ततः मण्डलाराधनं कुर्यात्।
कर्णिकार्चनम्
कर्णिकायां मन्त्राध्वानम् अर्चयेत्। तत्सवरूपं तु
द्वादशाक्षर-अष्टाक्षर-बलमन्त्र-विष्णुगायत्री-सुदर्शनमन्त्र-पवित्रमन्त्र-
चतुर्मूर्तिमन्त्र-नृसिंहमन्त्र-राममन्त्र-कृष्णमन्त्र-वराहमन्त्रान्
उच्चार्य अर्चयेत्।
केसरेषु तत्त्वाध्वार्चनम्
केसरेषु तत्त्वाध्वार्चनम् -
जीव-प्राण-मनो-बुद्धि-अहङ्कार-
शब्द-स्पर्श-रूप-रस-गन्ध-
श्रोत्र-त्वक्-चक्षुर्-जिह्वा-घ्राण-
वाक्-पाणि-पाद-पायूपस्थ-
पृथिव्य्-अप्-तेजो-वाय्व्-आकाश-रूपाणि जीवतत्वानि
धातृ-विधातृ-
मित्रावरुण-भग-विवस्वत्-पूष-सवितृ-रवि-त्वष्टृ-विष्णु-
वीरभद्र-शम्भु-गिरीश-शर्वोमापतीशान-हर-स्थाणु-भव-शिव-शूल्यादि-रूप-तत्वानि च
प्रणवादि चतुर्थ्यन्तानि अर्चयेत्।
दलेषु अर्णाध्वाऽर्चनम्
दलेष्व् अर्णाध्वाऽर्चनम्-
ॐ कं नमः पराय इत्यारभ्य
क्षं नमं पराय इत्यन्तेन नाभिभागे पदाध्वाऽर्चनम्।
तत्र केशवादीन् सप्तऋषीन् च,
प्राच्यादिषु आदिवराह-नारसिंह-श्रीधर-हयवक्त्र-भार्गवराम-राघव-वामन-वासुदेवान् च,
कुमुदादि-सुप्रतिष्ठान्तांश्च,
जय-विजय-चण्ड-प्रचण्ड-भद्र-सुभद्र-धातृ-विधातृ-
सूर्य-चन्द्र-काम-ब्रह्म-विनायक-षण्मुख-दुर्गा-कुबेर-शङ्करान् च,
विमलोत्कर्षणी-ज्ञान-क्रिया-योगि-प्रह्वी-सत्या-ईशाना-अनुग्रह-शक्तीश् च,
आदित्यादि-केत्वन्तान् च,
लक्ष्मी-सरस्वती-रति-शान्ति-तुष्टि-पुष्टि-क्रिया-कीर्ति-वाराहीश् च,
प्रणवादि-चतुर्थ्यन्तम् अर्चयेत्।
अरेषु कलाध्वपूजनम्
अरेषु कलाध्वपूजनम्।
तत्र अकारादि स्वरार्चनं कुर्यात्।
नेमिभागे भुवनाध्वाऽर्चनम्
नेमिभागे भुवनाध्वाऽर्चनं; तत्प्रकारस्तु
अतल-वितल-सुतल-नितल-महातल-रसातल-तलातल-पाताल-
भूर्-भुवस्-सुवर्-महर्-जनस्-तपस्-सत्य-लोक–
गन्धर्व-लोक–यक्ष-लोक–अप्सरो-लोक–किन्नर-लोक–
यम-लोक–निरृति-लोक–वरुण-लोक–
रुद्र-लोक–देव-लोक–ब्रह्म-लोक–शिव-लोक–
विष्णु-लोक–सदा-विष्णु-लोक–
कुम्भी-पाक–महा-रौरव–क्षुराल-सन्निमाल-शीतल–उष्ण-जल–सन्तपन–तप्त-लोह–
शाल्मली–रूप-धी–यन्त्र-धनुर्-भिन्न–शुद्ध-निरयान्
प्रणवादि चतुर्थ्यन्तम् अर्चयेत्।
बिन्दुषु द्वादशाक्षराणि,
कर्णिकायां परमात्मानं,
केसरेषु श्री-सरस्वति-रति-शान्ति-प्रीति-कीर्ति-पुष्टि-तुष्टीः
दलभूमिषु श्रीवत्सादि-द्वादश-शक्तीः+++(=??)+++
दलस्य परितः व्याप्त्याद्याः,
प्रथम-नाभौ विष्णुं, द्वितीये ब्रह्माणं, तृतीये रुद्रं,
द्वादशारेषु विष्ण्व्-आदीन्
द्वादश+अरान्तवलये मत्स्यादि दश-मूर्तीः,
प्रथम नेमि-वलये शङ्खादीन्,
आग्नेयादि पीठ-कोण-चतुष्के अनन्त-वराह-नारसिंह-हयग्रीवान्,
लता-वीथिकायाम् इन्द्रादि-लोक-पालान्,
द्वार-चतुष्के चण्डादि-द्वन्द्वं,
वीथ्याम्
ईशाने विष्वक्सेनं, पूर्वद्वारबाह्ये वैनतेयं, दक्षिणे पद्मं, पश्चिमे गदां, उत्तरे शङ्खं च प्रणवादि-चतुर्थ्यन्तैः स्व-स्व-मन्त्रैः अर्चयेत्।