अथ सप्तत्रिंशः परिच्छेदः
पवित्रारोहणविधिः
अथ तावत् पवित्रारोहणविधिः उच्यते।
हेतुः, कालश्च
नित्यनैमित्तिक काम्यानां सर्वेषां कर्मणां न्यूनातिरेकदोष शान्त्यर्थं पूर्णाहुतिवत् पवित्रोत्सवः कार्यः ।
श्रावणाषाढभाद्रपदाश्वयुजेषु मासेषु सिते पक्षे
द्वादशी+++(द)+++शमी-प्रतिपत्पौर्णमासी-पञ्चम्येकादशी-त्रयोदशी-द्वितीयासु तिथिषु पुष्य-रोहिणी-रेवती-भरणी-स्वाती-हस्त-पुनर्वस्वादिषु ऋक्षेषु पवित्रोत्सवं कुर्यात्।
विधिः
तन्तून् ब्राह्मणकन्याभिः निर्मितान् दोषरहितान् कार्पासान् वा कौशेयान् वा क्रीतान् वा समानीय। मौद्गादिचूर्णैः शुद्धवारिभिः सङ्क्षाल्य। आतपे शोषयित्वा। तान् त्रिगुणीकृत्य। तादृशान् पुनः तथा कृत्वा। तावतोपि चतुर्गुणान्, यद्वा त्रिगुणान् वा चातुर्गुण्यं नीत्वा। त्रिगुणान् त्रिगुणीकृत्य। तादृशान् पुनः तथाकृत्वा। तावतोपि चतुर्गुणान्, यद्वा त्रिगुणान् वा चातुर्गुण्यं नीत्वा। त्रिगुणान् त्रिगुणीकृत्य वा, अथवा तान् एकतां नीत्वा। भूमिं गोमयेन अनुलिप्य। तत्र यज्ञवृक्षसम्भूतं शङ्कुद्वयं यथोक्तमानानुसारेण संस्थाप्य। आचार्यानुज्ञया, भगवद्भक्ताः स्नाताः तन्निर्माणनिपुणाः प्राङ्मुखाः तत्र तन्तून् आरोप्य। यथा
भूषणार्हाणि तथा पवित्राणि कुर्युः।
मूलबेरादि बेराणाम् आद्यम् अधिवासार्थम्पवित्रं नाभ्यवधिमानम् अष्टोत्तरशतैः सूत्रैः द्वात्रिंशत्ग्रन्थभिः युतं च, मण्डलकुम्भकुण्डानां पद्मगलमेखलामानानि तादृशानि च निर्माय। चक्राब्जस्य पद्मनाभ्यरनेमिबाह्य पवित्राणि चतुश्शतत्रय द्विशतैकशत चतुश्शतैःतन्तुभिः क्रमेण सप्तविंशतिद्विगुण चतुर्गुण पञ्चगुणैः ग्रन्थिभिश्च। महाकुम्भस्य अष्टोत्तरशत तन्तुयुतं, सप्तविंशति ग्रन्थियुतं, करकस्य च एकाशीति तन्तुभिः विंशतिग्रन्थिभिश्च युतं पवित्रं निर्माय। बेराणां तु श्रीवत्सकौस्तुभवनमाला किरीटाह्वयानि नाभिहृदय जङ्घा किरीटमानानि क्रमेण अष्टोत्तरशताशीत्यष्टोत्तर चतुश्शत तन्तुभिःद्वात्रिंशत्पञ्चविंशत् तावद्भिः ग्रन्थिभिश्च युतानि
पवित्राणि च।
उत्तमादि पवित्राणि तु जानूरुनाभि मर्यादानि चतुश्शत त्रिशत शतद्वयतन्तुभिःअष्टोत्तर शता शीति षष्टिग्रन्थियुतानि च, हारार्थं त्रिशततन्तुभिः सप्तविंशतिग्रन्थियुतं च, शतद्वय तन्तुभिः द्वात्रिंशत्ग्रन्थियुतं नाभिमर्यादं पवित्रं च अष्टोत्तरसहस्र तन्तुभिः अनेकग्रन्थियुतं चरणमर्यादं पवित्रं च सहजपीठस्य तन्मर्यादम् अष्टोत्तरशततन्तुभिः पञ्चविंशतिग्रन्थिभिश्च युतं, प्रभापवित्रं तत्तुल्यतन्तुमर्यादम् अनेकग्रन्थियुतं च पवित्रम् एवं सर्वेषां स्वतन्त्र बिम्बानां परतन्त्रेषु बिम्बेषु तु उत्तमादित्रयमेव। श्रियादीनां देवीनां च एवमेव अष्टोत्तरशतसूत्रैः बहुग्रन्थिभिश्च युतानि च, अग्निकुण्डस्य प्रतिमेखलं सप्तविंशति पञ्चविंशद्वाविंशकैः सूत्रैः तन्मानग्रन्थिभिश्च मेखलामर्यादानि पवित्राणि च, स्रुक्स्रुवादिपात्राणां पञ्चविंशति सूत्रैः बहुभिः ग्रन्थिभिः तन्मर्यादानि च, अर्घ्यपाद्यादिपात्र धूपपात्र घण्टाक्षमालादिषु सर्वत्र अष्टोत्तरशत तन्तुभिः यथेप्सित ग्रन्थिभिः द्वादशाङ्गुलमानेन युतानि च, सेनेश गरुड दिग्देवताद्रुहिण दुर्गा विनायक रुद्रादि परिवारेषु अष्टोत्तरशत तन्तुभिः द्वात्रिंशत्ग्रन्थिभिश्च युतानि हस्तमानानि च, चण्डादीनां सप्तविंशतिसूत्रैः तावद्भिः ग्रन्थिभिःतन्मानेन च। कुम्भतोरणादिषु च तथा, बलिपीठस्य कर्णिकामानं तादृशं च, आचार्याणां यतीनां च अष्टोत्तरशत तन्तुभिश्च मूर्तिपानां पूजकानां ब्राह्मणानां च एकाशीतिसूत्रैः नाभिमर्यादानि च, राज्ञः तु अष्टोत्तरशतसूत्रैः बहुग्रन्थिभिः तन्मानेन च, तदुपजीविनाम् एकाशीतिसूत्रैः वैश्यादीनां चर्तुींवशतितन्तुभिश्च तेषाम् उपवीतवदेव पवित्राणि निर्माय। मणिमुक्ताप्रवालादिरत्नैः स्वर्णादिलोहैश्च पूरयित्वा। ग्रन्थीन् शङ्खाकारान् धात्रीफलसदृशान् वा मुक्तफलसमान् वा, बध्वा। तदन्तरालानि कस्तूरिकाकुङ्कुम कर्पूरचन्दनावश्याय कर्दमैः आलिप्य। यद्वा ग्रन्थीनां पूरणम्मल्लिकाद्यैः पुष्पैः वा कृत्वा। निशाचर्चाभिः अनुरञ्ज्य च। एवं पवित्राणि निर्माय। पूर्ववत् मण्डपं स मध्यवेदिका कुण्डं कल्पयित्वा। तोरणवितान दर्भमालाद्यैः अलङ्कृत्य। तत्र यागोपकरणानिसर्वाणि सम्पाद्य। तस्मिन् सप्ताहे पञ्चाहे तृतीये अहनि सद्यः वा सङ्कल्पपूर्वकं विधिवत् अङ्कुरावापनं कृत्वा। तदनु आचार्यः कृतकृत्यः उपोषितः दशम्यां निशामुखे मूर्तिपैः यजमानेन च सह गर्भगेहं प्रविश्य। देवम् अर्घ्यादिभिः यथाविधि पूजयित्वा। तैः साकं देवं प्रणम्य। प्राञ्जलिःसन् इमां गाथां
उदीरयेत्।
न्यूनातिरेकशान्त्यर्थं पवित्रारोपणं परम्।
अर्चनं भगवन् सर्वदुरितोत्सारणक्षमम्।
सम्पदां चापि सर्वासाम् उत्पादनमनुत्तमम्।
क्रियते तदविघ्नेन यथा स्यात् कर्मचोदितम्।
तथा अनुज्ञापयामि त्वाम् अनुजानी हि कर्म तत्।
इति देवं विज्ञाप्य। मन्दिरात् मण्डपं प्रविश्य। तत्र दर्भान् प्रागग्रान् आस्तीर्य। तेषु प्रागाननः उपोषितः उपविश्य। समाहितमनाः जपध्यानपरः रात्रिं जागरेण नीत्वा। अपरेद्युः निशीथिन्याम् अधिवासनकर्म वक्ष्यमाणेन विधिना कुर्यात्। एकबेरे तु मूलबिम्बे स्नपनानन्तरं कौतुकं, बहुबेरे तु कल्याणकौतुकं बद्ध्वा। ततः निर्गत्यमण्डपे पुण्याहपूर्वकं द्वारतोरण पूजनं विधाय। दिग्विदिक्षु चतुर्वेदविदः विप्रान् अन्यान् च स्थापयित्वा। तूर्यघोषेषु मङ्गलेषु च सर्वत्र प्रवर्तितेषु तदनु आचार्यःपवित्रपात्राणि आदाय। मण्डपे धान्यराशौ प्रागुदग्भुवि संस्थाप्य। पुण्याहं वाचयित्वा। शोषणादिभिः पवित्राणि संशोध्य। गन्धद्रव्यैः धूपयित्वा। कस्तूरिकादि कर्दमैःआलिप्य। पुष्पाणि विकीर्य। तानि पवित्रपाणिः नववाससा संवेष्ट्य। चक्रमुद्रां प्रदर्श्य। अस्त्रमन्त्रेण सम्पूज्य। मण्डपे ऐशानीदिशम् आरभ्य सूत्रैः अस्त्रमन्त्रेण संवेष्ट्य। मण्डपस्य उपरि चक्रं च भूमौ पद्मं द्वारेषु गदां च ध्यात्वा। तत्र दिग्विदिक्षु माषोदनेन बलिं दत्वा। बहुबेरे तु कल्याणकौतुकं बहिः स्नानासने स्थापयित्वा। विधिवत् संस्नाप्य। उपवीतान्तम् उपचर्य। वेदिकायां चक्राब्जं वर्तयित्वा। समभ्यर्च्य। कल्यणकौतुकं चक्राब्जे संस्थाप्य। हविः निवेद्य। मण्डपे धान्यराशौ सकरकं सोपकुम्भाष्टकं महाकुम्भं सलक्षणं संस्थाप्य। तेषु मध्यम कुम्भे मूलर्मूीन्त, करके सुदर्शनं, पूर्वाद्याशागतेषु वासुदेवादीन् कोणस्थेषु पुरुषादीन् च पीठं सङ्कल्प्य। आवाह्य अभ्यर्च्य। सम्पूज्य। कुण्डे अग्निम् उपसमिध्य। यथाविधि समिदाज्य चरुभिः अधिवास होमं कृत्वा। सम्पातं सङ्गृह्य। पवित्रपात्रेषु स्पर्शमन्त्रेण सेचयित्वा। एकबेरे तु कल्याणकौतुकं विना मूलबिम्बे स्नपनादिकं कृत्वा। पूर्वं पवित्राणि आरोप्य। बहुबेरे तु पूर्वं कल्याणकौतुकं कुम्भकरकाग्नि चक्राब्जमण्डलेषु “इदं विष्णुः” इति पवित्राणि आरोप्य। सर्वमङ्गलैः सह मूलमन्दिरं प्रविश्य। मूलबिम्बम् अर्घ्यादिभिः अभ्यर्च्य। पूर्वोक्तमन्त्रेण पवित्राणि आरोप्य।
सर्वार्चासु च तथा कृत्वा। प्रासादं च वेष्टयित्वा। वेदघोषैः वाद्यघोषैःसह तत्रैव तां रात्रिं जागरेण नीत्वा। अपरेद्युः मण्डलस्थं देवं स्नानासने समारोप्य। संस्नाप्य। अलङ्कृत्य। शोधिते मण्डपे पूर्ववत् चक्राब्जं वर्तयित्वा। द्वारादियजनं कृत्वा। चक्रपङ्कजम् अभ्यर्च्य। तस्मिन् कल्याणबिम्बं पूर्ववत् संस्थाप्य। अर्घ्यादिभिः अभ्यर्च्य। कुम्भादिकं च सम्पूज्य। चतुर्विधमन्नं निवेद्य। अग्नौ पायसादिचतुर्विधैः अन्नैः पुरुषसूक्तेन च व्रीहि वेणु तिल लाज पुष्प अगरु घृतसमिद्भिः मूलमन्त्रेण पृथक् अष्टोत्तर शतम् आहुतीनां हुत्वा। आचार्यः सुमुहूर्ते पवित्राणि आदाय चक्राब्जं साङ्गं पृथक् “इदं विष्णुः”इति भूषयित्वा।तदनु कुम्भकरक कुण्डाग्नितोरण द्वारकुम्भादीनां पात्राणां च पवित्राणि आरोप्य। ततः मण्डलस्थं देवं च तदनु प्रदक्षिणी कृत्य। सर्वमङ्गल संवृतं मन्दिरम् अन्तः प्रविश्य। मूलबिम्बे स्नपनादिना पूजिते हविः निवेद्य। तत्रस्थ देवानां श्रियादीनां च तथा कृत्वा। मूलबेरं समारभ्य पूर्वोक्तमन्त्रेण पवित्रैः भूषयित्वा। स्वतन्त्राणाम् अस्वतन्त्राणां च बिम्बानाम् एवं कृत्वा। तदनु चण्डादि बलिपीठान्तं च, ब्रह्मादि देवतानां तार्क्ष्यसेनेशयोः अन्येषां विष्णुभक्तानां विष्णुगायत्र्या “इदं विष्णुः” इति वा अष्टाक्षरेण द्वादशार्णेन वा पवित्रारोपणं कृत्वा। तदनु आचार्यः मूर्तिपैः यजमानेन च सह मन्दिरम् अन्तः प्रविश्य। स्याञ्जलिं रत्नैः हेमपुष्पैः केवलैः वा प्रसूनैः आपूर्य। देवं स्तोत्रैः स्तुत्वा। अञ्जलिस्थानि देवपादमूले विकीर्य। मनुष्यार्थं कृतानि पवित्राणि क्षौमादीनि पुष्पवत् देवपादयोः विन्यस्य। देवं विज्ञाप्य। स्वयम् आत्मनः कृतं क्षौमादिपवित्रं च पूर्वं गृहीत्वा। तदनु पूजकमुख्यानाम् ऋत्विजां सहकारिणाम् अन्येषां राज्ञां तदुपजीविनां वैश्यादीनां च पवित्राणि वितीर्य। देवस्य आननम् अवलोक्य। पादौ स्पृष्ट्वा। जनान्तिके न्यूनातिरेक शान्त्यर्थम् इमां गाथां
उदीरयेत्।
भगवन् देवदेवेश शङ्ख चक्र गदाधर।
संवत्सरापचाराणां पूरणार्थं कृतं मया।
आराधनं गृहाण त्वं भक्तानां हितकाम्यया।
नाहं स्वतन्त्रः किञ्चिच्च करोमि विहितं हितं।
किन्तु त्वत्प्रेरितः सर्वं करोमि न वशः स्वयम्।
तत् क्षन्तव्यम् अशेषेण क्रियालोपादि अनुष्टितम्।
इति विज्ञाप्य। अपराह्ने देवं यानादिकम् आरोप्य। अलङ्कृत्य। ग्राम प्रदक्षिण पूर्वकं सर्वोपचारैः सह महोत्सवं कुर्यात्। प्रत्यहं पवित्राणि पूजाकाले प्रोक्ष्य आरोपयेत्। एवं दिवसान् चतुर्दश वा एकविंशतिः सप्त वा त्रिरात्रम् एकरात्रं वा नित्यमेव द्वारयजनादि सहितं महोत्सवं कृत्वा। समाप्तिदिवसे तत्तद्देवताश्च उद्वास्य। पौरुषेण सूक्तेन रथन्तरेण वा त्रिसुपर्णेन मूलमन्त्रेण वा पवित्राणि अवरोप्य। देवस्यस्नपन कर्म कृत्वा। सम्पूज्य। पूर्वं गुरवे तदनु भक्तानां पवित्राणि दापयेत्। यजमानोऽपि गुरुं जीवाजीवत्मकैः धनैः तोषयित्वा। प्रणम्य। तं यानं
आरोप्य। सर्वमङ्गल सहितं तन्मन्दिरं नयेत्।
इति श्री-वराहगुरुणा विरचितायां क्रिया-कैरव-चन्द्रिकायां पवित्रारोपण महोत्सव विधिः नाम
सप्तत्रिंशः परिच्छेदः
समाप्तोयं क्रियाकैरव चन्द्रिका