३१ नित्योत्सवः

त्रिंशः परिच्छेदः
अथ नित्योत्सव विधिः
अथ नित्योत्सव विधिःउच्यते । अग्निपूजानन्तरं सौवर्णं राजतं ताम्रं वा पात्रं तण्डुलैः शुद्धैः आपूर्य । पद्मं द्वादशदलम् आलिख्य । कर्मार्चाऽग्रे निधाय । मूलात् भगवन्तं मूलेनतस्मिन् समावाह्य । तद्दलेषु श्रीवत्सादि द्वादशशक्तीः तदनु विष्ण्वादिमूर्तीश्च प्रागादिक्रमेण आवाह्य दिने प्रातरायतं परिक्रमेत् । मध्याह्ने तु अन्नेन एवं कृत्वा । तेन सायाह्ने कुसुमसङ्घातैः एवं कृत्वा । तेन परिक्रमेत् । एवं त्रिसन्ध्यं तण्डुलान्नपिष्टेषु देवम् आवाह्य। त्रिभिः बलिं कल्पयेत् । अथवा त्रिसन्ध्यं बिम्बेन वा द्विकालम् एककालं वा हरेः नित्योत्सवम् अन्नेन कुर्यात्।

मध्यन्दिने वा सर्वार्थं परिक्रम्य बलिं क्षिपेत्।
यद्वोत्सव प्रतिकृतेः अन्वग्रे वा बलिर्भवेत्।

त्रिसन्ध्यं छत्रचामरादिसम्युतं केवलं तण्डुलादिकम् अन्नं वा पूर्ववत् कृत्वा । तेन सह पञ्चावरणके धाम्नि पञ्चसु आवरणेषु बलिं दत्वा । गेयवाद्य पुरस्सरं पर्यटनम् उत्कृष्टोत्सवः । एककालहीनः
मध्यमः । कालद्वयहीनः अधमः । कालत्रयहीनः क्षुद्रः।

विना बलिप्रदानेन न उत्सवः अभ्युदयावहः।
महावातादिसङ्क्षोभे न नित्योत्सवम् आचरेत्।

चण्डप्रचण्डयोरेव वा केवलं बलिं दत्वा । तत्रैव “सर्वेभ्यः श्रीविष्णु पार्षदेभ्यो नमः इति बलिं क्षिपेत् । शुक्लाम्बरधरं शुचिं सर्वालङ्कार संयुतं गरुडात्मनाभावितं परिचारकम् आहूय । पूर्वोक्तविधिना वाहितं पात्रं स्तुति ध्वज चामर चक्रवाहन संयुतं तन्मूर्ध्नि निक्षिप्य । सर्ववाद्य

गीत नृत्तपुरस्सरं, चण्डादीनां गीतताल नृत्तपुरस्सरं बलिं यथाविधि दद्यात् । “ॐ च्रों चण्डाय नमःबलिं ददामि, “ॐ पृं प्रचण्डाय नमःबलिं ददामि। प्रथमावरणे चण्डप्रचण्डौ आरभ्य पञ्चमावरणपर्यन्तं स्थितानां सर्वेषां द्वारपालानां गन्धपुष्पधूपदीप बलिप्रदानानन्तरं मल्लताल
ऋषभस्वर वैजयन्ती नृतानि दर्शयेत् ।
गोपुरोत्तरसाले ॐ सूर्याय चन्द्रमसे च बलिं दत्वा। दैवत स्वरं, भद्रतालं, सर्वमङ्गल नृत्तं, सालाश्रितानां सर्वेषां बलिप्रदानानन्तरं, प्रथमावरणदेवतासु कामाय, सर्वमङ्गलनृत्तं, धैवत स्वरं भद्रतालं, याम्यायां “ॐ ब्रह्मणे सदेवीवाहनपरिवाराय नमः बलिं ददामि, इति दत्वा । ब्रह्मतालं मध्यमस्वरं, मेघरञ्जनी रागं, सर्वमङ्गल नृत्तं, नैरृते “ॐ गजाननाय, भद्रतालं पञ्चमस्वरं, वराटि रागं हस्तिनृत्तं, वारुण्यां ॐ षम्मुखाय भद्रतालं धैवत स्वरं, सर्वमङ्गल नृत्तं, वायौ दुर्गायां तथैव सौम्यायां ॐ धनाधिपतये भद्रतालं निषधस्वरं, तक्केशि रागं, पृष्टकुट्टिमनृत्तं ऐशाने ॐ ईशाय ढक्करीतालं धैवतस्वरं शालापाणिरागं, वामजानूर्ध्व नृत्तं, गरुडस्य मध्यमस्वरं, गरुडगान्धारिरागं, गरुडतालं, विष्णुक्रान्त नृत्तं, विष्वक्सेनस्य बलितालं, ऋषभस्वरं, वराटि रागं, स्वस्तिक नृत्तम् । इदम् एकावरणमात्रविषयम्। अन्तर्हारोपेते धाम्नि तु अन्तर्मण्डलनाम्नि प्रथमावरणे गोपुरोत्तरसाले ॐ पुरुषाय, दक्षिणे ॐ अच्युताय, तालादीनि पूर्वोक्तानि। आग्नेये ॐ हयग्रीवाय बद्धावतालम् ऋषभ स्वरं कोल्लिरागं सर्वतोभद्र नृत्तं । याम्यां ॐ सङ्कर्षणाय गान्धारस्वरं कौशिकरागं भृङ्गिणीतालं भेटक नृत्तं । नैरृते ॐ वराहाय मध्यमस्वरं नट्टभाषारागं जयतालं, चक्रमण्डलनृत्तं । वारुण्यां ॐ प्रद्युम्नाय पञ्चमस्वरं , श्रीरागं, समतालं, कान्तार नृत्तं । वायौ ॐ अनन्ताय धैवतस्वरं, कामदरागं, जयतालं, कुट्टिम नृत्तं । उत्तरस्य ॐ अनिरुद्धाय निषधस्वरं, तक्केशिरागं, भद्रतालं, पृष्ट कुट्टिम नृत्तं । ऐशाने ॐ नृसिंहाय धैवतस्वरं, दक्षरागं, ढक्करीतालं, कटिबन्धननृत्तं। अङ्गणे इन्द्रादि पीठिका स्थानेषु, पूर्वे ॐ चक्रिणे, षड्जस्वरं, गान्धाररागं, समतालं, विलासनृत्तं।
आग्नेये ॐ मुसलिने, ऋषभस्वरं, कोल्लरीरागं, बद्धावतालं, सर्वतोभद्रनृत्तं । याम्यां ॐ शङ्खिणे, गान्धारस्वरं, कौशिकरागं, भृङ्गिणीतालं, खेटकनृत्तं । नैरृते ॐ खड्गिने, मध्यमस्वरं,

नट्टभषारागं, मल्लतालं, चक्रमण्डलनृत्तं । वारुण्यां ॐ गदिने, पञ्चमरस्वरं, श्रीकामदरागं, मङ्गलतालं, कान्तारनृत्तं ।
वायौ- ॐ शार्ङ्गिणे, कुट्टिमनृत्तं, धैवतस्वरं, तक्केशि रागम्, जय तालं, कौबेर्यां-ॐ पद्मिने, पृष्टकुट्टिम नृत्तम्, निषदस्वरम् दक्ष रागम्, भद्रतालम् । ऐशाने-ॐ वज्रिने, वामजानूर्ध्वनृत्तम्, धैवतस्वरम् । शालापाणि रागम्, ढक्करीतालम् । अन्तर्हारनाम्नि- द्वितीयावरणे सूर्यादीनां पूर्वमेव उक्तानि । अङ्गणे- पूर्वे ॐ इन्द्राय सुराधिपतये सदेवीवाहनपरिवाराय नमः । बलिन्ददामि-समतालं, षड्जस्वरम्, गान्धाररागम्, विलासनृत्तम्, आग्नेये-ॐ अग्नये नमः बद्धावतालं, ऋषभस्वरम्, कोल्लिरागम्, सुभद्रकनृत्तम्, नैरृते - ॐ नैरृतये मल्लतालं, मध्यमस्वरम्, नट्टभाषारागम्, चक्रमण्डलनृत्तम्, वारुणे-ॐ वरुणाय मङ्गलतालं, पञ्चमस्वरम्, कामदरागम्, कान्तारनृत्तम्, वायव्ये ॐ वायवे-कुट्टिम नृत्तं, धैवत स्वरं, तक्केशिरागं, जयतालं, सौम्ये - ॐ कुबेराय, पृष्टकुट्टिमनृत्तं, निषधस्वरं, दक्षरागं, भद्रतालं। ऐशाने - ॐ ईशानाय वामजानूर्ध्वनृत्तं, धैवतस्वरं, शालापाणिरागं, ढक्करीतालम्। मध्यान्तर्हारनाम्नि-तृतीयावरणे धात्रादि द्वारपालानां, द्वादशादित्यानां च भद्रतालं, धैवतस्वरं, सर्वमङ्गलनृत्तं । अग्नियम मध्ये-वसवः, यमनिॠतिमध्ये पितृगणाः, निॠतिवारुण मध्ये - विश्वेदेवाः, वरुणवायु मध्ये-सप्तमरुतः, वायुकुबेरमध्ये- सप्तऋषयः, कुबेरेशानमध्ये-
एकादशरुद्राः, भद्रतालं, धैवतस्वरं, सर्वमङ्गल नृत्तं, तत्राङ्कणे कुमुदादयः, तेषां तालरागनृत्तानि उक्तानि । मर्यादायां द्वारपालाः दुर्जयादयाः, आवरणदेवतास्तु-पूर्वे साध्या, आग्नेये नवग्रहाः, याम्यायाम् अङ्गिरसः, नैॠते अश्विनौ, वारुण्यां लक्ष्मीसरस्वतीविघ्नेशाः, वायौ इन्द्रादीशान्ताः, उत्तरस्यां ब्रह्मादिवास्तुदेवगणाः, ऐशान्यां सप्तविंशति नक्षत्राणि । तेषां च भद्रतालं, धैवतस्वरं, सर्वमङ्गलनृत्तानि, अङ्गणे उपेन्द्रादयः, तेषाम् इन्द्रादिवत् तालादीनि।
महामर्यादा नाम्नि-पञ्चमावरणे द्वारपालाः, कुमुदादयः, तेषां तालादीनि उक्तानि । आवरणदेवतास्तु पूर्वस्यां सिद्धऋषिनागाः, आग्नेये असुराः, याम्यायां राक्षसाः, नैरृते यक्षविद्याधराः, पश्चिमायां सौरभेयी गुह्य गन्धर्वाः, वायव्ये अप्सरसः, सौम्यायां प्राजापतयः

मत्र्याश्च, ऐशाने अधिरोहिण्यः, एतेषां बलितालं धैवतस्वरं, सर्वमङ्गलनृत्तं, अङ्गणे इन्द्रादि पीठिकासु विश्वेशादयः । तेषाम् इन्द्रादिवत् तालराग नृत्तानि। एवं प्रथमावरणादि सर्वावरणेषु बलिप्रदानमात्रं चेत् बल्यर्थं क्रमात् परिभ्राम्य । पीठं प्रदक्षिणी कृत्य आलयं प्रविश्य । तं च प्रदक्षिणीकृत्य अन्तः प्रविश्य अर्घ्यं दत्वा, मूलमन्त्रेण मूलबेरे समुत्सृज्य । बलिशेषं किञ्चित् विष्वक्सेनस्य शिरसि निक्षिप्य। परिशिष्टम् अक्षतादिकं च
बलिपीठे निक्षिपेत् ।
नित्योत्सवे तु तद्बिम्बं शिबिकादिषु वा परिचारक शिरसि वा आरोप्य । परिभ्रमणं
आचरेत् । तदा तत्र विलास कर्तर्यादि नृत्तभेद संयुतं पुष्प प्रपा छत्र चामर सर्व वादित्र सर्वगेय
ब्रह्मघोषबहुदीप सङ्कुलम् उत्सवं कुर्यात्।
तस्य बिम्बस्य श्रीवत्साद्यष्टमङ्गलानि दर्शयित्वा । देवस्य सन्निधाने एव सर्वेषां बलिं दत्वा । आवरणेषु पृथुकादि ताम्बूलं च नैवेद्यम् आचरेत। शङ्खनिनदेन केवलं प्राकारद्वारा निर्गत्य बलिपीठस्य पुरतः मन्दिराभिमुखं देवं स्थापयित्वा । पीठस्य सर्वासु दिक्षु वादित्रेषु घोषितेषु क्षालिते पीठिका मूर्ध्नि गुरुः विष्णुपार्षदान् सम्पूज्य । तत्र बलिं निरवशेषं दत्वा । पीठं प्रदक्षिणी कृत्य । धामान्तः प्रविश्य । मुखमण्डपे देवस्य पादुके दत्वा । यानादेः अवरोप्य । देवं विष्टरे प्राङ्मुखम् आरोप्य । अर्घ्यादिभिः अभ्यर्च्य । अवसरोचितम् उपहारादिकं प्रदाय। गर्भगेहं प्रविश्य । बहिरङ्गण भूमिषु गेयवादित्रनृत्तेषु न्यूनभावं समाधातुं शुद्धताण्डवं दर्शयित्वा । देवं मूलमन्त्रेण मूले समर्प्य । प्रणम्य स्तुत्वा, प्रदक्षिणीकृत्य । स्वगृहं प्रविश्य, स्वार्थं देवं
प्रपूजयेत्। स्वार्थार्चनं प्रथममेव इति केचित्।

इति श्री-वराहगुरुणा विरचितायां क्रियाकैरवचन्द्रिकायां नित्योत्सव विधिःनाम त्रिंशः
परिच्छेदः