चक्राब्ज-मण्डल-सृष्टिः

पुण्याह-जलेन मध्यवेदिकां प्रोक्ष्य
प्राणायाम-पूर्वकं

कोष्ठानि

तस्यां चन्दनार्द्राणि सूत्राणि प्राग्-आयतानि सप्तदश, तावन्ति उदग्-आयतानि च निपात्य
तेषु षट्-पञ्चाशद्-उत्तर-द्विशत-पदेषु +++(२५६=१६*१६)+++ मध्ये षट्त्रिंशत् कोष्ठानि संसृज्य

वृत्तानि

तन्-मध्ये शङ्कुं संस्थाप्य
वृत्तानि समानि पञ्च-बिम्बानि यथा स्युः तथा भ्रामयित्वा
तेषु प्रथमं बिम्बं कर्णिकाक्षेत्रं
द्वितीयं त्रेधा विभज्य

तथा कृतेषु प्रथमं केसरान्त-वलयं,
द्वितीयं दलान्तवलयं, तृतीयं नाभि-मण्डलं +++(इति)+++

तन् नाभि-मण्डलम् अपि त्रेधा विभज्य
तद्-बहिः शिष्टेषु बिम्बेषु अरक्षेत्रं द्वाभ्यां
तद्-बहिः एकेन नेमिमण्डलं च कल्पयित्वा

पीठः, परिधिः

तद्-बहिः अष्टा-विंशति पदैः पीठिकां,
तद्-बहिः पङ्क्ति-द्वयेन अशीति-पदैः वीथिकां च कल्पयेत्।

तद्-बहिः पङ्क्तिद्वितयेन द्वादशाधिकशतपदैः द्वयोः पङ्क्तयोः चतुरश्रं कृत्वा
तन्-मध्ये पूर्वादि उत्तरान्तं चतुश्-चतुष्-पदैः चतुर्-द्वाराणि,
आग्नेयादिषु कोणेषु अपि तथैव च कृत्वा,

शोभाः

द्वार-पार्श्वयोः बाह्य-रथ्यायां द्वे द्वे, अवान्तर-रथ्यायाम् एकैकं च परिमार्जयेत्+++(=??)+++।
एवं चेत् अर्धशोभाः+++(=??)+++ भवन्ति।
अर्धशोभयोः मध्ये, बहिः पङ्क्तौ एकैकम् आन्तर-पङ्क्तौ त्रीणि च एवं चतुर्भिः पदैःशोभाः भवन्ति।

एवं चतसृषु दिक्षु शोभानाम् अष्टकं, अर्धशोभानां षोडशकं च कृत्वा

वर्णपूरणम्

ततः वर्णकलापपरिपूरणं कुर्यात्।
पञ्चरत्नैः धातुभिः वा तेषां चूर्णैः वा पञ्चवर्णैः पुष्पैः वा मण्डलपदानां परिपूरणङ्कुर्यात्।
सितस्य शाल्यादि तण्डुलपिष्टं,
कृष्णस्य पुटदग्धं श्यामस्य क्षुण्णशुष्कपत्रचूर्णं,
रक्तस्य कौसुम्भं,
पीतस्य हरिद्राचूर्णं,
सर्वत्र वर्णानाम् इति अनुषङ्गाः।

पीतेन कर्णिकां, शुक्लैः बिन्दून्, कर्णिकारेखाः पाटलैः,
केसरावलिं द्विधाकृत्वा, श्वेतेन पूर्वभागं, उत्तरं पीतेन,
केसराणि शुक्लेन, बिन्दून् रक्तेन,
अष्टदलानि श्वेतेन, दलान्तानि रक्तैः, दलान्त-वलयं रक्तेन श्वेतेन वा,

नाभि-मण्डल-त्रयं श्यामेन, पीतेन, रक्तेन,
अरान्त वलयं कृष्णेन,
द्वादशाराणि रक्तेन, नेम्यन्तमेदिनीं सितेन,
नेमिं द्वेधा कृत्वा, कृष्णेन पूर्व-भागं, उत्तरं सितेन, अन्तरालानि श्यामेन कृष्णेन वा,

तद्-बहिः पीठं पीतेन, पाटलेन श्वेतेन वा,
तद्-बहिः वीथिकां सितेन लता-वितानयुतां,
शोभाष्टकं रक्तेन, अर्धशोभाः षोडश पीतेन,

उत्तरादि द्वार चतुष्टयं क्रमेण शुक्ल-रक्त-पीत-कृष्णैः,
कोणान् कृष्णेन च वर्णेन,
सर्वत्र अन्तरालानि कृष्णेन श्यामेन वा, वर्णेन आपूर्य

चतुर्षु कोणेषु श्वेतेन शङ्खान् कृत्वा