३२ सहस्रकलस्नपनम्

अथ द्वात्रिंशः परिच्छेदः
अथ एकोत्तर सहस्रकलशस्नपन विधिः उच्यते
पूर्वेद्युरेव भगवतः पूर्ववत् अङ्कुर प्रतिसराधिवासान् च कृत्वा । द्वात्रिंशद्धस्तविस्तारद्विगुणेन आयतं कलशास्पद भूभाग वैपुल्यानुगुणं महत् अन्यत् मण्डपं कल्पयित्वा । यथापुरं द्वारादीनि च। कलशास्पदभूमिं पञ्चविंशतिधा विभज्य। मध्यमं ब्राह्मम्पदम् एकोत्तराशीति घटास्पदं यथा भवति तथा विभज्य। ब्रह्मादीशानान्तं नव नव पदानि एकाशीति घटास्पदानि हित्वा । शिष्टानिअष्टोत्तराशीति पदानि सम्मार्ज्य । प्रतिपदं व्रीहीणाम् आढकेण तण्डुलानां तदर्धेन तदर्धेन तिलानां पीठिकां कृत्वा । तदुपरि द्वौ द्वौ दर्भौ विन्यस्य। तदनु सुवर्णादि लोहजान् मृम्मयान् पूर्वोक्त लक्षणयुतान् द्रोणेण वा जलानां तदर्धेन वा पूर्यान्। द्रव्यकुम्भान् , जलानाम् आढकेन पूर्यान् च। कलशान् विष्णुगायत्र्या प्रक्षाल्य । मृम्मयांस्तु वामे करतले विन्यस्य। तदितरेण करेण तन्तुं गृहीत्वा वेष्टिततन्तूनाम् अन्तरालंयवमात्रम् अर्धाङ्गुलमात्रं वा यथा भवेत् तथा । “इन्द्रं नत्वे"ति मन्त्रेण आवेष्ट्या। कलशास्पदमेदिन्याः पश्चिमे भूतले धान्यपीठं विधाय । पुण्याहं वाचयित्वा । तस्मिन् प्रागग्रान् उदगग्रान् वा दर्भान् संस्तीर्य । तत्र ब्रह्मादीशानपर्यन्तं कुम्भान् अधोमुखान् ॐ इति विन्यस्य । तेषाम् उपरि पूर्ववत् त्रीन् त्रीन् दर्भान् परमेष्ठिमन्त्रेण विन्यस्य। अर्घ्या तोयेन पुरुष मन्त्रेण प्राङ्मुखः प्रोक्ष्य। विश्वमन्त्रेण अक्षतान् विकीर्य। निवृत्तिमन्त्रेण उत्तानिकृत्य । तदनु विधिवत् अग्निं संसाध्य। सर्पिषा विष्णुगायत्र्य अष्टोत्तर शताहुतिः हुत्वा

सम्पातेन स्नपन द्रव्याणि संसिच्य । वस्त्रपूतैः स्नपनद्रव्यैः तत्तत् देवता मन्त्रैः कलशान् सम्पूर्य। द्रव्य कलशान् उद्धृत्य । विष्णुगायत्र्य यथास्थानं वक्ष्यमाणेन विधिना स्थापयेत्। मध्ये ब्राह्मेभागे एकोत्तराशीति घटाः। दिव्ये ऐन्द्रे दिव्ये याम्ये वारुणे दिव्ये सौम्ये च प्रतिदिशं एकोत्तराशीतिकलशाः । दिव्यभागाग्नेयादि कोणचतुष्टयेष्वपि प्रतिकोणम् एकोनपञ्चाशत्
सङ्ख्याकाः कलशाः।
तेषां तु प्रागुदगग्राणि दश सूत्राणि आस्फाल्य। पूर्वादि दिक्षु द्वे द्वे पङ्क्ती हित्वा । परितः एकैकां पङ्क्तिं सम्मार्ज्य । मध्ये नव पूर्वाद्युत्तरान्तं षट् षट् । आग्नेयादीशानान्तं चत्वारि चत्वारि
कलशाः स्थाप्याः।
तत्परितश्च मानुषे भागे षोडशस्थानेषु च प्रतिस्थानं पञ्चविंशतिकलशाः स्थाप्याः । तेषां तु प्रागुदगग्राणि दश सूत्राणि आस्फाल्य । चतुसृषु दिक्षु एकैकाम् पङ्क्ती हित्वा । तदनु द्वे द्वे पङ्क्ती सम्मार्ज्य । मध्ये नव दिक्षु त्रीणि त्रीणि विदिक्षु एकैकाम् । एवं पञ्चविंशति कलशान्
स्थापयेत् । एवं चेत् कलशानां सहस्रम् एकोत्तरं भवति ।
(1)ब्राह्मे मध्यनवके नवकमध्यमे सर्वलोहान् । । सुवर्ण रजत ताम्र सीस त्रपु
कांस्याऽयस्सारान् निष्कमात्रान्, माणिक्य पद्मराग नीलवज्र पुष्यक प्रवालमुक्तामरतक वैढूर्याणि । कदली बीजपूरकाऽऽम्राऽऽमलक बिल्व नालिकेर पनस मातुलुङ्गानि मांसि कुष्ठ हरिद्राद्वितय मुराशैलेय चम्पक मुकुल मुस्तावचा कर्पूराणि पृथक् पृथक् पलमात्राणि । कर्पूर कुङकुम कुष्ठ मांसि चन्दनमुरप्रियङ्गु केसर मुस्तातमालनागकेसर मूलद्वय, कच्छोर सुरपर्णि केसरोशीर तगर लोघ्र हरिचन्दन अगरु द्वय, सितकुष्ठकालेय ग्रन्थिपल्लव चम्पक मुकुलानि प्रत्येकं पलमानानि चूर्णिकृतानि। श्रीवत्स वनमाल शङ्ख चक्र गदाम्बुज खड्ग शार्ङ्गाणि स्वर्णनिर्मितानि प्रत्येकं निष्कमानानि च सजले कुम्भे ॐ नमोभगवतेवासुदेवाय इति विनिवेश्य । तं युवासा इति वासोभ्याम् आवेष्ट्य । सकूर्च पिप्पल दलापिधानं कृत्वा। तत्र योगपीठं सङ्कल्प्य । तस्मिन् साङ्गं सपरिवारं वासुदेवम् आवाह्य । अर्घ्यादि दीपान्तम् अभ्यर्च्य। (1a) ब्राह्मे तस्य प्राचीनकुम्भनवकमध्यमे कुम्भे सूर्यकान्त पद्मरागौ। तस्य पुरुषो देवता । ब्राह्मे (1b)आग्नेय कुम्भनवकमध्यमे कुम्भे वैढूर्य चन्द्रकान्तौ। तस्य वासुदेवः देवता । ब्राह्मे (1c)याम्यकुम्भनवकमध्यमे कुम्भे इन्द्रनीलायस्यकान्तौ तस्य सत्यो देवता। ब्राह्मे

(1d)नैॠतकुम्भनवक मध्यमे कुम्भे प्रवालगरुडौ तस्य सङ्कर्षणो देवता। ब्राह्मे (1e)वारुण कुम्भ नवकमध्यमे कुम्भे पुष्यस्फटिकौ तस्य अच्युतःदेवता । ब्राह्मे (1f)वायव्य
कुम्भनवकमध्यमेकुम्भे पद्मरागमरतके तस्य प्रद्युम्नो देवता।
(1g)ब्राह्मे वारुण कुम्भनवकमध्यमेकुम्भे वज्रं, रजतम् तस्य अनन्तः देवता। ब्राह्मे (1h) रौद्रकुम्भनवकमध्यमे कुम्भे ताम्रमौत्तिके तस्य अनिरुद्धः देवता। सर्वेषु शुद्धोदकेषु मौक्तिकानि
तेषां देवता नारायणः।

(2) तस्यां प्राच्यां दिव्ये भागे एकाशीतिघटास्पदे मध्यनवक मध्यमे कुम्भे कदलि पनस आम्र मातुलङ्ग भव्य जम्बुकेसर बदरि फलानि । तस्य देवता तत्त्वात्मा । तस्य ऐन्द्रे नवक मध्यमे कुम्भे मातुलङ्ग दाडिमफले । तस्य देवता पृथ्वी । तस्य आग्नेय नवकमध्यमे घटे जम्बूनारङ्ग फले । तस्य देवता अपांअधिष्ठात्रि। तस्य याम्य नवकमध्यमे घटे तक्कोलैलाफले । तस्य तेजस्वीपुरुषः देवता । तस्य नैॠत कुम्भ नवकमध्यमे कुम्भे क्षीरिकामलक फले । तस्य वायुर्देवता। तस्य वारुण नवकमध्यमे घटे द्राक्षा खर्जूर फले । तस्य आकाशात्मा देवता । तस्य वायव्य नवकमध्यमे घटे चूतपारावतफले। तस्य देवता मनः। तस्य सौम्य नवकमध्यमे घटे क्षुद्रं पनसफलं। तस्य देवताअहङ्कारः । तस्य ऐशान्य नवकमध्यमे घटे बिल्वकदलि फले । तस्य देवता बुद्धिः । सर्वेषु शुद्धोदक कुम्भेषु बदरि फलानि देवताः पूर्ववत्। अष्टाक्षरेण
पञ्चोपनिषदैः कुम्भानाम् अभिमन्त्रणम् ।
(3)दिव्ययाम्ये एकाशीतिघटास्पदे मध्यनवक मध्यमे कुम्भे उशीर, कुङकुम, कुष्ठ, मांसी, मलयज, मुर, ह्रीबेर, अगरुपिष्टानि प्रत्येकं पलमात्राणि तस्य देवता त्रैलोक्यमोहनः । तस्य ऐन्द्रे नवक मध्यमे कुम्भे जलदवारेणमूले। तस्य देवता बभ्रु: । तस्य आग्नेय नवकमध्यमे घटे कर्पूरकाश्मीरे । तस्य देवता शौरिः । तस्य याम्य नवकमध्यमे घटे चम्पक मुकुल मांसीपिष्टे । तस्य देवता दाशार्हः। तस्य नैॠत कुम्भ नवकमध्यमे कुम्भे चन्दन रक्तचन्दनक्षोदौ । तस्य देवताअन्नाधिपतिः । तस्य वारुण नवकमध्यमे कुम्भे सुरपर्णी मौररजसी । तस्य देवतावैकुण्ठः । तस्य वायव्य नवकमध्यमे घटे गिरिजमूल प्रैयङ्गव मूल रजसी । तस्य देवता पुरुषोत्तमः । तस्य सौम्य नवकमध्यमे कुम्भे कुष्ट सितकुष्टपिष्टे । तस्य देवता मुकुन्दः । तस्य

ऐशान्य नवकमध्यमे घटे कृष्ण धवलागरुक्षोदौ । तस्य देवता वृषाकपि:। अवशिष्टेषु शुद्धोदक कुम्भेषु तमाल पत्राणि । देवता: पूर्ववत् । पुरुषमन्त्रेण वा पवमानादिभिः सूक्तैः वा
कुम्भाभिमन्त्रणम्।
4–दिव्य वारुणे एकोत्तराशीतिघटास्पदे मध्यनवकमध्यमे कुम्भे वापि सरित्कूप
ह्रद वृष्टि हिम आपगा समुद्र तटाक पाथांसि नव । तस्य ऐन्द्रे नवक मध्यमे कुम्भे वापीजलम् । तस्य आग्नेय नवकमध्यमे घटे सरिज्जलम् । तस्य याम्य नवकमध्यमे घटे कूपजलम् । तस्य नैॠत कुम्भ नवकमध्यमे कुम्भे ह्रदजलम् । तस्य वारुण नवकमध्यमे कुम्भे हिमजलम् । तस्य वायव्य नवकमध्यमे वृष्टि। तस्य सौम्य नवकमध्यमे कुम्भे आपगाजलम् । तस्य ऐशान्य नवकमध्यमे घटे समुद्रजलम् । एतेषां देवतास्तु क्रमेण भार्गवरामरहिताः मत्स्यादयः।
शुद्धोदकानां पूर्ववत्।
5–दिव्ये सौम्ये एकाशीतिघटास्पदे मध्यनवक मध्यमे कुम्भे यव गोधूम व्रीहि शालि
मुद्ग प्रियङ्गु माष श्यामाक नीवाराणि। तस्य देवता गरुडारूढ: पद्मनाभः। तस्य ऐन्द्रे नवक मध्यमे कुम्भे यवम् । तस्य देवता वनमाला । तस्य आग्नेय नवकमध्यमे घटे गोधूमः । तस्य देवता शङ्ख: । तस्य याम्य नवकमध्यमे घटे व्रीहिः । तस्य देवता चक्रं। तस्य नैॠत कुम्भ नवकमध्यमे कुम्भे शालिः । तस्य देवताकौस्तुभः । तस्य वारुण नवकमध्यमे मुद्गम् । तस्य देवतापद्मम् । तस्य वायव्य नवकमध्यमे प्रियङ्गुः। तस्य देवता शार्ङ्ग । तस्य सौम्य नवकमध्यमे कुम्भे माषम् । तस्य देवता गदा । तस्य ऐशान्य नवकमध्यमे घटे श्यामाक नीवारः । तस्य
देवता खड्गः। शिष्टाः शुद्धोदकाः देवताश्च तथा।
2-1-दिव्ये आग्नेयेएकोनपञ्चाशत् घटास्पदे मध्यमनवके घृतम् । तस्य ऐन्द्रषट्के गोमूत्रं। तस्य याम्यषट्के क्षीरं। वारुण षट्के दधि । सौम्य षट्के गोमयरसः । तस्य आग्नेय कुम्भ चतुष्टये उष्णोदकम् । नैॠत चतुष्टये पञ्चामृतम् । तत्तु क्षीर दधि घृत मधु शर्कराः तस्य ऐशानकुम्भ
चतुष्टये सक्तवः । तेषां देवता नारायणः ।

2-2-दिव्ये नैॠते एकोनपञ्चाशत् घटास्पदे मध्यनवके तैलम् । देवता मत्स्यमूर्तिः । तस्य ऐन्द्रषट्के घनसारद्रव्यम् । तस्य याम्याषट्के लाजं। वारुण षट्के मार्जनाम्भः । सौम्य षट्के च मार्जनद्रव्याणि तु रजनी, सूर्यवर्तिनी, सहदेवी, शिरिष, सदाभद्र, कुशाग्राणि पृथक् मुष्टिमात्राणि । तस्य आग्नेयादीशानान्तकोणचतुष्टयकुम्भ चतुष्केषु षोडशसु गुडवारि । तेषां
देवता वासुदेवः।

2-3-दिव्य मारुते एकोनपञ्चाशत् घटास्पदे मध्यमनवके सर्षपतैलम् । ( देवता मत्स्य मूर्ति) । तस्य ऐन्द्राषट्के पूर्वोक्त पाद्य द्रव्याणि । तस्य याम्यषट्के अर्घ्यद्रव्याणि पूर्वोक्तानि । वारुण षट्के आचमनीय द्रव्यं। सौम्य षट्के मङ्गलोदकम् इन्द्रवल्ल्यादि। आग्नेयादीशानान्तकोण चतुष्टय कुम्भ
चतुष्केषु षोडशसु इक्षुरसः। तेषां देवता अनिरुद्धः।

2–4–दिव्यैशानैकोनपञ्चाशत् घटास्पदे मध्यमनवके मधु । तस्य ऐन्द्राषट्के
सर्वगन्धोदकं कर्पूरकुङ्गुमादि । तस्य याम्यषट्के शान्तिवारि तुलसि, वेणु, नीवारादि। वारुण षट्के सौम्य षट्के च तथा । आग्नेय चतुष्के नैॠत चतुष्केषु वायव्य चतुष्केषु च नालिकेरजलं। तस्य
ऐशानचतुष्के क्षीरम् । तेषां देवता हरिः।

3—1-मानुषे पदे प्राच्यां कुम्भानां पञ्चविंशतौ मध्यम नवक मध्यमेकुम्भे क्षेत्रतीर्थ, अब्धि, शैल, गज, सूकर, दन्ताग्र, वल्मीक, वृषश्रृङ्गाग्रमृत्तिकाः अष्टौ । तत्परितः स्थिते कुम्भाष्टके प्रच्यादीशानान्तं पूर्वोक्ताः क्रमेण एकैकाः । नवकस्य देवता केशवः। शिष्टषोडश
शुद्धोक कुम्भेषु देवता नारायणः।

3-2-तत ऐन्द्राग्नेयान्तराल पञ्चविंशतौ नवकमध्यकुम्भे सहदेवि, वचा, शतमूला, शतावरी, कुमारी, गडूची, सिह्मी, व्याघ्रीत्यष्टौ मूलक्षोदाः। तत्परितः स्थिते कुम्भा ष्टके क्रमेण सहदेव्यादिमूलिकाः एकैकाः। नवकस्य देवता नारायणः । शिष्टेषु षोडशशुद्धोद कुम्भेषु च।

3-3-तत्र आग्नेयपञ्चाशतौ नवकमध्यमकुम्भे न्यग्रोध, औदुम्बराऽश्वत्थ, जम्बु, बिल्व, पलाश, मधुक, शिरीषाणां त्वचोष्टौ तद्रसाः । तत्परितः स्थिते कुम्भाष्टके क्रमेण न्यग्रोधादित्वग्रसाः। नवकस्य देवता माधवः । शिष्टशुद्धोदकुम्भानां नारायणः।

3-4-आग्नेययाम्ययोः अन्तराले कुम्भानां नवक मध्यमे कुम्भे पालाश, बिल्व, वकुल, कदम्ब, आम्र, शिरीष, न्यग्रोधाऽश्वत्थजाः पल्लवाः अष्टौः। तत्परितः स्थितेषु अष्टसु कलशषु पलाश पल्लवाद्येकैकं पल्लवं क्रमेण। तस्य नवकस्य देवता गोविन्दः। शिष्टषोडशशुद्धोक कुम्भानां
नारायणः।

3-5-याम्ये कुम्भानां पञ्चविंशतौ नवकस्य मध्यमे कुम्भे जाती, मल्लिका, प्रियङ्गु, पद्म, वकुल, नन्द्यावर्तक, चम्पक, कुन्दजानि अष्टौ पुष्पाणि । तत्परितः स्तिथकलशेषु अष्टसु जात्यादि पुष्पं एकैकं क्रमेण। तस्य नवकस्य देवता विष्णुः। शिष्टानां पूर्ववत्। 3-6-याम्यनैॠतयोः अन्तराले कुम्भानां पञ्चविंशतौ नवक मध्यमकुम्भे सिद्धार्थ राजसिद्धार्थ वंश, गोरोचनेन्द्रवेणु, षाष्ठ, यव, शमी, चणकानि अष्टौ। तत्परितः स्थितेषु कलशेषु अष्टसु सिद्धार्थाद्येकैकं क्रमेण। तस्य नवकस्य देवता मधुसूदनः। शिष्टानां पूर्ववत्।

3-7-तत्र नैॠते कुम्भानां पञ्चविंशतौ नवकस्य मध्यमे कुम्भे ग्राम्यतिलाऽऽरण्यकतिल, जीरक, कृष्णजीरक, अतसीसम्भवच्छिन्न, शतपुष्प, कुठारर्षि बिम्बानि अष्टौ द्रव्याणि। तत्परितः स्थितेषु अष्टसु कलशेषु तिलादिक्रमेण एकैकम्। तस्य नवकस्य देवता त्रिविक्रमः। शिष्टानां
नारायणः।

3-8-नैॠत वारुणयोः अन्तराले कुम्भानां पञ्चविंशतौ नवकस्य मध्यमे कुम्भे श्यामाक, षाष्टिक, शालि, नीवार, तण्डुल, दूर्वा"ङ्गुर, कुशाङ्गुर, इन्द्रवल्ल्यङ्गुराऽश्वत्थाङ्गुराणि अष्टौ द्रव्याणि। तत्परितः स्थितकलशेषु अष्टसु श्यामाकाद्येकैकं क्रमर्जी । तस्य नवकस्य देवता
वामनः। शुद्धोदकानां पूर्ववत्।
3-9-तत्र वारुणे कुम्भानां पञ्चविंशतौ नवकस्य मध्यमे कुम्भे कुशदिव्येषु काश उशीर, शरपुङ्ख, तगर, अपामार्गमूलानि अष्टौ । तत्परितः स्थितकुम्भाष्टके कुशादिमूलद्रव्यम् एकैकं क्रमेण ।
तस्य नवकस्य देवता श्रीधरः। शुद्धोकानां पूर्ववत्।

3-10-वारुणवायव्ययोः अन्तराले कुम्भानां पञ्चविंशतौ नवक मध्यमे कुम्भे तुलसि, कृष्णतुलसि, वेणु, केसरि, केतक, बिल्व, शमी, जातीपत्राण्यष्टौ । तत्परितः स्थितकलशाष्टके तुलस्याद्येकैकं क्रमेण। तस्य नवकस्य देवता हृषीकेशः। शिष्टाणां पूर्ववत्।

3-11-तत्र वायव्ये कुम्भानां पञ्चविंशतौ नवकस्य मध्यमे कुम्भे मुस्ताद्वय, वचा, कच्चोर, कुमुदोत्पल, कल्हार, शीतलीयक, कुवलय, कन्दान्यष्टौ । तत्परितः स्थितेषु अष्टसु मुस्तादिद्रव्यम् एकैकं क्रमेण तस्य नवकस्य देवता पद्मनाभः। शिष्टानां पूर्ववत्।

3-12-वायुसोमयोः अन्तराले कुम्भानां पञ्चविंशतौ नवकस्य मध्यमकुम्भे मुद्ग, माष, यव, निष्पाव, तुवरी, व्रीहि, कुलुत्थाऽऽढकानि अष्टौ । तत्परितः स्थितेषु अष्टसु कुम्भेषु मुद्गादिद्रव्यं एकैकं क्रमेण। तस्य नवकस्य देवता दामोदरः। शिष्टानां पूर्ववत्।

3-13-तत्र सौम्ये कुम्भानां पञ्चविंशतौ नवकमध्यमे कुम्भे शङ्खपुष्पी, बला, विष्णुक्रान्ता, सदाभद्र, एकपत्राम्बुज, वरसहा, सहदेवीद्वयानि अष्टौ । तत्परितःस्थितेषु अष्टसु कुम्भेषु शङ्खपुष्पाद्येकैकं क्रमेण । तस्य नवकस्य देवता यज्ञनारायणः। शिष्टानां पूर्ववत्।

3-14-तत्र सोमेशानयोः अन्तराले कुम्भानां पञ्चविंशतौ नवकस्य मध्यमे कुम्भे श्वेतार्का, ऽग्निभद्रा, ब्रह्म सुवर्चला, सरसा, सरक्ता, पृश्निपर्णि, स्थिरैः अण्डान् अष्टौ । तत्परितः स्थितेषु अष्टसु श्वेतार्काद्येकैकं क्रमेण। तस्य नवकस्य देवता हरिः । शिष्टानां पूर्ववत्।

3-15-ऐशानैन्द्रयोः अन्तराले कुम्भानां पञ्चविंशतौ नवकमध्यमे कुम्भेसुरभि, पद्म, केसर, पत्र, एला, लवङ्ग त्वङ्, नागकेसर, लता जातीफलान्यष्टौ । तत्परितः स्थितेषु अष्टसु सुरभ्याद्येकैकं
क्रमेण । तस्य नवकस्य देवता कृष्णः। शिष्टानाम् पूर्ववत् ।
3-16-ऐशान इन्द्रयोः अन्तराले कुम्भानां पञ्चविंशतौ नवकस्य मध्यमे कुम्भे सुवर्ण, रजत, ताम्राणि प्रत्येकं पञ्चनिष्कप्रमाणानि पद्माकृतीनि च, कांस्यदर्पणं चषकाणि च अयोलवित्रा द्याकाराणि त्रपुसीसक पित्तलानि च प्रतिकृतिरूपेण पृथक् पृथक् एतानि अष्टौ, तत्परितः स्थितेषु ऐन्द्रादीशानान्तेषु कलशेषु अष्टसु सुवर्णाद्येकैकं क्रमेण, तस्य नवकस्य देवता
हयग्रीवः। शिष्टानां षोडशशुद्धोदकुम्भानां देवता नारायणः।

एवं द्रव्याणि विन्यस्य तत्तद्देवताश्च आवाह्य अभ्यर्चयेत् । एतस्मिन् एकोत्तरसहस्र कलश स्नपने अष्टौ चत्वारः वा आचार्याः । मूर्तिपाः षोडश । पुण्याहपूर्वकं विधिवत् एवं देवताः अभ्यर्च्य । “सर्वारिष्टशान्त्यर्थं” होमं करिष्ये इति सङ्कल्प्य । पञ्चोपनिषन्मन्त्रेण सर्पिषा आहुतीनां सहस्रं मूलविद्यया, समिद्भिश्च, तथा नृसूक्तेन चरुणा षोडशाहुतीनां च हुत्वा । मानुषेस्थाने

पञ्चविंशतिमध्ये मृत्पूरित नवकुम्भान् आरभ्य ब्रह्मपदैकोत्तराशीति घटेषु नवकमध्य सर्वरत्नोदकान्तम् एकोत्तरसहस्रकलशैः क्रमेण वक्ष्यमाणमन्त्रैः प्रतिद्रव्य घटम् उपस्नान प्लोतवस्त्र उत्तरीय अर्घ्यपाद्याचमन गन्धपुष्प धूपदीपार्चनयुतं स्नापयेत्। मानुषे ऐन्द्रे पञ्चविंशतिमध्यमृत्पूरित कुम्भनवकस्य सशुद्धोदकस्य “विष्णोर्नुकम् इति मन्त्रः । तत्समीपस्थित सशुद्धोदकमूलवारि कुम्भानां “तद्विष्णोः इति मन्त्रः । तन्मानुषाग्नेये पञ्चविंशतिकुम्भानां प्रतद्विष्णुः इति मन्त्रः । तत्समीपस्थित सशुद्धोदकमूलवारि कुम्भानां “तावामिति मन्त्रः । मानुषे नैॠति पञ्चविंशतिकुम्भानां “ध्रुवःपातु इति मन्त्रः । तत्समीप स्थितानां"भद्रङ्कर्णे इति मन्त्रः । मानुषवारुण पञ्चविंशति कुम्भानां “न ते विष्णुः इति मन्त्रः। तत्समीपस्थितानां “इरावति इति मन्त्रः । मानुष वायव्यस्थितानां “अतोदेवाः इति मन्त्रः । तत्समीपस्थितानां “इदं विष्णुः इतिमन्त्रः । मानुषसौम्यस्थितानां त्रीणिपदा इति मन्त्रः।
तत्स्मीपस्थितानां विष्णोः कर्माणि इति मन्त्रः।
मनुषैशानस्थितानां “तद्विष्णोःपरमम्पद इति मन्त्रः। तत्समीपस्थितानां” तद्विप्रासः इतिमन्त्रः । दिव्यैन्द्रे एकाशीतिघटास्पदे फलाम्बुपूरित नवकस्य मध्यमस्य “यज्ञायज्ञिय इतिमन्त्रः । तत्समीपैन्द्राद्यैशानान्तं” इन्द्राविष्णू पदे इति, “मनीषा इति, “वषट्तेविष्णू इति, , “तिस्रोवाच इति “इषोत्वोर्जेत्वा इति” स्तरीरुत्वद्भवती, ति, “यस्मिन् विश्वानी ति"पर्जन्याय इति च मन्त्राः क्रमेण। दिव्ये याम्ये एकोत्तराशीति घटनवकमध्ये गन्धोदकस्य नारायणानुवाकस्य आदितः आरभ्य अष्टाभिः एकैकया ऋचा। ऐन्द्राद्यैशानान्तं क्रमेण । दिव्ये पश्चिमे एकाशीतिघटास्पदे मध्ये नवकमध्यमे वापी जलादि कुम्भानां-मन्त्राः “या आपः “सिन्धुद्वीपः “एष ते देवं “इमं मे वरुण “शन्नोदेवीः।“यासां राजा “समुद्रज्येष्ठ “यासान्देवाः वारुणसूक्तेन ऐन्द्रादि ब्रह्म पर्यन्तम्। दिव्ये सौम्ये एकाशीतिघटास्पदे मध्ये कुम्भनवकस्य ऐन्द्रादि ब्राह्मान्तं धान्यादि वस्तुकुम्भानां नवानाम्मन्त्राः- त्रातारं, आत्वावहन्तु, जितं ते, आपो वहति, तावति, सत्वं नो अग्ने, त्वन्नो अग्ने, महाव्याहृतया, अणोरणीयान्, इतिक्रमेण । दिव्ये अग्निकोणे एकोनपञ्चाशत्घटास्पदे मध्यनवकस्य ऐन्द्रादिब्रह्मान्तं गोमूत्रादि घटेषु गायत्री, पयोव्रतसाम, दधिक्राविण्णो, गन्धद्वारां, विष्णोरराटमसि, मूर्धानं दिवः, हिरण्यगर्भः, आप्यायस्व, घृतस्नाता इतिमन्त्रेण । दिव्ये नैॠते एकोन पञ्चाशत्घटास्पदे मध्ये नवकस्य ऐन्द्रादिब्रह्मपर्यन्तं-रक्षोघ्नं,

आद्यं साम, पवित्रं ते, भगवान् वासुदेवः, वेद(देव?)व्रतसाम, वैराजसाम, अपराजिताः इति क्रमेण। दिव्ये वायुकोणे एकोनपञ्चाशत्घटास्पदेमध्ये नवकस्य ऐन्द्रादिब्रह्मान्तं, द्वादशाक्षरः, द्रुपदादिव, अष्टाक्षरः, शन्नोदेवीः, हिरण्यपा, वेदाहं, इत्यादि चतस्रः ऋचः क्रमात्। दिव्ये ऐशाने, एकोनपञ्चाशत्घटास्पदे मध्ये नवकस्य ऐन्द्रादि ब्रह्मान्तं- आनोनुयुद्भिः, श्रीसूक्तम्, मधुमान्नः, मधुनक्तम्, मधुवाता, इति मन्त्रेण । ब्राह्मे पदे इन्द्रादीशानान्त नवकानां मध्यमद्रव्य कुम्भानाम् अष्टसु पुरुषसूक्तस्य द्वे द्वे ऋचौ आदितः क्रमात् । शिष्टानां चतुष्षष्टि शुद्धोदकुम्भानां मूलमन्त्रेण, मध्यस्थनवक मध्यमकुम्भस्य पुरुषसूक्तेन, शिष्ट शुद्धोदकुम्भानां मूलमन्त्रेण। तदन्ते हरिद्राचूर्ण परिपूरितैः पञ्चविंशतिभिः, सप्तदशभिः, षोडशभिः, द्वादशभिः, वा स रत्न लोह कूर्चाश्वत्थपल्लव वस्त्रापिधानैः समाराधितश्रीदेवतैः धान्यराशिस्थैः कुम्भैः श्रीसूक्तेन अभिषिच्य । देवम् अर्घ्यादिभिः आराध्य । महाहविः निवेद्य । आज्येन समिद्भिः मूलविद्यया अष्टोत्तरसहस्रम् आहुतीनां हुत्वा । चतुर्विधान्नेन प्रत्येकं षोडशाहुतीश्च पुरुषसूक्तेन जुहुयात् । वस्त्राभरण जीवाजीव धनादिभिः देशिकानां यावत्कलशसङ्ख्यया दक्षिणा । तदर्धम् ऋत्विजां, तदर्धम्परिचाराणाम् अन्येषां च देया । ।
इति श्री-वराहगुरुणा विरचितायां क्रिया-कैरव-चन्द्रिकायां
सहस्रकलशस्नपन विधिः नाम द्वात्रिंशः परिच्छेदः