एकोन त्रिंशः परिच्छेदः
अग्निकार्यविधिः
अथ अग्निकार्य विधिः उच्यते । आचार्यः अग्नयागारद्वारे ॐ श्रों चण्डाय नमः प्रिं प्रचण्डाय नमः। । मध्ये ॐ क्षं गरुडाय नमः इत्यभ्यर्च्य । अन्तःप्रविश्य। अग्नि कुण्डस्य पश्चिमे भागे प्राङ्मुखमासने उपविश्य । ॐ असुरान्त चक्रायस्वाहा अस्त्राय फट् ; इति कुण्डस्य
सम्मार्जनालेपने कृत्वा।
प्राच्यां शिरस्समाख्यातं बाहु युग्मं व्यवस्थितम्।
ऐशान्याग्नेय कोणेतु जङ्घे वायव्य नैरृते।
उदरं कुण्ड मित्युक्तं योनिर्योनिर्विधीयते।
कुण्डम् एवं ध्यात्वा । होमम् करिष्ये । इति सङ्कल्प्य । पुण्याहं वाचयित्वा । तज्जलेन ॐ भूर्भुवस्सुवः इति प्रोक्षणा अवोक्षणा अभ्युक्षणानि कृत्व। आत्मनो दक्षिणे पार्श्वे पुष्पभाजनं वामे च । अन्यानि निक्षिप्य। ॐ आचक्रायस्वाहा इति स्वस्व मन्त्र न्यासं कृत्वा । प्रागग्रान् षड्दर्भान् आस्तीर्य। तेषु १। आज्य पात्रं २। चरु स्थालि ३। प्रोक्षणी ४। प्रणीता ५। समित् ६। कुश ७। तण्डुल ८।परिधि ९। स्रुक्१०। स्रुव ११। दर्वी १२। अग्नेर्विहरण १३।व्यजन १४। मेक्षण १५। शुष्ककाष्ठ १६।घण्ट १७। अक्षत १८। गन्ध द्रव्याणि यथासम्भवम् न्यञ्चि निधाय। कुण्ड मध्ये ॐ नमोनारायणाय इति तिस्रो रेखाः दक्षिणमारभ्य उत्तरान्तं प्रागायताः पश्चिमादि पूर्वान्तम् उदगायताः तावतीःलिखित्वा । तच्छकलं विसृज्य। दर्भ मुष्टिभिः कुण्डस्य पर्यग्नि करणं कृत्वा। कुण्ड मध्ये भद्रासनं कल्पयित्वा। ॐ भद्रासनाय नमः ॐ विमलासनाय नमः
। इत्यभ्यर्च्य । तस्मिन्
कुण्ड मध्ये तथा लक्ष्मीं सर्वाभरण भूषिताम् ।
सर्वावयव सम्पूर्णाम् ऋतुस्नातां विचिन्तयेत्।
देवं नारायणं ध्यात्वा सर्व-लक्षण-लक्षितम् ।
चतुर्बाहुं विशालाक्षं कोमलं पीतवाससम्।
शङ्खचक्रगदापद्मैः चतुर्भिः कृतलक्षणम्।
कञ्जपाणिं तथापादं श्रीवत्साङ्कितवक्षसम्।
कालमेघनिभं शान्तं चन्द्रबिम्बनिभाननम्।
हार केयूर सम्युक्तं किरटेनोप शोभितम् । एवं ध्यात्वा ।
तत्र तयोः सङ्गमं विचिन्त्य। तस्मात् उत्पन्नमग्निं ध्यात्वा। अरणेः, सूर्यकान्ताश्मनोवा, अग्निन्द्वादशाक्षरेण मथित्वा। श्रोत्रियागाराद्वा समाहृत्य। भूर्भुवस्सुवःइति प्रोक्ष्य। अग्नि बीजस्य। काश्यप ऋषिः। त्रिष्टुप्छन्दः। अग्निर्देवता। होमार्थे विनियोगः। इति दिव्याग्निं ध्यात्वा ।
ॐ राम् इत्यादि षडङ्गन्यासं कृत्वा।
ॐ रम् अग्नये नमः ।
ॐ असुरान्त चक्रायस्वाहेति इन्धनानि अग्नौ निक्षिप्य।
वायु बीजस्य । किष्किन्धऋषिः जगतीछन्दः । वायुर्देवता।
अग्नि उद्दीपनार्थे विनियोगः । ॐ यं वायवे नमः । इति अग्निमुद्दीप्य ।
अस्त्रमन्त्रेण अद्भिः परिसमूह्य।
ॐ आचक्राय स्वाहेति षडङ्गन्यासं कृत्वा ।
त्रिभिः पञ्चभिः सप्तभिः नवभिः एकादशभिः वा पञ्चविंशतिनिष्ठान्तैः दर्भैः
ॐ वासुदेवाय नमः । ॐ सङ्कर्षणाय नमः । ॐ प्रद्युम्नाय नमः । ॐ अनिरुद्धाय नमः प्रागुदगग्रं प्रागाद्युत्तरान्तं प्रादक्षिण्येन परिस्तीर्य। तत्र द्रव्याग्नि मध्ये पूर्वाग्रान् दर्भान् आस्तीर्य । तदुपरि प्रणीतान्निधाय । अद्भिःआपूर्य । अक्षतैः अभ्यर्च्य । दर्भयुग्म निर्मितं प्रादेशसम्मितं कूर्चं तस्यां विन्यस्य। त्रिभिःर्दर्भैः पवित्रैः आच्छाद्य। प्रोक्षणीं आत्मनः अग्रे विन्यस्य । प्रणीताजलं कूर्चेन सह प्रोक्षण्याम् आवाप्य । तत्कूर्चं हस्तयोः अङ्गुष्टाऽनामिकाभ्यां मूलेन पुनः आघारं त्रिःउत्पूर्य । तत्कूर्चेन प्रोक्षणीं होमद्रव्याणि सर्वाणि च प्रोक्ष्य । तेन नामादेशं यथायथं स्पृष्ट्वा । तानिपात्राणि उत्तानानि कृत्वा। पुनः प्रोक्ष्य । तानि प्रोक्षणीजलेन “सत्यन्त्वर्तेनपरिषिञ्चामि इति प्रादक्षिण्येन स्रावयित्वा । प्रणीतां पुनःअद्भिः सम्पूर्य। तस्मिन् ॐ कौमोदकी शङ्खचक्रपद्मधराय वासुदेवाय नमः। इति आवाह्य । गन्धादिभिः अभ्यर्च्य । अग्नेः ऐशान्यां दर्भ विष्टरे तां संस्थाप्य। अग्नेःदक्षिणतःदर्भेषु द्वादश दर्भ
कृत कूर्चं पूर्वाग्रं विन्यस्य। तस्मिन्
चतुर्मुखं भुज द्वन्द्वं साक्ष माला कमण्डलम्।
हेमाभं शक्ति सहितं ब्रह्माणं तु विचिन्तयेत् । इति ध्यात्वा ।
ॐ कम् ब्रह्मणे नमः । इतिकूर्चे समावाह्य ध्यात्वा अभ्यर्च्य । विष्णुगायत्र्या स्थालीं प्रक्षाल्य । तण्डुलान् आडकप्रमाणान् ॐ आचक्राय स्वाहा इति तस्यां निक्षिप्य । “ॐ विचक्राय स्वाहा इति शुद्धजलैः सङ्क्षाल्य । “ॐ सुचक्राय स्वाहा इति संशोध्य । “ॐ सूर्यचक्राय स्वाहा इति अग्नौ आरोप्य । “ॐ ज्वालाचक्राय स्वाहा इति अग्निम् उद्दीप्य । “ॐ महासुदर्शनचक्राय स्वाहा इति श्रपयित्वा । एवं महानसे चुल्यां वा केवलान्न मुद्गान्न पायसान्न गुडान्नादि चतुर्विधमन्नं श्रपयित्वा । अग्नेः उत्तरतो निक्षिप्य । आज्यपात्रम् आत्मनः पुरतः संस्थाप्य । द्रावितं गालितम् आज्यं। आज्यपात्रे ॐ अं विष्णवे नमः " ॐआप्यायस्वसमेतुते । विश्वतस्सोमवृष्णियम्। भवावाजस्य सङ्गते। इति मन्त्रेण निषिच्य । कुण्डस्य उत्तरे पूर्वाग्रान् दर्भान् आस्तीर्य । तेषु अङ्गारान् निरूह्य। तेषु आज्यपात्रं निधाय । दर्भान् आदीप्य दर्शयित्वा विसृज्य । त्रिभिर्दभैः आछाद्य । दर्भ युग्म निर्मितं प्रादेशसम्मितं कूर्चम् निधाय । दर्भानादीप्य दर्शयित्व । श्रीमन्नारायण चरणौ शरणं प्रपद्ये । श्रीमते नारायणाय नमः । इति वा मूलेन वा
द्वेदर्भाग्रे तत्र प्रत्यस्य, ज्वलता दर्भस्तम्बेन त्रि पर्यग्निकृत्वा, विसृज्य। दर्भकाण्डद्वयेन नीराजनं कृत्वा । आज्यस्थालीम् उदगुद्वास्य । अङ्गारान् अग्निनासंयोज्य । आज्यस्थालीं पुरतः कृत्वा, उदगग्राभ्यां पवित्राभ्याम् अङ्गुष्ठानामिकाभ्यां मूलेन त्रिः उत्पूय । पवित्रग्रन्थिं विस्रस्य। अपः स्पृष्ट्वा । अग्नौ प्रहृत्य। आज्यं सुरभि मुद्रया अमृती कृत्य। चक्र मुद्रां प्रदर्श्य । दर्भैः आछाद्य। अग्नेः अष्टसु दिक्षु इन्द्रादीन् आवाह्य । सम्पूज्य च । उष्णोदकेन स्रुक्स्रुवौ प्रक्षाल्य । दर्भ पञ्च कृत कूर्चेन स्रुक् स्रुवयोः मूलं मूलेन मध्यं मध्येन अग्रम् अग्रेण अस्त्रमन्त्रेण सम्मृज्य। अग्नौ निष्टप्य। अद्भिःसम्प्रोक्ष्य । आत्मनः उदीच्यां स्रुक्स्रुवौ निधाय । कूर्च ग्रन्थिं विसृज्य तम् अग्नौ
प्रहृत्य। स्रुवेण आज्यमादाय। होम द्रव्येषु सम्सिच्य ।
कुण्डस्य पश्चिमे कुण्डायाम सदृशम् अङ्गुष्ट नहनं ;
दक्षिणे तस्मात् अङ्गुलि हीनं मध्यमाङ्गुलिनहनं;
उत्तरे तस्मात् अङ्गुलि हीनं कनिष्ठानाहकं परिधि त्रयम्
क्रमेण श्रीधर , नृसिंह, हयग्रीव मन्त्रैः संस्थाप्य । मध्यमं परिधीं प्रणवेन उपस्पृश्य । अग्नेयैशान कोणयोः आघार समिधौ च अग्नेशानमन्त्राभ्यां संस्थाप्य । ॐ अदितेनुमन्यस्व । अनुमतेनुमन्यस्व । ॐ सरस्वतेनुमन्यस्व । देवसवितःप्रसुव”इत्यन्तेन दक्षिणाद्युत्तरान्तं समन्ततः परिषिच्य । अनुयाजसमिधं प्रणीताम्मुखे निधाय। पञ्चदशैकतः गो घृताक्ता समिधः मुष्टिमुद्रया प्रजापतिं मनसा ध्यायन् सकृदेवमूलेन हुत्वा । कुश कूर्च वेष्टिते वामकरतले घृत पात्रं निधाय । ॐ प्रजापतये इदं न मम इति प्रथमं नैरृत्यादि ईशानान्तम् । ॐ इन्द्राय इदं न मम इति द्वितीयं वायव्यात् आग्नेयान्तम् । आघारं हुत्वा। ततः अग्नौ उत्तरे ॐ अग्नये स्वाहा अग्नये इदं न मम। दक्षिणे ॐ सोमाय स्वाहा। सोमाय इदं न मम। मध्ये भूरादि व्याहृतिभिश्च
हुत्वा । तदनु अग्निं संस्मरेत्।
द्वि शीर्षकं सप्तहस्तं त्रिपादं सप्तजिह्वकं।
वरदं शक्ति पाणिं च बिभ्राणं स्रुक्स्रुवौ तथा।
अभीतिदं चर्मधरं वामेचाज्यधरं करे।
काली कराली सुमना लोहिता धूम्रयेव हि।
स्फुलिङ्गिनी विश्वरूपा सप्तजिह्वाःप्रकीर्तिताः।
काल्यास्तु मध्यमंस्थानं कराल्याः पूर्वदिग्भवेत्।
मनोजवायाश्चाग्नेयां लोहितायास्तु वारुणे।
सुधूम्रासोमनिलया स्फुलिङ्गिन्यनिलाश्रया।
ऐशान्यं विश्वरूपी तु एवं स्थानं स्मरेत् क्रमात्।
जिह्वायां दक्षिणे वक्त्रे धूम्रायां मारणादिकम्।
लोहितायां वशीकारः काल्यां कर्म च शान्तिकम्।
सर्वसिद्धिः स्फुलिङ्गिन्याम् आनने दक्षिणेतरे।
विश्वरूपरसज्ञायाम् अणिमादिमहाफलम्।
करालिका विजयदा पुष्टिदा च मनोजवा।
कार्ष्ण्यं लौहित्यमेतासां वर्णंश्यामलमेव च।
स्फुलिङ्गरूपं च ततः वर्णः स्फटिकसन्निभः।
तपनीयनिभः प्रोक्तः जिह्वानामानुपूर्वशः। एवं बालाग्निं ध्यात्वा।
उत्सवाग्निः
त्रिनेत्रं पञ्चवक्त्राड्यं रक्त वर्णं दिशा भुजम्।
त्रिमेखलं त्रिपादं च सप्तजिह्वा समन्वितम्।
उपवीतसमायुक्तं जटामकुटमण्डितम्।
चक्रम्परशुखड्गं च वज्रं चाऽभयदक्षिणे।
टङ्कं पाशाब्जचक्रं(शङ्खं ?) च वरदं वह्निवामके।
स्वाहादक्षिणपार्श्वे तु स्वधा वामे तथैव च।
हिरण्याकनकाऽऽकारा कृष्णा चैव तु सुप्रभा।
अतिरिक्तो बहुरूपासप्तजिह्वाः प्रकीर्तिताः।
मेषारूढं यौवनाग्निं ध्यायेदुत्सव कर्मणि। एवम् उत्सवाग्निं ध्यात्वा।
नित्याग्निः
चतुर्भुजं त्रिनेत्रं च एकवक्त्रं जटाधरम्।
शूलं परशुहस्तं च अभयं वरदान्वितम्।
सप्तजिह्वान्वितं शक्ति उपवीतोत्तरीयकम्।
मेषासीनं सितं नित्ये शिवं वृद्धाग्निमारभेत्।
(नित्याग्निः वृद्ध इत्युक्तः उत्सवाग्निर्युवाभवेत्)
दीक्षाशान्तिप्रतिष्ठाग्निः बाल इत्यभिधीयते।
एवं तत्तत्कर्मानुगुणम् अग्निं ध्यात्वा । इत्यभ्यर्च्य । तदनु अग्नेर्जातदोषशान्तये तिलान् आघार सम्मिश्रान् द्वादशाक्षरेण अष्टोत्तरशतसङ्ख्यया हुनेत् । आसां मध्ये काल्याम् अग्निं “गर्भाधानादिकर्मणा संस्करिष्ये इति सङ्कल्प्य। अदितेनुमन्यस्व इत्यादिना परिषिच्य । एवं गर्भादान, पुम्सवन, सीमन्तोन्नयन, जातकर्म, नामकरण, अन्नप्राशन, चौल, उपनयन, प्राजापत्य, सौम्यक, वैष्णव, शुक्रीय, गोदान, उपनिषक्रमण, समावर्तन, विवाहान् प्रतिकर्मसङ्कल्पपूर्वकं परिषेचन सम्पुटितं हुत्वा । काल्यां समिधः मूल मन्त्रेण । मनोजवायां प्रणवेन आज्यं। सुलोहितायां वासुदेव मन्त्रेण अन्नम् । सुधूम्रायां सङ्कर्षण मन्त्रेण लाजम् । स्फुलिङ्गिन्यां प्रद्युम्न मन्त्रेणतिलम् । विश्वरूपायांअनिरुद्ध मन्त्रेण मुद्गं च, एवं प्रत्येकं षोडश आहुतिर्हुत्वा । तदनु अग्नि मध्ये योगपीठं सङ्कल्प्य । आधारादि पद्मान्तं सकृदाज्येन स्वाहान्तैः तत्तन्मन्त्रैः हुत्वा । तत्र चिद्रूपं परमेश्वरं हृदयादवतार्य ध्यात्वा। अर्घ्यादि नैवेद्यान्तं तत्तन्मत्रैः सकृत् सकृत् आज्येन हुत्वा। जपार्थां च सकृत् हुत्वा। समित्दल पुष्प बीज फलैश्च परिवार मन्त्रैश्च सकृत् आज्येन जुहुयात् । एतदग्नौ आराधनम् । अन्यत्र प्रतिमादौ चेत् अनन्तरं
वक्ष्यमाणेन वर्त्मना समिदाज्यैःजुहुयात्।
आयामः समिधान्तालः कनिष्टानहनं क्रमात्।
चर्महीने विनाशः स्यात् भेदे क्षीणं कुलं भवेत्।
आर्द्रासु बन्धुनाशः स्यात् पुत्रनाशः पुरातने।
क्षतासु भार्यामरणं कलहाय च शाखिनि।
उद्वेगाय भवेत् स्थूला ह्रस्वा अवग्रहकारिणी।
दीर्घा अतिवृष्टि जननी त्याज्यादोषयुता समित्।
एतादृशेन समिधां शतेन तदर्धेन पादेन अष्टाभिः चतसृभिः वा समिद्भिः घृताक्ताभिः
मूलमन्त्रेण, आज्यावसिक्तं चरुं ग्रासमुद्रया प्रत्यर्धं नृसूक्तेन पालाशपत्रेण हस्तेन वा षोडश
आहुतीः, स्रुवेण आज्येन समित्सङ्ख्यया जुहुयात्।
यज्ञ वृक्षोद्भवैः शान्तिः सौभाग्यं कुसुमैर्भवेत्।
धूपद्रव्यैः सदा आरोग्यं पुष्टिर्दध्ना पयः शुचिः।
अन्नेनविविधान् कामान् आज्येन आयुष्मतीः प्रजाः।
श्वेतपद्मैस्तु जुहुयादिच्छन् ब्रह्मश्रियं नरः।
लक्ष्मीपुष्पैस्तु जुहुयात् लक्ष्मीकामोऽथवारुणैः।
पद्मबिल्वसमिद्भिः वा ज्ञानकामस्तु सर्पिषा।
कन्यकामोहुनेत् लाजैःगोकामो गोमयैः पुनः।
आयुष्कामस्तु दूर्वाभिः भूमिकामस्तु मृत्स्नया।
यवैः च इन्द्रियकामस्तु तिलैः सर्वजनप्रियः।
बृह्मवर्चस कामस्तु ब्रह्मवृक्ष समुद्भवैः।
वेणुभिश्च यवैश्चैव नीवारैः शालिभिः तथा।
सर्वे कामाः प्रसिध्यन्ति होतुर्बीजै यथोदितैः।
लाजहोमेन सिध्यन्ति सर्वे कामा न संशयः।
अन्नेन अन्नाद्यकामस्तु पुत्रकामस्तु पायसैः।
निम्बपुष्पैः हिरण्यार्थी सर्वेसिध्यन्ति सर्पिषा।
होमे सर्पिर्मधुक्षीरधाराः स्युः चतुरङ्गुलाः।
शुक्तिः दध्याहुतिः ग्रासं पायसाज्याहुतिर्भवेत्।
भक्ष्याहुतिः तदर्धेन फलैः पुष्पैः अखण्डितैः।
निष्पावबीजमानेन धूपद्रव्याहुतिः भवेत्।
तिलव्रीहि यवाद्यैस्तु मुष्ट्यर्धार्धाहुतिः क्रमात्।
अष्टाङ्गुलातदर्धा वा समिद्दूर्वा षडङ्गुला।
मृद्वीकाक्षप्रमाणेन गोमयाहुतिरिष्यते।
पूर्णाहुतिः घृतस्यस्यात् कुडुपेन चतुर्मुख।
न्यूनाधिकप्रमाणेन हव्यकव्याहुतीः क्रमात्।
भुञ्जन्ति दानवाः दैत्याः निष्कलाय च कल्पते।
तदनु अग्नौ परमपुरुषं ध्यात्वा । अर्घ्यादिभिःअभ्यर्च्य । कुक्कुटाण्डप्रमाणं घृताप्लुतं चरोः पिण्डं स्रुगावर्ते निक्षिप्य । स्रुवेणाभिघार्य । समिद्दर्भ कुसुमानि आनासिकम् उद्धृत्य। मूलमन्त्रेण हुत्वा । पञ्चोपनिषम्मन्त्रैःआज्येन यथाशक्ति शान्ति होमं च कृत्वा।
ॐ षौं नमःपराय परमेष्ट्यात्मने वासुदेवाय स्वाहा।
ॐ यां नमः पराय पुरुषात्मने सङ्कर्षणाय स्वाहा।
ॐ रां नमःपराय विश्वात्मने प्रद्युम्नाय स्वाहा।
ॐ वां नमः पराय निवृत्यात्मने अनिरुद्धाय स्वाहा।
ॐ लां नमः पराय सर्वात्मने श्रीमतेनारायणाय स्वाहा।
स्रुवम् आज्येन सम्पूर्य । सदर्भ समित्कुसुमं स्रुवेण पिधाय । नासिकाग्रान्तम् उद्धृत्य । मूलमन्त्रेण हुत्वा। तदनु आत्मनः अग्रे स्रुवं, तस्याः याम्ये च आज्यस्थालीं स्रुगुत्तरे स्रुवं च निधाय । उपयुक्त कुशान् सर्वान् हस्ताभ्याम् उदगग्रं गृहीत्वा । आज्य पात्रे मूलं, स्रुचोमध्ये मध्यं, स्रुचो(स्रुक्?) गर्ते अग्रं, यथाक्रमं स्पर्शयित्वा । एवं त्रिःकृत्वा। दर्भान् अग्नौ निक्षिप्य । अनूयाजपरिध्यूर्ध्वं समिधश्च क्रमेण हुत्वा अदितेन्वमँस्थाः। इति परिषिच्य । आत्मनः अग्रे प्रणीतां संस्थाप्य। प्रोक्षणीजलं तस्यां संयोज्य । पूर्वादिसोमान्तं जलेन संसिच्य । पश्चिमायां निक्षिप्य । स्वात्मानं सम्प्रोक्ष्य । ब्रह्माणम् उद्वास्य, परिषिच्य । अग्नि मध्यस्थं देवं स्वहृदये समर्प्य । स्रुवं जलेन सम्पूर्य। कुण्डात् बहिः प्रादक्षिण्येन सेचयित्वा । शेषेण आत्मानं सम्प्रोक्ष्य। शिरसि भस्मना तिलकं कृत्वा । धाम्नि देवम् अर्घ्यादिभिः अभ्यर्च्य।
ॐ भक्त्या यत् अग्नौ विहितं यथाशक्ति यथाविधि ।
आराधनं तवै वेदम् गृहाण परमेश्वर। इति देवस्यपादयोः हवनं समर्पयेत्।
नित्यहोमेषु परिधीन् बहिर्दिक्षु न दापयेत्। एवं पूर्वं हवनं कृत्वा। तदनु नित्योत्सवं कुर्यात्।
इति श्री-वराहगुरुणा विरचितायां क्रिया-कैरव-चन्द्रिकायां
अग्नि कार्यविधिः नाम एकोनत्रिंशः परिच्छेदः