३६ सम्प्रोक्षणम्

षट्त्रिंशः परिच्छेदः
सम्प्रोक्षण विधिः

सम्प्रोक्षण विधिः उच्यते।

हेतवः

प्रासादं चाङ्गभङ्गादि-सन्धाने नूतने शुभे।
प्रतिमायां च पीठे च प्रभायां चायुधेषु च।
आराधने च विच्छिन्ने भूगुप्ते कमलासन।
रोदने स्वेदने चैव कम्पने पतनेपि च।
वल्मीकादिसमुत्पत्तौ वर्षवातादि दूषिते

कुण्डगोलक-संस्पर्शे वेदविक्रयकारकैः।
स्पर्शने प्रतिलोमाद्यैः नित्याशौच विगर्हितैः।
प्रतिलोमाऽनुलोमाद्यैः सूतैश्च रथकारकैः।

वैखानसैश्च संस्पृष्टे भार्गवागम+++(=वैखानसभृगुसंहिता)+++पूजकैः।
शैवादिभिश्च पाषण्डैः ब्रह्महत्यादिदूषितैः।

क्षय्यपस्मारिकुष्टाद्यैः कृच्छ्रिभिः मूलरोगिभिः।
उदक्यादिभिरन्यैश्च शिल्पिभिः स्पर्शदूषिते।

विम्मूत्ररुधिरोपेयस्पर्श-दुष्टे च मन्दिरे।
जनने मरणे चैव श्वशृगालखरादिभिः।
स्पृष्टे च बिम्बे तन्त्राणां सङ्करे समुपस्थिते।
एवमादिषु चान्येषु सम्प्रोक्षण विधिः भवेत्।

फलम्

धामादिकम् असम्प्रोक्ष्य प्रतिमादिकमप्यथ।
अर्चने राष्ट्रमधिपः प्रजाश्च सदनं हरेः।
शून्यं स्याद् इरिण+++(=मरु)+++प्रायम् उपद्रवसमाकुलम्।
दुर्भिक्षव्याधिकलह-मृतिप्रायास् स्यु रीतयः।
तस्मात् सम्प्रोक्षणं कार्यं धामादीनां यथाविधि।

विधिः

आचार्यः तदर्थं मृत्सङ्ग्रहणपूर्वकम् अङ्कुरार्पणं कृत्वा।
परेऽह्नि बिम्ब-प्रासाद-पीठानि स्वच्छोदकैः शोधयित्वा। पुण्याहं वाचयित्वा ।
“विष्णोर्नुकं”, “इदं विष्णुः” इति द्वाभ्याम् अब्लिङ्गैः मन्त्रैश्च सङ्क्षाल्य। उत्तमादिषु स्नपनेषु यथाविधि +एकतरेण पुण्याहपूर्वकं संस्नाप्य।

यागमण्डपम् अलङ्कृत्य। पुण्याहं वाचयित्वा द्वारतोरण कुम्भादीन् अभ्यर्च्य। मण्डपमध्ये वेदिकां कृत्वा। विंशतिभारैः व्रीहिभिस् तदर्धेन तण्डुलेन तदर्धेन तिलेन अन्तरान्तरा वस्त्राच्छादनसहितं पीठं कृत्वा । तन्मध्ये पद्मम् आलिख्य। पुण्याहं वाचयित्वा। तत्र महाकुम्भं संस्थाप्य। सूत्रवस्त्रादियुतं कृत्वा। प्रतिमाम् एकनिष्क-प्रमाणस्वर्णेन च नवरत्नानि च निक्षिप्य। अस्त्रमन्त्रेण पिधाय। तद्दक्षिणतः करकं च तथासंस्थाप्य। तत्परितः कुम्भाष्टकं च तदुत्तरे यथाविधि मण्डलं कृत्वा। तस्मिन् मण्डले व्याघ्रचर्मादि उपकरणादिभिः पूर्ववत् शय्यां कृत्वा। वितानाद्यैरलङ्कृत्य।

पुण्याहं वाचयित्वा। तत्र देवेशं शाययित्वा।
कुम्भे परमात्मानं, करके सुदर्शनं च, उपकुम्भाष्टके विष्ण्वादीन् च आवाह्य।
अभ्यर्च्य। नैवेद्यान्तं सम्पूज्य।
कुण्डे स्थण्डिले वा अग्निम् उपसमिध्य । यथाविधि समिदाज्य-चरुभिः मूलेन च तत्तन्मन्त्रैः मूर्तिहोमं च कृत्वा । पुण्याहपूर्वकं रक्षाबन्धनं च विधाय । ततः प्रभाते शायितं बिम्बम् उत्थाप्य । स्थापितकुम्भान् आदाय। मूर्तिपैः साकं सवेदवाद्यघोषं धाम प्रदक्षिणीकृत्य। देवस्यपुरतः धान्यराशौ संस्थाप्य।

पुण्याहं वाचयित्वा। कूर्चेन कुम्भतोयम् आदाय। मूलमन्त्रेण, पञ्चोपनिषदा, अब्लिङ्गैः, इतरैः शान्तिमन्त्रैश्च देवं सम्प्रोक्ष्य।
अर्घ्यादिमहाहविः नैवेद्यान्तं यथाविधि पूजयेत्।
यजमानः आचार्यमूर्तिप-परिचारकाणां यथार्ह-दक्षिणां दत्वा, ब्राह्मणान् भोजयित्वा, तेभ्येपि दक्षिणां दद्यात्।

इति श्री-वराहगुरुणा विरचितायां क्रिया-कैरव-चन्द्रिकायां
सम्प्रोक्षण विधिः नाम षट्त्रिंशः परिच्छेदः