अथ त्रयस्त्रिंशः परिच्छेदः
उत्सवविधिः
अथ तावत् उत्सवविधिः उच्यते। पूर्वं गरुडप्रतिष्ठार्थमङ्कुरार्पण कर्मकर्तव्यं।
स्वविशेषेणविशिष्ट आचार्यो गरुडप्रतिष्ठा कर्मणः पूर्वं सप्ताहे पञ्चाहे तृतीयेह्नि वा सुमुहूर्ते विष्वक्सेनं गरुडं वा सम्पूज्य। तेन सह प्राचीमुदीचीं वा दिशं गत्वा। अस्यदेवदेवस्य नवदिन महोत्सवकर्मणि अङ्कुरार्पणकर्माङ्गभूतं मृत्सङ्ग्रहण कर्मकरिष्ये। इति सङ्कल्प्य। पुण्याहं कृत्वा। यथाविधि पूर्ववन् मृदंसङ्गृह्य। अङ्कुरार्पणमण्टपं प्रविश्य। तत्र पूर्ववद्विधिनाङ्कुरार्पणं कृत्वा।
तदनु गरुडप्रतिष्ठां कुर्यात्।
अथ ध्वजारोहण विधिरुच्यते
पूर्वं ध्वजार्थं तन्तूत्थं निर्दोषं सूक्ष्मं क्षौमं कार्पासं वा दशभिर्हस्तैरायतं तदर्धेन विस्तृतं यद्वा नवभिरष्टभिस्सप्तभिर्वा मूलभेरसमायामं द्वारायामं वा आयामार्धेन विस्तीर्णं तत्पादेन कृतशेखरं शेखरं समपुच्छयुतं तदर्धकर्ण पुच्छकं तथा निर्णेजितं खलियुक्तं शोषितमेवं भूतलक्षण विशिष्टं
ध्वजपटमादाय। तस्मिन्
आहृत्यमध्ये वस्त्रस्य गरुडं काञ्चनप्रभम्।
नवताल प्रमाणेन द्विभुजं धृतकञ्चुकम्।
धृतपुष्पाञ्जलिपुटं श्वेताम्बरधरम् विभुम्।
दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम्।
नीलनासाग्रसंयुक्तं कुञ्चितासव्य पादकम्।
पृष्टे निविष्टसव्याङ्घ्रिं पक्षविक्षेपशोभितम्।
गगने गमनारम्भं सुवृत्तं घोरदर्शनम्।
करण्डिकामकुटिनं ललाटे रचितालकम्।
हारकेयूरवलय नूपुराभरणोज्ज्वलम्।
अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः।
उरसि न्यस्तकार्कोटं कटिसूत्रित तक्षकम्।
बिभ्राणं दक्षिणे कर्णे पद्माह्वय सरीसृपम्।
महापद्मं तथान्यत्र शङ्खं शिरसि शोभितम्।
गुलिकं चाङ्गदे सर्पं वर्णस्तेषां च कथ्यते।
स्फटिकाभश्शोणिताभः पीताभो धूम्रवर्णकः।
रक्ताम्बुजनिभश्चैव पिङ्गलस्तुहिन प्रभः।
भ्रमराभः क्रमाच्छत्रमुक्तादाम परिष्कृतम्।
उपरिष्टाच्च कर्तव्यं पार्श्वयोश्चामरद्वयम्।
अधस्तादम्बुजं पूर्णकुम्भं मृद्भिश्च पालिकाः।
साङ्कुरं लिखितव्याःस्युर्दीपौ द्वौ पार्श्वयोर्द्वयोः।
पञ्चवर्णैर्लिखेद्देवम् अन्तरं श्यामवर्णकम्।
अन्तरालं न कृष्णेन चित्रयेच्चित्रवित्तमः।
इति गरुडमालिख्य । अधिवासदिने तमिस्रायामाचार्यो मूर्तिपैस्सह कारुशालां प्रविश्य । पटस्थस्य देवस्य शिल्पिनानयनोन्मीलनं कारयित्वा। शिल्पिनि तस्मिन् ईप्सितै र्धनैस्तोषिते विसृष्टे सति, तदा पटं ॐ इति गृहीत्वा । सुवर्णपात्रे निधाय । तन्मूर्तिपस्य शिरसि निक्षिप्य। तूर्यघोषैस्सह धामप्रदक्षिणी कृत्य । गर्भमन्दिरं नीत्वा । भगवन्तमर्घ्यदिभिरभ्यर्च्य। पुण्याहजलेनाऽस्त्रमन्त्रेण पटं सम्प्रोक्ष्य । अस्त्रमन्त्राभिमन्त्रित सिद्धार्थैः पुष्पैश्च सन्ताड्य । दाहानाप्यायने कृत्वा। देवं प्रणम्य। इमां गाथाम् उदीरयेत् ।
भगवन् पुण्डरीकाक्ष सर्वेश्वर जगन्मय।
त्वया यथा तु कथितं तथाकर्तुं न शक्यते।
अस्वातन्त्यादसामर्त्यात् श्रद्धादीनामभावतः।
तस्मान्मानादिसर्वेषां न्यूनाधिख्योपशान्तये।
सर्वदोषापहारिभ्यां वैनतेयं प्रसीदय।
इति भगवन्तं विज्ञाप्य । तूर्यघोषपुरस्सरं प्रादक्षिण्येन यागमण्टपं प्रविश्य। शालिपीठे पटं स्थाप्य विस्तार्य । छायाधिवास प्रतिष्ठान्तानां कर्मणां सिद्ध्यर्थं रक्षाबन्धनकर्मकरिष्ये। इति सङ्कल्प्य । पुण्याहं वाचयित्वा प्रोक्ष्य । पटस्थस्य प्रतिसरं यथाविधि बद्ध्वा । तस्य दक्षिणतः उपविश्य । प्राणायाम पुरस्सरं भूतशुद्धिमष्टाक्षर मन्त्रन्यासं च कृत्वा। तदनु अस्यश्री गरुडपञ्चाक्षर मन्त्रस्य। काश्यपऋषिः। पङ्क्तीश्चन्दः। श्री गरुडोदेवता । क्षीं बीजम् । स्वाहा शक्तिः । श्रीगरुडो देवता । श्री गरुड प्रसादसिद्ध्यर्थे विनियोगः । ॐ क्षीम् अङ्गुष्टाभ्यां नमः । ॐ पं तर्जनीभ्यां स्वाहा । ॐ ॐ मध्यमाभ्यां वषट् । ॐ स्वाम् अनामिकाभ्यां हुम् । ॐ हां कनिष्टिकाभ्यां फट् । ॐ क्षिप ॐ स्वाहा नखमुखैर्वौष्ट् ।
ॐ ज्वल ज्वल महामते स्वाहा ॐ क्षां हृदयाय नमः।
ॐ गरुड चूडानने स्वाहा ॐ क्षीं शिरसे स्वाहा । ॐ गरुड प्रभञ्जय प्रभञ्जय प्रभेदय प्रभेदय वित्रासय वित्रासय विमर्दय विमर्दयस्वाहा ॐ क्षैं कवचाय हुम् । उग्ररूपधर सर्व सर्प भयङ्कर सर्वविषं दारय दारय भीषय भीषय दह दह भस्मीकुरु स्वाहा, ॐ क्षौं नेत्राभ्यां वौषट्। ॐ अप्रतिहत शासनाय ॐ नमः सुदर्शनाय हुम्फट्स्वाहा ॐ क्षः अस्त्राय फट्"
ध्यानम्।
आजानुत सुवर्णाभम् आनाभेः तुहिनप्रभम्।
कुङ्कुमारुणमाकण्ठात् आकेशान्तात् सितेतरम्।
स्वस्तिकं दक्षिणं पादं वामपादं तु कुञ्चितम्।
दीर्घबाहुं बृहत्स्कन्धं नागाभरणभूषितम्।
नीलाग्रनासिकात्मानं माहपक्षं स्मरेत्बुधः।
दंष्ट्राकरालवदनं किरीटमकुटोज्ज्वलम्।
सर्वाभरण संयुक्तं सर्वावयवसुन्दरम्।
अनन्तो वामकटकः यज्ञसूत्रं तु वासुकिः।
तक्षकः कटिसूत्रं तु हारः कार्कोटकः तथा।
पद्मो दक्षिणकर्णे तु महापद्मस्तु वामतः।
शङ्खः शिरःप्रदेशे तु गुलिकस्तु भुजान्तरे।
एवं ध्यायेत् त्रिसन्ध्यायाम् आत्मानं गरुडाकृतिम्।
विषं नाशयते क्षिप्रम् अग्निक्षिप्तमिवाम्भसि।
ॐ नमः पक्षिराजाय वेदपक्षयुगप्रभो।
वैनतेय नमस्तेस्तु श्री गरुडाय नमो नमः।
एवमात्मानं गरुडं ध्यात्वा । हृत्पुण्डरीकाव्यक्तपद्मे गरुडं ध्यात्वा । मानसैः उपचारैः अभ्यर्च्य । तदनु तस्य पुरतः छायाधिवास सिद्ध्यर्थं धान्यराशौ स्वर्णादिलोहजं मृम्मयीं वा जलद्रोणीं तादृशं कटाहं वा संस्थाप्य। गन्धतोयेन सम्पूर्य । पुण्याहं वाचयित्वाप्रोक्ष्य। शोषणदहनप्लावनानि कृत्वा । तोरणध्वज कुम्भपूजनं च विधाय । पटस्तं कूर्चे समावाह्य ।
तस्मिन् संहारक्रमेण प्राक्छिरसं शाययित्वा । सुदर्शनमन्त्रेण चक्रमुद्रां प्रदर्श्य । तत्रैव यमस्य दिशि धान्यराशौ रक्षाकुम्भं सकरकं विन्यस्य । तस्मिन् ब्रह्माणं करके सुदर्शन मन्त्रेण चक्रमुद्रां प्रदर्श्य । एवं यामं यामार्धं वा अधिवास्य । सद्यो वा। तदनु कूर्चं जालादुद्धृत्य । पटे समावाह्य। नयनोन्मीलनार्थं सुवर्णरजत पात्रे आढकपूरणयोग्ये तादृशौ शलाकिके च समादाय । पुरतः धान्यपीठे पूर्वे सौवर्णं पश्चिमे राजतं च पात्रं सशलाकं निधाय । तत्परितः पात्रेषु नीवार, शालि, मुद्ग, श्यामाक, प्रियङ्गु, यव, तिल, गोधूमानि अष्टधान्यानि पृथक् पृथक् निधाय । आद्यं मधुना द्वितीयमाज्येन च पात्रम् आपूर्य । “नयनोन्मीलनकर्मकरिष्ये” इति सङ्कल्प्य । पुण्याहं वाचयित्वा । तानि प्रोक्ष्य, परिस्तीर्य । मधुनि सूर्यं, आज्ये चन्द्रमसं च आवाह्य अभ्यर्च्य । सवेद वाद्यघोषं मध्वक्तमुखया सुवर्णशलाकया “चित्रन्देवानां” इति दक्षिणं घृताक्तया राजत शलाकया"तच्चक्षुः” इति वामलोचनं च उन्मील्य । आच्छादनपटं व्यपोह्य । मधुसर्पिषी च अष्टधान्यानि दर्शयित्वा । अष्टनागानाम् अपि एवं कृत्वा। " छायास्नपन कर्मकरिष्ये” इति सङ्कल्प्य। पुरतः धान्यपीठे सलक्षणान् षोडशकुम्भान् संस्थाप्य। पूर्वोक्तविधिना, तत्तद् द्रव्यैः आपूर्य। परिस्तीर्य । देवतावाहनं पुण्याहवाचनपूर्वकं कृत्वा । सकूर्चे दर्पणे पटस्थं गरुडं समावाह्य । अर्घ्यादिपूजनपुरस्सरं पुरुषसूक्तस्य षोडश ऋग्भिः घृतान्तैः षोडशकुम्भैः संस्नाप्य । गरुडगायत्र्या सम्पूज्य। पटेपुनः आवाह्य। शालिभारद्वितयेन तदर्धेन तण्डुलेन तण्डुलार्धेनतिलेन धान्यपीठं कृत्वा । नवैः वासोभिः आच्छाद्य । दर्भान् आस्तीर्य । नववस्त्र व्याघ्रचर्म तूलिकारत्नकम्बल क्षौम चित्रवस्त्राणि च गन्धद्रव्यैः अधिवास्य। दर्भैः परिस्तीर्य । पुण्याहजलेन प्रोक्ष्य । तस्यां श्य्यायां शाययित्वा । द्वारतोरणपूजां कृत्वा । ततः शाययित्वा । पटस्यदक्षिणे पार्श्वे धान्यराशौ सकरकं महाकुम्भम् उपकुम्भाष्टकं च सलक्षणं संस्थाप्य । गन्धोदकेन आपूर्य । सकूर्च वस्त्र रत्न तत्तद्देवताङ्ग प्रतिमाऽश्वत्थ पल्लवापिधानान् तान् सर्वान् कृत्वा । परिस्तीर्य । प्रोक्ष्य। महाकुम्भे आधारादि पद्मान्तम् इष्ट्वा। तस्मिन्
एहि खेश महाबाहो वैनतेय वयोधिप।
सान्निध्यं कुरु पक्षीन्द्र प्रसीदात्र नमोस्तु ते।
क्षिप ॐ स्वाहा आगच्छागच्छेति गरुडम् आवाह्य । तद्गायत्र्या अभ्यर्च्य। करके सहस्रारहुम्फट् आगच्छागच्छेति आवाह्य । अभ्यर्च्य । पूर्वादिषु कलशेषु इन्द्रादीन् च। पटस्थगरुडं शोषणादिभिः संशोध्य । तत्वानि क्रमात् संहृत्य । पुनः उत्पाद्य। कुण्डेषु चतुर्षु स्थण्डिलेषु वा यद्वा एकस्मिन् कुण्डे महानसे नित्याग्निकुण्डे वा अधिवासहोमं कुर्यात्। कुण्ड चतुष्टयेषु प्राच्यां कुण्डे सत्यम् आवाह्य । “बृहत्साम मन्त्रेण” दक्षिणस्यान्दिशि कुण्डे सुपर्णम् आवाह्य। गारुड मन्त्रेण च । प्रतीच्याङ्कुण्डे गरुडम् आवाह्य। “रथन्तरसाम्ना”। उदीच्यां कुण्डे तार्क्ष्यमावाह्य
। “गरुडमन्त्रेण च ।
यद्वा सर्वेषु कुण्डेषु तत्तद्देवतामन्त्रैः वा समिद्भिः आज्यैश्च चरुणा पुरुषसूक्तेन च एकस्मिन् कुण्डे तु “ॐ नमो भगवते वैनतेयाय नमः” इति आवाह्य । गरुडमन्त्रेण च हुत्वा । पूर्वादिषु चतुर्षु कुण्डेषु ॐ भूः स्वाहा, ॐ भुवः स्वाहा, ॐ सुवः स्वाहा, ॐ भूर्भुवस्सुवस् स्वाहा इति मन्त्रैः क्रमेण मधु पयो दध्याज्यैः प्रत्येकं शतसङ्ख्यया आहुतीः हुत्वा। अन्यस्मिन् पात्रे सम्पातं पृथक् पृथक् सङ्गृह्य। पटस्थस्य पाद जठर मूर्धसु हुतमन्त्रैरेव स्वाहारहितैः क्रमेण कूर्चेन सर्वाङ्गं च संस्पृश्य। औत्तरेकुण्डे विष्णुगायत्र्या गुडाज्यमधुभिः हुत्वा। सम्पातेन मुखं च संस्पृश्य। होमं निर्वर्त्य। पालाशखादिराश्वत्थ बिल्वशाखाभिः चतसृभिः क्रमात् अब्लिङ्गैः मन्त्रैः महादिक् कलशाम्बुभिःकोणस्थ कलाशाम्बुभिर्वा एतस्याः शाखया विष्णुगायत्र्या च पटस्थं प्रोक्ष्य। मन्दिराभिमुखं पटं विस्तार्य। तस्मिन् योगपीठं सङ्कल्प्य। गन्धादिभिः अभ्यर्च्य। स्वाञ्जलौ योगपीठं विचिन्त्य। तस्मिन् हृत्पुण्डरीकस्थगरुडं रेचकेन अवतार्य। ध्यात्वा। तस्य गायत्र्या पटस्थस्य ब्रह्मरन्द्रेण प्रविष्टं विचिन्त्य। ब्रह्मरन्द्रं प्रणवेन पिधाय। मुद्रया सन्निरुध्य। ध्यात्वा।
सन्निधिं प्रार्थयेत्।
महाबलमहाबाहो वैनतेय वयोधिप।
सन्निधत्स्व पटे तुभ्यं नमः प्रणवमूर्तये।
कर्मणां सिद्धिमाहूतः कुरुष्व विहगेश्वर।
आहूतव्याः त्रयोलोकाः देवस्योत्सवसम्पदि।
इति गरुडं प्रार्थ्य । अर्घ्यादिभिः उपचारैः तद्गायत्र्या उपचर्य। चतुर्विधम् अन्नं निवेद्य।
महाकुम्भाय च तथा कृत्वा। तदनु
ॐ वाहनाय महाविष्णोः तार्क्ष्ययामित तेजसे।
गरुडाय नमस्तुभ्यं सर्वसर्पेन्द्रमृत्यवे।
नमो नमस्ते पक्षीन्द्र स्वाध्यायवपुषे नमः।
विहगेन्द्र नमस्तेस्तु समुत्पाटितकल्पक।
आहृतामृतकुम्भाय जननेदास्यमोचिने।
सुरासुरेन्द्रजयिने नागेन्द्राभरणाय ते।
यदाधारमिदं सर्वं तदाधाराय ते नमः।
पक्षौ यस्य बृहत्सामरथन्तरमपि द्वयम्।
अक्षिणी चापि गायत्री त्रिवृत्सामशिरः स्मृतम्।
स्तोम आत्मा नमस्तस्मै वामदेव्याङ्गसम्पदे।
नमः प्राणादि वायूनाम् ईशानाय गरुत्मते।
दोषान् अपनय अखण्डान् गुणान् आवहसर्वतः।
विघ्नानि जहि सर्वाणि आत्मसात् कुरु मामपि।
एवं स्तुत्वा। गारुडमन्त्रं यथाशक्ति जपित्वा। वेदघोषैः तूर्यघोषैः निशां जागरेण नीत्वा। ततः प्रभाते गुरुः नित्यकर्म समाप्य। गर्भगेहं प्रविश्य। मूलबेरम् अर्घ्यादिभिः अभ्यर्च्य। तस्मात् उत्सवबिम्बे समावाह्य। उद्वासनरहितैः षोडशोपचारैः आराध्य। तं पटस्थं गरुडं च माल्यादिभिः अलङ्कृत्य। हस्तिपृष्ठे रथे, शिबिकादौ वा यात्राबिम्बं च पृथक् याने च समारोप्य। भेरी मृदङ्ग पटह शङ्ख काहल नृत्त गेयसहितं शिरोभिः साङ्कुर पालिकाशतधारकैः ब्राह्मणैः च ग्रामधाम्नोः प्रादक्षिण्येन ध्वजस्तम्भसमीपं नीत्वा। ध्वजस्तम्भस्तु अन्तस्सारः बहिस्सारः निस्सारश्चेति दारुः त्रिविधः। चम्पक, देवदारु, चन्दन, खदिर, साल, बिल्व, ककुभ, आमलकादयःअन्तस्साराः। क्रमुक नालिकेर ताल, हिन्ताल, वेण्वादयः बहिस्साराः। निस्सारं वर्जयित्वा। अन्तस्सारं बहिस्सारं वा मानेन शततलायतं
शुभं। अशीतितालमानं वा प्रासाद उच्छ्रायमानं, यद्वा गोपुरमानं वा स्तम्भं समानीय। चतुर्धा विभज्य। अग्रैकांशेनमस्करं तदाधार भूतानि द्वितालायतानि तदर्धेन विस्तीर्णानि, तदर्धेनघनानि, पीठत्रितयात् मूले स्थूलानि, अग्रे सूक्ष्माणि मूलतच्छिद्रितानि कृत्वा। स्तम्भाग्रे तानि विनिवेश्य। अग्रपीठद्वये छिद्रिते तत्र ध्वजयष्टिमस्करम् एवं स्तम्भे विनिवेश्य। ध्वजयष्ट्याम् एकं वेणुकं वा नव सप्त पञ्चवेणुकान् वा निवेश्य। इत्थं भूतं ध्वजस्तम्भं पीठस्य उत्तरेपार्श्वे विनिवेश्य। आचार्यः वेदविद्विप्रैः सह “अब्लिङ्गर्मन्त्रैः प्रक्षाल्य। कुशैः दर्भै ऊर्ध्वमुखैः प्रच्छाद्य। दर्भमालाभिः संवेष्ट्य। शोधिते स्तम्भावटे लोहबीजादीनि विन्यस्य। तत्र आवटे ध्वजस्तम्भं “विष्णुसूक्तेन” धृढं यथा भवेत्। तथा प्रासादाभिमुखं स्थापयित्वा। स्तम्भमूलस्थले सप्तभिः पञ्चभिः त्रिभिः वा हस्तैः आयतां तावद्विस्तीर्णाम् एकहस्तसमुच्छ्रितां चतुरश्रां वेदिकां कारयित्वा। तां त्रेधा विभज्य। एकांशे मध्ये चतुष्टय अङ्गुलोत्सेध मेखलात्रययुतं पीठं, तस्यापि तृतीयेभागे कर्णिकामध्ये यथारम्भविनिवेशनं भवेत् तथा पद्मं कृत्वा। पीठस्य परितः षोडशस्तम्भयुतां तिरस्करिणीं चित्रदर्भमाला दीपपुष्पमालावितानाद्यलङ्कृतां चतुर्द्वारयुतां प्रपां कारयित्वा। पुण्याहं वाचयित्वा। प्रोक्ष्य। स्तम्भदक्षिणे धान्यपीठं कृत्वा। तस्मिन् सलक्षणं कुम्भनवकं विन्यस्य। मध्ये गरुडं परितः अष्टदिक्षु इन्द्रादीन् आवाह्य अभ्यर्च्य। तत्तन्मन्त्रेण स्तम्भं यथाक्रमं प्रोक्ष्य। तद्वेण्वग्र विवरे तन्तुभिः त्रिगुणीकृतेन अङ्गुष्टानाहेन पाशेन ध्वजपटं पुरुषमन्त्रेण संयोज्य। वक्ष्यमाणेन विधिना ध्वजम् आरोपयेत्। यद्वा बद्धध्वजाग्रं स्तम्भं वा
स्थापयेत्।
तदनु गुरुः शोभने मुहूर्ते पटस्थं गरुडं प्रासादाभिमुखं संस्थाप्य। सर्वतः दिक्षु वेदतूर्यघोषेषु प्रवर्तितेषु स्वयं गरुडमालामन्त्रादि जपन् गरुडम् अर्घ्यादिभिः अभ्यर्च्य। महाकुम्भजलेन तद्गायत्र्या कूर्चेन सम्प्रोक्ष्य। गारुडमन्त्रेण कुम्भान् पटस्थम् अनुचिन्त्य। प्राणप्रतिष्ठां यथाविधि कृत्वा। तन्मूलमन्त्रं विन्यस्य। तद्गायत्र्या तन्मुद्रां प्रदर्श्य। अर्घ्यादिभिः अभ्यर्च्य। अष्टासु दिक्षु इन्द्रादीन् च आवाह्य। गन्धपुष्पादिभिः अभ्यर्च्य। पृथुक, नालिकेर, अपूप, मुद्गान्नादीनि पटस्थस्य निवेद्य। वेदघोषैः सह"सुपर्णोसि इति मन्त्रेण ध्वजम् आरोप्य। यावदवभृतं ध्वजोदरे
गरुडस्य स्थितिं वक्ष्यमाण गाथया प्रार्थयेत्।
पक्षीन्द्रपक्षविक्षेप तरङ्गानिलसम्पदा।
निरस्तासुरसन्नाह समरे शत्रुसूदने।
सन्निधत्स्वपटे यावत् उत्सवावभृतक्षणम्।
इति प्रार्थ्य। उत्सवप्रतिमां ध्वजस्तम्भसमीपम् आनीय। खगं दर्शयित्वा। समस्तदेवताह्वानार्थं
गरुडं नियुज्य। उत्सवबिम्बसन्निधौ एव पुष्पाञ्जलिं समादाय।
अस्मद्दिनात्समारभ्य यावत्तीर्थ दिनान्तिमम्।
सन्निधिं कुरु पक्षीन्द्र राज्ञोजनपदस्य च।
ग्रामस्य यजमानस्य वैष्णवानां विशेषतः।
तुष्टये पुष्टये चैव सर्वशत्रु क्षयाय च।
अपमृत्यु जयार्थाय वैनतेय प्रसीद ॐ।
इति गाथाम् उदीरयन्। गरुडोपरि पुष्पाञ्जलिं वितीर्य। तदनु भगवन्तं विज्ञापयेत्।
ज्ञानतोऽज्ञानतोवापि यथोक्तं न कृतं मया।
तत्सर्वं पूर्णमेवास्तु सुतृप्तोभव सर्वदा।
ओमच्युत जगन्नाथ मन्त्रमूर्ते जनार्दन।
रक्ष मां पुण्डरीकाक्ष क्षमस्वाज प्रसीद ॐ।
इति विज्ञाप्य। भगवन्तं मण्डपान्तरं नीत्वा। यथाविधि सम्पूजयेत्। ध्वजसमीपे नक्तदिवं अनिर्वाणं दीपम् आरोप्य। ध्वजारोहणाऽवरोहणान्तं प्रतिदिनं गरुडं सम्पूजयेत्।
अथ भेरीताडनम्।
अथ भेरीताडन विधिः उच्यते। आचार्यः तद्रात्रौ देवं प्राणायामान्तर्याग पुरस्सरं
पूजयित्वा। निवेद्य। होमं च कृत्वा। ध्वजपीठस्य पुरतः क्षितिं गोमयवारिणा चतुरश्राम् आलिप्य। सुधाचूर्णैः अलङ्कृत्य। द्रोणपञ्चक शालिना धान्येन पीठं चतुरश्रं विधाय। तत्र कालचक्रं लिखित्वा। तन्मध्ये मूलबेरात् आवाहितशक्तिं बलिबिम्बं ध्वजसम्मुखं निवेश्य पूजयित्वा। तस्य पुरतः आलिप्ते भूतले धान्यपीठके नववाससा वेष्टितं महाभेरीं संस्थाप्य। तस्याः दक्षिणे कोणं च निधाय। भेर्याः पूर्वभागे शङ्खनिकरं, वह्नौ काहलसञ्चयं, याम्ये मद्धल, नैरृते मुखतन्त्री वंशानि, वारुणे उडुक मृदङ्ग ह्रस्वसम्मर्दनि, वायव्ये करटीं कांस्यतालं च, सौम्ये पटह
ह्रस्वपटहौ, ऐशान्यां डुड्डुकान्, वल्ली, हस्तघण्टान् च, एतेषाम् अलाभे सम्भवानुगुणं संस्थाप्य। तेषां बाह्ये दक्षिणे गणिकाजनं, गायकान् च अग्रतः नर्तकान् उत्तरे वन्दीवृन्दकान् स्वेस्वे स्थाने च अन्यान् वाद्यवादकान् संस्थाप्य। भेर्याः पश्चिमे देशे सलक्षणं कुम्भं धान्यराशौ संस्थाप्य। पुण्याहं वाचयित्वा। भेर्यादिवाद्यानि स्नातं शुचिम् अलङ्कृतं दर्भपाणिं सोपवीतोत्तरीयं पारशवं च प्रोक्ष्य। भेरीमध्ये ॐ त्रिगुणात्मिकायै प्रकृत्यै नमः। दक्षिणे ॐ विष्णवे नमः। ॐ श्रीं श्रियै नमः, मध्ये ॐ ब्रह्मणे नमः, दक्षिणे ॐ विष्णवे नमः, वामे ॐ रुद्राय नमः, दक्षिणमुखे ॐ सूर्याय नमः। वाममुखे ॐ चन्द्रमसे नमः। चर्मसूत्रे ॐ वासुकये नमः। दक्षिणपार्श्वे नवरन्ध्रेषु ॐ वागीश्वर्यै नमः, ॐ क्रियायै नमः, ॐ कीर्त्यै नमः, ॐ लक्ष्म्यै नमः, ॐ सृष्ट्यै नमः, ॐ विद्यायै नमः, ॐ कान्त्यै नमः, ॐ दुर्गायै नमः, ॐ गणपतये नमः, इति वामपार्श्व रन्द्रेषु, ॐ अत्रये नमः, ॐ भृगवे नमः, ॐ वसिष्टाय नमः, ॐ भार्गवाय नमः, ॐ नारदाय नमः, ॐ गौतमाय नमः, ॐ भरद्वाजाय नमः, ॐ विश्वामित्राय नमः, ॐ मरीचये नमः, इति अष्टसु दिक्षु ॐ रम्भायैनमः, ॐ मेनकायै नमः, ॐ ऊर्वश्यै नमः, ॐ तिलोत्तमायै नमः, ॐ सुमुख्यै नमः, ॐ सुन्दर्यै नमः, ॐ रमण्यै नमः, ॐ यामवर्धिन्यै नमः, इति। कोणाधि दैवताय ॐ वायवे नमः, शङ्खाधि दैवताय ॐ विष्णवे नमः, काहलाधि दैवतायै ॐ वागीश्वर्यै नमः, मद्धलाधि दैवतेभ्यः त्रिमूर्तिभ्यः नमः, ॐ मुखाधि दैवताय ब्रह्मणे नमः, ॐ मृदङ्गाधि दैवताय रुद्राय नमः, ॐ झल्लर्याधि दैवताय विष्णवे नमः, ॐ पटहाधि दैवतायै श्रियै नमः, ॐ डमरुकाधि दैवताय ईशानाय नमः। ॐ उडुक्काधि दैवताय षम्मुखाय नमः। ॐ करट्याधि दैवताय धर्मराजाय नमः। ॐ तिमिलाधि दैवताय वायवे नमः। ॐ डक्कर्याधि दैवताय चन्द्रशेखराय नमः। ॐ तालाधि दैवताय ब्रह्मणे नमः। ॐ वामहस्त खण्डाधि दैवताय श्रियै नमः। ॐ दक्षिणहस्त खण्डाधि दैवताय पार्वत्यैनमः। इति गन्धादिभिः अभ्यर्च्य। कुम्भे “यज्ञाश्च इति आवाह्य। अभ्यर्च्य। पूर्वादिदिक्षु इन्द्रादीन् आवाह्य अभ्यर्च्य, निवेद्य। शोभने मुहूर्ते ॐ नं नमः पराय शब्द तन्मात्रात्मने नमः, इति मन्त्रेण यज्ञाश्च इति उक्त्वा। कोणेन भेर्याः ताडनं कुर्यात्। तदनु तां भेरीं पारशवः गृहीत्वा। वहन् गुरुणा इन्द्रादौ मरुद्गणे हयमाने
घोषयेत्।
दिव्यायुधानाम् आह्वानां तथा वैकुण्ठ वासिनाम्।
विष्णुपारिषदाः सर्वे विष्वक्सेनाभि रक्षिताः।
आहूतव्याः मखे तस्मिन् कुमुदाद्याः सनायकाः।
ऋषिभिश्च मरीच्याद्यैः ब्रह्मलोकनिवासिभिः।
समाह्वानां विरिञ्चस्य रुद्रलोकनिवासिभिः।
सार्धं प्रथमसङ्घैश्च रुद्रश्च वृषवाहनः।
आहूतव्याः तथा चान्ये तत्तल्लोकनिवासिनः।
वाहनैः परिवारैः च साकं तस्मिन् महोत्सवे।
विद्याश्च मूर्तिधारिण्यः त्रयीचाङ्गैश्च पुष्टिदा।
आहूतव्याः समाह्वानं सर्वेषां च स्वनामभिः।
इति सर्वेदेवानाम् आह्वानं कृत्वा। ततः दिग्देवता बल्यर्थं परितः आवरणेषु नित्योत्सवार्चां परितः वीथिकासु सुदर्शनम् अन्नर्मूीन्त वा प्रतिदिशं भेरीताडनपूर्वकं ग्रामं गमयित्वा। प्रदक्षिणी कृत्य। ग्राममध्यं समासाद्य। तत्र ब्रह्माणम् आवाह्य। अर्चयित्वा। प्रतिदिशम् इन्द्रादीन् च बल्यर्थं आवाह्य। अभ्यर्च्य। सन्निधिं प्रार्थ्य । तेषां स्वस्वतालादि सहितम् एवं कृत्वा। अन्यत्र अन्तरालेषु गारुडं तालं घोषयित्वा। मन्दिरं प्रविश्य। यथापुरं निवेशयेत्। यद्वा उत्सवबिम्बेन वा केवलं सुदर्शनम् अन्नमूर्तिना वा, यद्वा केवलं भेरीं वा आदाय। रथ्यासु तत्र तत्र यथाविधि
देवताह्वानं कुर्यात्।
देवताह्वान वेलायां भेरीं श्रुण्वन्ति ये जनाः।
तैः नदीतरणं नैव यानं वा योजनात्परम्।
अनाधृत्योत्सवं मोहात् दूरं यायात् जनो यदि।
स याति निरयं स्थानं प्रेत्यदुःखमिहापि च।
तस्मादवभृथं यावत् वसेत्तत्रैव नो व्रजेत्।
ध्वजार्थम् अङ्कुराः येन न्यस्ताः स यदि कारणात्।
कुतश्चिदसमर्थो वा मृते वा देशिकोत्तमः।
शेषं समापयेत् अन्यः पुत्रो वा तदनुज्ञया।
शिष्यो वा यदि वा भ्राता ऋत्विग्वा गुणवत्तरः
इति श्री-वराहगुरुणा विरचितायां क्रिया-कैरव-चन्द्रिकायां
ध्वजारोहण विधिः नाम त्रयत्रिंशः परिच्छेदः