चौर्यात्स्यान्मृगघौतुकः ।
पट्टबन्धोचितौ चोभौ नृपजौ गुण्डगोलकौ ॥ 1.38 ॥

क्षत्रियाद्विन्नवैश्यायां गोष्ठी 8 पण्योप जीवनः ।
चौर्येण जातो माहिष्यस्तुरङ्ग्रमवणिग्भवेत् ॥ 1.39 ॥

शूद्रायां क्षत्रियादुग्रो विन्नायां करिबन्धकः ।
चौर्येण शूलिको ज्ञेयश्शूलारोपणवृत्तिकः ॥ 1.40 ॥

मणिकारश्शङ्खकारो वणिजौ गुण्डगोलकौ ।
करणो विन्नशूद्रायां वैश्याद्द्यूतादिजीवनः ॥ 1.41 ॥

यौर्या 9 त्कटङ्करस्तस्य वृत्तिरेव कटक्रिया ।
मालवश्चाश्वपालश्च शूद्रजावश्वपौ सदा ॥ 1.42 ॥

गवादिपालकोऽम्बष्ठ्यामाभीरो ब्राह्मणाद्भवेत् ।
विलोको वधकृत् क्षत्ता विप्रात्पार शवस्त्रियाम् ॥ 1.43 ॥

माहिष्येण करण्यां तु रथकारो रथादिकृत् ।
शिल्पवित्सर्व 10 शिल्पानामाचार्यस्स च उच्यते ॥ 1.44 ॥

प्रात्यानां ब्राह्मणादीनां त्रयाणां वृत्तिरुच्यते ।
मारणं मण्डनं क्षेमं समुद्रतरणं तथा ॥ 1.45 ॥

      ॥ विलोमनिरूपणम्.॥

ब्राह्मण्यां क्षत्रियात्सूतो विवाहात्स्रतिलोमजः ।
सारथ्यं वृत्तिरेतस्य धर्माणां चैव बोधनम् ॥ 1.46 ॥

उपवीतोपनयने प्राप्नोत्येव समन्त्रकम् ।
चौर्या त्तत्रैव सूतोऽन्यस्सोन्यसंस्कार कारकः ॥ 1.47 ॥

तस्यां वैदेहको वैश्या द्विवाहाद्व्रस्त्रशुद्धिकृत् ।
मागधस्तद्र चौर्येण जङ्घाकरिक वृत्तिकः ॥ 1.48 ॥

शूद्राद्ब्राह्मण येषायां विवाहाच्चौर्यतोऽपिवा ।
चण्डालो झुल्लरीकाक्षो मलनिर्ह रणादिकृत् ॥ 1.49 ॥

आयोगवस्तन्तुवायो वैश्यादूढ नृपस्त्रियाम् ।
तत्रैव चौर्या दारण्यपुलिन्दो मृगघातुकः ॥ 1.50 ॥

शूद्रान्नृपायां विन्नायां पुल्कनो लाक्षमद्यकृत् ।
11वैश्येन तत्र चौर्येण जृम्भनृत्तादिवर्तनः ॥ 1.51 ॥

वैश्यायां शूद्रविन्नायां तक्षा स्यात्तक्षणादिकृत् ।
सोऽयं कांस्य स्वर्णकृत्स्यात् त्वष्टा च भ्रमिजीवनः ॥ 1.52 ॥

नैल्यकृच्च स विज्ञेयो नीलवस्त्रादि चत्रकृत् ।
12 एवं च जातिपालस्स्या च्चौर्याच्चक्रीतु तैलिकः ॥ 1.53 ॥

शूद्रात्करण्यां वै जातः कूटकृच्छन दाहकः ।
ब्राह्मणान्नापितोऽम्पष्ठ्यामधोम पनवृत्तिकः ॥ 1.54 ॥

प्रतिलोमानुलोमाभ्यां प्रतिलोमानुलोमतः ।
बहवस्सङ्करा जाता यथाभीरादि जातयः ॥ 1.55 ॥

प्रकृतानुपयोगात्ते वर्ण्यन्तेन स्वरूपतः ।

इति श्रीपाञ्चकात्रे महोपनिषदि

पाद्म संहितायां चर्यापादे

जातिनिर्णयो नाम प्रथमोऽध्यायः.


  1. प्रसिध्यते. ↩︎

  2. दीक्षया क्रमात्. ↩︎

  3. नैवाधिकारिणो गौणा

      ॥ दीक्षया अधिकारलाभः ॥
    
     ↩︎
  4. दमश्शान्तिः ↩︎

  5. ते च स्वजातिजातश्च कुण्डगोलकसञ्ज्ञिताः.

      ॥ गुण्डगोलक निरूपणम्.॥
    
     ↩︎
  6. सवर्णा क्षत्रिया यत्तेविप्रेणोढाश्चिकित्सकः. अत्र अशुद्धं समीकार्यम्. ↩︎

  7. कृत्तमः. ↩︎

  8. गोस्त्री. ↩︎

  9. कटकरस्तस्य. ↩︎

  10. शिल्पीनाम्.

      ॥ प्रात्यानां ब्राह्मणादीनां वृत्तिः .॥
    
     ↩︎
  11. शूद्रात्तत्रच. ↩︎

  12. एनञ्जतिः पलाशस्स्यात्. ↩︎