चतुत्रिंशः परिच्छेदः
अथ उत्सव विधिः उच्यते
उत्सवारम्भ दिवसाद् अर्वाक्
सप्तमे पञ्चमे ऽहनि वा
गुरुः व्रतेषु स्नपने सर्वप्रायश्चित(त्त)+++(त्तेषु)+++कर्मसु।
वेदव्रतेषु चतुर्षु प्रारम्भे यागकर्मणाम्।
वसुधासङ्ग्रहे काले शिलासङ्ग्रहकर्मणि।
शङ्कुस्थापन काले च ध्वजारोहण कर्मणि।
विविधासु प्रतिष्ठासु बाह्याभ्यन्तर कर्मसु।
आचार्यत्वे कृते कर्ता वपनं स्नानमाचरेत्।
वपनेन विनाकर्म यदि तन्निष्कलं भवेत्।
इति वचनात् पूर्वं तथा कृत्वा।
तदनुशुभे मुहूर्ते पालिकादिपात्रवर्गत्रयाष्टोत्तरशते त्रिवर्गपात्र
षट्त्रिंशतौ वा विधिवत् उत्सवाङ्कुरार्पणम् अधिवासानन्तरं कारयेत्।
गेहमण्डपप्रासाद गोपुरवीथिकाः तोरण ध्वज वितान कदलीक्रमुक पूर्णकुम्भ साङ्कुरपालिका शतदीपागरुधूपादिभिः अलङ्कारैः अलङ्कृत्य। प्रथमावरणे द्वितीयावरणे दिशाम् अन्तरालेषु सर्वासु दिक्षु अवकाशानुगुणं सप्तहस्तायतं पञ्चहस्तायतं वा विस्तारायामसदृशं चतुर्द्वार समन्वितं यागमण्डपं कल्पयित्वा। तस्यपरितः प्रपां कल्पयित्वा। त्र्यंशे तस्य मध्ये हस्त समुच्छ्रितां द्विहस्तेन त्रिहस्तेन वा विस्तीर्णां वेदिं कारयित्वा। तस्याः प्राच्याम् आहवनीयस्य अग्नेः चतुरश्रं कुण्डं, दक्षिणस्यां दक्षिणाग्नेः चाप समाकृतिं, प्रतीच्यां गार्हपत्यस्य वृत्तं, कौबेर्यां दिशि सभ्यस्य त्रिकोणं, आवसक्थ्यस्य चतुरश्रं, कुण्डं- यद्वाऽऽवसक्थ्यरहितं यद्वा
एकमाहवनीयं वा कुण्डं कल्पयित्वा। पूर्ववत् तोरण स्रुक्स्रुव अष्टमङ्गल विविध
होमपात्रासनादीनि अन्यानि यागोपकरणानि कारयित्वा। यागमण्डपं वितानदर्भमाला तोरण
पुष्पमाला दूपदीपाक्षत रम्भास्तम्भादि परिष्कारैः भूषयित्वा। पूर्वं चतुर्णाम् आचार्याणां वरणं, ततः षोडशानाम् ऋत्विजां, तदनुपरिचारकाणां च कृत्वा। यजमानः तान् कटक कर्णिकाङ्गुलीयक क्षौम वस्त्रोत्तरीय उष्णीष गन्धानुलेपनादिभिः अलङ्कारैः भूषयेत्। उत्सवारम्भे तदन्ते च तयोदितं स्नपनं कुर्यात्। उत्सवदिनात्पूर्वेद्युः गुरुः उत्सवाधिवासार्थं मूर्तिपैः सह गर्भमन्दिरं प्रविश्य। मूलबेरम् अर्घ्यादिभिः अभ्यर्च्य। मूलात् उत्सवबिम्बे समावाह्य। अभ्यर्च्य। अधिवासार्थं “रक्षाबन्धनकर्मकरिष्ये”इति सङ्कल्प्य। पुण्याहपूर्वकं देवस्य देव्याश्च यथाविधि रक्षाबन्धनं
कृत्वा।
अर्घ्यादिभिःअभ्यर्च्य। महापूपादि निवेद्य। अन्यत्रस्थाने त्रिभिः भागवतैः विनिवेश्य। यथाविधि स्नपनकर्म कृत्वा। क्षौमवसनादिभिः अलङ्कृत्य। परमान्नं निवेद्य। प्रतिष्ठायामिव यथाविधिशय्यां कल्पयित्वा। तस्यां देवीभ्यां सह देवं शाययित्वा। कोणेषु दीपान् साङ्कुरपालिकाश्च स्थापयित्वा। अग्निं संस्कृत्य। समिदाज्य चरुभिः मूलेन पुरुषसूक्तेनच यथाविधि अधिवासहोमं कृत्वा। तूर्यघोषैः वेदघोषैः सह देवं स्तोत्रैः स्तुत्वा। गुरुः समाहितचित्तः सन् जागरेण निशां नीत्वा। ततः प्रभाते सुमुहूर्ते गुरुः “उत्तिष्ठ” इति मन्त्रेण देवम् उत्थाप्य। सम्पूज्य। इमां गाथां
विज्ञापयेत्।
प्रसीददेवदेवेश उत्सवः क्रियते मया।
अस्मात्कालालवाद्यावत् पुष्पयागदिनातिमम्।
त्वत्प्रीतये जगन्नाथ यद्यत्कर्म करोम्यहम्।
तत्सर्वमात्मसात्कृत्वा कृपया मे प्रसीद ॐ।
इति विज्ञाप्य। दिक्षुब्राह्मणेषु शाकुनसूक्तं पठत्सु देवं " इदं विष्णुः” इति मन्त्रेण शिबिकादिकं यानम् आरोप्य। यानं वहत्सु भूसुरेषुगरुडम् आवाह्य। सर्वालङ्कार सर्वोपचार सहितं देवं सर्वावरणभूमिकाः प्रदक्षिणं नीत्वा। यानात् अवरोप्य। मण्डपे सौवर्णं भद्रासने विनिवेश्य। सर्वमुत्सवार्थम् आहृतं प्राभृतद्रव्यं जनसंसदि “इतोयातम् इदं सर्वम् इतोयातं “इति
दर्शयित्वा। मन्त्रासनपुरस्सरं पूर्वोदितक्रमात् स्नपनकर्मकृत्वा। आचार्यः यजमानश्च विभवोदयं समीक्ष्य। महाहविः निवेद्य। यथाविधि हुत्वा। देवं मन्दिरान्तर्भुवं नीत्वा। ततः अपराह्नेप्राप्ते गरुडेन विष्वक्सेनेन वा साकं बहिः निर्गत्य। यथाविधि पूर्ववत् मृत्सङ्ग्रहणं कृत्वा। यागमण्डपं प्रविश्य। त्रिवर्गेषुपालिकादिपात्रेषु उत्सवाङ्कुरार्पणं कृत्वा। सुदर्शन, स्नपन, नित्योत्सव, बलिबिम्बानां कल्याणकौतुकस्य इव कौतुकबन्धनाधिवास स्नपन कर्मणि पृथक् कृत्वा। यागमण्डपं प्रवेश्य। तत्रासने विनिवेश्य। ततः गुरुःयजमानेन सदनं प्रविश्य। देवं दण्डवत्
प्रणम्य।
भगवन् पुण्डरीकाक्ष करिष्ये कौतुकक्रियाम्।
महोत्सवार्थं देवेश तदर्थं त्वं प्रसीद मे।
इति विज्ञाप्य। मूलोत्सव स्नान बलिबिम्ब चक्राणां यथाविधि उत्सवप्रतिसरं बध्वा। तदनु वेदिकायां शालीनां पञ्चभारेण तदर्धेन तिलेन च धान्यपीठं कृत्वा। अन्तरान्तरयोगेन वस्त्रैः आच्छाद्य। तत्र प्रक्षालितान् ससूत्रान् सगन्धोदकान् न्यस्त नवरत्नान् सौगन्धिक रजोयुतान् सकरकान् प्रत्येकं न्यस्तनिष्कमात्रसुवर्णान् साश्वत्थपल्लव कूर्चापिधानान् नवकुम्भान्, मध्यमं वस्त्रयुग्मेन शिष्टान् एकेन वाससा सप्तभिः षड्भिः पञ्चभिः वा हस्तैःआयतेन तदर्धेन विस्तृतेन आच्छाद्य। वेदिकाभूमौ धान्यराशिषु संस्थाप्य। वैष्णवैः सह पुण्याहं वाचयित्वा। प्रोक्ष्य। द्वारतोरण ध्वजकुम्भान् अभ्यर्च्य। करके सुदर्शनम् च पूर्वाद्याशागतेषु कुम्भेषु वासुदेवादीन् आग्नेयादिकोणगतेषु पूर्ववत् पुरुषादीन् च आवाह्य। अभ्यर्च्य। सुदर्शन बलिबिम्बयोश्च अष्टमङ्गलानि पृथक् वासोभिः आवेष्ट्य। वेदेः अधस्तात् धान्यराशिषु विन्यस्य अभ्यर्च्य। वेदिकायां यथाविधि पूर्वोक्तवर्त्मना चक्राब्जं वर्तयित्वा। तस्मिन् साङ्गं सपरिवारं वासुदेवं यथाविधि पूर्ववत् अभ्यर्च्य। सम्पूज्य। चतसृषुदिक्षु वेदघोषे च प्रवृत्ते गुरुः आहवनीयाग्नौ वासुदेवं दक्षिणाग्नौ सङ्कर्षणं, गार्हपत्ये प्रद्युम्नं, सद्भ्याग्नौ अनिरुद्धं, आवसक्थ्ये मूलर्मूीन्त च तत्तत्कुण्डाग्नि मध्यगत भद्रासनपद्मेषु आवाह्य। अभ्यर्च्य। तीर्थावसानिकं सन्निधिं प्रार्थ्य। कुण्डेषु घृत प्रसून धूपद्रव्य समित्पयोदधि तिलव्रीहि यवैः तत्तद्देवतामन्त्रेण पृथक् अष्टोत्तरशतं आहुतीनाम् अष्टाविंशतिं वा हुत्वा। आहवनीयाद्यनुक्रमेण पायस, कृसर, गुड , हरिद्रान्न, मुद्गान्नैः
पुरुषसूक्तस्य षोडश ऋग्भिः प्रत्येकं हुत्वा। पञ्चमाग्नौ ब्रह्मादिदेवान् उद्दिश्य पायसेन तत्तन्नाम चतुर्थ्यन्तं स्वाहान्तम् उच्चार्य परिवारपदान्वितं वक्ष्यमाणेन विधिना हुनेत् । ॐ ब्रह्मणे सपरिवाराय स्वाहा। ॐ प्रजापतये सपरिवाराय स्वाहा। ॐ रुद्राय सपरिवाराय स्वाहा। ॐ सर्वेभ्यः देवेभ्यः सपरिवारेभ्यः स्वाहा।
ॐ छन्दोभ्यः सपरिवारेभ्यः स्वाहा।
ॐ वेदेभ्यः सपरिवारेभ्यः स्वाहा। ॐ ऋषिभ्यः सपरिवारेभ्यः स्वाहा। ॐ गन्धर्वेभ्यः सपरिवारेभ्यः स्वाहा। ॐ सरीसृपेभ्यः सपरिवारेभ्यः स्वाहा। ॐ यक्षेभ्यः सपरिवारेभ्यः स्वाहा। ॐ अप्सरेभ्यः सपरिवारेभ्यः स्वाहा। ॐ मासादिभ्यः सपरिवारेभ्यः स्वाहा। ॐ ऋतुभ्यः सपरिवारेभ्यः स्वाहा। ॐ अयनेभ्यः सपरिवारेभ्यः स्वाहा। ॐ वत्सरेभ्यः सपरिवारेभ्यः स्वाहा। ॐ सर्वेभ्यो देवीभ्यः सपरिवारेभ्यः स्वाहा। ॐ द्वीपेभ्यः सपरिवारेभ्यः स्वाहा। ॐ समुद्रेभ्यः सपरिवारेभ्यः स्वाहा। ॐ पर्वतेभ्यः सपरिवारेभ्यः स्वाहा। ॐ आपगाभ्यः सपरिवारेभ्यः स्वाहा। ॐ भूतेभ्यः सपरिवारेभ्यः स्वाहा। ॐ पशुभ्यः सपरिवारेभ्यः स्वाहा। ॐ वृक्षेभ्यः सपरिवारेभ्यः स्वाहा। ॐ ओषदीभ्यः सपरिवारेभ्यः स्वाहा। ॐ वनस्पतीभ्यः सपरिवारेभ्यः स्वाहा। ॐ उद्भीजेभ्यः सपरिवारेभ्यः स्वाहा। ॐ स्वेदजेभ्यः सपरिवारेभ्यः स्वाहा। ॐ अण्डजेभ्यः सपरिवारेभ्यः स्वाहा। ॐ जरायुजेभ्यः सपरिवारेभ्यः स्वाहा। ॐ भूरादि सप्तलोकेभ्यः सपरिवारेभ्यः स्वाहा। ॐ अतलादि सप्तपातालेभ्यः सपरिवारेभ्यःस्वाहा। ॐ चण्डादि द्वारपालेभ्यः सपरिवारेभ्यः स्वाहा। इति हुत्वा। प्रायश्चित्तार्थं पञ्चोपनिषन्मन्त्रैः व्याहृतिभिश्च, पूर्णाहुतिं “इदं विष्णुरिति हुनेत्। एवं तद्दिनविहित बलिद्रव्यैः उपरिष्ठात् तत्र तत्र तत्तद्देवतोद्वासनरहितं प्रत्यहं यावत्तीर्थदिनावधि सायं प्रातः हुनेत्। एकाग्नौ वा होमद्रव्यं त्रये चतुष्टये वा अग्नौ हुनेत्। तावता च अग्निं सम्यक् रक्षेत्। बलिदानं तु प्रथमं यागमण्टपे कर्तव्यम्। तत्प्रकारस्तु चक्र बलिबिम्बाऽन्नमूर्ति सहितं यागमण्डपात् निष्क्रम्य। तद्द्वारेषु पुरतः कुमुदादीनां शुचौ भूमौ आवाह्य अभ्यर्च्य। बलिं दत्वा। बलिद्रव्यपात्र घण्टा पुष्पबाजन तोय करक धूप दीपपात्र दीपिकाधारकेषु अग्रे गच्छत्सु तदनु अन्नमूर्तिः, ततः चक्रं, तदनु नित्योत्सवार्चां च इत्येवं कृत्वा। वितानछत्रादि समन्वितं द्वारेषु चण्डादीनाम् आवरणेषु तत्तद्देवतानां तोयपूर्वोत्तरं बलिं निक्षिप्य। बलिमुद्रां मङ्गलाष्टकं च
दर्शयित्वा। ग्राममध्यमारभ्य ब्रह्मदीशानपर्यन्तं क्रमात् तत्तद्देशेषु तौर्यत्रिकसहितं तत्तद्देवताः अभ्यर्च्य बलिं दत्वा। महाबलिपीठे तु अशेषतः अवशिष्टं बलिद्रव्यं सर्वान् पार्षदान् उद्दिश्य बलिं दत्वा। बलिं प्रदक्षिणीकृत्य आलयं प्रविशेत्। एवं ध्वजारोहणादितीर्थान्तं सायं प्रातः बलिं दद्यात्। आरम्भदिवसे रात्रौ समाप्तिदिवसे अहनि बलिमेकमेकां मध्यदिवसेषु अह्नि रात्रौ च बलिद्वयं कुर्यत्। तीर्थदिवसे ग्रहणायन विषुवादिषु प्राप्तेषु तस्मिन् बलिद्वयं कुर्यात्। ग्रामादि रहिते स्थानमध्ये महापीठस्य पुरतः ब्रह्मणे बलिं वितरेत्। बलिद्रव्याणि तु प्रथमेहनि फललरजनीचूर्ण करम्भ लाजान् चरुणा सम्योज्य। द्वितीये अहनि चरुणा तिलतण्डुलेन संयोज्य। तृतीये तु लाज धान्यापूपिकाः चरुणा संयोज्य। चतुर्थे चरुणा सक्तुशालिपिष्ट नालिकेर जलानि संयोज्य। पञ्चमे पद्मबीज पायस शालितण्डुलं चरुणा संयोज्य। षष्टे तु अपूपं चरुणा संयोज्य। सप्तमादिषु त्रिषु दिवसेषु चतुर्विधमन्नम् अपूपैः सक्तुभिः संयोज्य। क्रमात् बलिं दद्यात्। तदनु सुमुहूर्ते प्राप्ते गुरुः शयनस्थम् उत्सवकौतुकं “उत्तिष्ठे”ति मन्त्रेण उत्थाप्य। स्वस्तिसूक्तं पठद्भिः ब्राह्मणैः सह सप्तभिः ब्राह्मणैः सह तस्मात्मन्दिरात् निर्गम्य। रथन्तरसाम उच्चार्य। स्यन्दनेन गजेन वा अन्येन वा यानेन मण्डपान्तरं नीत्वा। “भद्रं कर्णे”ति तद्दिनविहितं यानमारोप्य। तत्र देवम् न्यासपूर्वकम् अभ्यर्च्य। पृथुकादिकं निवेद्य। क्षौमाभरणमाल्यादिभिः अलङ्कृत्य। देवस्य चरणयोः निशाचूर्णं निक्षिप्य। घृतादि परिषिक्तैः दीपैः सर्वतः वीथिकाश्च अलङ्कृत्य। वालव्यजन तालवृन्त बर्हिबर्हमुक्तातपत्रासि धूप दीप धारिभिः स्वलङ्कृतैः ब्राह्मणैश्च पुरतः यानारूढेन साञ्जलिना ध्वजारूढेन तार्क्ष्येण पृष्ठतश्च कनकशिबिकाम् आरूढेन वेत्रहस्तेन विरिञ्चादीन् समुत्सारयता प्रणमता विष्वक्सेनेन च कनकपात्रे पादुके समारोप्य। पुरतः धारयद्भिः विप्रैश्च राजचिह्नै अन्यैः सकलवेदशास्त्रागमज्ञैः परस्परजिगीषुभिः वादनिपुणैः विप्रैः गद्यपद्य मिश्राणि स्तोत्रानि पठद्भिः वन्दिभिश्च नृत्यता गायतागाणिक्येन च अन्यैः तत्तद्विद्याविशारदैश्च साकम् आनद्ध, तत, सुषिर, धनादि चतुर्विध वाद्यघोषैः च आवरणं सर्वं परिक्रम्य। बहिः तथा वीथिकाश्च प्रदक्षिणं परिक्रम्य। प्रवेशसमयेपि प्राकारवलयं प्रादक्षिण्येन गत्वा। मण्डपालयम् अन्तः प्रवेश्य। तत्र यानात् आसने देवं अवरोप्य। बलिबेरम्मन्दिरे चक्रं यागसदने बहिस्थिते बलिपीठे च अन्नर्मूीन्त निवेश्य। ध्रुवबेरं
नित्यैः द्विगुणैः वस्तुभिः अर्चयेत्। प्रत्यहं देवस्य वीथिकापर्यटनानन्तरं यथाविधि स्नपनकर्म
कुर्यात्।
एकबेर विधाने तु मूलबिम्बे, बहुबेरे तु उत्सवकौतुकं वा स्नपनकौतुकं वा यथाशक्ति यथावस्तु स्नपनं कुर्यात्। मण्डपे सिंहविष्टरे देवं निवेश्य। देहशुद्धिपुरस्सरम् अर्चयित्वा। स्नपनकर्मसमाप्य। महाहविः निवेद्य। मण्डनालयम् आसाद्य। देवं भूषणादिभिः अलङ्कृत्य। बिम्बे तत्र स्थिते देशिकः यागमण्डपं प्राप्य। द्वारतोरण कुम्भमहाकुभ उपकुम्भ मण्डलाराधनं कृत्वा। यथोदितं निवेद्य। पूर्ववत् हुत्वा। यथाविधिपूर्ववत् बल्यर्चादि बिम्बयुतं बलिकर्मकृत्वा। तदनु उत्सवार्चाम् अलङ्कृत्य, यानम् आरोप्य। पूर्ववत् सर्वालङ्कारसहितं ग्रामधामादि प्रादक्षिण्येन नीत्वा। तत्र स्थाने स्थाने समाहृत ताम्बूल, वीटिकाः, पृथुकादीनि, भक्ष्याणि, नालिकेरफलानि, पानीयाचमनादीनि यथाविधि अखिलं नैवेद्यं च अस्त्रमन्त्रेण अद्भिःप्रोक्ष्य निवेदयेत्। पक्वं फलं तूष्णीं प्रदर्शयेत्। पुष्पाभरणादिकं पथि समागतं सर्वमन्त्रेण प्रोक्ष्य देवाङ्गे नियोजयेत्। एवं ग्रामं धामं च प्रदक्षिणं नीत्वा। धामम्प्रवेश्य। देवं यानात् शिबिकाम् आरोप्य। मण्डपं प्रवेश्य, तत्र पूर्ववत् सर्वोपचारसहितम् अर्चयेत्। एवम् अपूर्वाभरण, मालाम्बर, यानोद्यानाद्यैः तीर्थदिनावधि प्रतिदिनं यथाकौतूहलं तथा देवं तोषयेत्। ग्रामादौ नित्यं देवस्य श्रीभूमिभ्यां सह विना वा
महोत्सवं कुर्यात्।
षष्टे अहनि स्नानबिम्बसहितं यात्राकौतुकं भद्रासनम् आरोप्य। तस्य पुरतः धान्यराशौ कुम्भान् संस्थाप्य, सम्पूज्य। देवं मन्त्रासनादि स्नानासनान्तैः उपचारैः उपचर्य। कलशैः संस्नाप्य। वस्त्रादिदीपान्तैः उपचारैः सम्पूज्य। एकबेरविषये मूलबेरे सर्वमेवं कृत्वा। तदनु क्षालितं उलूखलं वस्त्रादिभिः अलङ्कृत्य। तण्डुलपीठे संस्थप्य। श्रीसूक्तेन लक्ष्मीं ध्यायन् मन्त्रितम् अर्चितं कृत्वा। मूलमन्त्रेण मुसलं प्रक्षाल्य। अभिमन्त्य। मूर्तिपैः सार्धं गुरुः उलूखले निशाचूर्णं निक्षिप्य। मुसलम् आदाय। देवदासीषु मङ्गलं पठत्सु निशाचूर्णं यथासूक्ष्मतरं भवेत्तथा मुसलेन कृत्वा। तदादाय। वेष्टितवाससि कुम्भे निक्षिप्य। सकूर्चमल्लक वस्त्रं कुम्भं स्थण्डिलपीठे संस्थाप्य। मूलमन्त्रेण गन्धादिभिःअभ्यर्च्य। कुम्भम् उद्धृत्य। तैः चूर्णैः श्रीसूक्तेन देवमभिषिच्य। मूर्तिपैः सह गुरुः देवं प्रदक्षिणं कृत्वा। अष्टाङ्ग प्रणिपातेन प्रणिपत्य। पुष्पाञ्जलिं विकीर्य।
स्तोत्रैः स्तुत्वा। सर्वालङ्कारयुतम् उत्सवं कुर्यात्।
सप्तमे दिवसे रथं पुण्याहजलेन प्रोक्ष्य। शिखरे ब्रह्माणं, अयने हंसं, द्वितीयतले अनन्तं, उपकण्ण्ठे वासुदेवं, प्रथमतले तक्षकं, महापीठे गरुडं, मध्यपीठे इन्द्रादीन् च, चक्रेषु वायुं, रथे वैनतेयं च आवाह्य अभ्यर्च्य। हविः निवेद्य। इन्द्रादिकुमुदादिभ्यः बलिं दत्वा। देवं रथं
आरोप्य। पूर्ववत् उत्सवं कुर्यात्।
तदनु देवस्य प्रातः उत्सवं कृत्वा। अपराह्ने देवस्य जलद्रोण्याम् अवगाहनं कुर्यात्। जलद्रोणीं कटाहं वा सरसि सोपानदेशे सौवर्णं धान्यराशौ निधाय। गन्धोदकेन आपूर्य। परितः अक्षतानि
विकीर्य। पुण्याहं वाचयित्वा।
परिस्तीर्य, तज्जलं शोषणादीनि कृत्वा। तत्रगङ्गाद्याः सरितः आवाह्य अभ्यर्च्य। जलम् अब्लिङ्गैः
मन्त्रैः अभिमन्त्य। देवं प्रार्थयेत्।
भगवन् पुण्डरीकाक्ष शरणागतवत्सल।
अस्मिन्नहनि कर्तव्या जलक्रीडा त्वया विभो।
शुद्धये सर्वलोकानां देवानां प्रीतये विभो।
यात्रा तदर्थं कर्तव्या मदनुग्रहकाम्यया।
इति विज्ञाप्य। देवं प्रणम्य। मन्त्रासनादिस्नानान्तैः उपचारैः उपचर्य। वाद्यघोषेषु प्रवर्तितेषु वारुणसूक्ताद्यब्लिङ्गैः मन्त्रैः तत्र देवम् अवगाह्य। तदनु यानम् आरोप्य। अन्यं मण्टपम् आनीय।
तत्रापि देवं हविरन्तम् अभ्यर्चयेत्।
यद्वा अष्टमे अहनि वा प्रातरुत्सवं कृत्वा। तदनु मृगयाकर्म, तदनु जलद्रोण्यवगाहनं वा कुर्यात्। तस्मिन् दिने देवं मृगयानुगुणायुधालङ्कार सन्नाहैः सह गजे वा कृत्रिमाश्वे वा आरोप्य। देवीभ्यां सह विना वा हस्त्यादिभिः सैन्यैः सह ग्रामसीमादीन् प्रादक्षिण्येन नीत्वा। देवम् उद्यानमण्डपं प्रापय्य। तत्र मध्ये सौवर्णविष्टरे विनिवेश्य। स्नानपूर्वम् अभ्यर्च्य। अन्यस्मिन् आसने विनिवेश्य। महाहविः निवेद्य। यानम् आरोप्य। तद्रात्रौ मन्दिरान्तर्भुवं नीत्वा। तदनु नित्योत्सवं कृत्वा। अपररात्रिभागे तीर्थार्थम् अङ्कुरार्पणं करिष्ये, इति सङ्कल्प्य। अरावापनं यथा विधि कृत्वा। देवं
सम्पूज्य। इमां गाथाम् उदीरयेत्।
तीर्थयात्रा त्वया देव श्वः कर्तव्या सुरेश्वर।
तत्र प्रतिसरारम्भं त्वमनुज्ञातुमर्हसि।
इति विज्ञाप्य। मूलात् तीर्थबिम्बे समावाह्य। तीर्थबिम्बे प्रतिसरं तदभावे नित्योत्सवबिम्बे तस्यापि अभावे स्नानार्चायां, तदभावे च उत्सवबिम्बे वा बद्ध्वा। धान्यराशौ पूर्ववत् यथाविधि अधिवास्य। ततः प्रातः उत्सवं कृत्वा। तदनु शायितं बिम्बमुत्थाप्य, स्नानमण्डपे स्नानपीठिकायां तं निवेश्य। यागमण्डप भूमिषु स्थापितान् कुम्भान् आदाय। धामप्रादक्षिण्येन वेदघोषैः सह नीत्वा। तीर्थबिम्बस्य सन्निधौ धान्यराशौ संस्थाप्य। देवं मन्त्रासनपूर्वकं पूर्वं संस्नाप्य। तदनु सुमुहूर्ते गुरुः स्थापितैः कुम्भैः मूलमन्त्रेण पूर्वादि मध्यकुम्भान्तैः वेदघोषेषु प्रवर्तितेषु अभिषिच्य। वस्त्रादि दीपान्तैः उपचारैः उपचर्य। एकबेरविधाने तु सर्वम् एतत् मूलबिम्बे कृत्वा। तदनु पूर्ववत् देवस्य चूर्णस्नानं यथाविधि कृत्वा। देवं स्तुत्वा। प्रदक्षिणीकृत्य। अष्टाङ्ग प्रणिपातेन प्रणिपत्य पुष्पाञ्जलिं विकीर्य। तदनु कल्याणकौतुकं यानम् आरोप्य। तीर्थबिम्बपुरस्सरं चक्रेण सह छत्रध्वजचामर दीपवाद्यघोष सहितं समुद्रं नदीं तटाकं वा प्रापय्य। तत्र तीरे प्रपायां विष्टरे विनिवेश्य। अग्रतः पञ्चविंशतिः, सप्तदश, यद्वा कलशान् नव यथाविधि तत्तद्द्रव्ययुतान् संस्थाप्य। सम्पूज्य। नद्यादिजलानां शोषणादिकृत्वा। पुण्याहं वाचयित्वा। प्रोक्ष्य। तत्र गङ्गाद्याः सरितः आवाह्य अभ्यर्च्य निवेद्य। तीर्थबिम्बं मन्त्रासनपूर्वकं सम्पूज्य। कलशः यथाविधि संस्नाप्य। चक्रं शिष्टवारिणा च, तीर्थबिम्बं समानीतं कल्याणकौतुकं कूर्चेन नद्यादिजलेन प्रोक्ष्य। कल्याणकौतुकसन्निधौ तद्बिम्बं गुरुः शिरसि कृत्वा। चक्रं वा तदभावे कूर्चं वा तथा कृत्वा। चक्रमन्त्रम् उच्चरन् जले निमज्जेत्। ततः गुरुः तदानीमेव बिम्बानां स्वस्य च रक्षासूत्राणि विसृज्य। जले क्षिप्त्वा। तदनु मण्डपे देवम् आनीय यथापुरं पूजयित्वा यानम् आरोप्य, आलयाभ्यन्तरं प्रापयेत्। तद्रात्रौ देवं मण्डपे नीत्वा यथाविधि अभ्यर्च्य, प्रभूतं निवेद्य।
भगवन् पुण्डरीकाक्ष शरणागत वत्सल।
ध्वजार्थाङ्कुरमारभ्य उत्सवाऽवभृतान्तिमम्।
यन्मयानुष्टितं कर्म तव सुप्रीतये विभो।
तथान्यैः मदनुज्ञातैः देशिकैश्चापि यत्कृतम्।
साधकैश्च तथान्यैश्च विविधैः परिचारकैः।
तत्तत्सम्पूरणार्थं च न्यूनाधिक्योपशान्तये।
त्वामद्यवासरे यष्टुं चतुस्थान स्थितं विभो।
प्रवृत्तमनुजानीहि मदनुग्रहकांयया।
इति देवेशं विज्ञाप्य। तदनुज्ञाम् अवाप्य। ततः प्रभाते भक्तैः भागवतैः सेविते मण्डपान्तरे केचिद्भूतले चक्राब्जम् आवरणान्वितम् उक्तवर्त्मना सङ्कल्प्य। तुलस्यादिभिः नानावर्णैः प्रसूनैः यथाविधि चित्रयित्वा। तत्र मध्यतः सप्रभं भद्रपीठे निधाय। तस्मिन् कल्याणकौतुकम् आरोप्य। अर्घ्यादिभिःअभ्यर्च्य, सर्वतःदिक्षु वेदघोषेषुवाद्यघोषेषु च प्रवर्तितेषु द्वादशाक्षरेण भगवन्तं
अर्चयेत्।
ॐ द्वादशाक्षर मन्त्रस्य। परमेष्ठि, सनन्त, सनक, प्रजापति, भृगु, सनत्कुमार, पुलस्त्य, पुलह,
क्रतु, मरीचि, अत्रि, आङ्गीरसऋषयः।
गायत्री, बस्तक्षेत्र, प्रजापति, त्रिष्टुप्, पङ्क्ति, बृहति, विराड्, बष्ठ, त्रिवत्सक, उष्णिक्, श्रियश्चन्दॉंसि। विष्ण्वादि गोविन्दान्ता द्वादश देवताः। चित्, जीव, प्रकृति, बुद्धि, मन, स्सात्विक, राजस, तामस, व्योमा, ऽग्नि, मरुता, ऽऽपस्तत्वानि। परमव्योम, वाय्व, ऽग्नि, जल, सत्य, तपो, जन, मह, स्स्वर्ग, भुव, र्भूमि, पातालानि क्षेत्राणि। सित, कृष्ण, धूम्र, श्याम, ताम्र, स्फटिक, शङ्ख, रक्त, शुक्ल, लोहित, तमः, पीतवर्णाः। द्वादशसु अक्षरेषु एकैकं, हरिं ध्यात्वा। अर्घ्यादि भूषान्तैः नवभिः उपचारैः कल्याणकौतुकम् अभ्यर्च्य। पुष्पैरपि हृदयाद्यङ्गानि उद्दिश्य च पुष्पैः"फलं भवतु मे पुष्पैः नमः”इति अवसानकं च, ततः श्रीवत्स कौस्तुभादि भूषणानि उद्दिश्य दिव्यायुधानि चक्रादीनि च यथाक्रमम् आवरणस्थानां देवतानां च, विष्ण्वादिमूर्ति दशकं, केशवादि मूर्तीश्च उद्दिश्य तत्तन्मन्त्रैश्च, पुरुषसूक्त, नारायणानुवाकैः, विष्णुसूक्तैश्च, पञ्चोपनिषन्मन्त्रैश्च,
पादयोःपुष्पसमर्पणं कृत्वा।
सितादिभिः पुष्पैः एवं देवं तोषयित्वा। चतुर्विधमन्नं निवेद्य। मण्डपे तत्र आग्नेये अग्निं उपसमिध्य। समिदाज्यचरुभिः पायसादि चतुर्विधान्नैश्च, मूलमन्त्रेण पृथक् अष्टोत्तरशतवारान् हुत्वा। ततः देवं प्रदक्षिणी कृत्य। स्तुत्वा, भूतले दण्डवत् प्रणम्य। कल्याणकौतुकं यानं आरोप्य। प्रथमावरणं प्रापय्य। तत्र स्थित्वा, सेवार्थम् आगतान् ब्रह्मादिदेवान्, भक्तान्, भागवतान् अन्यान् वैष्णवान् च स्वं स्वम् आलयं गन्तुं नियुज्य। तदावरणं प्रदक्षिणं परिक्रम्य।
मन्दिराभ्यन्तरं नीत्वा। तस्य दिवसस्य निशि प्रथमयामे मण्डपे स्नानासने देवं निवेश्य। उत्सवान्तोचितं स्नपनं यथाविधि कृत्वा। मण्डपान्तरं नीत्वा। गुरुः यागमण्डपम् आसाद्य। तत्र यथाविधि होमं कृत्वा। शान्तिहोमं च पूर्वोक्त विधानेन प्रायश्चित्तार्थं पञ्चोपनिषम्मन्त्रेण आज्येन सहस्रं, शतं वा आहुतीनां हुत्वा। ततः पूर्णाहुतिं च अग्निं विसृज्य। तत्र तोरणादिषु देवान् मण्डलस्थं च उद्वास्य। ध्वजस्तम्भम् आसाद्य। खगाधिपं पूजयित्वा। प्रदक्षिणं कृत्वा। संहारक्रमेण कुम्भे समावाह्य। तन्मूलभेरे नियोज्य। कल्याणकौतुकस्य सन्निधावेव महानिशि ध्वजम् अवरोप्य। स्तम्भं ध्वजं च गुरुः स्वयं गृहीत्वा। तदनु तत्र तत्र आवाहितान् देवान् अपि स्थाने स्थाने सकृत् सकृत् तूर्यघोषैः सह मूकैः परिकरैः सार्धं बलिं दत्वा। स्वस्व नाममन्त्रैः उद्वास्य। गुरुः अष्टाक्षरं जपन् देवस्य धामप्रविश्य। देवं विज्ञाप्य। शकटादिकं यानम् आरोप्य। मखकौतुकं धामान्तः प्रापय्य सम्पूज्य। तच्छक्तिं मूलबिम्बे नियोज्य। मूलबिम्बं सम्पूज्य। स्तुत्वा प्रणिपत्य, प्रार्थ्य प्रदक्षिणं कृत्वा । स्वगृहं प्रविशेत्। यजमनोपि गुरुं जीवजीवात्मकैः धनैः यथामनस्तुष्टिं तथा तोषयित्वा। तथैव अन्यान् मूर्तिपान् परिचारकान् च , गुरुं प्रणम्य। तं यानं आरोप्य। सर्वालङ्कारैः सह ग्रामप्रदक्षिणं कृत्वा। तद्गृहं प्रापयेत्।
इति श्री-वराहगुरुणा विरचितायां क्रिया-कैरव-चन्द्रिकायां
महोत्सवविधिः नाम चतुस्त्रिंशः परिच्छेदः