शिष्योपदेशः

मन्त्रे

मन्त्रः परस्य नाख्येयः
नाक्षसूत्रं प्रदर्शयेत्।
न च मुद्रां नापि सिद्धिं
मन्त्रस्य कथयेत् स्वयम्।

आचार्ये

आचार्यनाम न वदेन्
नियोगं नास्य लङ्घयेत्।
न गुरून् दूषयेद् वाचा
नाचरेत् तस्य विप्रियम्।
शयनादींश् च न गुरोर्
आक्रमेन् न च लङ्घयेत्।
गुरुवद् गुरुदारेषु
वर्तितव्यम् असन्निधौ।

आचार्यम् अच्युतं शास्त्रं
त्रयं सम्मानयेत् सदा।

नास्तिके

नास्तिकान् भिन्नमर्यादान्
वेदब्राह्मणनिन्दकान्।
न स्पृशेन् नैव तैस् सार्धं
संवसेद् दुर्दशास्व् अपि।

देवपूजा

प्रसारयेन् नैव पादौ
गुरुदेवाग्निसन्निधौ।

वेदितव्यं जगत्सर्वं
वासुदेवमयं सदा।
अनर्चयित्वा देवेशं
नात्मपोषणम् आचरेत्।
जप-स्तोत्र-प्रणामादीन्
सन्ध्याकाले समाचरेत्।
भगवद्-ध्यान-तत्-कर्म
कर्तव्येषु सदा रमेत्।

वैष्णवादरम्

वैष्णवान् च यतीन् चैव
दृष्ट्वा तान् प्रणमेत् क्षितौ।

पुत्र-दारा-गृह-क्षेत्र-
पश्वादि-धनम् आत्मनः।
व्यपदेश्यम् अशेषेण
नाम्ना भगवतो वदेत्।

गुणवृद्धिः

समस् सर्वेषु भूतेषु
कामक्रोधविवर्जितः।
शनैश् शनैर् इन्द्रियाणि
विषयेभ्यो निवारयेत्।
संसार-विमुखैः सार्धं
शास्त्राभ्यासं समाचरेत्।

आचारः

श्रौत-स्मार्तानि कर्माणि
सदा सेवेत नेतरत्।
स्वसूत्रोक्तेन विधिना
निषेकादिक्रिया भवेत्।

गुह्यं नाम च गोत्रं च
प्राकृतं नान्यद् इष्यते।+++(??)+++

आसीनो वा शयानो वा
गच्छन् भुञ्जान एव वा।
कीर्तयेत् संस्मरेत् चैव
वासुदेवं सनातनम्।